मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — केदारखण्डः, अध्याय ७

3
माहेश्वरखण्डः · केदारखण्डः · 7

तदा च ते सुराः सर्व ऋषयोपि भयान्विताः

लोमश उवाच

तदा च ते सुराः सर्व ऋषयोपि भयान्विताः ॥

ईडिरे लिंगमैशं च ब्रह्माद्या ज्ञानविह्वलाः

॥१॥

ब्रह्मोवाच

त्वं लिंगरूपी तु महाप्रभावो वेदांतवेद्योसि महात्मरूपि ॥

येनैव सर्वे जगदात्ममूलं कृतं सदानंदपरेण नित्यम्

॥२॥

त्वं साक्षी सर्वलोकानां हर्ता त्वं च विचक्षणः ॥

रक्षणोसि महादेव भैरवोसि जगत्पते

॥३॥

त्वया लिंगस्वरूपेण व्याप्तमेतज्जगत्त्रयम् ॥

क्षुद्राश्चैव वयं नाथ मायामोहितचेतसः

॥४॥

अहं सुराऽसुराः सर्वे यक्षगंधर्वराक्षसाः ॥

पन्नगाश्च पिशाचाश्च तथा विद्याधरा ह्यमी

॥५॥

त्वंहि विश्वसृजां स्रष्टा त्वं हि देवो जगत्पतिः ॥

कर्ता त्वं भुवनस्यास्य त्वं हर्ता पुरुषः परः

॥६॥

त्राह्यस्माकं महादेव देवदेव नमोऽस्तु ते ॥

एवं स्तुतो हि वै धात्रा लिंगरूपी महेश्वरः

॥७॥

ऋषयः स्तोतुकामास्ते महेश्वरमकल्मषम् ॥

अस्तुवन्गीर्भिरग्र्याभिः श्रुतिगीताभिरादृताः

॥८॥

ऋषय ऊचुः

अज्ञानिनो वयं कामान्न विंदामोऽस्य संस्थितिम् ॥

त्वं ह्यात्मा परमात्मा च प्रकृतिस्त्वं विभाविनी

॥९॥

त्वमेव माता च पिता त्वमेव त्वमेव बंधुश्च सखा त्वमे ॥

त्वमीश्वरो वेदविदेकरूपो महानुभावैः परिचिंत्यमानः

॥१०॥

त्वमात्मा सर्वभूतानामेको ज्योतिरिवैधसाम् ॥

सर्वं भवति यस्मात्त्वत्तस्मात्सर्वोऽसि नित्यदा

॥११॥

यस्माच्च संभवत्येतत्तस्माच्छंभुरिति प्रभुः

॥१२॥

त्वत्पादपंकजं प्राप्ता वयं सर्वे सुरादयः ॥

ऋषयो देवगंधर्वा विद्याधरमहोरगाः

॥१३॥

तस्माच्च कृपया शंभो पाह्यस्माञ्जगतः पते

॥१४॥

महादेव उवाच

श्रृणुध्वं तु वचो मेऽद्य क्रियतां च त्वरान्वितैः ॥

विष्णुं सर्वे प्रार्थयंतु त्वरितेन तपोधनाः

॥१५॥

तस्य तद्वचनं श्रुत्वा शंकरस्य महात्मनः ॥

विष्णुं सर्वे नमस्कृत्य ईडिरे च तदा सुराः

॥१६॥

देव ऊचुः

विद्याधराः सुरगणा ऋषयश्च सर्वे त्रातास्त्वयाद्य सकलाजगदेकबंधो ॥

तद्वत्कृपाकरजनान्परिपालयाद्य त्रैलोक्यनाथ जगदीश जगन्निवास

॥१७॥

प्रहस्य भगवन्विष्णुरुवाचेदं वचस्तदा ॥

दैत्यैः प्रपीडिता यूयं रक्षिताश्च पुरा मया

॥१८॥

अद्यैव भयमुत्पन्नं लिंगादस्माच्चिरंतनम् ॥

न शक्यते मया त्रातुमस्माल्लिंगभयात्सुराः

॥१९॥

अच्युतेनैवमुक्तास्ते देवा श्चिंतान्विताभवन् ॥

