मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — केदारखण्डः, अध्याय ३३

3
माहेश्वरखण्डः · केदारखण्डः · 33

शिवरात्रिव्रतमाहात्म्यवर्णनम्

ऋषय ऊचुः

किन्नामा च किरातोऽभूत्किं तेन व्रतमाहितम् ॥

तत्त्वं कथय विप्रेंद्र परं कौतूहलं हि नः

॥१॥

तत्सर्वं श्रोतुमिच्छामो याथातथ्येन कथ्यताम् ॥

न ह्यन्यो विद्यते लोके त्वद्विना वदतां वरः ॥

तस्मात्कथ भो विप्र सर्वं शुश्रूषतां हि नः

॥२॥

एवमुक्तस्तदा तेन शौनकेन महात्मना ॥

कथयामास तत्सर्वं पुष्कसेन कृतं यत्

॥३॥

लोमश उवाच

आसीत्पुरा महारौद्रश्चडोनाम दुरात्मवान् ॥

क्रूरसंगो निष्कृतिको भूतानां भयवाहकः

॥४॥

जालेन मत्स्यान्दुष्टात्मा घातयत्यनिशं खलु ॥

भल्लैर्मृगाञ्छापदांश्च कृष्णसारांश्च शल्लकान्

॥५॥

खड्गांश्चैव च दुष्टात्मा दृष्ट्वा कांश्चिच्च पापवान् ॥

पक्षिणोऽघातयत्क्रुद्धो ब्राह्मणांश्च विशेषतः

॥६॥

लुब्धको हि महापापो दुष्टो दुष्टजनप्रियः ॥

भार्या तथाविधआ तस्य पुष्कसस्य महाभया

॥७॥

एवं विहरतस्तस्य बहुकालोत्यवर्तत ॥

गते बहुतिथेकाले पापौघनिरतस्य च

॥८॥

निषंगे जलमादाय क्षुत्पिपासार्द्दितो भृशम् ॥

एकदा निशि पापीयाच्छ्रीवृक्षोपरि संस्थितः ॥

कोलं हंतुं धनुष्पाणिर्जाग्रच्चानिमिषेण हि

॥९॥

माघमासेऽसितायां वै चतुर्दश्यामथाग्रतः ॥

मृगमार्गविलोकार्थी बिल्वपत्राण्यपातयत्

॥१०॥

श्रीवृक्षपर्णानि बहूनि तत्र स च्छेदयामास रुषान्वितोपि ॥

श्रीवृक्षमूले परिवर्तमाने लिंगं तस्योपरिदृष्टभावः

॥११॥

ववर्ष गंडूषजलं दुरात्मा यदृच्छया तानि शिवे पतंति ॥

श्रीवृक्षपर्णानि च दैवयोगाज्जातं च सर्वं शिवपूजनं तत्

॥१२॥

गंडूषवारिणा तेन स्नपनं च कृतं महत् ॥

बिल्वपत्रैरसंख्यातैरर्चनं महत्कृतम्

॥१३॥

अज्ञानेनापि भो विप्राः पुष्कसेन दुरात्मना ॥

माघमासेऽसिते पक्षे चतुर्दश्यां विधूदये

॥१४॥

पुष्कसोऽथ दुराचारो वॉक्षादवततार सः ॥

आगत्य जलसंकाशं मत्स्यान्हंतुं प्रचक्रमे

॥१५॥

लुब्ध कस्यापि भार्याभून्नाम्ना चैव घनोदरी ॥

दुष्टा सा पापनिरता परद्रव्यापहारिणी

॥१६॥

गृहान्निर्गत्य सायाह्ने पुरद्वारबहिः स्थिता ॥

वनमार्गं प्रपश्यंती पत्युरागमनेच्छया

॥१७॥

चिराद्भर्तरी नायाते चिन्तयामास लुब्धकी ॥

अद्य सायाह्नवेलायामागताः सर्वलुब्धकाः

॥१८॥

तमः स्तोमेन संछन्नाश्चतस्रो विदिशो दिशः ॥

रात्रौ यामद्वयं यातं किं मतंगः समागतः

॥१९॥

किं वा केसरलोभेन सिंहेनैव विदारितः ॥

