संग्रामोद्योगवर्णनम्
लोमश उवाच
ततः सर्वे सुरगणा दृष्ट्वा तं विलयं गतम् ॥
चिंतयंतः सुरगणाः कथं च विदधामहे
॥१॥सुरभिं चाह्वयित्वाथ तदोवाच शचीपतिः ॥
कलेवरं दधीचस्य लिह्यास्त्वं वचनान्मम
॥२॥तथेति च वचोमत्वा तत्क्षणादेव लिह्य तत् ॥
निर्मांसं च कृतं सद्यस्तया धेन्वा कलेवरम्
॥३॥जगृहुस्तानि चास्थीनि चक्रुः शस्त्राणि वै सुराः ॥
तस्य वंशोद्भवं वज्रं शिरो ब्रह्मशिरस्तथा
॥४॥अन्यानि चास्थीनि बहूनि तस्य ऋषेस्तदानीं जगृहुः सुराश्च ॥
तथा शिराजालमयांश्च पाशांश्चक्रुः सुरा वैरयुताश्च दैत्यान्
॥५॥शस्त्राणि कृत्वा ते सर्वे महाबलपराक्रमाः ॥
ययुर्देवातस्त्वरायुक्ता वृत्रघातनतत्पराः
॥६॥ततः सुवर्च्चाश्च दधीचिपत्नी या प्रेषिता सा सुरकार्यसिद्धये ॥
व्यलोकयत्तत्र समेत्य सर्वं मृतं पतिं देहमथो ददर्शतम्
॥७॥ज्ञात्वा च तत्सर्वमिदं सुराणां कृत्यं तदानीं च चुकोप साध्वी ॥
ददौ सती शापमतीव रुष्टा तदा सुवर्चा ऋषिवर्यपत्नी
॥८॥अहो सुरा दुष्टतराश्च सर्वे सर्वे ह्यशक्ताश्च तथैव लुब्धाः ॥
तस्माच्च सर्वेऽप्रजसो भवंतु दिवौकसोऽद्यप्रभृतित्युवाच सा
॥९॥एव शापं ददौ तेषां सुराणां सा तपस्विनी ॥
प्रवीश्याश्वत्थमूले सा स्वोदरं दारयत्तदा
॥१०॥निर्गतो जठराद्गर्भो दधीचस्य महात्मनः ॥
साक्षाद्रुद्रावतारोऽसौ पिप्लादो महाप्रभः
॥११॥प्रहस्य जननी गर्भमुवाच रुषितेक्षणा ॥
सुवर्चा तं पिप्पलादं चिरं तिष्ठास्य सन्निधौ
॥१२॥अश्वत्थस्य महाभाग सर्वेषां सफलो भवेः ॥
तथैव भाषमाणा सा सुवर्चा तनयं प्रति ॥
पतिमन्वगमत्साध्वी परमेण समाधिना
॥१३॥एवं दधीचपत्नी सा पतिना स्वर्गमाव्रजत्
॥१४॥ते देवाः कृतशस्त्रास्त्रा दैत्यान्प्रति समुत्सुकाः ॥
आजग्मुश्चेंद्रमुख्यास्ते महाबलपराक्रमाः
॥१५॥गुरुं पुरस्कृत्य तदाज्ञया ते गणाः सुराणां बहवस्तदानीम् ॥
भुवं समागत्य च मध्यदेशमूचुश्च सर्वे परमास्त्रयुक्ताः
॥१६॥समागतानुपसृत्य देवांश्चेंद्रपुरोगमान् ॥
ययौ वृत्रो महादैत्यो दैत्यवृन्दसमावृतः
॥१७॥यथा मेरोश्च शिखरं परिपूर्णं प्रदृश्यते ॥
तथा सोऽपि महातेजा विश्वकर्म्मसुतो महान्
॥१८॥तेन दृष्टो महेन्द्रश्च महेंद्रेण महासुरः ॥
देवानां दानवानां च दर्शनं च महाद्भुतम्
॥१९॥तदा ते बद्धवैराश्च देवदैत्याः परस्परम् ॥
अन्योन्यमभिसंरब्धा जगर्जुः परमाद्भुतम्
॥२०॥वादित्राणि च भीमानि वाद्यमानानि सर्वशः ॥
श्रूयंतेऽत्र गभीराणि सुरा सुरसमागमे
॥२१॥वाद्यमानेषु तूर्येषु ते सर्वे त्वरयान्विताः ॥
अनेकैः शस्त्रसंघातैर्जघ्नुरन्योन्यमोजसा
॥२२॥तदा देवासुरे युद्धे त्रैलोक्यं सचराचरम् ॥
भयेन महता युक्तं बभूव गतचेतनम्
॥२३॥छेदिताः स्फोटिताश्चैव केचिच्छस्त्रैर्द्विधा कृताः ॥
नाराचैश्च तथा केचिच्छस्त्रास्त्रैः शकलीकृताः
॥२४॥भल्लैश्चेरुर्हताः केचिद्व्यंगभूता दिवौकसः ॥
रश्मयो मेघसंभूताः प्रकाशंते नभस्स्विव
॥२५॥शिरांसि पतितान्येव बहूनिच नभस्तलात् ॥
नक्षत्राणीव च यथा महाप्रलयसंकुलम्
॥२६॥प्रवर्तितं मध्यदेशे सर्वबूतक्षयावहम् ॥
शक्रेण सह संग्रामं चकार नमुचिस्तदा
॥२७॥वज्रेण जघ्ने तरसा नमुचिं देवराट् स्वयम् ॥
न रोमैकं च त्रुचितं तमुचेरसुरस्य च
॥२८॥वज्रेणापि तदा सर्वे विस्मयं परमं गताः ॥
असुराश्च सुराश्चैव महेंद्रो व्रीडितस्तदा
॥२९॥गदया नमुचिं जघ्ने गदा सापि विचूर्णिता ॥
नमुचेरंगलग्नापि पपात वसुधातले
॥३०॥तथा शूलेन महता तं जघान पुरंदरः ॥
तच्छूलं शतधा चूर्णं नमुचेरंगमाश्रितम्
॥३१॥एवं तं वविधैः शस्त्रैराजघान सुरारिहा ॥
प्रहस्य मानो नमुचिर्न जघान पुरंदरम्
॥३२॥तूष्णींभूतस्तदा चेंद्रश्चिंतया परया युतः ॥
किं कार्यं किमकार्यं वा इतींद्रो नाविदत्तदा
॥३३॥एतस्मिन्नंतरे तत्र महायुद्धे महाभये ॥
जाता नभोगता वाणी इंद्रसुद्दिश्य सत्वरम्
॥३४॥जह्येनमद्याशु महेंद्र दैत्यं दिवौकसां घोरतरं भयावहम् ॥
