कर्मणा परिभूतो हि महेंद्रो गुरुमब्रवीत्
लोमश उवाच
कर्मणा परिभूतो हि महेंद्रो गुरुमब्रवीत् ॥
विना यत्नेन संक्लेसात्तर्तुं कर्म्म किमुच्यताम्
॥१॥बृहस्पतिरुवाचेदं त्यक्त्वा चैवामरावतीम् ॥
यास्यामोऽन्यत्र सर्वे वै सकुटुंबा जिगीपवः
॥२॥तथा चक्रुः सुराः सर्वे हित्वा चैवामरावतीम् ॥
बर्हिणो रुपमास्थाय गतः सद्यः पुरंदरः
॥३॥काको भूत्वा यमः साक्षात्कृकलासो धनाधिपः ॥
अग्निः कपोतको भूत्वा भेको भूत्वा महेश्वरः
॥४॥नैर्ऋतस्तत्क्षणादेव कपोतोऽभूत्ततो गतः ॥
पाशी कपिंजलो भूत्वा वायुः पारावतोऽभवत्
॥५॥एवं नानातनुभृतो हित्वा ते त्रिदिवं गताः ॥
कश्यपस्याश्रमं पुण्यं संप्राप्तास्ते भयातुराः
॥६॥अदितिं मातरं सर्वे शशंसुर्दैत्यचेष्टितम्
॥७॥अप्रियं तदुपाकर्ण्य ह्यदितिः पुत्रलालसा ॥
उवाच कश्यपं सा तु सुराणां व्यसनं महत् ॥
महर्षे श्रयतां वाक्यं श्रुत्वा तत्कर्तुमर्हसि
॥८॥दैत्यैः पराजिता देवा हित्वा चैवामरावतीम् ॥
त्वदीयमाश्रमं प्राप्तास्तान्रक्षस्व प्रजापते
॥९॥तस्यास्तद्वचनं श्रुत्वा कश्यपो वाक्यमब्रवीत् ॥
तपसा महता तन्वि जानीहि त्वं च भामिनि ॥
अजेया ह्यसुराः साध्वि भृगुणा ह्यनुमोदिताः
॥१०॥तेषां जयो हि तपसा उग्रेणाऽऽद्येन भामिनि ॥
कुरु शीघ्रतरेणैव सुराणां कार्यसिद्धये
॥११॥व्रतमेतन्महाभागे कथयाम्यर्थसिद्धये ॥
तत्कुरुष्व प्रयत्नेन यथोक्तविधिना शुभे
॥१२॥मासि भाद्रपदे देवि दशम्यां नियता शुचिः ॥
एकभक्तं प्रकुर्वीत विष्णोः प्रीत्यर्थमेव च
॥१३॥प्रर्थनीयो हरिः साक्षात्सर्वकामवरेश्वरः ॥
मंत्रेणानेन सुभगे तद्भक्तैर्वरवर्णिनि
॥१४॥तव भक्तोस्म्यहं नाथ दशम्यादिदिनत्रयम् ॥
व्रतं चराम्यहं विष्णो अनुज्ञां दातुमर्हसि
॥१५॥अनेनैव च मंत्रेण प्रार्थनीयो जगत्पतिः ॥
एकभक्तं प्रकुर्वीत तच्च भक्तं च केवलम्
॥१६॥रंभापत्रे च भोक्तव्यं वर्जितं लवणेन हि ॥
एकादश्यां चोपवासं प्रकुर्वीत प्रयत्नतः
॥१७॥रात्रौ जागरणं कुर्यात्प्रयत्नेन सुमध्यमे ॥
द्वादश्यां निपुणत्वेन पारणा तु विधानतः ॥
कर्तव्या ज्ञातिभिः सार्द्धं भोजयित्वा द्विजीत्तमान्
॥१८॥एवं द्वादशमासांस्तु कुर्याद्व्रतमतंद्रितः ॥
मासि भाद्रपदे प्राप्ते एकादश्यां प्रयत्नतः ॥
विष्णुमभ्यर्च्य यत्नेन कलशोपरि संस्थितम्
॥१९॥सौवर्णं राजतं वापि यताशक्त्या प्रकल्पयेत् ॥
श्रवणेन तु संयुक्तां द्वादशीं पापनाशिनीम् ॥
व्रती उपवसेद्यत्नात्सर्वदोषप्रशांतये
॥२०॥एवं हि कश्यपेनोक्तं श्रुत्वाऽदितिरथाचरत् ॥
व्रतं सांवत्सरं यावन्नियमेन समन्वितता
॥२१॥वर्षांतेन व्रतेनैव परितुष्टो जनार्दनः ॥
प्रादुर्बभूव द्वादश्यां श्रवणेन तदा द्विजाः
॥२२॥बटुरूपधरः श्रीशो द्विभुजः कमलेक्षमः ॥
अतसीपुष्पसंकाशो वनमालाविभूषितः
॥२३॥तं दृष्ट्वा विस्मयाविष्टा पूजामध्येऽदितिस्तदा ॥
कश्यपेन समायुक्ता साऽस्तौषीत्कमलेक्षणा
॥२४॥अदितिरुवाच
नमोनमः कारणकारणाय ते विश्वात्मने विश्वसृजे चिदात्मने ॥
वरेण्यरूपाय परावरात्मने ह्यकुंठबोधाय नमोनमस्ते
॥२५॥इति स्मृतस्तदाऽदित्या देवानां परिरच्युतः ॥
