नहुषशापययातिभूषण्यवृत्तान्तवर्णनम्
ऋषय ऊचुः
राज्यं प्राप्तो हि देवेंद्रः कथितस्ते गुरुं विना ॥
गुरोरवज्ञया जातो राज्यभ्रंशो हि तस्य तु
॥१॥केन प्रणोदितश्चेंद्रो बभूव चिरमासने ॥
तत्सर्वं कथयाशु त्वं परं कौतूहलं हि नः
॥२॥लोमश उवाच
गुरुणापि विना राज्यं कृतवान्स शचीपतिः ॥
विश्वरूपोक्तविधिना इंद्रो राज्ये स्थितो महान्
॥३॥विश्वकर्मसुतो विप्रा विश्वरूपो महानृपः ॥
पुरोहितोऽथ शक्रस्य याजकश्चाभवत्तदा
॥४॥तस्मिन्यज्ञेऽवदानैश्च यजने असुरान्सुरान् ॥
मनुष्यांश्चैव त्रिशिरा अपरोक्षं शचीपतेः
॥५॥देवान्ददाति साक्रोशं दैत्यांस्तूष्णीमथाददात् ॥
मनुष्यान्मध्यपातेन प्रत्यहं स ग्रहान्द्विजः
॥६॥एकदा तु महेंद्रेण सूचितो गुरुलाघवात् ॥
अलक्ष्यमाणेन तदा ज्ञातं तस्य चिकीर्षितम्
॥७॥दैत्यानां कार्यसिद्ध्यर्थमवदानं प्रयच्छति ॥
असौ पुरोहितोऽस्माकं परेषां च फलप्रदः
॥८॥इति मत्वा तदा शक्रो वज्रेण शतपर्वणा ॥
चिच्छेद तच्छिरांस्येव तत्क्षणादभवद्वधः
॥९॥येनाकरोत्सोमपानमजायंत कपिंजलाः ॥
ततोन्येन सुरापानात्कलविंका भवन्मुखात्
॥१०॥अन्याननादजायंत तित्तिरा विश्वरूपिणः ॥
एवं हतो विश्वरूपः शक्रेण मंदभागिना
॥११॥ब्रह्महत्या तदोद्भूता दुर्धर्षा च भयावहा ॥
दुर्धर्षा दुर्मुखा दुष्टा चण्डालरजसान्विता
॥१२॥ब्रह्महत्या सुरापानं स्तेयं गुर्वंगनागमः ॥
इत्येषामप्यघवतामिदमेव च निष्कृतिः
॥१३॥नामव्याहरणं विष्णोर्यतस्तद्विषया मतिः ॥
त्रिशिरा धूम्रहस्ता सा शक्रं ग्रस्तुमुपाययौ
॥१४॥ततो भयेन महता पलायनपरोऽभवत् ॥
पलायमानं तं दृष्ट्वा ह्यनुयाता भयावहा
॥१५॥यतो धावति साऽधावत्तिष्ठंतमनुतिष्ठति ॥
अंगकृता यथा छाया शक्रस्यपरिवेष्टितुम् ॥
आयाति तावत्सहसा इंद्रोऽप्यप्सु न्यमज्जत
॥१६॥शीघ्रत्वेन यथा विप्राश्चिरंतनजलेचरः
॥१७॥एवं दिव्यशतं पूर्णं वर्षाणां च शचीपतेः ॥
वसतस्तस्य दुःखेन तथा चैव शतद्वयम् ॥
अराजकं तदा जातं नाकपृष्ठे भयावहम्
॥१८॥तदा चिंतान्विता देवा ऋषयोऽपि तपस्विनः ॥
त्रैलोक्यं चाऽऽपदा ग्रस्तं बभूव च तदा द्विजाः
॥१९॥एकोऽपि ब्रह्महा यत्र राष्ट्रे वसति निर्भयः ॥
अकालमरणं तत्र साधूनामुपजायते
॥२०॥राजा पापयुतो यस्मिन्राष्ट्रे वसति तत्र वै ॥
दुर्भिक्षं चैव मरणं तथैवोपद्रवा द्विजाः
॥२१॥भवंति बहवोऽनर्थाः प्रजानां नाशहेतवे ॥
तस्माद्राज्ञा तु कर्तव्यो धर्म्मः श्रद्धापरेण हि
॥२२॥तथा प्रकृतयो राज्ञः शुचजित्वेन प्रतिष्ठिताः ॥
इन्द्रेण च कृतं पापं तेन पापेन वै द्विजाः ॥