किं भुजंगफणारत्नहारी सर्पविषार्दितः

॥२०॥

किं वा वराहदंष्ट्राग्रघातैः पंचत्वमागतः ॥

मधुलोभेन वृक्षाग्रात्स वै प्रपतितो भुवि

॥२१॥

क्वान्वेषयामि पृच्छामि क्व गच्छामि च कं प्रति ॥

एवं विलप्य बहुधा निवृत्ता स्वं गृहं प्रति

॥२२॥

नैवान्नं नो जलं किंचिन्न भुक्तं तद्दिने तया ॥

चिंतयंती पतिं चापि लुब्धकी त्वयन्निशाम्

॥२३॥

अथ प्रभाते विमले पुष्कसी वनमाययौ ॥

अशनार्थं च तस्यान्नमादाय त्वरिता सती

॥२४॥

भ्रममाणावने तस्मिन्ददर्श महतीं नदीम् ॥

तस्यास्तीरे समासीनं स्वपतिं प्रेक्ष्य हर्षिता

॥२५॥

तदन्नं कूलनः स्थाप्य नदीं तर्तुं प्रचक्रमे ॥

निरीक्ष्य चाथ मत्स्यान्स जालप्रोतान्समानयत्

॥२६॥

तावत्तयोक्तश्चण्डोऽसावेहि शीघ्रं च भक्षय ॥

अन्नं त्वदर्थमानीतमुपोष्य दिवसं मया

॥२७॥

कृतं किमद्य रे मंद गतेऽहनि च किं कृतम् ॥

नाऽशितं च त्वया मूढ लंघितेनाद्य पापिना

॥२८॥

नद्यां स्नातौ तथा तौ च दम्पती च शुचि व्रतौ ॥

यावद्गतश्च भोक्तुं स तावच्छ्वा स्वयमागतः

॥२९॥

तेन सर्वं भक्षितं च तदन्नं स्वयमेव हि ॥

चंडी प्रकुपिता चैव श्वानं हंतुमुपस्थिता

॥३०॥

आवयोर्भक्षितं चान्नमनेनैव च पापिना ॥

किं च भक्षयसे मूढ भविताद्य वुभुक्षितः

॥३१॥

एवं तयोक्तश्चण्डोऽसौ बभाषे तां शिवप्रियः ॥

यच्छुना भक्षितं चान्नं तेनाहं परितोषितः

॥३२॥

किमनेन शरीरेण नश्वरेण गतायुषा ॥

शरीरं दुर्लभं लोके पूज्यते क्षणभंगुरम्

॥३३॥

ये पुष्णंति निजं देहं सर्वभावेन चाहताः ॥

मूढास्ते पापिनो ज्ञेया लोकद्वयबहिष्कृताः

॥३४॥

तस्मान्मानं परित्यज्य क्रोधं च दुरवग्रहम् ॥

स्वस्था भव विमर्शेन तत्त्वबुद्ध्या स्थिरा भव

॥३५॥

बोधिता तेन चंडी सा पुष्कसेन तदा भृशम् ॥

जागरादि च संप्राप्तः पुष्कसोऽपि चतुर्दशीम्

॥३६॥

शिवरात्रिप्रसंगाच्च जायते यद्ध्यसंशयम् ॥

तज्ज्ञानं परमं प्राप्तः शिवरात्रिप्रसंगतः

॥३७॥

यामद्वयं च संजातममावास्यां तु तत्र वै ॥

आगताश्च गणास्तत्र बहवः शिवनोदिताः

॥३८॥

विमानानि बहून्यत्र आगतानि तदंतिकम् ॥

दृष्टानि तेन तान्येव विमानानि गणास्तथा

॥३९॥

उवाच परया भक्त्या पुष्कसोऽपि च तान्प्रति ॥

कस्मात्समागता यूयं सर्वे रुद्राक्षधारिणः

॥४०॥

विमानस्थाश्च केचिच्च वृषारूढाश्च केचन ॥

सर्वे स्फटिकसंकाशाः सर्वे चंद्रार्द्धशेखराः

॥४१॥

कपर्द्दिनश्चर्मपरीतवाससो भुजंगभोगैः कृतहारभूषणाः ॥

श्रियान्विता रुद्रसमानवीर्या यथातथं भो वदतात्मनोचितम्