प्रहस्य भगवानाह अदितिं देवमातरम्
॥२६॥श्रीभगवानुवाच
तपसा परमेणैव प्रसन्नोहं तवानघे ॥
अमुना वपुषा चैव देवानां कार्यसिद्धये
॥२७॥श्रुत्वा भगवतो वाक्यमदितिस्तमुवाचह ॥
भगवन्पराजिता देवा असुरैर्बलवत्तरैः ॥
तान्रक्ष शरणापन्नासुरान्सर्वाञ्जनार्दन
॥२८॥निशम्य वाक्यं किल तच्च तस्या विष्णुर्विकुंठाधिपतिः स एकः ॥
ज्ञात्वा च सर्वं सुरचेष्टितं तदा बलेश्च सर्वं च चिकीर्षितं च
॥२९॥किं कार्यमद्यैव मया हि कार्यं येनैव देवा जयमाप्नुवंति ॥
पराजयं दैत्यवराश्च सर्वे विष्णुः परात्मैव विचिंत्य सर्वम्
॥३०॥गदमुवाच भगवान्गच्छस्वाद्य वधं प्रति ॥
वैरोचनिं महाभागे घात यस्व त्वरान्विता
॥३१॥गदोवाच हृषीकेशं प्रहसन्तीव भामिनी ॥
मया ह्यशक्यो वधितुं ब्रह्मण्यो हि बलिर्महान्
॥३२॥चक्रं प्रति तदा विष्मुरुवाच परिसांत्वयन् ॥
त्वं गच्छ बलिनं हंतुं शीघ्रमेव सुदर्शन
॥३३॥तदोवाच त्वरेणैव चक्रपाणिं सुदर्शनम् ॥
न शक्यते मया हंतुं बलिनं तं महाप्रभो
॥३४॥ब्रह्मण्योऽसि यथा विष्णो तथासौ दैत्यपुंगवः ॥
धनुषा च तथैवोक्तः शार्ङ्गपाणिश्च विस्मितः ॥
चिंतयामास बहुधा विमृश्य सुचिरं बहु
॥३५॥अत्रिरुवाच
तदा ते ह्यसुराः सर्वे किमकुर्वस्तदुच्यताम्
॥३६॥लोमश उवाच
तदा ते ह्यसुराः सर्वे बलिप्रभृतयो दिवि ॥
रुरुधुर्नगरीं रम्यां योद्धुकामाः पुरंदरम्
॥३७॥न विदुर्ह्यसुराः सर्वे गतान्देवांस्त्रिविष्टपात् ॥
नानारूपधरां स्तस्मात्कश्यपस्याश्रयं प्रति
॥३८॥प्राकारमारुह्य तदा हि संभ्रमाद्दैत्याः सुरेशं प्रति हंतुकामाः ॥
यावत्प्रविष्टा ह्यमरावतीं तां शून्यामपश्यन्परितुष्टमानसाः
॥३९॥इंद्रासने च शुक्रेण ह्यभिषिक्तो बलिस्तदा ॥
सहाभिषेकविधिना ह्यसुरैः परिवारितः
॥४०॥तथैवाधिष्ठितो राज्ये बलिर्वैरोचनो महान् ॥
शुशुभे परया भूत्या महेंद्राधिकृतस्तदा
॥४१॥नागैश्चासुरसंघैश्च सेव्यमानो महेंद्रवत् ॥
सुरद्रुमो जितस्तेन कामधे नुर्मणिस्तथा
॥४२॥दानैर्द्दाता च सर्वेषां येऽन्ये दानित्वमागताः ॥
सर्वेषामेव भूतानां दानैर्दाता बलिर्महान्
॥४३॥यान्यान्कामयते कामां स्तान्सर्वान्वितरत्यसौ ॥
सर्वेभ्योऽपि स चार्थिभ्यो दानवानामधीश्वरः
॥४४॥शौनक उवाच
देवेंद्रो हि महाभाग न ददाति कदाचन ॥
कथं बलिरसौ दाता कथयस्व यथातथम्
॥४५॥लोमश उवाच
यत्नतो येन यत्किंचित्क्रियते सुकृतं नरैः ॥
शुभं वाप्यशुभं वापि ज्ञातव्यं हि विपश्चिता
॥४६॥शक्रो हि याज्ञिको विप्रा अश्वमेधशतेन वै ॥
प्राप्तराज्योऽमरावत्यां केवलं भोगलोलुपः
॥४७॥अर्थितं तत्फलं विद्धि पुनः कार्पण्यमाविशत् ॥
पुनर्मरणमाविश्य क्षीणपुण्यो भविष्यति
॥४८॥य इंद्र कृमिरेव स्यात्कृमिरिंद्रो हि जायते ॥
तस्माद्दानात्परतरं नान्यदस्तीह मोचनम्
॥४९॥दानाद्धि प्राप्यते ज्ञानं ज्ञानान्मोक्षो न संशयः ॥
मोक्षात्परतरा भक्तिः शूलपाणौ हि वै द्वजाः
॥५०॥ददाति सर्वं सर्वेशः प्रसन्नात्मा सदाशिवः ॥
किंचिदल्पेन तोयेन परितुष्यति शंकरः
॥५१॥अत्रैवोदाहरंतीममितिहासं पुरातनम् ॥
विरोचनसुतेनेदं कृतमस्ति न संशयः
॥५२॥कितवो हि महापापो देवब्राह्मणनिंदकः ॥