नानाविधैर्महातापैः सोपद्रवमभूज्जगत्
॥२३॥शौनक उवाच
अश्वमेधशतेनैव प्राप्तं राज्यं महत्तरम् ॥
देवानामखिलं सूत कस्माद्विघ्रमजायत ॥
शक्रस्य च महाभाग यथावत्कथयस्व न
॥२४॥सूत उवाच
देवानां दानवानां च मनुष्याणां विशेषतः ॥
कर्म्मैव सुखदुःखानां हेतुभूतं न संशयः
॥२५॥इन्द्रेण च कृतं विप्रा महद्भूतं जुगुप्सितम् ॥
गुरोरवज्ञा च कृता विश्वरूपवधः कृतः
॥२६॥गौतमस्य गुरोः पत्नी सेविता तस्य तत्फलम् ॥
प्राप्तं महेंद्रेण चिरं यस्य नास्ति प्रतिक्रिया
॥२७॥ये हि दृष्कटतकर्म्माणो न कुर्वंति च निष्कृतिम् ॥
दुर्दशां प्रप्नुवन्त्येते यथैवेन्द्रः शतक्रतुः
॥२८॥दुष्कृतोपार्जितस्या तः प्रायाश्चित्तं हि तत्क्षणात् ॥
कर्तव्यं विधिवद्विप्राः सर्वपापोपशांतये
॥२९॥उपपातकमध्यस्तं महापातकतां व्रजेत्
॥३०॥ततः स्वधर्मनिष्ठां च ये कुर्वंति सदा नराः ॥
प्रातर्मध्याह्नसायाह्ने तेषां पापं विनश्यति
॥३१॥प्राप्नुवंत्युत्तमं लोकं नात्र कार्या विचारणा ॥
तस्मादसौ दुराचारः प्राप्ते वै कर्मणः फलम्
॥३२॥स प्रधार्य तदा सर्वे लोकपालास्त्वरान्विताः ॥
बृहस्पतिमुपागम्य सर्वमात्मनि धिष्ठितम् ॥
कथयामासुरव्यग्रा इंद्रस्य च गुरुं प्रति
॥३३॥देवैरुक्तं वचो विप्रा निशम्य च बृहस्पतिः ॥
अराजकं च संप्राप्तं चिंतयामास बुद्धिमान्
॥३४॥किं कार्यं चाद्य कर्तव्यं कथं श्रेयो भविष्यति ॥
देवानां चाद्य लोकानामृषीणां भावितात्मनाम्
॥३५॥मनसैव च तत्सर्वं कार्याकार्यं विचार्य च ॥
जगाम शक्रं त्वरितो देवैः सह महायशाः
॥३६॥प्राप्तो जलाशयं तं च यत्रास्ते हि पुरंदरः ॥
यस्य तीरे स्थिता हत्या चंडालीव भयावहा
॥३७॥तत्रोविष्टास्ते सर्वे देवा ऋषिगणान्विताः ॥
आह्वानं च कृतं तस्य शक्रस्य गुरुणा स्वयम्
॥३८॥समुत्थितस्ततः शक्रो ददर्श स्वगुरुं तदा ॥
बाष्पपूरितवक्त्रो हि बृहस्पतिमभाषत
॥३९॥प्रणिपत्य च तत्रत्यान्कृताञ्जलिरभाषत ॥
तदा दीनमुखो भूत्वा मनसा संविमृश्य च
॥४०॥स्वयमेव कृतं पूर्वमज्ञानलक्षणं महत् ॥
अधुनैव मया कार्यं किं कर्तव्यं वद प्रभो
॥४१॥प्रहस्योवाच भगवान्बृहस्पति रुदारधीः ॥
पुरा त्वया कृतं यच्च तस्येदं कर्मणः फलम्
॥४२॥मां च उद्दिश्य भो इंद्र तद्भोगादेव संक्षयः ॥
प्रायश्चितं हि हत्याया न दृष्टं स्मृतिकारिभिः
॥४३॥अज्ञानतो हि यज्जातं पापं तस्य प्रतिक्रिया ॥
कथिता धर्म्मशास्त्रज्ञैः सकामस्य न विद्यते
॥४४॥सकामेन कृतं पापमकामं नैव जायते ॥
ताभ्यां विषयभेदेन प्रायश्चित्तं विधीयते