फेनेन चैवाशु महासुरेन्द्रमपां समीपेन दुरासदेन
॥३५॥अन्येन शस्त्रेण च आहतोऽसौ वध्यः कदाचिन्न भवत्ययं तु ॥
तस्माच्च देवेश वधार्थमस्य कुरु प्रयत्नं नमुचेर्दुरात्मनः
॥३६॥निशम्य वाचं परमार्थयुक्तां दैवीं सदानंदकरीं शुभावहाम् ॥
चक्रे परं यत्नवतां वरिष्ठो गत्वोदधेः पारमनंतवीर्यः
॥३७॥तत्रागतं समीक्ष्याथ नमुचिः क्रोधमूर्छितः ॥
हत्वा शूलेन देवेंद्रं प्रहसन्निदमब्रवीत्
॥३८॥समुद्रस्य तटः कस्मात्सेवितः सुरसत्तम ॥
विहाय रणभूमिं च त्यक्तशस्त्रोऽभवद्भवान्
॥३९॥त्वदीयेनैव वज्रेण किं कृतं मम दुर्मते
॥४०॥तथान्यानि च शस्त्राणि अस्त्राणि सुबहूनि च ॥
गृहीतानि पुरा मंद हंतुं मामेव चाधुना
॥४१॥किं करिष्यसि मां हंतुं युद्धाय समुपस्थितः ॥
केन शस्त्रेण रे मंद योद्धुमिच्छसि संयुगे
॥४२॥त्वां गातयामि चाद्यैव यदि तिष्ठसि संयुगे ॥
नो चेद्गच्छ मया मुक्तश्चिरं जीव सुखी भव
॥४३॥एवं स गर्वितं तस्य वाक्यमाहवशोभिनः ॥
श्रुत्वा महेंद्रोऽपि रुषा जगृहे फेनमद्भुतम्
॥४४॥फेनं करस्थं दृष्ट्वा तु असुरा जहसुस्तदा
॥४५॥क्षयं गतानि चास्त्राणि पेनेनैव पुरंदरः ॥
हंतुमिच्छति मामद्य शतक्रतुरुदारधीः
॥४६॥एवं प्रहस्य नमुचिरज्ञाय पुरंदरम् ॥
सावज्ञं पुरतस्तस्थौ नमुचिर्दैत्यपुंगवः
॥४७॥तदैव तं स फेनेन शीघ्रमिंद्रो जघान ह
॥४८॥हते तु नमुचौ देवाः सर्वे चैव मुदान्विताः ॥
साधुसाध्विति शब्देन ऋषयश्चाभ्यपूजयन्
॥४९॥तदा सर्वे जयं प्राप्ता हत्वा नमुचिमाहवे ॥
दैत्यास्ते कोपसंरब्धा योद्धुकामा मुदान्विताः
॥५०॥पुनः प्रववृते युद्धं देवानां दानवैः सह ॥
शस्त्रास्त्रैर्बहुधा मुक्तैः परस्परवधैषिबिः
॥५१॥यदा ते ह्यसुरा देवैः पातिताश्च पुनःपुनः ॥
तदा वृत्रो महातेजाः शतक्रतुमुपाव्रजत्
॥५२॥वृत्रं दृष्ट्वा तदा सर्वे ससुरासुरमानवाः ॥
भयेन महताविष्टाः पतिता भुवि शेरते
॥५३॥एवं भीतेषु सर्वेषु सुरसिद्धेषु वै तदा ॥
इंद्रश्चैरावणारूढो वज्रपाणिः प्रतापवान्
॥५४॥छत्रेण ध्रियमाणेन चामरेण विराजितः ॥
तदा सर्वैः समेतो हि लोकपालैः प्रतापितः
॥५५॥वृत्रं विलोक्य ते सर्वे लोकपाला महेश्वराः ॥
भयभीताश्च ते सर्वे शिवं शरणमन्वयुः
॥५६॥मनसाचिंतयन्सर्वे शंकरं लोकशंकरम् ॥
लिंगं संपूज्य विधिवन्महेंद्रो जयकामुकः
॥५७॥गुरुणा विदितः सद्यो विश्वासेन परेण हि ॥
उवाच च तदा शक्रं बृहस्पतिरुदारधीः
॥५८॥बृहस्पतिरुवाच
कार्तिके शुक्लपक्षे तु मंदवारे त्रयोदशी ॥
समग्रा यदि लभ्येत सर्वप्राप्तयै न संशयः
॥५९॥तस्यां प्रदोषसमये लिंगरूपी सदाशिवः ॥
पूजनीयो हि देवेंद्र सर्वकामार्थसिद्धये
॥६०॥स्नात्वा मध्याह्नसमये तिलामलकसंयुतम् ॥
शिवस्य कुर्याद्गंधपुष्पफलादिभिः
॥६१॥पश्चात्प्रदोषवेलायां स्थावरं लिंगमर्च्चयेत् ॥
स्वयंभु स्थापितं चापि पौरुषेयमपौरुषम्
॥६२॥जने वा विजने वापि अरण्ये वा तपोवने ॥
तल्लिंगमर्च्चयेद्भक्त्या प्रदोषे तु विशेषतः
॥६३॥ग्रामद्बहिः स्थितं लिंगं ग्रामाच्छतगुणं फलम् ॥
ब्राह्मच्छतगुणं पुण्यमरण्ये लिंगमद्भुतम्
॥६४॥आरण्याच्छतगुणं पुण्यमर्चितं पार्वतं यथा ॥
पार्वताच्चैव लिंगाच्च फलं चायुतसंज्ञितम् ॥
तपोवनाश्रितं लिंगं पूजितं वा महाफलम्
॥६५॥तस्मादेतद्विभागेन शिवपूजनार्चनं बुधैः ॥
कर्त्वयं निपुणत्वेन तीर्थस्नानादिकं तथा
॥६६॥पंचपिंडान्समुद्धृत्य स्नानमात्रेण शोभनम् ॥
कूपे स्नानं प्रकुर्वीत उद्धृतेन विसेषतः
॥६७॥तडागे दश पिंडांश्च उद्धृत्य स्नानमाचरेत् ॥
नदीस्नानं विश्ष्टं च महानद्यां विशेषतः
॥६८॥सर्वेषामपि तीर्थानां गंगास्नानं विशिष्यते ॥
देवखाते च तत्तुल्यं प्रशस्तं स्नानमाचरेत्
॥६९॥प्रदीपानां सहस्रेण दीपनीयः सदाशिवः ॥
तथा दीपशतेनापि द्वात्रिंशद्दीपमालया
॥७०॥घृतेन दीपयेद्दीपाञ्छिवस्य परितुष्टये ॥
तथा फलैश्च दीपैश्च नैवेद्यैर्गंधधूपकैः
