मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — केदारखण्डः, अध्याय १०

3
माहेश्वरखण्डः · केदारखण्डः · 10

शिवकृतविषभक्षणवृत्तान्तवर्णनम्

मुनय ऊचुः

यत्त्वया कथितं ब्रह्मन्ब्रह्मांडं सचराचरम् ॥

भस्मीभूतं रुद्रकोपात्कालकूटाग्निनाऽथ़खिलम्

॥१॥

ब्रह्मांडांतरतः किं तु रुद्रं मन्यामहे वयम् ॥

तदा चराचरं नष्टं ब्रह्मविष्णुपुरोगमम्

॥२॥

भस्मीभूतं रुद्रकोपात्कथं सृष्टिः प्रवर्तिता ॥

कुतो ब्रह्मा च विष्णुश्च कुतश्चंद्रपुरोगमाः

॥३॥

अन्ये सुरा सुराः कुत्र भस्मीभूता लयं गताः ॥

अत ऊर्ध्वं किमभवत्तत्सर्वं वक्तुमर्हसि

॥४॥

व्यासप्रसादात्सकलं वेत्थ त्वं नापरो हि तत् ॥

तस्माज्ज्ञानमयं शास्त्रं तज्जानासि न चापरः

॥५॥

इति पृष्टस्तदा सर्वैर्मुनिभिर्भावितात्मभिः ॥

सूतो व्यासं नमस्कृत्य वाक्यं चेदमथाब्रवीत्

॥६॥

लोमश उवाच

यदा ब्रह्मांडमध्यस्था व्याप्ता देवा विषाग्निना ॥

हरिब्रह्मादयो ह्येते लोकपालाः सवासवाः ॥

तदा विज्ञापितः शंभुर्हेरंबेन महात्मना

॥७॥

हेरंब उवाच

हे रुद्र हे महादेव हे स्थाणो ह जगत्पते ॥

मया विघ्नं विनोदेन कृतं तेषां सुदुर्जयम्

॥८॥

भयेन मति मोहात्त्वां नार्च्चयंति च मामपि ॥

उद्योगं ये प्रकुर्वन्ति तेषां क्लेशोऽधिको भवेत्

॥९॥

एवमभ्यर्थितस्तेन पिनाकी वृषभध्वजः ॥

विघ्नांधकारसूर्येण गणाधिपतिना तदा

॥१०॥

लिंगरूपोऽब्रवीच्छंभुर्निराकारो निरामयः ॥

निरंजनो व्योमकेशः कपर्द्दी नीललोहितः

॥११॥

महेश्वर उवाच

हेरंब श्रृणु मे वाक्यं श्रद्धया परया युतः ॥

अहंकारात्मकं चैव जगदेतच्चराचरम्

॥१२॥

स्थितिं करोत्यहंकारः प्रलयोत्पत्तिमेव च ॥

जगदादौगणपते तदा विज्ञप्तिमात्रतः

॥१३॥

मायाविरहितं शांतं द्वैताद्वैतपरं सदा ॥

ज्ञप्तिमात्रस्वरूपं तत्सदानंदैकलक्षणम्

॥१४॥

गणपतिरुवाच

यदि त्वं केवलो ह्यात्मा परमानन्दलक्षणः ॥

तस्मात्त्वदपरं किंचिन्नान्यदस्ति परंतप

॥१५॥

नानारूपं कथं जातं सुरासुरविलक्षणम् ॥

विचित्रं मोहजननं त्रिभिर्द्देवैश्च लक्षितम्

॥१६॥

भूतग्रामैश्चतुर्भिश्च नानाभेदैः समन्वितैः ॥

जातं संसारचक्रं च नित्यानित्यविलक्षणम्

॥१७॥

परस्परविरोधेन ज्ञानवादेन मोहिताः ॥

कर्मवादरताः केचित्केचित्स्वगुणमाश्रिताः

॥१८॥

ज्ञाननिष्ठाश्च ये केचित्परस्परविरोधिनः ॥

एवं संशयमापन्नं त्राहि मां वृषभध्वज

॥१९॥

अहं गणश्च कुत्रत्याः क्व चायं वृषभः प्रभो ॥

एते चान्ये च बहवः कुतो जाताश्च कुत्र वै

॥२०॥

कृताः सर्वे महाभागाः सात्त्विका राजसाश्च वै ॥

प्रहस्य भगवाञ्छंभुर्गणेशं वक्तुमुद्यतः

॥२१॥

महेश्वर उवाच

कालशक्त्या च जातानि रजःसत्त्वतमांसि च ॥

तैरावृतं जगत्सर्वं सदेवासुमानुषम्

॥२२॥

परिदृश्यमानमेतच्चानश्वरं परमार्थतः ॥

विद्ध्येतत्सर्वसिद्ध्यैव कृतकत्वाच्च नश्वरम्

॥२३॥

लोमश उवाच