॥४५॥मरणांतो विधिः कार्यो कामेन हि कृतेन हि ॥
अज्ञानजनिते पापे प्रायश्चित्तं विधीयते
॥४६॥तस्मात्त्वया कृतं यच्च स्वयमेव हतो द्विजः ॥
पुरोहितश्च विद्वांश्च तस्मान्नास्ति प्रतिक्रिया
॥४७॥यावन्मरणमप्येति तावदप्सु स्थिरो भव
॥४८॥शताश्वमेधसंज्ञं च यत्फलं तव दुर्मते ॥
तन्नष्टं तत्क्षणादेव घातितो हि द्विजो यदा
॥४९॥सच्छिद्रे च यथा तोयं न तिष्ठति घटेऽण्वपि ॥
तथैव सुकृतं पापे हीयते च प्रदक्षिणम्
॥५०॥तस्माच्च दैवसंयोगात्प्राप्तं स्वर्गादिकं च यैः ॥
यथोक्तं तद्भवेत्तेषां धर्मिष्ठानां न संशयः
॥५१॥एतच्छ्रुत्वा वचस्तस्य शक्रो वचनमब्रवीत् ॥
कुकर्मणा मदीयेन प्राप्तमेतन्न संशयः
॥५२॥अमरावती माशु त्वं गच्छ देवर्षिबिः सह ॥
लोकानां कार्यसिद्ध्यर्थे देवानां च बृहस्पते ॥
इंद्रं कुरु महाभाग यस्ते मनसि रोचते
॥५३॥यथा मृतस्तथा हं वै ब्रह्महत्यावृतो महान् ॥
रागद्वेषसमुत्थेन पापेनास्मि परिप्लुतः
॥५४॥तस्मात्त्वरान्विता यूयं देवराजानमाशुः वै ॥
कुर्वतु मदनुज्ञाताः सत्यं प्रतिवदामि वः
॥५५॥एवमुक्तास्तदा सर्वे बृहस्पतिपुरोगमाः ॥
एत्यामरावतीं तूर्णं पुरंदरविचेष्टितम् ॥
कथयामासुरव्यग्रा शचीं प्रति यथा तथा
॥५६॥राज्यस्य हेतोः किं कार्यं विमृशंतः परस्परम्
॥५७॥एवं विमृश्यमानानां देवानां तत्र नारदः ॥
यदृच्छयागतस्तत्र देवर्षिरमितद्युतिः
॥५८॥उवाच पूजितो देवान्कस्माद्यूयं विचेतसः ॥
तेनोक्ताः कथयामासुः सर्वं शक्रस्य चेष्टितम्
॥५९॥गतमिंद्रस्य चेंद्रत्वमेनसा परमेण तु ॥
ततः प्रोवाच तान्देवान्देवर्षिर्नारदो वचः
॥६०॥यूयं देवाश्च सर्वज्ञास्तपसा विक्रमेण च ॥
तस्मादिंद्रो हि कर्तव्यो नहुषः सोमवंशजः
॥६१॥सोऽस्मिन्राष्ट्रे प्रतिष्ठाप्यस्त्वरितेनैव निर्जराः ॥
एकोनमश्वमेधानां शतं तेन महात्मना ॥
कृतमस्ति महाभागा नहुषेण च यज्वना
॥६२॥शच्या श्रुतं च तद्वाक्यं नारदस्य मुखोद्गतम् ॥
गतांतःपुरमव्यग्रा बाष्पपूरितलोचना
॥६३॥नारदस्य वचः श्रुत्वा सर्वे देवान्वमोदयन्
॥६४॥नहुषं राज्यमारोढुमैकपद्येन ते यदा ॥
आनीतो हि तदा राजा नहुषो ह्यमरावतीम्
॥६५॥राज्यं दत्तं महेंद्रस्य सुरैः सर्वैर्महर्षिभिः ॥
तदागस्त्यादयः सर्वे नहुषं पर्युपासत
॥६६॥गंधर्वाप्सरसो यक्षा विद्याधरमहोरगाः ॥
यक्षाः सुपर्णाः पतगा ये चान्ये स्वर्गवासिनः
॥६७॥तदा महोत्सवो जातो देवपुर्यां निरंतरः ॥
शंखतूर्यमृदंगानि नेदुर्दुंदुभयः समम्
॥६८॥गायकाश्च जगुस्तत्र तथा वाद्यानि वादकाः ॥