॥७१॥उपचारैः षोडशभिर्लिंगरूपी सदा शिवः ॥
पूज्यः प्रदोषवेलायां नृभिः सर्वार्थसिद्धये
॥७२॥प्रदक्षिणं प्रकुर्वीत शतमष्टोत्तरं तथा ॥
नमस्कारान्प्रकुर्वीत तावत्संख्यान्प्रयत्नतः
॥७३॥प्रदक्षिणनमस्कारैः पूजनीयः सदाशिवः ॥
नाम्नां शतेन रुद्रोऽसौ स्तवनीयो यताविधि
॥७४॥नमो रुद्राय भीमाय नीलकण्ठाय वेधसे ॥
कपर्द्धिने सुरेशाय व्योमकेशाय वै नमः
॥७५॥वृषध्वजाय सोमाय नीलकण्ठाय वै नमः ॥
दिगंबराय भर्गाय उमाकांतकपर्द्दिने
॥७६॥तपोमयाय व्याप्ताय शिपिविष्टाय वै नमः ॥
व्यालप्रियाय व्यालाय व्यालानां पतये नमः
॥७७॥महीधराय व्याघ्राय पशूनां पतये नमः ॥
त्रिपुरांतकसिंहाय शार्दूलोग्ररवाय च
॥७८॥मीनाय मीननाथाय सिद्धाय परमेष्ठिने ॥
कामांतकाय बुद्धाय बुद्धीनां पतये नमः
॥७९॥कपोताय विशिष्टाय शिष्टाय परमात्मने ॥
वेदाय वेदबीजाय देवगुह्याय वै नमः
॥८०॥दीर्घाय दीर्घदीर्घाय दीर्घार्घाय महाय च ॥
नमो जगत्प्रतिष्ठाय व्योमरूपाय वै नमः
॥८१॥गजासुरविनाशाय ह्यंधकासुरभेदिने ॥
नीललोहितशुक्लाय चण्डमुण्डप्रियाय च
॥८२॥भक्तिप्रियाय देवाय ज्ञानज्ञानाव्ययाय च ॥
महेशाय नमस्तुभ्यं महादेवहराय च
॥८३॥त्रिनेत्राय त्रिवेदाय वेदांगाय नमोनमः ॥
अर्थाय अर्थरूपाय परमार्थाय वै नमः
॥८४॥विश्वरूपाय विश्वाय विश्वनाताय वै नमः ॥
शंकराय च कालाय कालावयवरूपिणे
॥८५॥अरूपाय च सूक्ष्माय सूक्ष्मसूक्ष्माय वै नमः ॥
श्मशानवासिने तुभ्यं नमस्ते कृत्तिवाससे
॥८६॥शशांकशेखरायैव रुद्रविश्वाश्रयाय च ॥
दुर्गाय दुर्गसाराय दुर्गावयवसाक्षिणे
॥८७॥लिंगरूपाय लिंगाय लिंगानां पतये नमः ॥
प्रणवरूपाय प्रणवार्थाय वै नमः
॥८८॥नमोनमः कारणकारणाय ते मृत्युंजयायात्मभवस्वरूपिणे ॥
त्रियंबकायासितकंठ भर्ग गौरिपते सकलमंगलहेतवे नमः
॥८९॥बृहस्पतिरुवाच
नाम्नां शतं महेशस्य उच्चार्यं व्रतिना तदा ॥
प्रदक्षिणनमस्कारैरेतत्संख्यैः प्रयत्नतः ॥
कार्यं प्रदोषसमये तुष्ट्यर्थं संकरस्य च
॥९०॥एवं व्रतं समुद्दिष्टं तव शक्र महामते ॥
शीघ्रं कुरु महाभाग पश्चाद्युद्धं कुरु प्रभो
॥९१॥शंभोः प्रसादात्सर्वं ते भविष्यति जयादिकम्
॥९२॥वृत्रो ह्ययं महातेजा दैतेयस्तपसा पुरा ॥
शिवं प्रसादयामास पर्वते गंधमादने
॥९३॥नाम्ना चित्ररथो राजा वनं चित्ररथस्य तत् ॥
एतज्जानीहि भो इन्द्र शिवपुर्याः समीपतः
॥९४॥यस्मिन्वने महाभाग न संति च षडूर्मयः ॥
तस्माच्चैत्ररथं नाम वनं परममंगलम् ॥
तस्य राज्ञः शिवेनैव दत्तं यानं महाद्भुतम्
॥९५॥कामगं किंकिणीयुक्तं सिद्धचारणसेवितम् ॥
गंधर्वैरप्सरोयक्षैः किंनरैरुपशोभितम्
॥९६॥ततस्तेनैव यानेन पृथिवीं पर्यटन्पुरा ॥
तथा गिरीशमुख्यांश्च द्वीपांश्च विविधांस्तथा
॥९७॥एकदा पर्यटन्राजा नाम्ना चित्ररथो महान् ॥
कैलासमागतस्तत्र स ददर्श पराद्भुतम्
॥९८॥सभातलं महेशस्य गणैश्चैव विराजितम् ॥
अर्द्धागलग्नया देव्या शोभितं च महेश्वरम्
॥९९॥निरीक्ष्य देव्या सहितं सदाशिवं देव्यान्वितं वाक्यमिदं बभाषे
॥१००॥वयं च शंभो विषयान्विताश्च मंत्र्यादयः स्त्रीजिताश्चापि चान्ये ॥
न लोकमध्ये वयमेव चाज्ञाः स्त्रीसेवनं लज्जया नैव कुर्मः
॥१०१॥एतद्वाक्यं निशम्याथ महेशः प्रहसन्निव ॥
उवाच न्यायसंयुक्तं सर्वेषामपि श्रृण्वताम्
॥१०२॥भयं लोकापवादाच्च सर्वेषामपि नान्यथा ॥
ग्रासितं कालकूटं च सर्वेषामपि दुर्जरम्
॥१०३॥तथापि उपहासो मे कृतो राज्ञा हि दुर्जरः ॥
तं चित्ररथमाहूय गिरिजा वाक्यमब्रवीत्
॥१०४॥गीरिजोवाच
रे दुरात्मन्कथं त्वज्ञ शंकरश्चोपहासितः ॥
मया सहैव मंदात्मन्द्रक्ष्यसे कर्मणः फलम्
॥१०५॥साधूनां समचित्तानामुपहासं करोति यः ॥
देवो वाप्यथ वा मर्त्यः स विज्ञेयोऽधमाधमः
॥१०६॥एते मुनींद्राश्च महानुभावास्तथा ह्यमी ऋषयो वेदगर्भाः ॥
तथैव सर्वे सनकादयो ह्यमी अज्ञाश्च सर्वे शिवमर्चयंते?