निकृत्या परयोपेतः परदाररतो महान्
॥५३॥एकदा तु महापापात्कैतावाच्च जितं धनम् ॥
गणिकार्थे च पुष्पाणि तांबूलं चंदनं तथा
॥५४॥कौपीनमात्रं तस्यैव कितवस्य प्रदृश्यते ॥
कराभ्यां स्वस्तिकं कृत्वा गंधमाल्यादिकं च यत्
॥५५॥गणिकार्थमुपादाय धावमानो गृहं प्रति ॥
तदा प्रस्खलितो भूमौ निपपात च तत्क्षणात्
॥५६॥पतनान्मूर्छया युक्तः क्षणमात्रं तदाऽभवत् ॥
ततो मूर्छागतस्यास्य पापिनोऽनिष्टकारिणः
॥५७॥बुद्धिः सद्यः समुत्पन्ना कर्मणा प्राक्तनेन हि ॥
निर्वेदं परमापन्नः कितवो दुःखसंयुतः
॥५८॥भूम्यां निपतितं यच्च गंधपुष्पादिकं महत् ॥
समर्पितं शिवायेति कितवेनाप्यबुद्धिना
॥५९॥चित्रगुप्तेन चाख्यातं दत्तमस्ति त्वया पुनः ॥
पतितं चैव देहांते शिवाय परमात्मने
॥६०॥पचनीयोसि मे मंद नरकेषु महत्सु च ॥
इत्युक्तो धर्मराजेन कितवो वाक्यमब्रवीत्
॥६१॥पापाचारो हि भगवन्कश्चिन्नैव मया कृतः ॥
विमृश्यतां मे सुकृतं याथातथ्येन भो यम
॥६२॥चित्रगुप्तेन चाख्यातं द्त्तमस्ति त्वया पुनः ॥
पतितं चैव देहांते शिवाय परमात्मने
॥६३॥तेन कर्मविपाकेन घटिकात्रयमेव च ॥
शचीपतेः पदं विद्धि प्राप्स्यसि त्वं न संशयः
॥६४॥आगतस्तत्क्षणाद्देवः सुर्वैः समन्वितः ॥
ऐरावतं समारूढो नीतोऽसौ शक्रमंदिरम् ॥
शक्रः प्रबोधितस्तेन गुरुणा भावितात्मना
॥६५॥घटिकात्रितयं यावत्तावत्कालं पुरंदर ॥
निजासनेऽपि संस्थाप्यः कितवोऽपि ममाज्ञया
॥६६॥गुरोर्वचनमार्कर्ण्य कृत्वा शिरसि तत्क्षणात् ॥
गतोऽन्वत्रैव शक्रोऽसौ कितवो हि प्रवेशितः ॥
भवनं देवराजस्य नानाश्चर्यसमन्वितम्
॥६७॥शक्रासनेऽभिषिक्तोऽसौ राज्यं प्राप्तः शतक्रतोः ॥
शंभोर्गंधप्रदानाच्च पुष्पतांबूलसंयुतम्
॥६८॥किं पुनः श्रद्धया युक्ताः शिवाय परमात्मने ॥
अर्पयंति सदा भक्त्या गंधपूष्पादिकं महत्
॥६९॥शिवसायुज्यमायाताः शिवसेनासमन्विताः ॥
प्राप्नुवंति महामोदं शक्रो ह्येषां च किंकरः
॥७०॥शिवपूजारतानां च यत्सुखं शांतचेतसाम् ॥
ब्रह्मशक्रादिकानां च तत्सुखं दुर्लभं महत्
॥७१॥वराकास्ते न जानंति मूढा विषयलोलुपाः ॥
वंदनीयो महादेवो ह्यर्चनीयः सदाशिवः
॥७२॥पूजनीयो महादेवः प्राणिभिस्तत्त्ववेदिभिः ॥
तस्मादिंद्रत्वमगमत्कितवो घटिकात्रयम्
॥७३॥पुरोधसाभिषिक्तोऽसौ पुरंदरपदे स्थितः ॥
तदानीं नारदेनोक्तः कितवोऽसौ महायशाः
॥७४॥इन्द्राणीमानयस्त्वेति यथा राज्यं सुशोभितम् ॥
ततः प्रहस्य चोवाच कितवः शिववल्लभः
॥७५॥इन्द्राण्या नास्ति मे कार्यं न वाच्यं ते महामते ॥
एवमुक्त्वाथ कितवः प्रदातुमुपचक्रमे
॥७६॥ऐरावतमगस्त्याय प्रददौ शिववल्लभः ॥
विश्वामित्राय कितवो ददौ हयमुदारधीः
॥७७॥उच्चैःश्रवससंज्ञं च कामधेनुं महायशाः ॥
ददौ वशिष्ठाय तदा चिंतामणिं महाप्रभम्
॥७८॥गालवाय महातेजास्तदा कल्पतरुं च सः ॥
कौंडिन्याय महाभागः कितवोपि गृहं तदा ॥
१८.७९ एवमादीन्यनेकानि रत्नानि विविधानि च ॥
ददावृषिभ्यो मुदितः शिवप्रीत्यर्थमेव च
॥८०॥घटितकात्रितयं यावत्तावत्कालं ददौ प्रभुः ॥
घटिकात्रितयादूध्व पूर्वस्वामी समागतः
॥८१॥पुरंदरोऽमरावत्यामुपविश्य निजासने ॥
