मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — केदारखण्डः, अध्याय २८

3
माहेश्वरखण्डः · केदारखण्डः · 28

कुमारं स्वांकमारोप्य उवाच जगदीश्वरः

लोमश उवाच

कुमारं स्वांकमारोप्य उवाच जगदीश्वरः ॥

देवान्प्रति तदा रुद्रः सेंद्रान्भर्गः प्रतापवान्

॥१॥

किं कार्यं कथ्यतां देवाः कुमारेणाधुना मम ॥

तदोचुः सहिताः सर्वे देवं पशुपतिं प्रति

॥२॥

तारकाद्भयमुत्पन्नं सर्वेषां जगतां विभो ॥

त्राता त्वं जगतां स्वामी तस्मात्त्राणं विधीयताम्

॥३॥

कुमारेण हतोऽद्यैव तारको भविता प्रभो ॥

तस्मादद्यैव यास्यामस्तारकं हंतुमुद्यताः

॥४॥

तथेति मत्वा सहसा निर्जग्मुस्ते तदा सुराः ॥

कार्त्तिकेयं पुरस्कृत्य शंकरातमजमेव हि

॥५॥

सर्वे मिलित्वा सहसा ब्रह्मविष्णुपुरोगमाः ॥

देवानामुद्यमं श्रुत्वा तारकोऽपि महाबलः

॥६॥

सैन्येन महता चैव ययौ योद्धुं सुरान्प्रति ॥

देवैर्दृष्टं समायातं तारकस्य महद्बलम्

॥७॥

तदा नभोगता वाणी ह्युवाच परिसांत्व्य तान् ॥

शांकरिं च पुरस्कृत्य सर्वे यूय प्रतिष्ठिताः

॥८॥

दैत्यान्विजित्य संग्रामे जयिनो हि भविष्यथ

॥९॥

वाचं तु खेचरीं श्रुत्वा देवाः सर्वे समुत्सुकाः ॥

कुमारं च पुरस्कृत्य सर्वे ते गतसाध्वसाः

॥१०॥

युद्धकामाः सुरा यावत्तावत्सर्वे समागताः ॥

वरणार्थं कुमारस्य सुता मृत्योर्दुरत्यया

॥११॥

ब्रह्मणा नोदिता पूर्वं तपः परममाश्रिता ॥

तपसा तेन महता कुमारं प्रति वै तदा ॥

आगता दुहिता मृत्योः सेना नामैकसुंदरी

॥१२॥

तां दृष्ट्वा तेऽब्रुवन्सर्वे देवं पशुपतिं प्रति ॥

एनं कुमारमुद्दिश्य आगता ह्यतिसुंदरी

॥१३॥

ब्रह्मणो वचनाच्चैव कुमारेण तदा वृता ॥

अथ सेनापतिर्जातः कुमारः शांकरिस्तदा

॥१४॥

तदा शंखाश्च भेर्यश्च पटहानकगोमुखाः ॥

तथा दुंदुभयो नेदुर्मृदंगाश्च महास्वनाः

॥१५॥

तेन नादेन महता पूरितं च नभस्तलम् ॥

तदा गौरी च गंगा च कृत्तिका मातरस्तथा ॥

परस्परमथोचुस्ताः सुतो मम ममेति च

॥१६॥

एवं विवादमापन्नाः सर्वास्ता मातृकादयः ॥

निवारिता नारदेन मौढ्यं मा कुरुतेति च

॥१७॥

पार्वत्यां शंकराज्जातो देवकार्यार्थसिद्धये ॥

तूष्णींभूतास्तदा सर्वाः कृत्तिका मातृभिः सह

॥१८॥

गुहेनोक्तास्तदा सर्वा ऋषिपत्न्यश्च कृत्तिकाः ॥

नक्षत्राणि समाश्रित्य भवद्भिः स्थीयतां चिरम्

॥१९॥

तथा मातृगणस्तेन स्वामिना स्थापितो दिवि ॥