नर्तका ननृतुस्तत्र तथा राज्यमहोत्सवे
॥६९॥अभिषिक्तस्तदा तत्र बृहस्पतिपुरोगमैः
॥७०॥अर्चितो देवसूक्तैश्च यथा वद्ग्रहपूजनम् ॥
कृतवांश्चैव ऋषिभिर्विद्वद्भिर्भावितात्मभिः
॥७१॥तथा च सर्वैः परिपूजितो महान्राजा सुराणां नहुषस्तदानीम् ॥
इंद्रासने चेंद् समानरूपः संस्तूयमानः परमेण वर्चसा
॥७२॥सुगंधदीपैश्च सुवाससा युतोऽलंकारभोगैः सुविराजितांगः ॥
बभौ तदानीं नहुषो मुनीद्रैः संस्तूयमानो हि तथाऽमरेंद्रैः
॥७३॥इति परमकलान्वितोऽसौ सुरमुनिवरगणैश्च पूज्यमानः ॥
नहुषनृपवरोऽभवत्तदानीं हृदि महता हृच्छयेनतप्तः
॥७४॥नहुष उवाच
इंद्राणी कथमद्यैव नायाति मम सन्निधौ ॥
तां चाह्वयत शीघ्रं भो मा विलंबितुमर्हथ
॥७५॥नहुपस्य वचः श्रुत्वा बृहस्पतिरुदारधीः ॥
शचीभवनमासाद्य उवाच च सविस्तरम्
॥७६॥शक्रस्य दुर्निमित्तेन ह्यनीतो नहुषोऽत्र वै ॥
राज्यार्ते भामिनि त्वं च अर्द्धासनगता भव
॥७७॥शची प्रहस्य चोवाच बृहस्पतिमकल्मषम् ॥
असौ न परिपूर्णो हि यज्ञैः शक्रासने स्थितः ॥
एकोनमश्वमेधानां शतं कृतमनेन वै
॥७८॥तस्मान्न योग्यो प्रहस्य चोवाच बृहस्पतिमकल्पणषम् ॥
असौ न परिपूर्णो हि यज्ञैः शक्रासने स्थितः ॥
अवाह्यवाहनेनैव अत्रागत्य लभेत माम्
॥७९॥तथेति गत्वा त्वरितो बृहस्पतिरुवाच तम् ॥
नहुषं कामसंतप्तं शच्योक्तं च यथातथम्
॥८०॥तथेति मत्वा राजासौ नहुषः काममोहितः ॥
विमृश्य परया बुद्ध्या अवाह्यं किं प्रशस्यते
॥८१॥स बुद्ध्या च चिरं स्मृत्वा ब्राह्मणाश्चतपस्विनः ॥
अवाह्याश्च भवंत्यस्मादात्मानं वाहयाम्यहम्
॥८२॥द्वाभ्यां च तस्याः प्राप्त्यर्थमिति मे हृदि वर्तते ॥
शिबिकां च ददौ ताभ्यां द्विजाभ्यां काममोहितः
॥८३॥उपविश्य तदा तस्यां शिवबिकायां समाहितः ॥
सर्पसर्पेति वचनान्नोदयामास तौ तदा
॥८४॥अगस्त्यः शिबिकावाही ततः क्रुद्धोऽशपन्नृपम् ॥
विप्राणामवमंता त्वमुन्मत्तोऽजगरो भव
॥८५॥शापोक्तिमात्रतो राजा पतितो ब्राह्मणस्य हि ॥
तत्रैवाजगरो भूत्वा विप्रशापो दुरत्ययः
॥८६॥यथा हि नहुषो जातस्तथा सर्वेऽपि तादृशाः ॥
विप्राणामवमानेन पतिन्ति निरयेऽशुचौ
॥८७॥तस्मासर्वप्रयत्नेन पदं प्राप्य विचक्षणैः ॥
अप्रमत्तैर्नरैर्भाव्यमिहामुत्र च लब्धये
॥८८॥तथैव नहुषः सर्प्पो जातोरण्ये महाभये ॥
एवं चैवाभवत्तत्र देवलोके ह्यराजकम्
॥८९॥तथैव ते सुराः सर्वे विस्मयाविष्टचेतसः ॥
अहो बत महत्कष्टं प्राप्तं राज्ञा ह्यनेन वै
॥९०॥न मर्त्य लोको न स्वर्गो जातो ह्यस्य दुरात्मनः ॥
सतामवज्ञया सद्यः सुकृतं दग्धमेव हि