यावद्गणेशसंयुक्तो भाषमाणः सदाशिवः ॥

लिंगरूपी विश्वरूपः प्रादुर्भूता सदाशिवात्

॥२४॥

शिवरूपा जगद्योनिः कार्यकारणरूपिणी ॥

लिंगरूपी स भगवान्निमग्नस्तत्क्षणादभूत्

॥२५॥

एका स्थिता परा शक्तिर्ब्रह्मविद्यात्मलक्षणा ॥

गणेशो विस्मयाविष्टो ह्यवलोकनतत्परः

॥२६॥

ऋषय ऊचुः

प्रकृत्यन्तर्गतं सर्वं जगदेतच्चराचरम् ॥

गणेशस्य पृथक्त्वं च कथं जातं तदुच्यताम्

॥२७॥

लोमश उवाच

साक्षात्प्रकृत्याः संभूतो गणेशो भगवानभूत् ॥

यथारूपः शिवः साक्षात्तद्रूपो हि गणेश्वरः

॥२८॥

शिवेन सह संग्रामो ह्यभूत्तस्य महात्मनः ॥

अज्ञानात्प्रकृतो भूत्वा बहुकालं निरन्तरम्

॥२९॥

तस्य दृष्ट्वा ह्यजेयत्वं गजारूढस्य तत्तदा ॥

त्रिशूलेनाहनच्छंभुः सगजं तमपातयत्

॥३०॥

तदा स्तुतो महादेवः परशक्त्या परंतपः ॥

परशक्तिमुवाचेदं वरं वरय शोभने

॥३१॥

तदा वृतो महादेवो वरेण परमेण हि ॥

योऽयं त्वया हतो देव मम पुत्रो न संशयः

॥३२॥

त्वां न जानात्ययं मूढः प्रकृत्यंशसमुद्भवः ॥

तस्मात्पुत्रं जीवयेमं मम तृष्ट्यर्थमेव च

॥३३॥

प्रहस्य भगवान्रुद्रो मायापुत्रमजीवयत् ॥

सिंधुरवदनेनैव मुखे स समयोजयत्

॥३४॥

तदा गजाननो जातः प्रसादाच्छंकरस्य च ॥

मायापुत्रोपि निर्मायो ज्ञानवान्संबभूव ह

॥३५॥

आत्मज्ञानामृतेनैव नित्यतृप्तो निरामयः ॥

समाधिसंस्थितो रौद्रः कालकालांतकोऽभवत्

॥३६॥

योगदंडार्थमुत्पाट्य स्वकीयं दशनं महत् ॥

करे गृह्य गणाध्यक्षः शब्धब्रह्मातिवर्त्तते ॥

ऋद्धिसिद्धिद्वयेनैव एकत्वेन विराजितः

॥३७॥

ये ते गणाश्च विघ्नाश्च ये चान्येऽभ्यधिका भुवि ॥

तेषामपि पतिर्जातः कृतोऽसौ शंभुना तदा

॥३८॥

तस्माद्वि लोकयामास प्रकृतिं विश्वरूपिणीम् ॥

पृथक्स्थित्वाग्रतो जानाल्लिंगं प्रकृतिमेव च ॥

ददर्श विमलं लिंगं प्रकृतिस्थं स्वभावतः

॥३९॥

आत्मानं च गणैः साद्धं तथैव च जगत्त्रयम् ॥

लीनं लिंगे समस्तं तद्धेरम्बो ज्ञानवानपि

॥४०॥

मुमोह च पुनः संज्ञां प्रतिलभ्य प्रयत्नतः ॥

ननाम शिरसा ताभ्यामीशाभ्यां स गणेश्वरः

॥४१॥

तदा ददर्श तत्रैव लोकसंहारकारकम् ॥

ब्रह्माणं चैव रुद्रं च विष्णुं चैव सदाशिवम्

॥४२॥

ददर्श प्रेततुल्यानि लिंगशक्त्यात्मकानि च ॥

ब्रह्माण्डगोलकान्येव कोटिशः परमाणुवत्

॥४३॥

लीयंते च विलीयंते महेशे लिंगरूपिणि ॥

प्रकृत्यंतर्गतं लिंगं लिंगस्यांतर्गता च सा

॥४४॥

शक्त्या लिंगं च संछन्नं तदा सर्वमदृश्यत ॥

लिंगेन शक्तिः संछन्ना परस्परमवर्तत

॥४५॥

शिवाभ्यां संश्रितं लोकं जगदेतच्चराचरम् ॥

गणेशो वापि तज्ज्ञानं न परेऽपि तथाविदन्

॥४६॥

तदोवाच महातेजा गणाध्यक्षो गणैः सह ॥

सशक्तिकं स्तूयमानः शक्त्या च परया तदा

॥४७॥

गणेश उवाच

नमामि देवं शक्त्यान्वितं ज्ञानरूपं प्रसन्नं ज्ञानात्परं परमंज्योतिरूपम् ॥

रूपात्परं परमं तत्त्वरूपं तत्त्वात्परं परमं मंगलं च आनंदाख्यं निष्कलं निर्विषादम्