ऋषिभिः संस्तुतश्चैव शच्या सह तदाऽभवत्
॥८२॥शचीमुवाच दुर्मेधाः कितवेनासि भामिनि ॥
भुक्ता ह्यस्यैव कथय याथातथ्येन शोभने
॥८३॥तदा प्रहस्य चोवाच पुरंदरमकल्मषा ॥
आत्मौपम्येन सर्वत्र पश्यति त्वं पुरंदर
॥८४॥असौ महात्मा कितवस्वरूपी शिवप्रसादात्परमार्थविज्ञः ॥
वै राग्ययुक्तो हि महानुभावो येनापि सर्वं परमं प्रपन्नम्
॥८५॥राज्यादिकं मोहमयं च पाशं त्यक्ता परेभ्यो विजयी स जातः
॥८६॥वचो निशम्य देवेश इंद्राण्याः स पुरंदरः ॥
व्रीडायुक्तोऽभवत्तूष्णीमिंद्रासनगतस्तदा
॥८७॥बृहस्पतिमुवाचेदं वाक्यं वाक्यविदां वरः ॥
ऐरावतो न दृश्येत तथैवोच्चैःश्रवा हयः
॥८८॥पारिजातादयः सर्वे पदार्थाः केन वा हृताः ॥
गुरुरुवाचेदं कितवेन कृतं महत्
॥८९॥ऋषिभ्यो दत्त मद्यैव यावत्सत्ता हि तस्य वै ॥
स्वसत्तायां महत्यां च स्वसत्ता ये भवंति च
॥९०॥अप्रमात्ताश्च ये नित्यं शिवध्यानपरायणाः ॥
ते प्रियाः शंकरस्यैव हित्वा कर्मफलानि वै ॥
केवलं ज्ञानमाश्रित्य ते यांति परमं पदम्
॥९१॥एतच्छ्रुत्वा वचनं तस्य चेंद्रो बृहस्पतेर्वाक्यमिदं वभाषे ॥
प्रायो यमो वक्ष्यति सर्वमेतत्समृद्धये ह्यात्मनश्चैव शक्रः
॥९२॥तथेति मत्वा गुरुणा सहैव राजा सुराणां सहसा जगाम ॥
स्वकार्यकामो हि तथा पुरंदरो ययौ पुरीं संयमिनीं तदानीम्
॥९३॥यमेन पूज्यमानो हि शक्रो वाक्यमुवाच ह ॥
त्वया दत्तं मम पदं कितवाय दुरात्मने
॥९४॥अनेनैतत्कृतं कर्म्म जुगुप्सितं महत्तरम् ॥
मदीयानि च रत्नानि यानि सर्वाण्यनेन वै ॥
एभ्य एभ्यः प्रदत्तानि धर्म्म जानीहि तत्त्वतः
॥९५॥त्वं धर्मनामासि कथं कितवाय प्रदत्तवान् ॥
मम राज्यविनाशाय कृतमस्ति त्वयाऽधुना
॥९६॥आनयस्व महाभाग गजादीनि च सत्वरम् ॥
अन्यानि चैव रत्नानि दत्तानि च यतस्ततः
॥९७॥निशम्य वाक्यं शक्रस्य यमो वचनमब्रवीत् ॥
कितवं च रुषाविष्टः किं त्वया पापिना कृतम्
॥९८॥भोगार्थं चैव यद्दत्तं शक्रराज्यं त्वयाऽधुन् ॥
प्रदत्तं च द्विजातिभ्यो ह्यन्यथा वै कृतं महत्
॥९९॥अकार्यं वै त्वया मूढ परद्रव्यापहारणम् ॥
तेन पापेन महता निरयं प्रतिगच्छसि
॥१००॥यमस्य वचनं श्रुत्वा कितवो वाक्यमब्रवीत् ॥
अहं निरयगामी च नात्र कार्या विचारणा
॥१०१॥यावत्स्वता मम विभो जाता शक्रासने तथा ॥
तावद्दत्तं हि यत्किंचिद्द्विजेभ्यो हि यथातथम्
॥१०२॥यम उवाच
दानं प्रशस्तं भूम्यां च दृश्यते कर्म्मणः फलम् ॥
स्वर्गे दानं न दातव्यं केनचित्कस्यचित्क्वचित् ॥
तस्माद्दंड्योऽसि रे मूढ अशास्त्रीयं कृतं त्वया
॥१०३॥गुरुरात्मवतां शास्ता राजा शास्ताः दुरात्मनाम् ॥
सर्वेषां पापशीलानां शास्तऽहं नात्र संशयः
॥१०४॥एवं निर्भर्त्सयित्वा तं कितवं धर्मराट्स्वयम् ॥
उवाच चित्रगुप्तं च नरके पच्यतामयम् ॥
तदा प्रहस्य चोवाच चित्रगुप्तो यमं प्रति
॥१०५॥कथं निरयगामित्वं कितवस्य भविष्यति ॥
येन दत्तो ह्यगस्त्याय गज ऐरावतो महान्
॥१०६॥तथाश्वो ह्यब्धिसंभूतो गालवाय महात्मने ॥
विश्वामित्राय भद्रं ते चिंतामणिर्महाप्रभः
॥१०७॥एवमादीनि रत्नानि दत्तानि कितेवन हि ॥
तेन कर्मविपाकेन पूजनीयो जगत्त्रये