॥१०७॥रे मूढ सर्वेषु जनेष्वभिज्ञस्त्वमेव एवाद्य न चापरे जनाः ॥
तस्मादभिज्ञं हि करोमि दैत्यं देवैर्द्विजैश्चापि बहिष्कृतं त्वाम्
॥१०८॥एवं शप्तस्तया देव्या भवान्या राजसत्तमः ॥
राजा चित्ररथः सद्यः पपात सहसा दिवः
॥१०९॥आसुरीं योनिमासाद्य वृत्रोनाम्नाऽभवत्तदा ॥
तपसा परमेणैव त्वष्ट्रा संयोजितः क्रमात्
॥११०॥तपसा तेन महता अजेयो वृत्र उच्यत ॥
तस्माच्छंभुं समभ्यर्च्य प्रदोषे विधिनाऽधुना
॥१११॥जहि वृत्रं महादैत्यं देवानां कार्यसिद्धये ॥
गुरोस्तद्वचनं श्रुत्वा उवाचाथ शतक्रतुः ॥
सोद्यापनविधिं ब्रूहि प्रदोषस्य च मेऽधुना
॥११२॥बृहस्पतिरुवाच
कार्तिके मासि संप्राप्ते मंदवारे त्रयोदशी ॥
संपूर्तिस्तु भवेत्तत्र संपूर्णव्रतसिद्धये
॥११३॥वृषभो राजतः कार्यः पृष्ठे तस्य सुपीठकम् ॥
तस्योपरिन्यसेद्देवमुमाकांतं त्रिलोचनम्
॥११४॥पंचवक्त्रं दशभुजमर्द्धांगे गिरिजां सतीम् ॥
एवं चोमामहेशं च सौवर्णं कारयेद्बुधः
॥११५॥सवृषं ताम्रपत्रे च वस्त्रेण परिगुंठिते ॥
स्थापयित्वोमया सार्द्धं नानाबोगसमन्वितम्
॥११६॥विधिना जागरं कुर्याद्रात्रौ श्रद्धासमन्वितः ॥
पंचामृतेन स्नपनं कार्यमादौ प्रयत्नतः
॥११७॥गोक्षीरस्नानं देवेश गोक्षीरेण मया कृतम् ॥
स्नपनं देवदेवेश गृहाण परमेश्वर
॥११८॥दध्ना चैव मया देव स्नपनं क्रियतेऽधुना ॥
गृहाम च मया दत्तं सुप्रसन्नो भवाद्य वै
॥११९॥सर्पिषा च मया देव स्नपनं क्रियतेऽधुना ॥
गृहाण श्रद्धया दत्तं तव प्रीत्यर्थमेव च
॥१२०॥इदं मधु मया दत्तं तव प्रीत्यर्थमेव च ॥
गृहाम त्वं हि देवेश मम शांतिप्रदो भव
॥१२१॥सितया देवदेवेश स्नपनं क्रियतेऽधुना ॥
गृहाण श्रद्धया दत्तां सुप्रसन्नो भव प्रभो
॥१२२॥एवं पंचामृतेनैव स्नपनीयो वृषध्वजः ॥
पश्चादर्घ्यं प्रदातव्यं ताम्रपात्रेण धीमता ॥
अनेनैव च मंत्रेण उमाकांतस्य तृष्टये
॥१२३॥अर्घ्योऽसि त्वमुमाकांत अर्घेणानेन वै प्रभो ॥
गृहाण त्वं मया दत्तं प्रसन्नो भव शंकर
॥१२४॥मया दत्तं च ते पाद्यं पुष्पगंधसमन्वितम् ॥
गृहाण देवदेवेश प्रसन्नो वरदो भव
॥१२५॥विष्टरं विष्टरेणैव मया दत्तं च वै प्रभो ॥
शांत्यरथं तव देवेश वरदो भव मे सदा
॥१२६॥आचमनीयं मया दत्तं तव विश्वेश्वर प्रभो ॥
गृहाण परमेशान तुष्टो भव ममाद्य वै
॥१२७॥ब्रह्मग्रन्थिसमायुक्तं ब्रह्मकर्मप्रवर्तकम् ॥
यज्ञोपवीतं सौवर्णं मया दत्तं तव प्रभो
॥१२८॥सुगंधं चंदनं देव मया दत्तं च वै प्रभो ॥
भक्त्या पर मया शंभो सुगंधं कुरु मां भव
॥१२९॥दीपं हि परमं शंभो घृतप्रज्वलितं मया ॥
दत्तं गृहाण देवेश मम ज्ञानप्रदो भव
॥१३०॥दीपं विशिष्टं परमं सर्वौषधिविजृंभितम् ॥
गृहाण परमेशान मम शांत्यर्थमेव च
॥१३१॥दीपावलिं मया दत्तां कृहाण परमेश्वर ॥
आरार्तिकप्रदानेन मम तेजः प्रदो भव
॥१३२॥फलदीपादिनैवेद्यतांबूलादिक्रमेण च ॥
पूजनीयो विधानज्ञैस्तस्यां रात्रौ प्रयत्नतः
॥१३३॥पश्चाज्जागरणं कार्यं गृहे वा देवतालये ॥
वितानमंडपं कृत्वा नानाश्चर्यसमन्वितम् ॥
गीतवादित्रनृत्येन अर्चनीयः सदाशिवः
॥१३४॥अनेनैव विधानेन प्रदोषोद्यापने विधिः ॥
कार्ये विधिमता शक्र सर्वकार्यार्थसिद्धये
॥१३५॥गुरुणा कथितं सर्वं तच्चकार शतक्रतुः ॥
तेनैव च सहायेन इंद्रो युद्धपरायणः
॥१३६॥वृत्रं प्रति सुरैः सार्द्धं युयुधे च शतक्रतुः ॥
तुमुलं युद्धमभवद्देवानां दानावैः सह
॥१३७॥तस्मिन्सुतुमुले गाढे देवदैत्यक्षयावहे ॥
द्वंद्वयुद्धं सुतुमुलमतिवेलं भयावहम्
॥१३८॥व्योमो यमेन युयुधे ह्यग्निना तीक्ष्णकोपनः ॥
वरुणेन महादंष्ट्रो वायुना च महाबलः
॥१३९॥द्वन्द्वयुद्ध रताः सर्वे अन्योन्यबलकांक्षिणः
॥१४०॥तथैव ते देववरा महाभुजाः संग्रामशूरा जयिनस्तदाऽभवन् ॥
पराजयं दैत्यवाराश्च सर्वे प्राप्तास्तदानीं परमं समंतात्
॥१४१॥दृष्ट्वा सुरैर्दैत्यवरान्पराजितान्पलायमानानथ कान्दिशीकान् ॥
तदैव वृत्रः परमेण मन्युना महाबलो वाक्य मिदं बभाषे
॥१४२॥वृत्र उवाच
हे दैत्याः परमार्ताश्च कस्माद्यूयं भयातुराः ॥
पलायनपराः सर्वे विसृज्य रणमद्भुतम्
॥१४३॥स्वंस्वं पराक्रमं वीरा युद्धाय कृतनिश्चयाः ॥
दर्शयध्वं सुरगणास्सूदयध्वं महाबलाः