॥४२॥

पुष्कसेन तदा पृष्टा ऊचुः सर्वे च पार्पदाः ॥

रुद्रस्य देवदेवस्य संनम्राः कमलेक्षणाः

॥४३॥

गणा ऊचुः

प्रेषिताः स्मो वयं चंड शिवेन परमेष्ठिना ॥

आगच्छ त्वरितो भुत्वा सस्त्रीको या नमारुह

॥४४॥

लिंगार्च्चनं कृतं यच्च त्वया रात्रौ शिवस्य च ॥

तेन कर्मविपाकेन प्राप्तोऽसि शिवसन्निधिम्

॥४५॥

तथोक्तो वीरभद्रेण उवाच प्रहसन्निव ॥

पुष्कसोऽपि स्वया बुद्ध्या प्रस्तावसदृशं वचः

॥४६॥

पुष्कस उवाच

किं मया कृतमद्यैव पापिना हिंसकेन च ॥

मृगयारसिकेनैव पुष्कसेन दुरात्मना

॥४७॥

पापाचारो ह्यहं नित्यं कथं स्वर्गं व्रजाम्यहम् ॥

कथं लिंगार्चनमिदं कृतमस्ति तदुच्यताम्

॥४८॥

परं कौतुकमापन्नः पृच्छामि त्वां यथातथम् ॥

कथयस्व महाभाग सर्वं चैव यथाविधि

॥४९॥

इत्येवं पृच्छतस्तस्य पुष्कसस्य यथाविधि ॥

कथयामास तत्सर्वं शिवधर्म मुदान्वितः

॥५०॥

वीरभद्र उवाच

देवदेवो महादेवो देवानां पतिरीश्वरः ॥

परितुष्टोऽद्य हे चंड स महेश उमापतिः

॥५१॥

प्रासंगिकतया माघे कृतं लिंगार्चनं त्वया ॥

शिवतुष्टिकरं चाद्य पूतोऽसि त्वं न संशयः ॥

शिवरात्र्यां प्रसंगेन कृतमर्चनमेव च

॥५२॥

कोलं निरीक्षमाणेन बिल्वपत्राणि चैव हि ॥

च्छेदितानि त्वया चंड पतितानि तदैव हि ॥

लिंगस्य मस्तके तानि तेन त्वं सुकृती प्रभो

॥५३॥

ततश्च जागरो जातो महान्वृक्षोपरि ध्रुवम् ॥

तेनैव जागरेणैव तुतोष जगदीश्वरः

॥५४॥

छलेनैव महाभाग कोलसंदर्शनेन हि ॥

शिवरात्रिदिने चात्र स्वप्नस्ते न च योषितः

॥५५॥

तेनोपवासेन च जागरेण तुष्टो ह्यसौ देववरो महात्मा ॥

तव प्रसादाय महानुभावो ददाति सर्वान्वरदो महांश्च

॥५६॥

एवमुक्तस्तदा तेन वीरभद्रेण धीमता ॥

पुष्कसोऽपि विमानाग्र्यमारुहोह च पश्यताम्

॥५७॥

गणानां देवतानां च सर्वेषां प्राणिनामपि ॥

तदा दुंदुभयो नेदुर्भेर्यस्तूर्याण्यनेकशः

॥५८॥

वीणावेणुमृदंगानि तस्य चाग्रे गतानि च ॥

जगुर्गंधर्वपतयो ननृतुश्चाप्सरोगणाः

॥५९॥

विद्याधरगणाः सर्वे तुष्टुवुः सिद्धचारणाः ॥

चामरैवर्वीज्यमानो हि च्छत्रैश्च विविधैरपि ॥

महोत्सवेन महता आनीतो गंधमादनम्

॥६०॥

शिवसान्निध्यमागच्चंडोसौ तेन कर्मणा ॥

शिवरात्र्युपवासेन परं स्थानं समागमत्

॥६१॥

पुष्कसोऽपि तथा प्राप्तः प्रसंगेन सदाशिवम् ॥

किं पुनः श्रद्धया युक्ताः शिवाय परमात्मने

॥६२॥

पुष्पादिकं फलं गंधं तांबूलं भक्ष्यमृद्धिमत् ॥

ये प्रयच्छंति लोकेऽस्मिन्रुद्रास्ते नात्र संशयः