॥१०८॥शिवमुद्दिश्य यदत्तं स्वर्गे मर्त्ये च यैर्नरैः ॥
तत्सर्वं त्वक्षयं विद्यान्निश्छिद्रं कर्म चोच्यते ॥
तस्मान्नरकगामित्वं कितवस्य न विद्यते
॥१०९॥यानियानि च पापानि कितवस्य महात्मनः ॥
भस्मीभूतानि सर्वाणि जातानि स्मरणाच्च वै
॥११०॥शंभोः प्रसादात्सर्वाणि सुकृतानि च तत्क्षणात् ॥
तद्वचश्चित्रगुप्तस्य निशम्य प्रेतराट् स्वयम्
॥१११॥प्रहस्यावाङ्मुखो भूत्वा इद माह शतक्रतुम् ॥
त्वं हि राजा सुरेंद्राणां स्थविरो राज्यलंपटः
॥११२॥अश्वमेधशतेनैव एकं जन्मार्जितं कृतम् ॥
त्वया नास्त्यत्र संदेहो ह्यर्ज्जितं तेन वै महत्
॥११३॥प्रार्थयित्वा ह्यगस्त्यादीन्मुनीन्सर्वान्विशेषतः ॥
अर्थेन प्रणिपातेन त्वया लभ्यानि तानि च ॥
गजादिकानि रत्नानि येन त्वं च सुखी त्वरन्
॥११४॥तथेति मत्वा वचनं पुरंदरो गतः पुरीं स्वामविवेकदृष्टिः ॥
अभ्यर्थयामास विनम्रकंधरश्चर्षीस्ततो लब्धवान्पारिजातम्
॥११५॥अनेनैव प्रकारेण लब्धराज्यः पुरंदरः ॥
जातस्तदामरावत्यां राजा सह महात्मभिः
॥११६॥कितवस्य पुनर्जन्म दत्तं वैवस्वतेन हि ॥
किंचितकर्मविपाकेन विरोचनसुतोऽभवत्
॥११७॥सुरुचिर्जननी तस्य कितवस्याभवत्तदा ॥
विरोचनस्य महिषी दुहिता वृषपर्वणः ॥
तस्थौ जठरमास्थाय तस्याः सोऽपि महात्मनः
॥११८॥तदाप्रभृति तस्यैव प्रह्लादस्यात्मजात्स वै ॥
सुरुचेश्च तथाप्यासीद्धर्मेदाने महामतिः
॥११९॥तेनैव जठरस्थेन कृता मतिरनुत्तमा ॥
कितवेन कृता विप्रा दुर्लभा या मनीषिणाम्
॥१२०॥एकदा वै तदा शक्रो ययौ वैरोचनं प्रति ॥
हंतुकामो हि दैत्येंद्रं विप्रो भूत्वाऽथ याचकः
॥१२१॥विरोचनगृहं प्राप्त इंद्रो वाक्यमुवाच ह ॥
स्थविरो ब्राह्मणो भूत्वा देहीति मम सुव्रत ॥
मनस्वी त्वं च दैत्येंद्र दाता च भुवनत्रये
॥१२२॥तव विप्रा महाभाग चरितं परमाद्भुतम् ॥
वर्णयन्ति समा जेषु स्थित्वा कीर्ति च निर्मलाम् ॥
याचकोऽहं च दैत्येंद्र दातुरर्महसि सुव्रत
॥१२३॥तस्य तद्वचनं श्रुत्वा दैत्येंद्रो वाक्यमब्रवीत् ॥
किं दातव्यं तव विभो वद शीघ्रं ममाधुना
॥१२४॥इंद्रो हि विप्ररूपेण विरोचनमुवाच ह ॥
याचयामि च दैत्येंद्र यदहं परिभावितः
॥१२५॥आत्मप्रीत्या च दातव्यं मम नास्त्यत्र संशयः ॥
उवाच प्रहसन्वाक्यं प्रह्लादस्यात्मजोऽसुरः
॥१२६॥ददाम्यात्मशिरो विप्र यदि कामयसेऽधुना ॥
इदं राज्यमनायासमियं श्रीर्नान्यगामिनी ॥
अहं समर्पयिष्यामि तव नास्त्यत्र सशयः
॥१२७॥इत्युक्तस्तेन दैत्येन विमृश्य च तदा हरिः ॥
उवाच देहि मे स्वीयं शिरो मुकुटसेवितम्
॥१२८॥एवमुक्ते तु वचने शक्रेण द्विजरूपिणा ॥
त्वरन्महेंद्राय तदा शिवर उत्कृत्त्य वै मुदा ॥
स्वकरेण ददौ तस्मै प्रह्लादस्यात्मजोऽसुरः
॥१२९॥प्रह्लादेन पुरा यस्तु कृतो धर्म्मः सुदुष्करः ॥
केवलां भक्तिमाश्रित्य विष्णोस्तत्परचेतसा
॥१३०॥दानात्परतरं चान्यत्क्वचिद्वस्तु न विद्यते ॥
तद्दानं च महापुण्यमार्तेभ्यो यत्प्रदीयते
॥१३१॥स्वशक्त्या यच्च किंचिच्च तदानंत्याय कल्पते ॥
दानात्परतरं नान्यत्त्रिषु लोकेषु विद्यते
॥१३२॥सात्त्विकं राजसं चैव तामसं च प्रकीर्तिततम् ॥