तदा नभोगता वाणी उवाचाश्वास्य वै सुरान्

॥२०॥

एतल्लिंगं संवृणुष्व पूजनाय जनार्दन ॥

पिंडिभूत्वा महाबाहो रक्षस्व सचराचरम् ॥

तथेति मत्वा बगवान्वीरभद्रोऽभ्यपूजयत्

॥२१॥

ब्रह्मादिभः सुरगणैः सहितैस्तदानीं संपूजितः शिवविधानरतो महात्मा ॥

स्रवीरभद्रः शशिशेखरोऽसौ शिवप्रियो रुद्रसमस्त्रिलोक्याम्

॥२२॥

लिंगस्यार्चनयुक्तोऽसौ वीरभद्रोऽभवत्तदा ॥

तद्रूपस्यैव लिंगस्य येन सर्वमिदं जगत्

॥२३॥

उद्भाति स्थितिमाप्नोति तथा विलयमेति च ॥

तल्लिंगं लिंगमित्याहुर्लयनात्तत्त्ववित्तमाः

॥२४॥

ब्रह्माण्डागोलकैर्व्याप्तं तथा रुद्राक्षभूषितम् ॥

तथा लिंगं महज्जातं सर्वेषां दुरतिक्रमम्

॥२५॥

तदा सर्वेऽथ विबुधा ऋषो वै महाप्रभाः ॥

तुष्टुवुश्च महालिंगं वेदावादैः पृथक्पृथक्

॥२६॥

अणोरणीयांस्त्वं देव तथा त्वं महतो महान् ॥

तस्मात्त्वया विधातव्यं सर्वैषां लिंगपूजनम्

॥२७॥

तदानीमेव सर्वेण लिंगं च बहुशः कृतम् ॥

सत्ये ब्रह्मेश्वरं लिंगं वैकुण्ठे च सदाशिवः

॥२८॥

अमरावत्यां सुप्रतिष्ठममरेश्वरसंज्ञकम् ॥

वरुणेश्वरं च वारुण्यां याम्यां कालेश्वरं प्रभुम्

॥२९॥

नैर्ऋतेश्वरं च नैर्ऋत्यां वायव्यां पावनेश्वरम् ॥

केदारं मृत्युलोके च तथैव अमरेश्वरम्

॥३०॥

ओंकारं नर्मदायां च महाकालं तथैव च ॥

काश्यां विश्वेश्वरं देवं प्रयागे ललितेश्वरम्

॥३१॥

त्रियम्बकं ब्रह्मगिरौ कलौ भद्रेश्वरं तथा ॥

द्राक्षारामेश्वरं लिंगं गंगासागरसंगमे

॥३२॥

सौराष्ट्रे च तथा लिंगं सोमेश्वरमिति स्मृतम् ॥

तथा सर्वेश्वरं विन्ध्ये श्रीशैले शिखरेश्वरम् ॥

कान्त्यामल्लालनाथं च सिंहनाथं च सिंगले

॥३३॥

विरूपाक्षं तथा लिंगं कोटिशङ्करमेव च ॥

त्रिपुरान्तकं भीमेशममरेश्वरमेव च

॥३४॥

भोगेश्वरं च पाताले हाटकेश्वरमेव च ॥

एवमादीन्यनेकानि लिंगानि भुवनत्रये ॥

स्थापितानि तदा देवैर्विश्वोपकृतिहेतवे

॥३५॥

लिंगेशैश्च तथा सर्वैः पूर्णमासीज्जगत्त्रयम् ॥

तथा च वीरभद्रांशाः पूजार्थममरैः कृताः ॥

७.३६ तत्र विंशतिसंस्कारास्तेषामष्टाधिकाभवन् ॥

कथिताः शंकरेणैव लिंगस्याचनसूचकाः

॥३७॥

संति रुद्रेण कथिताः शिवधर्मा सनातनाः ॥

वीरभद्रो यथा रुद्रस्तथान्ये गुरवः स्मृताः

॥३८॥

गुरोर्जाताश्च गुरवो विख्याता भुवनत्रये ॥

लिंगस्य महिमान तु नन्दी जानाति तत्त्वतः

॥३९॥

तथा स्कन्दो हि भगवान्न्ये ते नामधारकाः ॥

यथोक्ताः शिवधरमा हि नन्दिना परिकीर्त्तिताः

॥४०॥

शैलादेन महाभागा विचित्रा लिंगधारकाः ॥