मृत्योः कन्यां च संगृह्य कार्त्तिकेयस्त्वरान्वितः

॥२०॥

इंद्रं प्रोवाच भगवान्कुमारः शंकरात्मजः ॥

दिवं याहि सुरैः सार्द्धं राज्यं कुरु निरन्तरम्

॥२१॥

इंद्रेणोक्तः कुमारो हि तारकेण प्रपीडिताः ॥

स्वर्गाद्विद्राविताः सर्वे वयं याता दिशो दश

॥२२॥

किं पृच्छसि महाभाग अस्मान्पदपरिच्युतान् ॥

एवमुक्तस्तदा तेन वज्रिणाशंकरात्मजः ॥

प्रहस्येंद्रं प्रति तदा मा भैषीत्यभयं ददौ

॥२३॥

यावत्कथयतस्तस्य शांकरेश्च महात्नः ॥

कैलासं तु गते रुद्रे पार्वत्या प्रमथैः सह

॥२४॥

आजगाम महादैत्यो दैत्यसेनाभिरावृतः ॥

रणदुंदुभयो नेदुस्तता प्रलयभीषणाः

॥२५॥

रणकर्कशतूर्याणि डिंडिमान्यद्भुतानि च ॥

गोमुखाः खरश्रृंगाणि काहलान्येव भूरिशः

॥२६॥

वाद्यभेदा आवाद्यंत तस्मिन्दैत्यसमागमे ॥

गर्जमानास्तदा वीरस्तारकेण सहैव तु

॥२७॥

उवाच नारदो वाक्यं तारकं देवकण्टकम्

॥२८॥

नारद उवाच

पुरा देवैः कृतो यत्नो वधार्थं नात्र संशयः ॥

तवैव चासुरश्रेष्ठ मयोक्तं नान्यथा भवेत्

॥२९॥

कुमारोऽयं च शर्वस्य तवार्थं चोपपादितः ॥

एवं ज्ञात्वा महाबाहो कुरु यत्नं समाहितः

॥३०॥

नारदोक्तं निशम्याथ तारकः प्रहसन्निव ॥

उवाच वाक्यं मेधावी गच्छ त्वं च पुरंदरम्

॥३१॥

मम वाक्यं महर्षे त्वं वद शीघ्रं यथातथम् ॥

कुमारं च पुरस्कृत्य मया योद्धुं त्वमिच्छसि

॥३२॥

मूढभावं समाश्रित्य कर्तुमिच्छसि नान्यथा ॥

मनुष्यमेकमाश्रित्य मुचुकुन्दाख्यमेव च

॥३३॥

तत्प्रभावेऽमरावत्यां स्थितोऽसि त्वं न चान्यथा ॥

कौमारं बलमाश्रित्य तिष्ठसे त्वं ममाग्रतः

॥३४॥

त्वां हनिष्याम्यहं मन्दलोकपालैः सहैव हि ॥

एवं कथय देवेन्द्रं देवर्षे नान्यथा वद

॥३५॥

तथेति मत्वा भगवान्स नारदो ययौ सुराञ्छक्रपुरोगमांश्च ॥

आचष्ट सर्वं ह्यसुरेन्द्रभाषितं सहोपहासं मतिमांस्तथैव

॥३६॥

नारद उवाच

भवद्भिः श्रूयतां देवा वचनं मम नान्यथा ॥

तारकेण यदुक्तं च सानुगे नावधार्यताम्

॥३७॥

तारक उवाच

त्वां हनिष्यामि रे मूढ नान्यथा मम भाषितम्

॥३८॥

मुचुकुन्दं समासाद्य लोकपालैश्च पूजितः ॥

न त्वया भीरुणा योत्स्ये देवो भूत्वा नराश्रितः

॥३९॥

तस्य वाक्यं निशम्योचुः सर्वे देवाः सवासवाः ॥

कुमारं च पुरस्कृत्य नारदं चर्षिसत्तमम्

॥४०॥

जानासि त्वं हि देवर्षे कुमारस्य बलाबलम् ॥

अज्ञो भूत्वा कथं वाक्यमुक्तं तस्य ममाग्रतः

॥४१॥

प्रहस्य नारदो वाक्यमुवाच तस्य सन्निधौ ॥