॥६३॥

चंडेन वै पुष्कसेन सफलं तस्य चाभवत् ॥

प्रसंगेनापि तेनैव कृतं तच्चाल्पबुद्धिना

॥६४॥

ऋषय ऊचुः

किं फलं तस्य चोद्देशः केन चैव पुना कृतम् ॥

कस्माद्व्रतमिदं जातं कृतं केन पुरा विभो

॥६५॥

लोमश उवाच

यदा सृष्टं जगत्सर्वं ब्रह्मणा परमेष्ठिना ॥

कालचक्रं तदा जातं पुरा राशिमन्विताम्

॥६६॥

द्वादश राशयस्तत्र नक्षत्राणि तथैव च ॥

सप्तविंशतिसंख्यानि मुख्यानि xxxxxx सिद्धये

॥६७॥

एभिः सर्वं प्रचंडं च राशिभिरुडुभिस्तथा ॥

कालचक्रान्वितः कालः क्रीडयन्सृजते जगत्

॥६८॥

आब्रह्मस्तंबपर्यंतं सृजत्य वति हंति च ॥

निबद्धमस्ति तेनैव कालेनैकेन भो द्विजाः

॥६९॥

कालो हि बलवाँल्लोके एक एव न चापरः ॥

तस्मात्कालात्मकं सर्वमिदं नास्त्यत्र संशयः

॥७०॥

आदौ कालः कालनाच्च लोकनायकनायकः ॥

ततो लोका हि संजाताः सृष्टिश्च तदनंतरम्

॥७१॥

सृष्टेर्लवो हि संजातो लवाच्च क्षणमेव च ॥

क्षणाच्च निमिषं जातं प्राणिनां हि निरंतरम्

॥७२॥

निमिषाणां च षष्ट्या वै फल इत्यभिधीयते ॥

पंचदश्या अहोरात्रैः पक्षइत्यभिधीयते

॥७३॥

पक्षाभ्यां मास एव स्यान्मासा द्वादश वत्सरः ॥

तं कालं ज्ञातुकामेन कार्यं ज्ञानं विचक्षणैः

॥७४॥

प्रतिपद्दिनमारभ्य पौर्णमास्यंतमेव च ॥

पक्षं पूर्णो हि यस्माच्च पूर्णिमेत्यभिधीयते

॥७५॥

पूर्णचंद्रमसी या तु सा पूर्णा देवताप्रिया ॥

नष्टस्तु चंद्रो यस्यां वा अमा सा कथिता बुधैः

॥७६॥

अग्निष्वात्तादिपितॄणां प्रियातीव बभूव ह ॥

त्रिंशद्दिनानि ह्येतानि पुण्यकालयुतानि च ॥

तेषां मध्ये विशेषो यस्तं श्रृणुध्वं द्विजोत्तमाः

॥७७॥

योगानां वा व्यतीपात ऊडूनां श्रवणस्तथा ॥

अमावास्या तिथीनां च पूर्णिमा वै तथैव च

॥७८॥

संक्रांतयस्तथाज्ञेयाः पवित्रा दानकर्मणि ॥

तथाष्टमी प्रिया शंभोर्गणेशस्य चतुर्थिका

॥७९॥

पञ्चमी नागराजस्य कुमारस्य च षष्ठिका ॥

भानोश्च सप्तमी ज्ञेया नवमी चण्डिकाप्रिया

॥८०॥

ब्रह्मणो दशमी ज्ञेया रुद्रस्यैकादशी तथा ॥

विष्णुप्रिया द्वादशी च अंतकस्य त्रयोदशी

॥८१॥

चतुर्द्दशी तथा शंभोः प्रिया नास्त्यत्र संशयः ॥

निशीथसंयुता या तु कृष्णपक्षे चतुर्द्दशी ॥

उपोष्या सा तिथिः श्रेष्ठा शिवसायुज्यकारिणी

॥८२॥

शिवरात्रितिथिः ख्याता सर्वपापप्रणाशिनी ॥

अत्रैवोदाहरंतीममितिहासं पुरातनम्

॥८३॥

ब्राह्मणी विधवा काचित्पुरा ह्यासीच्च चंचला ॥

श्वपचाभिरता सा च कामुकी कामहेतुतः

॥८४॥

तस्यां तस्य सुतो जातः श्वपचस्य दुरात्मनः ॥