॥४८॥

धूमात्परमयोवह्निर्धूमवत्प्रतिभासते ॥

प्रकृत्यंतर्गस्त्वं हि लक्ष्यसे ज्ञानिसंभवः ॥

प्रकृत्यंतर्गतस्त्वं हि मायाव्यक्तिरितीयसे

॥४९॥

एवंविधस्त्वं भगवन्स्वमायया सृजस्यथोलुंपसि पासि विश्वम् ॥

अस्माद्गरात्सर्वमिदं प्रनष्टं सब्रह्मविप्रेंद्रयुतं चराचरम्

॥५०॥

यथा पुरासीर्भगवान्महेशस्त्रैलोक्यनाथोऽसि चराचरात्मा ॥

कुरुष्य शीघ्रं सहजीवकोशं चराचरं तत्सकलं प्रदग्धम्

॥५१॥

लोमश उवाच

एवं स्तुतो गणेशेन भगवान्भूतभावनः ॥

यदुत्थितं कालकूटं लोकसंहारकारकम्

॥५२॥

लिंगरूपेण तद्ग्रस्तं विमलं चाकरोत्तदा ॥

सदेवासुरमर्त्याश्च सर्वाणि त्रिजगन्ति च ॥

तत्क्षणाद्रक्षितान्येव कृपया परया युतः

॥५३॥

ब्रह्मा विष्णुः सुरेंद्रश्च लोकपालाः सहर्षयः ॥

यक्षा विद्याधराः सिद्धा गंधर्वाप्सरसां गणाः ॥

उत्थिताश्चैव ते सर्वे निद्रापरिगता इव

॥५४॥

विस्मयेन समाविष्टा बभूवुर्जातसाध्वसाः ॥

सर्वे देवासुराश्चैव ऊचुराश्चर्यवत्ततः

॥५५॥

क्व कालकूटं सुमहद्येन विद्राविता वयम् ॥

मृतप्रायाः कृताः सद्यः सलोकपालका ह्यमी

॥५६॥

इत्यब्रुवंस्तदा दैत्यास्तूष्णींभूतास्तदा स्थिताः ॥

शक्रादयो लोकपाला विष्णुं सर्वेश्वरेश्वरम् ॥

ब्रह्माणं च पुरस्कृत्य इदमूचुः समेधिता

॥५७॥

केनेदं कारितं विष्णो न विदामोऽल्पमेधसः ॥

तदा प्रहस्य भगवान्ब्रह्मणा सह तैः सुरैः

॥५८॥

समाधिमगमन्सर्वेऽप्येकाग्रमनसस्तदा ॥

तत्त्वज्ञानेन निर्हृत्य कामक्रोदादिकान्द्विजाः

॥५९॥

तदात्मनि स्थितं लिंगमपश्यन्वि बुधादयः ॥

विष्णुं पुरस्कृत्य तदा तुष्टुवुः परमार्थतः

॥६०॥

आत्मना परमात्मानं योगिनः पर्युपासते

॥६१॥

लिंगमेव परं ज्ञानं लिंगमेव परं तपः ॥

लिंगमेव परो धर्मो लिंगमेव परा गतिः ॥

तस्माल्लिंगात्परतरं यच्च किंचिन्न विद्यते

॥६२॥

एवं ब्रुवंतो हि तदा सुरासुराः सलोकपाला ऋषिभिश्च साकम् ॥

विष्णुं पुरस्कृत्य तमालवर्णं शंभुं शरण्यं शरणं प्रपन्नाः

॥६३॥

त्राहित्राहि महादेव कृपालो परमेश्वर ॥

पुरा त्राता यथा सर्वे तथात्वं त्रातुमर्हसि

॥६४॥

तद्देवदेव भवतश्चरणारविंदं सेवानुबंधमहिमानमनंतरूपम् ॥

त्वदाश्रितं यत्परमानुकंपया नमोऽस्तु ते देववर प्रसीद

॥६५॥

लिंगस्वरूपमध्यस्थो भगवान्भूतभावनः ॥

सर्वैः सुरगणैः साकं बभाषेदं रमापतिः

॥६६॥

त्वं लिंगरूपी भगवाञ्जगतामभयप्रदः ॥

विष्णुना संस्तुतो देवो लिंगरूपी महेश्वरः

॥६७॥

मृतास्त्राता गरात्सर्वे तस्मान्मृत्युंजय प्रभो ॥