शवस्योपरि लिंगं च ध्रियते च पुरातनैः

॥४१॥

लिंगेन सह पञ्चत्वं लिंगेन सह जीवितम् ॥

एते धर्माः सुप्रतिष्ठाः शैलादेन प्रतिष्ठिताः

॥४२॥

धर्मः पाशुपतः श्रेष्ठः स्कन्देन प्रतिपालितः

॥४३॥

शुद्धापञ्चाक्षरीविद्याप्रासादी तदनन्तरम् ॥

षडक्षरी तथा विद्या प्रासादस्य च दीपिका

॥४४॥

स्कन्दात्तत्समनुप्राप्तमगस्त्येन महात्मना ॥

पश्चादाचार्यभेदेन ह्यागमा बहवोऽभवन्

॥४५॥

किं तु वै बहुनोक्तेन श्वि इत्यक्षरद्वयम् ॥

उच्चारयंति स नित्यं ते रुद्रा नात्र संशयः

॥४६॥

सतां मार्गं पुरस्कृत्य ये सर्वे ते पुरांतकाः ॥

वीरा माहेश्वराज्ञेयाः पापक्षयकरा नृणाम्

॥४७॥

प्रसंगेनानुपंक्षेण श्रद्वया च यदृच्छया ॥

शिवभक्तिं प्रकुर्वन्ति ये वै ते यांति सद्गतिम्

॥४८॥

श्रृणुध्वं कथयामीह इतिहासं पुरातनम् ॥

कृतं शिवालयं यच्च पतंग्या मार्जनं पुरा

॥४९॥

आगता भक्षणार्थं हि नैवेद्यं केन चार्पितम् ॥

मार्जनं रजस्तस्याः पक्षाभ्यामभवत्पुरा

॥५०॥

तेन कर्मविपाकेन उत्तमं स्वर्गमागता ॥

भुक्त्वा स्वर्गसुखं चोग्रं पुनः संसारमागता

॥५१॥

काशिराजसुता जाता सुन्दरीनाम विश्रुता ॥

पूर्वाभ्यासाच्च कल्याणी बभूव परमा सती

॥५२॥

उषस्युषसि तन्वंगी शिवद्वाररता सदा ॥

संमार्जनं च कुरुते भक्त्या परमया युता

॥५३॥

स्वयमेव तदा देवी सुन्दरी राजकन्यका ॥

तथाभूतां च तां दृष्ट्वा ऋषिरुद्दालकोऽब्रवीत्

॥५४॥

सुकुमारी सती बाले स्वयमेव कथं शुभे ॥

संमार्जनं च कुरुषे कन्यके त्वं शुचिस्मिते

॥५५॥

दासी दास्यश्च बहवः संति देवि तवाग्रतः ॥

तवाज्ञया करिष्यंति सर्वं संमार्जनादिकम्

॥५६॥

ऋषेस्तद्वचनं श्रुत्वा प्रहस्येदमुवाच ह

॥५७॥

शिवसेवां प्रकुर्वाणाः शिवभक्तिपुरस्कृताः ॥

ये नराश्चैव नार्य्यश्च शिवलोकं व्रजंति वै

॥५८॥

संमार्जनं च पाणिभ्यां पद्भ्यां यानं शिवालये ॥

तस्मान्मया च क्रियते संमार्जनमतंद्रितम्

॥५९॥

अन्यत्किञ्चिन्न जानामि एकं संमार्जनं विना ॥

ऋषिस्तद्वचनं श्रुत्वा मनसा च विमृश्य हि

॥६०॥

अनया किं कृतं पूर्वं केयं कस्य प्रसादतः ॥

तदा ज्ञानं च ऋषिणा तत्सर्वं ज्ञानचक्षुषा ॥

विस्मयेन समाविष्टस्तूष्णींभूतोऽभवत्तदा

॥६१॥

सविस्मयोऽभूदथ तद्विदित्वा उद्दालको ज्ञानवतां वरिष्ठः ॥

शिवप्रभावं मनसा विचिंत्य ज्ञानात्परं बोधमवाप शांतः

॥६२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे सप्तमोऽध्यायः ॥ ७ ॥