॥१४४॥गदाभिः पट्टिशैः खड्गैः शक्तितोमरमुद्गरैः ॥
असिभिर्भि दिपालैश्च पाशतोमरमुष्टिभिः
॥१४५॥तदा देवाश्च युयुधुर्दधीचास्थिसमुद्भवैः ॥
शस्त्रैरस्त्रैश्च परमैरसुरान्समदारयन्
॥१४६॥पुनर्दैत्या हता देवैः प्राप्तास्तेपि पराजयम् ॥
पुनश्च तेन वृत्रेण नोद्यमानाः सुरान्प्रति
॥१४७॥यदा हि ते दैत्यवराः सुरेशैर्निहन्यमानाश्च विदुद्रुवुर्दिशः ॥
केचिद्दृष्ट्वा दानवास्ते तदानीं भीतित्रस्ताः क्लीबरूपाः क्रमेणा
॥१४८॥वृत्रेण कोपिना चैवं धिक्कृता दैत्यपुंगवाः ॥
हे पुलोमन्महाभाग वृषपर्वन्नमोस्तु ते
॥१४९॥हे धूम्राक्ष महाकाल महादैत्य वृकासुर ॥
स्थूलाक्ष हे महादैत्य स्थूलदंष्ट्र नमोस्तु ते
॥१५०॥स्वर्गद्वारं विहायैव क्षत्रियाणां मनस्विनाम् ॥
पलायध्वे किमर्थं वा संग्रामाङ्गणमुत्तमम्
॥१५१॥संगरे मरणं येषां ते यांति परमं पदम् ॥
यत्र तत्र च लिप्सेत संग्रामे मरणं बुधः
॥१५२॥त्यजन्ति संगरं ये वै ते यांति निरयं ध्रुवम्
॥१५३॥ये ब्राह्मणार्थे भृत्यार्थे स्वार्थे वै शस्त्रपाणयः ॥
संग्रामं ये प्रकुर्वंति महापातकिनो नराः
॥१५४॥शस्त्रघातहता ये वै मृता वा संगरे तथा ॥
ते यांति परमं स्थानं नात्र कार्या विचारणा
॥१५५॥शस्त्रैर्विच्छिन्नदेहा ये गवार्थे स्वामिकारणात् ॥
रणे मृताः क्षता ये वै ते यांति परमां गतिम्
॥१५६॥तस्माद्रणेऽपि ये शूराः पापिनो निहताः पुरः ॥
प्राप्नुवंति परं स्थानं दुर्लभं ज्ञानिनामपि
॥१५७॥अथवा तीर्थगमनं वेदाध्ययनमेव च ॥
देवतार्चनयज्ञादिश्रेयांसि विविधानि च
॥१५८॥ऐकपद्येन तान्येव कलां नार्हंति षोडशीम् ॥
संग्रामे पतितानां च सर्वशास्त्रेष्वयं विधिः
॥१५९॥तस्माद्युद्धावदानं च कर्तव्यमविशंकितैः ॥
भवद्भिर्नान्यथा कार्यं देववाक्यप्रमाणतः
॥१६०॥यूयं सर्वे शौरवृत्त्या समेताः कुलेन शीलेन महानुभावाः ॥
पदानि तान्येव पलायमाना गच्छंत्यशूरा रणमंडलाच्च
॥१६१॥त एव सर्वे खलु पापलोकान्गच्छंति नूनं वचनात्स्मृतेश्च
॥१६२॥ये पापिष्ठास्त्वधर्म्मस्था ब्रह्मघ्ना गुरुतल्पगाः ॥
नरकं यांति ते पापं तथैव रणविच्युताः
॥१६३॥तस्माद्भवद्भिर्योद्धव्यं स्वामिकार्यभरक्षमैः ॥
एवमुक्तास्तदा तेन वृत्रेणापि महात्मना
॥१६४॥चक्रुस्ते वचंनं तस्य असुराश्च सुरान्प्रति ॥
चक्रुः सुतुमुलं युद्धं सर्वलोकभयंकरम्
॥१६५॥तस्मिन्प्रवृत्ते तुमुले विगाढे वृत्रो महादैत्यपतिः स एकः ॥
उवाच रोषेण महाद्भुतेन शतक्रतुं देववरैः समेतम्
॥१६६॥वृत्र उवाच
श्रृणु वाक्यं मया चोक्तं धर्म्मार्थसहितं हितम् ॥
त्वं देवानां पतिर्भूत्वा न जानासि हिताहितम्
॥१६७॥किंबलार्थपरो भूत्वा विश्वरूपो हतस्त्वया ॥
प्राप्तमद्यैव भो इंद्र तस्येदं कर्म्मणः फलम्
॥१६८॥ये दीर्घदर्शिनो मंदा मूढा धर्मबहिष्कृताः ॥
अकल्पाः कार्यसिद्ध्यर्थं यत्कुर्वंति च निष्फलम् ॥
तत्सर्वं विद्धि देवेंद्र मनसा संप्रधार्यताम्
॥१६९॥तस्माद्धर्म्मपरो भूत्वा युध्यस्व गतकल्मषः ॥
भ्रातृहा त्वं ममैवेंद्र तस्मात्त्वा घातयाम्यहम्
॥१७०॥मा प्रयाहि स्थिरो भूत्वा देवैश्च परिवारितः ॥
एव मुक्तस्तु वृत्रेण शक्रोऽतीव रुषान्वितः ॥
ऐरावतं समारुह्य ययौ वृत्रजिघांसया
॥१७१॥इंद्रमायांतमालोक्य वृत्रो बलवतां वरः ॥
उवाच प्रहसन्वाक्यं सर्वेषां श्रृण्वतामपि
॥१७२॥आदौ मां प्रहरस्वेति तस्मात्त्वां घातयाम्यहम्
॥१७३॥इत्येवमुक्तो देवेंद्रो जघान गदया भृशम् ॥
वृत्रं बलवतां श्रेष्ठं जानुदेशे महाबलम्
॥१७४॥तामापतंतिं जग्राह करेणैकेन लीलया ॥
तयैवैनं जघानाशु गदया त्रिदिवेश्वरम्
॥१७५॥सा गदा पातयामास सवज्रं च पुरंदरम् ॥
पतितं शक्रमालोक्य वृत्र ऊचे सुरान्प्रति
॥१७६॥नयध्वं स्वामिनं देवाः स्वपुरीममरावतीम्
॥१७७॥एतच्छ्रुत्वा वचः सत्यं वृत्रस्य च महात्नः ॥
तथा चक्रुः सुराः सर्वे रणाच्चेंद्रं समुत्सुकाः
॥१७८॥अपोवाह्य गजस्थं हि परिवार्य भयातुराः ॥
सुराः सर्वे रणं हित्वा जग्मुस्ते त्रिदिवं प्रति
॥१७९॥ततो गतेषु देवेषु ननर्त च महासुरः ॥
वृत्रो जहास च परं तेना पूर्यत दिक्तटम्
॥१८०॥चचाल च मही सर्वा सशैलवनकानना ॥
चुक्षुभे च तदा सर्वं जंगमं स्थावरं तथा
॥१८१॥श्रुत्वा प्रयातं देवेंद्रं ब्रह्मा लोकपितामहः ॥