तथा कृतमनेनैव दानं सात्त्विकलक्षणम्
॥१३३॥शिर उत्कृत्त्य चेंद्राय प्रदत्तं विप्ररूपिणे ॥
किरीटः पतितस्तत्र मणयो हि महाप्रभाः
॥१३४॥ऐकपद्येन पतितास्ते जाता मंडलाय वै ॥
दैत्यानां च नरेंद्राणां पन्नगानां तथैव च
॥१३५॥विरोचनस्य तद्दानं त्रिषु लोकेषु विश्रुतम् ॥
गायंत्यद्यापि कवयो दैत्येंद्रस्य महात्मनः
॥१३६॥विरोचनस्य पुत्रोऽभूत्कितवोऽसौ महाप्रभः ॥
मृते पितरि जातोऽसौ माता तस्य पतिव्रता
॥१३७॥कलेवरं च तत्याज पतिलोकं गता ततः ॥
भार्गवेणाभिषिक्तोऽसौ जनकस्य निजासने
॥१३८॥नाम्ना बलिरिति ख्यातो बभूव च महायशाः ॥
तेन सर्वे सुरगणास्त्रासिताः सुमहाबलाः
॥१३९॥गतस्ते कथिताः पूर्वं कश्यपस्याश्रमं शुभम् ॥
तदा बलिरभूदिन्द्रो देवपुर्यां महायशाः
॥१४०॥स्वयं तताप तपसा सूर्यो भूत्वा तदाऽसुरः ॥
ईशो भूत्वा स्वयं चास्ते ऐशान्यां दिशि पालयन्
॥१४१॥तथा च नैर्ऋतो भूत्वा तथा त्वंबुपतिः स्वयम् ॥
धनाध्यक्ष उदीच्यां वै स्वयमास्ते बलिस्तदा ॥
एवमास्ते बलिः साक्षात्स्वयमेव त्रिलोकभुक्
॥१४२॥शिवार्चनरतेनैव कितवेन बलिर्द्विजाः ॥
पूर्वाभ्यासेन तेनैव महादानरतोऽभवत्
॥१४३॥एकदा तु सभामध्ये आस्थितो भृगुणा सह ॥
दैत्येंद्रैः संवृतः श्रीमाञ्छंडामर्कौ वचोऽब्रवीत्
॥१४४॥आवासः क्रियतामत्र क्रियतामत्र असुरैर्म्मम सन्निधौ ॥
हित्वा पातालमद्यैव मा विलंबितुमर्हथ
॥१४५॥भार्गवस्तदुपश्रुत्य प्रहस्येदमुवाच ह ॥
यज्ञैश्च विविधैश्चैव स्वर्गलोके महीयते
॥१४६॥याज्ञिकैश्च महाराज नान्यथा स्वर्गमेव हि ॥
भोक्तुं हि पार्यते राजन्नान्यता मम भाषितम्
॥१४७॥गुरोर्वचनमाज्ञाय दैत्येंद्रो वाक्यमब्रवीत् ॥
मया कॉतं च यत्कर्म तेन सर्वे महासुराः ॥
स्वर्गे वसंतु सुचिरं नात्र कार्या विचारणा
॥१४८॥प्रहस्यो वाच भगवान्भार्गवाणां महातपाः ॥
बलिनं बालिशं मत्वा शुक्रो बुद्धिमतां वरः
॥१४९॥यत्त्वयोक्तं च वचनं बले मम न रोचते ॥
इहैव त्वं समा गत्य वस्तुं चेच्छसि सुव्रत
॥१५०॥अश्वमेधशतेनैव यज त्वं जातवेदसम् ॥
कर्म्मभूमिं गतो भूत्वा मा विलंबितुमर्हसि
॥१५१॥तथेति मत्वा स बलिर्महात्मा हित्वा तदानीं त्रिदिवं मनस्वी ॥
दैत्यैः समेतो गुरुणा च संगतो ययौ भुवं सोनुचरैः समेतः
॥१५२॥तन्नर्मदाया गुरुकुल्यसंज्ञकं तीरे महातीर्थमुदारशोभम् ॥
गत्वा तदा दैत्यपतिर्महात्मा जित्वा समग्रं वसुधावलं च
॥१५३॥ततोऽश्वमेधैर्बहुभिर्विचक्षणो गुरुप्रयुक्तः स महायशाबलिः ॥
ईजे च दीक्षां परमामुपेतो वैरोचनिं सत्यवतां वरिष्ठः
॥१५४॥कृत्वा ब्राह्मणमाचार्यमृत्विजः षोडशाऽभवन् ॥
सुपरीक्षितेन तेनैव भार्गवेण महात्मना
॥१५५॥यज्ञानामूनमेकेन शतं दीक्षापरेण हि ॥
बलिना चाश्वमेधानां पूर्णं कर्तुं समादधे
॥१५६॥यावद्यज्ञशतं पूर्णं तस्य राज्ञो भविष्यति ॥
पुरा प्रोक्तं मया चात्र ह्यदित्या व्रतमुत्तमम्
॥१५७॥व्रतेन तेन संतुष्टो भगवान्हरिरीश्वरः ॥
बटुरूपेम महता पुत्रभूतो बभूव ह
॥१५८॥अदित्याः कश्यपेनैव उपनीतस्तदा प्रभुः ॥
उपनीतेऽथ संप्राप्तो ब्रह्मा लोकपितामहः