अहमप्युपहासं च वाक्यं तारकमुक्तवान्

॥४२॥

जानीध्वममराः सर्वे कुमारं जयिनं सुराः ॥

भविष्यत्यत्र मे वाक्यं नात्र कार्याविचारणा

॥४३॥

नारदस्य वचः श्रुत्वा सर्वे देवा मुदान्विताः ॥

ऐकपद्येन चोत्तस्थुर्योद्धुकामाश्च तारकम्

॥४४॥

कुमारं गजमारोप्य देवेन्द्रो ह्यग्रगोऽभवत् ॥

सुरसैन्येन महता लोकपालैः समावृतः

॥४५॥

तदा दुन्दुभयो नेदुर्भेरीतूर्याण्यनेकशः ॥

वीणावेणुमृदंगानि तथा गन्धर्वनि स्वनाः

॥४६॥

गजं दत्त्वा महेंद्राय कुमारो यानमारुहत् ॥

अनेकरत्नसंवीतं नानाश्चर्यसमन्वितम् ॥

विचित्रचित्रं सुमहत्तथाश्चर्यसमन्वितम्

॥४७॥

विमानमारुह्य तदा महायशाः स शांकरिः सर्वगणैरुपेतः ॥

श्रिया समेतः परया बभौ महान्स वीज्यमानश्चमरैर्महाप्रभैः

॥४८॥

प्राचे तसं छत्र महामणिप्रभं रत्नैरुपेतं बहुभिर्विराजितम् ॥

धृतं तदा तेन कुमारमूर्द्धनि चन्द्रैः किरणैः सुशोभितम्

॥४९॥

संमीलितास्तदा सव देवा इन्द्रपुरोगमाः ॥

बलैः स्वैः स्वैः परिक्रांता योद्धुकामा महाबलाः

॥५०॥

यमेऽपि स्वगणैः सार्द्धं मरुद्भिश्च सदागतिः ॥

पाथोभिर्वरुणस्तत्र कुबेरो गुह्यकैः सह ॥

ईशोऽपि प्रमथैः सार्द्धं नैर्ऋतो व्याधिभिः सह

॥५१॥

एवं तेऽष्टौ लोकपा योद्धुकामाः सर्वे मिलित्वा तारकं हंतुमेव ॥

पुरस्कृत्वा शांकरिं विश्ववंद्यं सेनापतिं चात्मविदां वरिष्ठम्

॥५२॥

एवं ते योद्धुकामा हि अवतेरुश्च भूतलम् ॥

अंतर्वेद्यां स्थिताः सर्वे गंगा यमुनमध्यगाः

॥५३॥

पातालाच्च समायातास्तारकस्योपजीविनः ॥

चेरुरंगबलोपेता हन्तुकामाः सुरान्रणे

॥५४॥

तारको हि समायातो विमानेन विराजितः ॥

छत्रेण च महातेजा ध्रियमाणेन मूर्द्धनि

॥५५॥

चामरैर्विज्यमानो हि शुशुभे दैत्यराट् स्वयम्

॥५६॥

एवं देवाश्च दैत्याश्च अंतर्वेद्यां स्थितास्तदा ॥

सैन्येन महता तत्र व्यूहान्कृत्वा पृथक्पृथक्

॥५७॥

गजान्कृत्वा ह्येकतश्च हयांश्च विविधांस्तथा ॥

स्यंदनानिविचित्राणि नानारत्नयुतानि च

॥५८॥

पदाता बहवस्तत्र शक्तिशूलपरश्वधैः ॥

खड्गतोमरनाराचैः पाशमुद्गरशोभिताः

॥५९॥

ते सेने सुरदैत्यानां शुशुभाते परस्परम् ॥

हंतुकामास्तदा ते वै स्तूयमानाश्च बन्धुभिः

॥६०॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखंडे शिवशास्त्रे देवैः सह तारकासुरस्य संग्रामे देवदैत्यसेनाहवर्णनंनामाष्टाविंशोऽध्यायः ॥ २८ ॥