रक्षरक्ष महाकाल त्रिपुरांत नमोस्तु ते

॥६८॥

विष्णुना संस्तुतो देवो लिंगरूपी महेश्वरः ॥

प्रादुर्बभूव सांबोऽथ बोधयन्निव तान्सुरान्

॥६९॥

हे विष्णो हे सुराः सर्व ऋषयः श्रूयतामिदम् ॥

मन्यतेऽपि हि संसारे अनित्ये नित्यताकुलम्

॥७०॥

अविलोकयताऽऽत्मात्मना विबुधादयः ॥

किं यज्ञैः किं तपोभिश्च किमुद्योगेन कर्मणाम्

॥७१॥

एकत्वेन पृथक्त्वेन किंचिन्नैव प्रयोजनम् ॥

यस्माद्भवद्भिर्मिलितैः कृतं यत्कर्म दुष्करम्

॥७२॥

क्षीराब्धेर्मथनं तत्तु अमृतार्थं कथं कृतम् ॥

मृत्युं जयं निराकृत्य अवज्ञाय च मां सदा

॥७३॥

तस्मात्सर्वे मृत्युमुखं पतिता वै न संशयः ॥

अस्माभिर्निर्मितो देवो गणेशः कार्यसिद्धये

॥७४॥

न नमंति गणेशं च दुर्गां चैव तथाविधाम् ॥

क्लेशभाजो भविष्यति नात्र कार्या विचारणा

॥७५॥

यूयं सर्वे त्वधर्मिष्ठाः स्तब्धाः पंडितमानिनः ॥

कार्याकार्यमविज्ञाय केवलं मानमोहिताः

॥७६॥

तस्मात्कालमुखे सर्वे पतिता नात्र संशयः ॥

सर्वे श्रुतिपरा यूयमिंद्राद्या देवतागणाः

॥७७॥

प्ररोचनपराः सर्वे क्षुद्राश्चेंद्रादयो वृथा ॥

नात्मानं च प्रपंचेन वेत्सि त्वं हि शचीपते

॥७८॥

कृतः प्रयत्नो हि महानमृतार्थं त्वया शठ ॥

अश्वमेधशतेनैव यद्राज्यं प्राप्तवानसि ॥

अपि तच्च पराधीन तन्न जानासि दुर्मते

॥७९॥

यैर्वदवाक्यैस्त्वं मूढ संस्तुतोऽसि तपस्विभिः ॥

ते मूढास्तो षयंति त्वां तत्तद्रागपरायणाः

॥८०॥

विष्णो त्वं च पक्षपातान्न जानासि हिताहितम् ॥

केचिदधतास्त्वया विष्णो रक्षिताश्चैव केचन

॥८१॥

इच्छायुक्तस्त्वमत्रैव सदा बालकचेष्टितः ॥

येऽन्ये च लोकपाः सर्वे तेषां वार्ता कुतस्त्विह

॥८२॥

अन्यथा हि कृते ह्यर्थे अन्यथात्वं भविष्यति ॥

कार्यसिद्धिर्भवेद्येन भवद्भिर्विस्मृतं च तत्

॥८३॥

येनाद्य रक्षिताः सर्वे कालकूटमहाभयात् ॥

येन नीलीकृतो विष्णुर्येन सर्वे पराजिताः

॥८४॥

लोका भस्मीकृता येन तस्माद्येनापि रक्षिताः ॥

तस्यार्च्चनाविधिः कार्यो गणेशस्य महात्मनः

॥८५॥

कर्मारंभे तु विघ्नेशं ये नार्चंति गणाधिपम् ॥

कार्यसिद्धिर्न तेषां वै भवेत्तु भवतां यथा

॥८६॥

एतन्महेशस्य वचो निशम्य सुरासुराः किंनरचारणाश्च ॥

पूजाविधानं परमार्थतोऽपि पप्रच्छुरेनं च तदा गिरीशम्

॥८७॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखण्डे समुद्रमंथनाख्याने शिवकृतविषभक्षणवृत्तान्तवर्णनंनाम दशमोऽध्यायः ॥ १० ॥