॥१५९॥दत्तं यज्ञोपवीतं च ब्रह्मणा परमेष्ठिना ॥
दंडकाष्ठं प्रदत्तं हि सोमेन च महात्मना
॥१६०॥मेखला च समानीता अजिनं च महाद्भुतम् ॥
तथा च पादुके चैव मह्या दत्ते महात्मनः
॥१६१॥तत्र भिक्षा समानीता भवान्या चार्थसिद्धये ॥
एवं भगवते दत्तं विष्णवे बटुरूपिणे
॥१६२॥अभिवंद्य श्रीशो वामनो ह्दितिं तथा ॥
कश्यपंच महातेजा यज्ञवाटं जगाम च ॥
याज्ञिकस्य बलेराह च्छलनार्थं स्वयं प्रभुः
॥१६३॥तदा महेशः स जगाम स्वर्गं प्रकंपयन्गां प्रपदा भरेण ॥
स वामनो बटुरूपी च साक्षाद्विष्णुः परात्मा सुरकार्यहेतोः
॥१६४॥गीर्भिर्यथार्थाभिरभिष्टुतो जनैर्मुनीश्वरैर्देवगणैर्महात्मा ॥
त्वरेण गच्छन्स च यज्ञवाटं प्राप्तस्तदानीं जगदेकबंधुः
॥१६५॥उद्गापयन्साम यतो हि साक्षाच्चकार देवो बटुरूपवेषः ॥
उद्गीयमानो भगवान्स ईश्वरो वेदांत वेद्यो हरिरीश्वरः प्रभुः
॥१६६॥ददर्श तं महायज्ञमश्वमेधं बलेस्तदा ॥
द्वारि स्थितो महातेजा वामनो बटुरूपधृक्
॥१६७॥ब्रह्मरूपेण महता व्याप्तमासीद्दिगंतरम् ॥
पवमानस्य च बटोर्वामनस्य महात्मनः
॥१६८॥तच्छ्रुत्वा च बलिः प्राह शंडामर्क्कौ च बुद्धिमान् ॥
ब्राह्मणाः कतिसंख्याश्च आगताः संति ईक्ष्यताम्
॥१६९॥तथेति मत्वा त्वरितावुत्थितौ तौ तदा द्विजाः ॥
शंडामर्कौ समागम्य मंडपद्वारि संस्थितौ
॥१७०॥ददृशाते महात्मानं श्रीहरिं बटुरूपिणम् ॥
त्वरितौ पुनरायातौ बलेः शंसयितुं तदा
॥१७१॥ब्रह्मचारी समायात एक एव न चापरः ॥
पठनादौ महाराज चागतस्तव सन्निधौ ॥
किमर्थं तन्न जानीमो जानीहि त्वं महामते
॥१७२॥एवमुक्ते तु वचने ताभ्यां स च महामनाः ॥
उत्थितस्तत्क्षणादेव दर्शनार्थे बटुं प्रति
॥१७३॥स ददर्श महातेजा विरोचनसुतो महान् ॥
दंडवत्पतितो भूमौ ननाम शिरसा बटुम्
॥१७४॥आनयित्वा बटुं सद्यः संनिवेश्यः निजासने ॥
अर्घ्यपाद्येन महताभ्यर्चयामास तं बटुम्
॥१७५॥विनम्रकंधरो भूत्वा उवाच श्लक्ष्णया गिरा ॥
कुतः कस्माच्च कस्यासि तच्छिघ्रं कथ्यतां प्रभो
॥१७६॥तच्छ्रुत्वा वचनं तस्य विरोचनसुतस्य वै ॥
मनसा हृषितश्चासौ वामनो वक्तुमारभत्
॥१७७॥भगवानुवाच
त्वं हि राजा त्रिलोकेशो नान्यो भवितुमर्हसि ॥
स्वकुलं न्यूनतां गच्छेद्यो वै कापुरुषः स्मृतः
॥१७८॥समं वा चाधिको वापि यो गच्छेत्पुरुषः स्मृतः ॥
त्वया कृतं च यत्कर्म्म न कृतं पूर्वजैस्तव
॥१७९॥दैत्यानां च वरिष्ठा ये हिरण्यकसिपादयः ॥
कृतं महत्तपो येन दिव्यं वर्षसहस्रकम्
॥१८०॥शरीरं भक्षितं यस्य जुषाणस्य तपो महत् ॥
पिपीलिकाभिर्बहुभिर्दंशैश्चैव समावृतम्
॥१८१॥अभवत्तस्य तज्ज्ञात्वा सुरेंद्रो ह्यगमत्पुरा ॥
नगरं तस्य च तदा सैन्येन महता वृतः
॥१८२॥तत्सन्निधौ हताः सर्वे असुरा दैत्यशत्रुणा ॥
विंध्या तु महिषी तस्य नीयमाना निवारिता
॥१८३॥नारदेन पुरा राजन्किंचित्कार्यं चिकीर्षुणा ॥
शंभोः प्रसादादखिलं मनसा यत्समीक्षितम् ॥
दैत्येंद्रेण च तत्सर्वं तपसैव वशीकृतम्
॥१८४॥तस्याः पुत्रो महातेजा येन नीतोऽभवत्सभाम् ॥
तस्य पुत्रो महाभाग पिता ते पितृवत्सलः ॥
नाम्ना विरोचनो विद्वानिंद्रो येन महात्मना
॥१८५॥दानेन तोषितो राजन्स्वेनैव शिरसा तदा ॥