उपयातोऽथ देवेंद्र स्वकमण्डलुवारिणा ॥
अस्पृशल्लब्धसंज्ञोऽभूत्तत्क्षणाच्च पुरंदरः
॥१८२॥दृष्ट्वा पितामहं चाग्रे व्रीडायुक्तोऽभवत्तदा ॥
महेंद्रं त्रपया युक्तं ब्रह्मोवाच पितामहः
॥१८३॥ब्रह्मोवाच
वृत्रो हि तपसा युक्तो ब्रह्मचर्यव्रते स्थितः ॥
त्वष्टुश्च तपसा युक्तो वृत्रश्चायं महायशाः ॥
अजेयस्तपसोग्रेण तस्मात्त्वं तपसा जय
॥१८४॥वृत्रासुरो दैत्यपतिश्च शक्र ते समाधिना परमेणैव जय्यः ॥
निशम्य वाक्यं परमेष्ठिनो हरिः सस्मार देवं वृषभध्वजं तदा
॥१८५॥स्तुत्या तदातं स्तवमानो महात्मा पुरंदरो गुरुणा नोदितो हि
॥१८६॥इंद्र उवाच
नमो भर्गाय देवाय देवानामतिदुर्गम ॥
वरदो भव देवेश देवानां कार्यसिद्धये
॥१८७॥एवं स्तितिपरो भूत्वा शचीपतिरुदारधीः ॥
स्वकार्यदक्षो मंदात्मा प्रपंचाभिरतः खलु
॥१८८॥प्रपंचाभिरता मूढाः शिवभक्तिपरा ह्यपि ॥
न प्राप्नुवंति ते स्थानं परमीशस्यरागिणः
॥१८९॥निर्मला निरहंकारा ये जनाः पर्युपासते ॥
मृडं ज्ञानप्रदं चेशं परेशं शंभुमेव च
॥१९०॥तेषां परेषां वरद इहामुत्र च शंकरः ॥
महेंद्रेण स्तुतः शर्वो रागिणा परमेण हि
॥१९१॥रागिणां हि सदा शंभुर्दुर्लभो नात्र संशयः ॥
तस्माद्विरागिणां नित्यं सन्मुखो हि सदाशिवः
॥१९२॥राजा सुराणां हि महानुरागी स्वकर्मसंसिद्धिमहाप्रवीणः ॥
तस्मात्सदा क्लेशपरः शचीपतिः स्वकामभावात्मपरो हि नित्यम्
॥१९३॥स्तवमानं तदा चेंद्रमब्रवीत्कार्यगौरवात् ॥
विज्ञायाखिलदृग्द्रष्टा महेशो लिंगरूपवान्
॥१९४॥इंद्र गच्छ सुरैः सार्द्धं वृत्रं वै दानवं प्रति ॥
तपसैव च साध्योऽयं रणे जेतुं शतक्रतो
॥१९५॥इंद्र उवाच
केनोपायेन साध्योऽयं वृत्रो दैत्यवरो महान् ॥
त्चछीघ्रं कथ्यतां शंभो येन मे विजयो भवेत्
॥१९६॥रुद्र उवाच
रणे न शक्यते हंतुमपि देववरैरपि ॥
तस्मात्त्वया हि कर्तव्यं कुत्सितं कर्म चाद्य वै
॥१९७॥अस्य शापः पुरा दत्तः पार्वत्या मम सन्निधौ ॥
असौ चित्ररथो नाम्ना विख्यातो भुवनत्रये
॥१९८॥पर्यटन्सु विमानेन मया दत्तेन भास्वता ॥
उपहासादिमां योनिं संप्राप्तो दत्यपुंगवः
॥१९९॥तस्मादजेयं जानीहि रणे रणविदां वर ॥
एवमुक्तो महेंद्रोऽयं शंभुना योगिना भृशम्
॥२००॥तथेति मत्वा शक्रोऽसौ नियमं तमुपाददे
॥२०१॥रंध्रं प्रतीक्ष्य वृत्रस्य तत्समीपे सहस्रकम् ॥
वत्सराणां महाभागा वसन्हंतुं मनो दधे
॥२०२॥अंतर्वेद्यां बहिः स्थित्वा वज्रपाणिरनुज्ञया ॥
गुरोः पुरोधसश्चैव स्वकार्यमकरोद्भृशम्
॥२०३॥एकदा नर्म्मदायां वै वृत्रो दानवपुंगवः ॥
दैत्यैः परिवृतः सर्वैः समायातो यदृच्छया
॥२०४॥इंद्रः पराभवं प्राप्तो नीतो देवैर्द्दिवं प्रति ॥
अहमेव हतारिश्च नान्योस्ति सदृशो मम
॥२०५॥मन्यमानः सदा वृत्रः पौरुषेण समन्वितः ॥
प्रदोषसमये विप्रा नर्मदायामुपस्थितः
॥२०६॥दृष्टश्चेंद्रेण सुमहानसुरैः परिवारितः ॥
वृत्रो बलवतां श्रेष्ठः प्रदोषसमये तदा
॥२०७॥तस्मिन्प्रदेषे संयुक्ता मंदवारे त्रयोदशी ॥
नोदितो गुरुणा चेंद्रः करे गृह्य बृहस्पतिः
॥२०८॥प्रदक्षिणानमस्कारैर्यथोक्तविधिना तदा ॥
पूजितो लिंगरूपी च ओंकारो नर्मदातटे
॥२०९॥प्रदोषव्रतमाहात्म्याद्वज्रपाणिः प्रतापवान् ॥
संजातस्तत्क्षणादेव प्रसादाच्छंकरस्गयच
॥२१०॥वृत्रोपि तपसा युक्तः प्रदोषसमये महान् ॥
निद्रासक्तोऽभवत्तत्र शुंडेन प्रति बोधितः
॥२११॥स्वापात्प्रदोषवेलायां तपसा चार्जितं फलम् ॥
प्रनष्टं तत्क्षणादेव निःश्रीकत्वमुपागतः
॥२१२॥देव्याः शापाच्च संजातो वृत्रो भग्नमनोरथः
॥२१३॥संध्यापादो गतो यावद्धृत्र स्तीर्थमुपाविशत् ॥
परीतो विविधैर्द्दैत्यैत्यैर्नानायुधसमन्वितैः
॥२१४॥तस्य तत्कर्मणश्छिद्रं छिद्रान्वेषी शचीपतिः ॥
ज्ञात्वा गतः शनैर्हतुमात्मशत्रुं शतक्रतुः
॥२१५॥तावद्दैत्याः सुसंरब्धा भीमा भीमपराक्रमाः ॥
उत्तस्थुर्युगपत्सर्वे दुःसहाश्च शतक्रतुम्
॥२१६॥ततस्तैरभवद्युद्धमतिप्रबलदंडिभिः ॥
सर्वे देवाः सहायार्थं तदाऽऽजग्मुः शतक्रतोः
॥२१७॥तदा दैत्याश्च देवाश्च युयुधुस्ते तरस्विनः ॥
रात्रौ युद्धं समाभवत्सुरासुरविमर्दनम्
॥२१८॥अनेकशस्त्रसंवीतं महारौद्रमवर्तत ॥
एवं प्रवर्तमाने तु संग्रमे रौद्रदारुणे ॥