॥९१॥याज्ञिको ह्यपरो लोके कथ्यतां च महामुने ॥
तदोवाच महातेजा नारदो मुनिसत्तमः
॥९२॥ययातिं च महाभागा आनयध्वं त्वरान्विताः ॥
देवदूतास्तु वै तूर्णं ययातिं द्रुतमानयन्
॥९३॥विमानमारुह्य तदा महात्मा ययौ दिवं देवदूतैः समेतः ॥
पुरस्कृतो देववरैस्तदानीं तथोरगैर्यक्षगंधर्वसिद्धैः
॥९४॥आयातः सोऽमरावत्यां त्रिदशैरभितोषितः ॥
इंद्रासने चोपविष्टो बभाषे च स सत्वरम्
॥९५॥नारदेनैवमुक्तस्तु त्वं राजा याज्ञिको ह्यसि ॥
सतामवज्ञया प्राप्तो नहुषो दंदशूकताम्
॥९६॥ये प्राप्नुवंति धर्मिष्ठा दैवेन परमं पदम् ॥
प्राक्तनेनैव मूढास्ते न पश्यंति शुभाशुभम्
॥९७॥पतंति नरके घोरे स्तब्धा वै नात्र संशयः
॥९८॥ययातिरुवाच
यैः कृतं पुण्यं तेषां विघ्नः प्रजायते ॥
अल्पकत्वेन देवर्षे विद्धि सर्वं परं मम
॥९९॥महादानानि दत्तानि अन्नदानयुतानि च ॥
गोदानानि बहून्येव भूमिदानयुतानि च
॥१००॥तथैव सर्वाण्यपि चोत्तमानि दानानि चोक्तानि मनीषिभिर्यदा ॥
एतानि सर्वाणि मया तदैव दत्तानि काले च महाविधानतः
॥१०१॥यज्ञैरिष्टं वाजपेयातिरात्रैर्ज्योतिष्टोमै राजसूयादिभिश्च ॥
शास्त्रप्रोक्तैरश्वमेधादिभिश्च यूपैरेषालंकृता भूः समंतात्
॥१०२॥देवदेवो जगन्नाथ इष्टो यज्ञैरनेकशः ॥
गालवाय पुरे दत्ता कन्या त्वेषा च माधवी
॥१०३॥पत्नीत्वेन चतुर्भ्यश्च दत्ताः कन्या मुने तदा ॥
गालवस्य गुरोरर्थे विश्वामित्रस्य धीमतः
॥१०४॥एवं भूतान्यनेकानि सुकृतानि मया पुरा ॥
महांति च बहून्येव तानि वक्तुं न पार्यते
॥१०५॥भूयः पृष्टः सर्वदेवैः स राजा कृतं सर्वं गुप्तमेव यथार्थम् ॥
विज्ञातुमिच्छाम यथार्थतोपि सर्वे वयं श्रोतुकामा ययाते
॥१०६॥वचो निशम्य देवानां ययातिरमितद्युतिः ॥
कथयामास तत्सर्वं पुण्यशेषं यथार्थतः
॥१०७॥कथितं सर्वमेतच्च निःशेषं व्यासवत्तदा ॥
स्वपुण्यकथनेनैव ययातिरपतद्भुवि
॥१०८॥तत्क्षणादेव सर्वेषां सुराणां तत्र पश्यताम् ॥
एवमेव तथा जातमराजकमतंद्रितम्
॥१०९॥अन्यो न दृश्यते लोके याज्ञिको यो हि तत्र वै ॥
शक्रासनेऽभिषे कार्यं श्रूयतां हि द्विजोत्तमाः
॥११०॥सर्वे सुराश्च ऋषयोऽथ महाफणींद्रा गन्धर्वयक्षखगचारणकिंनराश्च ॥
विद्याधराः सुरगणाप्सरसां गणाश्च चिंतापराः समभवन्मनुजास्तथैव
॥१११॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखण्डे शिवशास्त्रे देवेन्द्रस्वाराज्याभिषेकवृत्तान्ते देवेन्द्रस्य ब्रह्महत्ययोपद्रुतौ नहुषशापययातिभूषण्यवृत्तान्तवर्णनंनाम पंचदशोऽध्यायः ॥ १५ ॥