दुः सहो दुष्टनामात्मा सर्वधर्मबहिष्कृतः

॥८५॥

महापापप्रयोगाच्च पापमारभते सदा ॥

कितवश्च सुरापायी स्तेयी च गुरुतल्पगः

॥८६॥

मृगयुश्च दुरात्मासौ कर्मचण्डाल एव सः ॥

अधर्मिष्ठो ह्यसद्वृत्तः कदाचिच्च शिवालयम् ॥

शिवरात्र्यां च संप्राप्तो ह्युषितः शिवसन्निधौ

॥८७॥

श्रवणं शैवशास्त्रस्य यदृच्छाजातमंतिके ॥

शिवस्य लिंगरूपस्य स्वयंभुवो यदा तदा

॥८८॥

स एकत्रोषितो दुष्टः शिवरात्र्यां तु जागरात् ॥

तेन कर्मविपाकेन पुण्यां योनिमवाप्तवान्

॥८९॥

भुक्त्वा पुण्यतामाँल्लोकानुषित्वा शाश्वतीः समाः ॥

चित्रांगदस्य पुत्रोभूद्भूपालेश्वरलक्षणः

॥९०॥

नाम्ना विचित्रवीर्योऽसौ सुभगः संदुरी प्रियः ॥

राज्यं महत्तरं प्राप्य निःस्तंभो हि महानभूत्

॥९१॥

शिवे भक्तिं प्रकुर्वाणः शिवकर्मपरोऽभवत् ॥

शैवशास्त्रं पुरस्कृत्य शिवपूजनतत्परः ॥

रात्रौ जागरणं यत्नात्करोति शिवसन्निधौ

॥९२॥

शिवस्य गाथा गायंस्तु आनंदाश्रुकणान्मुहुः ॥

प्रमुंचंश्चैव नेत्राभ्यां रोमांचपुलकावृतः

॥९३॥

आयुष्यं च गतं तस्य शिवध्यानपरस्य च ॥

शिवो हि सुलभो लोके पशूनां ज्ञाननिनामपि

॥९४॥

संसेवितुं सुखप्राप्त्यै ह्येक एव सदाशिवः ॥

शिवरात्र्युपवासेन प्राप्तो ज्ञानमनुत्तमम्

॥९५॥

ज्ञानात्सर्वमनुप्राप्तं भूतसाम्यं निरंतरम् ॥

सर्वभूतात्मकं ज्ञात्वा केवलं च सदा शिवम् ॥

विना शिवेन यत्किंचिन्नास्ति वस्त्वत्र न क्वचित्

॥९६॥

एवं पूर्णं निष्प्रपंचं ज्ञानं प्राप्नोति दुर्लभम् ॥

प्राप्तज्ञानस्तदा राजा जातो हि शिववल्लभः

॥९७॥

मुक्तिं सायुज्यतां प्राप्तः शिवरात्रेरुपोषणात् ॥

तेन लब्धं शिवाज्जन्म पुरा यत्कथितं मया

॥९८॥

दाक्षायणीवीयो गाच्च जटाजूटेन विस्तरात् ॥

य उत्पन्नो मस्तकाच्च शिवस्य परमात्मनः ॥

वीरभद्रेति विख्यातो दक्षयज्ञविनाशनः

॥९९॥

शिवरात्रिव्रतेनैव तारिता बहवः पुरा ॥

प्राप्ताः सिद्धिं पुरा विप्रा भरताद्याश्च देहिनः

॥१००॥

मांधाता धुन्धुमारिश्च हरिश्चन्द्रादयो नृपाः ॥

प्राप्ताः सिद्धिमनेनेव व्रतेन परमेण हि

॥१०१॥

ततो गिरीशो गिरिजासमेतः क्रीडान्वितोऽसौ गिरिराजमस्तके ॥

द्यूतं तथैवाक्षयुतं परेशो युक्तो भवान्या स भृशं चकार

॥१०२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्त्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखंडे शिवरात्रिव्रतमाहात्म्यवर्णनंनाम त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