तदा वृत्रोऽथ सन्नद्धो गृहीत्वा शूलमुल्बणम्
॥२१९॥इंद्र प्रमुखतो भूत्वा जगर्जातिविभीषणम् ॥
तस्य नादप्रणादेन त्रासितं भुवनत्रयम्
॥२२०॥ऐरावणं समारुह्य महेंद्रः शुशुभे तदा ॥
ध्रियमाणेनच्छत्रेण चंद्रमंडलशोभिना
॥२२१॥चामरैर्वीज्यमानोऽथ बभाषे दैत्यपुंगवम्
॥२२२॥इंद्र उवाच
संग्रामं कुरु मे वृत्र बलेन महता वृतः ॥
शूरस्त्वमसि शूराणां तपसा परमेण हि
॥२२३॥एवमुक्तस्तदा तेन वृत्रो वाक्यमुवाच ह ॥
आदौ प्रहर मामिंद्रपश्चात्त्वां घातयाम्यहम्
॥२२४॥तथेति मत्वा तदतीव दुःसहं वज्रं तदानीं शतधारमेव ॥
स मोक्तुकामो हि तदा पुरंदरो निवारितस्तेन महाप्रभेण ॥
पुरोधसा बुद्धिमतां वरेण तथेति मत्वा स चकार चेंद्रः
॥२२५॥गदां प्रगृह्य देवेंद्रो वृत्रं विव्याध तां गदाम् ॥
वारयामास वृत्रोसा वतिथिं कृपणो यथा
॥२२६॥व्यार्थां च स्वगदां दृष्ट्वा इंद्रश्चिंतामवाप ह
॥२२७॥तं चिंत्यमानं स तदा पुरंदरं वृत्रो बभाषे परिभर्त्समानः ॥
पुराकृतं शक्र महाद्भुतं त्वया जुगुप्सितं कर्म्म च विस्मृतं किम् ॥
येनैव जातोऽसि सहस्रनेत्रः शापान्महर्षेरथ गौतमस्य
॥२२८॥ये शूराश्चेंद्रियग्रामं वर्तंते हि नियम्य तु ॥
ते जयं प्राप्नुवंतीह नेतरे हि भवादृशाः
॥२२९॥रणाजिरं महाघोरं पापिनां नात्र संशयः
॥२३०॥एवं निर्भर्त्सयामास देवेंद्रं दैत्यपुंगवः ॥
त्रिशूलं धूनयामास देवेंद्रो हि तडित्समम्
॥२३१॥तेन शूलेन महता वृत्रोऽद्भुतपराक्रमः ॥
बभौ तीव्रेण तपसा यथा रुद्रो युगांतकृत्
॥२३२॥तथाभूतं समालक्ष्य देवराजः शतक्रतुः ॥
अभ्युद्ययौ हंतुकामो वृत्रे दानवपुंगवम्
॥२३३॥तमायांतमभिप्रेक्ष्य हंतुकामं पुरंदरम् ॥
जहास परमं तत्र शक्रस्य च भयावहम् ॥
मुखं प्रसार्य सुमहदागतो हि पुरंदरम्
॥२३४॥ग्रस्तुकामो महातेजा दैत्यानामधिपस्तदा ॥
आगत्य सहसा शक्रं ग्रासयित्वा सकुंजरम्
॥२३५॥सवज्रं सकिरीटं च ननर्त च जगर्ज्ज च ॥
निमिषांतरमात्रेण ग्रसितोऽसौ पुरंदरः
॥२३६॥हाहाकारो महानासीद्देवानां तत्र पश्यताम् ॥
भूकम्पो हि तदा ह्यसीदुल्कापातः सहस्रशः
॥२३७॥तिमिरेणावृतं सर्वं जगत्स्थावरजंगमम् ॥
नर्तमानस्तदा वृत्रो बभूव परमद्युतिः
॥२३८॥विध्यमानास्तदा सर्वे देवा ब्रह्माण मागताः ॥
शशंसुः सर्वमेवैतद्वृत्रासुरविचेष्टितम्
॥२३९॥तच्छ्रुत्वा भगवान्ब्रह्मा व्यथितोऽतीव विस्मितः ॥
कथं जातं महेंद्रस्य व्यसनं परमाद्भुतम्
॥२४०॥देवैः सह तदा ब्रह्मा सर्वलोकपितामहः ॥
तुष्टाव गिरिशं देवं परमेण समाधिना
॥२४१॥ब्रह्मोवाच
ॐनमो लिंगरूपाय महादेवाय वै नमः ॥
विश्वरूपाय देवाय विरुपाक्षाय वै नमः
॥२४२॥त्राहित्राहि त्रिलोकेश वृत्रग्रस्तं पुरंदरम् ॥
तदा नभोगतावाणी सर्वेषामेव श्रृण्वताम्
॥२४३॥उवाच हितकामाय विधिं लिंगार्चने सती ॥
प्रदोषव्रतयुक्तेन इंद्रेण विकृतं कृतम्
॥२४४॥निर्माल्यं पीठिकां चैव च्छायाप्रासादमेव च ॥
प्रदक्षिणां कृतवता पीठिकालंघनं कृतम्
॥२४५॥लंघयंति च ये मूढास्ते वै दंड्या न संशयः ॥
चंडस्य गणमुख्यस्य तस्मात्कुर्यात्प्रयत्नतः ॥
प्रदक्षिणानमस्कारौ लिंगार्च्चनसमन्वितः
॥२४६॥श्रेयःप्राप्तयेकबुद्ध्या वै प्रयत्नाल्लिंगपूजनम् ॥
कार्यं दीक्षा परैर्नित्यं सर्वपापोपशांतये
॥२४७॥आशरीरं च तद्वाक्यं श्रुत्वा ब्रह्मादयः सुराः ॥
पप्रच्छुस्ते प्रांजलयो नभोवाणीं शुभावहाम्
॥२४८॥कथमर्चामहे लिंगं केनैव विधिना ततः ॥
प्रातर्मध्याह्नसमये सायंकाले तथैव च
॥२४९॥कानि पुष्पाणि सायाह्ने मध्याह्ने च तथैव हि ॥
प्रातः काले तु तान्येन कथयस्व यथातथम्
॥२५०॥तदा नभोगता वाणी कथयामास विस्तरम्
॥२५१॥करवीरं चार्कपुष्पं बृहतीपुष्पमेवच ॥
धत्तूरकुसुमं चैव शतपत्रं तथैव च
॥२५२॥आरग्वधं च पुन्नागं बकुलं नागकेशरम् ॥
ब्रध्नोत्पलं कदम्बं च मंदारकुसुमं तथा
॥२५३॥बहूनि वरपुष्पाणि बहूनि कमलान्यपि ॥
त्रिकाले च पवित्राणि ज्ञेयानि सततं बुधैः
॥२५४॥जातीपुष्पं मल्लिकायाश्च पुष्पं पुष्पं मोगरकं नीलपुष्पं तथैव ॥
तथा पुष्पं कुटजं कर्णिकारं कौसुम्भाख्यं वारिजं रक्तवर्णनम्
॥२५५॥एतान्येव य पुष्पाणि मध्याह्ने लिंगपूजने ॥
विशिष्टानि मयोक्तानि सायाह्ने कथयाम्यहम्
॥२५६॥चं पकानि त्रिकाले च पवित्राणि न संशयः ॥