तस्यात्मजोसि भो राजन्कृतं ते परमं यशः
॥१८६॥यशोदीपेन महता दग्धाः शलभवत्सुराः ॥
इंद्रोपि निर्जितो येन त्वया नास्त्यत्र संशयः
॥१८७॥श्रुतमस्ति मया सर्वं चरितं तव सुव्रत ॥
अल्पकोऽहमिहायातो ब्रह्मचर्यव्रते स्थितः
॥१८८॥उटजार्थे च मे देहि भूमीं भूमिभृतांवर ॥
बटोस्तस्यैव तद्वाक्यं श्रुत्वा बलिरभाषत
॥१८९॥हे बटो पंडितो भूत्वा यदुक्तं वचनं पुरा ॥
शिशुत्वात्तन्न जानासि श्रुत्वा मन्ये यथार्थतः
॥१९०॥वद शीघ्रं महाभाग कियन्मात्रां महीं तव ॥
दास्यामि त्वरितेनैव मनसा तद्विमृश्यताम्
॥१९१॥तदाह वामनो वाक्यं स्मयन्मधुरया गिरा ॥
असंतोषपरा ये च विप्रा नष्टा न संशयः
॥१९२॥संतुष्टा ये हि विप्रास्ते नान्ये वेषधरा ह्यमी ॥
स्वधर्मनिरता राजन्निर्दंभा निरवग्रहाः
॥१९३॥निर्मत्सरा जितकोधावदान्या हि महामते ॥
विप्रास्ते हि महाभाग तैरियं धार्यते मही
॥१९४॥मनस्वी त्वं बहुत्वाच्च दातासि भुवनत्रये ॥
तथापि मे प्रदातव्या मही त्रिपदसंमिता
॥१९५॥बहुत्वे नास्ति मे कार्यं मह्या वै सुरसूदन ॥
प्रवेशमात्रमुटजं तथा मम भविष्यति
॥१९६॥त्रिपदं पूर्यतेऽस्माकं वस्तुं नास्त्यत्र संशयः ॥
देहि मे क्रमतो राजन्यावद्भूमिभविष्यति ॥
तावत्संख्या प्रदातव्या यदि दातासि भो बले
॥१९७॥प्रहस्य तमुवाचेदं बलिर्वैरोचनात्मजः ॥
दास्यामि ते महीं कृत्सां सशैलवनकाननाम्
॥१९८॥मदीयां वै महाभाग मया दत्तां गृहाम वै ॥
याचकोऽसि बटो पश्य दानं दैत्याप्रयाचसे
॥१९९॥याचको ह्यल्पको वास्तु दाता सर्वं विमृश्य वै ॥
तथा विलोक्य चात्मानं ह्यर्थिभ्यश्च ददाति वै
॥२००॥आत्मौपम्येन सर्वत्र यो ददाति ह्युदारधीः ॥
तस्मान्न याचितव्यं हि अर्थिना मंदभागिना
॥२०१॥बटो ददाम्यहं तेऽद्य ससैलवनकाननाम् ॥
पृथ्वीं सपर्वतां साब्धिं नान्यथा मम भाषितम्
॥२०२॥पुनः प्रोवाच स बटुर्विरोचनसुतं प्रति ॥
पूर्यते मम दैत्येंद्र क्रमतो हि पदैस्त्रिभिः
॥२०३॥बटोस्तद्वचनं श्रुत्वा असुरेन्द्रो बलिस्तदा ॥
उवाच प्रहसन्वाक्यं मन्यमानो बलिर्भृशम् ॥
गृह्यतां च मया दत्तां पदैस्त्रिभिरलंकृताम्
॥२०४॥इत्युक्तो वामनः प्राह प्रहसन्नसुरं प्रति ॥
संकल्प्य सकलां पृथ्वीं दातुमर्हसि सुव्रत
॥२०५॥तथेति मत्वा बलिना सुपूजितः स वामनः कश्यपनंदनो महान् ॥
बलिस्तदानीं सहसा नितांतं संस्तूयमानस्त्वृषिभिर्मुनींद्रैः
॥२०६॥तं पूजयित्वा स बलिर्यावद्दातुं समुद्यतः ॥
गुरुणा वारित स्तावद्विरोचनसुतो महान्
॥२०७॥न दातव्यं त्वया दानं विष्णवे बटुरूपिणे ॥
इंद्रार्थमागतः सद्यो यज्ञविघ्नं करोति ते ॥
तस्मात्त्वया न पूज्यो हि विष्णुरध्यात्मदीपकः
॥२०८॥पुरा कृतमनेनैव मोहिनीरूपधारिणा ॥
देवेभ्यश्चामृतं दत्तं राहुर्येन हतो महान्
॥२०९॥येन विद्राविता दैत्याः कालनेमिर्हतो बली
॥२१०॥एवंविधोऽयं पुरुषो महात्मा स ईश्वरो विश्वपतिः स एव ॥
विमृश्य सर्वं मनसा महामते हिताहितं कर्तुमि हार्हसि त्वम्
॥२११॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे बलियज्ञे वामनगमनवर्णनं नामाष्टादशोऽध्यायः ॥ १८ ॥