रात्रौ मोगरकाण्येव पवित्राणि न संशयः
॥२५७॥एवमर्च्चनभेदांश्च ज्ञात्वा तल्लिंगपूजने ॥
कार्यो विधिर्विधिज्ञैश्च सततं च शिवालये
॥२५८॥वृषभांतरितो भूत्वा पीठिकांतरमेव च ॥
प्रदक्षिणां न कुर्वीत कुर्वन्किल्बिषमश्नुते
॥२५९॥तथा ह्यनेन शक्रेण कृतं चैव प्रदक्षिणम् ॥
राजसं भावमाश्रित्य तस्माज्जातंच निष्फलम्
॥२६०॥ग्रसितोऽद्यैव वृत्रेण सगजो हि पुरंदरः ॥
भवद्भिरेव तत्कार्यं येन इन्द्रः प्रमुच्यते
॥२६१॥महारुद्रविधानेन मुक्तो भवति तत्क्षणात् ॥
पुरंदरो ह्ययं देवा नात्र कार्या विचारणा
॥२६२॥तेनैव वचसा देवा रुद्रमभ्यर्च्य यत्नतः ॥
यथोक्तेन विधानेन रुद्रसूक्तेन यत्नतः
॥२६३॥तथा चैकादशीरुद्र्या रुद्रमभ्यर्च्य वै सुराः ॥
हवनं प्रत्यहं चक्रुर्द्दशांशेन द्विजोत्तमाः
॥२६४॥जपं च पूजां हवनं च चक्रुर्विमोक्तुकामाः सहसा पुरंदरम् ॥
शंभोः प्रसादात्सहसा विनिर्गतः कुक्षिं भित्त्वा देवराजस्तदानीम्
॥२६५॥तं निर्गतं समीक्ष्याथ देवदेवेंद्रमोजसा ॥
सगजं च स वज्रं च सकिरीटं सकुण्डलम् ॥
श्रिया परमया युक्तं पुरंदरं महौजसम्
॥२६६॥देवदुंदुभयो नेदुस्तथा शंखा ह्यनेकशः ॥
गंधर्वाप्सरसो यक्षा ऋषयश्च मुदान्विताः
॥२६७॥एकपद्येन सर्वेषां महाहर्षो दिवौकसाम् ॥
संजातस्तत्क्षणादेव यदा मुक्तः पुरंदरः ॥
तदा शची समायाता यत्र मुक्तः पुरंदरः
॥२६८॥तत्र शच्या समेतोऽसावभिषिक्तो महर्षिभिः ॥
पुण्याहवाचनं तस्य कृतं सर्वैः प्रयत्नतः
॥२६९॥एवं तदाभिषिक्तोऽसौ महेंद्र ऋषिभिः पुनः ॥
मही मंगलभूयिष्ठा तदा जाता द्विजोत्तमाः
॥२७०॥दिशः प्रसन्नतां याता निर्मलं चाभवन्नभः ॥
शांतास्तदाग्नयो ह्यासन्मनांसि च महात्मनाम्
॥२७१॥एवमादीन्यनेकानि मंगलानि ततोऽभवन् ॥
मुक्ते शतक्रतौ तस्मिन्बभूव परमाद्भुतम्
॥२७२॥एवं प्रवर्तमाने तु महतां च महोत्सवे ॥
तावद्वृत्रस्य पतितं शरीरं च भयानकम्
॥२७३॥तत्रैव ब्रह्महत्या च पापिष्ठा पतिता भुवि ॥
गंगायमुनयोर्मध्ये अंतर्वेदीति कथ्यते
॥२७४॥पुण्यभूमिरिति ख्याता प्रसिद्धा लोकपावनी ॥
वृत्रहत्याप्रतिष्ठा सा यस्मिदेशे स पापवान्
॥२७५॥मलस्य बहुसंभूत्या मालावेति प्रकीर्तिता ॥
तस्यां तु मलभूम्यां वै वृत्रस्य च महच्छिरः
॥२७६॥षण्मासेष्वपतत्सर्वैः कृत्तं देवैः सवासवैः ॥
एवं वृत्रवधं कृत्वा शक्रो जयमवाप ह
॥२७७॥इंद्रासने चोपविष्टो निरातंकः शचीपतिः ॥
एतस्मिन्नंतरे दैत्याः पातालवासिनं बलिम् ॥
शशंसुः सर्वमागत्य शक्रस्य च विचेष्टितम्
॥२७८॥तेषां तद्वचनं श्रुत्वा वैरोचनी रुषान्वितः ॥
शुक्रं पप्रच्छ स तदा सथमिंद्रो वशी भवेत्
॥२७९॥तेनोक्तं बलये राजञ्जयस्यन्दनलब्धये ॥
महायज्ञं कुरुष्वाद्य तेन ते विजयो भवेत्
॥२८०॥तेनोक्तो भृगुणा चैवं बलिर्यज्ञार्थमुद्यतः ॥
दधौ यानीह द्रव्याणि यज्ञयोग्यानि तानि वै ॥
मेलयित्वा त्वरेणैव वैरोचनिरुदारधीः
॥२८१॥प्रवर्तितो महायज्ञो भार्गवेण महात्मना ॥
दीक्षायुक्तो बलिरभूज्जुहुवे हघ्यवाहनम्
॥२८२॥हूयमाने तदाग्नौ तु कर्मणा विधिहेतुना ॥
तस्माद्बलेः समुत्पन्नः स्यंदनः परमाद्भुतः
॥२८३॥हयैश्चतुर्भिः संयुक्तो ध्वजेसिंहो महाप्रभः ॥
शस्त्रास्त्रैः संयुतः श्रीमान्हयैः श्वेतैरलंकृतः
॥२८४॥ततश्चावभृथस्नानं चक्रे शुक्रप्रणोदितः ॥
स्यंदनं पूजयित्वाथ आरुरोह बलिस्तदा
॥२८५॥दैत्यैः परिवृतः सद्यो योद्धुकामः पुरंदरम् ॥
सद्य एव दिवं प्राप्तो बलिर्वैरोचनो महान्
॥२८६॥आगत्य सेनया सार्द्धमारुरो हामरावतीम् ॥
संरुद्धां तां पुरीं दृष्ट्वा तदा ते सुरसत्तमाः ॥
विर्शयित्वा सुचिरमूचुः सर्वे बृहस्पतिम्
॥२८७॥किं कुर्मोऽद्य महाभाग आगता दैत्यपुंगवाः ॥
योद्धुकामा महाघोराः सर्वे युद्धविशारदाः
॥२८८॥तेषां तद्वचनं श्रुत्वा बृहस्पतिरभाषत
॥२८९॥एते घृतमुखा घोरा भृगुणानोदिताः सुराः ॥
अजेयाश्चैव ते सर्वे तपसा विक्रमेण च
॥२९०॥एतन्निशम्य वचनं च गुणाभियुक्तं सर्वे सुराः समभवंस्त्रपयाभियुक्ताः ॥
इंद्रोऽपि बुद्धिविकलः परिचिंतया च व्रीडायुतः समभवत्परिभर्त्स्यमानः
॥२९१॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखंडे बलिदैत्यस्य संग्रामोद्योगवर्णनंनाम सप्तदशोऽध्यायः ॥ १७ ॥