मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — केदारखण्डः, अध्याय ११

3
माहेश्वरखण्डः · केदारखण्डः · 11

प्रतिपक्षे चतुर्थ्यां तु पूजनीयो गणाधिपः

महेश्वर उवाच

प्रतिपक्षे चतुर्थ्यां तु पूजनीयो गणाधिपः ॥

स्नात्वा शुक्लतिलैः शुद्धैः शुक्लपक्षे सदा नृभिः

॥१॥

कृत्वा चावस्यकं सर्वं गणेशस्यार्चनक्रियाम् ॥

प्रयत्नेनैव कुर्वीत गंधमाल्याक्षतादिभिः

॥२॥

ध्यानमादौ प्रकर्तव्यं गणेशस्य यथाविधि ॥

आगमा बहवो जाता गणेशस्य यथा मम

॥३॥

बहुधोपासका यस्मात्तमः सत्त्वरजोन्विताः ॥

गणभेदेन तान्येव नामानि बहुधाऽभवत्

॥४॥

पंचवक्त्रो गणाध्यक्षो दशबाहुस्त्रिलोचनः ॥

कांतस्फटिकसंकाशो नीलकंठो गजाननः

॥५॥

मुखानि तस्य पंचैव कथयामि यतातथम्

॥६॥

मध्यमं तु मुखं गौरं चतुर्दन्तं त्रिलोचनम् ॥

शुंडादंडमनोज्ञं च पुष्करे मोदकान्वितम्

॥७॥

तथान्यत्पीतवर्णं च नीलं च शुभलक्षणम् ॥

पिंगलं च तथा शुभ्रं गणेशस्य शुभाननम्

॥८॥

तथा दशभुजेष्वेव ह्यायुधानि ब्रवीमि वः ॥

पाशं पस्शुपद्मे च अंकुशं दंतमेव च

॥९॥

अक्षमालां लांगलं च मुसलं वरदं तथा ॥

पूर्णं च मोदकैः पात्रं पाणिना च विचिंतयेत्

॥१०॥

लंबोदर विरूपाक्षं निवीतं मेखलान्वितम् ॥

योगासने चोपविष्टं चंद्रलेखां कशेखरम्

॥११॥

ध्यानं च सात्त्विकं ज्ञेयं राजसं हि नृणामिव ॥

शुद्धचामीकराभासं गजाननमलौकिकम्

॥१२॥

चतुर्भुजं त्रिनयनमेकदंतं महोदरम् ॥

पाशांकुशधरं देवं दंतमोदकपात्रकम्

॥१३॥

नीलं च तामसं ध्यानमेवं त्रिविधमुच्यते ॥

ततः पूजा प्रकर्तव्या भवद्भिः शीघ्रमेव च

॥१४॥

एकविंशतिदूर्वाभिर्द्वाभ्यां नाम्ना पृथक्पृथक् ॥

सर्वनामभिरेकैव दीयते गणनायके

॥१५॥

तथैव नामभिर्देया एकविंशतिमोदकाः ॥

दशनामान्यहं वक्ष्ये पूजनार्थं पृथक्पृथक्

॥१६॥

गणाधिप नमस्तेस्तु उमापुत्राघनाशन ॥

विनायकेशपुत्रोति सर्वसिद्धिप्रदायक

॥१७॥

एकदंतेभवक्त्रेति तथा मूषकवाहन ॥

कुमारगुरवे तुभ्यं पूजनीयः प्रयत्नतः

॥१८॥

एवमुक्त्वा सुरान्सद्यः परिष्वज्य च सादरम् ॥

विष्णुं गुहाशयं सद्यो ब्रह्माणं च सदाशिवः

॥१९॥

तिरोधान गतः सद्यः शंभुः परमशोभनः ॥

प्रणम्य शंभुं ते सर्वे गणाध्यक्षार्च्चने रताः

॥२०॥

ततः संपूज्य विधिवद्गणाध्यक्षार्च्चने रताः ॥

उपचारैरनेकैश्च दूर्वाभिश्च पृथक्पृथक्

॥२१॥

संतुष्टो हि गणाध्यक्षो देवानां वरदोऽभवत् ॥

प्रदक्षिणं नमस्कृत्य तैः सर्वैरभितोषितः

॥२२॥

तमोगुणान्विताः सर्वे ह्यसुरा नाभ्यपूजयन् ॥

उपहासपरास्ते वै देवान्प्रत्यसुरोत्तमाः

॥२३॥

पूजयित्वा शांकरिं ते पुनः क्षीरार्णवं ययुः ॥

ब्रह्मा विष्णुश्च ऋषयो देवदैत्याः सुरोत्तमाः

॥२४॥

मंथानं मंदरं कृत्वा रज्जुं कृत्वाथ वासुकिम् ॥

ममंथुश्च तदा देवा विष्णुं कृत्वाथ सन्निधौ

॥२५॥

मथ्यमाने तदाब्धौ च निर्गतश्चंद्र अग्रतः ॥

पीयूषपूर्णः सर्वेषां देवानां कार्यसिद्धये

॥२६॥

शौनक उवाच

अर्णवे किं पुरा चंद्रो निक्षिप्तः केन सुव्रत ॥

गजादिकानि रत्नानि कथितानि त्वया पुरा

॥२७॥

एतत्सर्वं समासेन आदौ कथय मे प्रभो ॥

ज्ञात्वा सर्वे वयं सूत पश्चादावर्णयामहे

॥२८॥

तेषां तद्वचनं श्रुत्वा सूतो वाक्यमुपाददे

॥२९॥

चंद्र आपोमयो विप्रा अत्रिपुत्रो गुणान्वितः ॥

उत्पन्नो ह्यनसूयायां ब्रह्मणोंऽशात्समुद्भवः ॥

रुद्रस्यांशाद्धि दुर्वासा विष्णोरंशात्तु दत्तकः

॥३०॥

क्षीराब्धिं मथ्यमानं तु दृष्ट्वा चंद्रो मुदान्वितः ॥

क्षीराब्धिरपि चंद्रं च दृष्ट्वा सोऽप्युत्सुकोऽभवत्

॥३१॥

प्रविष्टश्चोभयप्रीत्या श्रृण्वतां भो द्विजोत्तमाः ॥

चंद्रो ह्यमृत पूर्णोभूदग्रतो देवसन्निधौ

॥३२॥

दृष्ट्वा च कांतिं त्वरितोऽथ चंद्रो नीराजितो देवगणैस्तदानीम् ॥

वादित्रगोषैस्तुमुलैरनेकैर्मृदंगशंखैः पटहैरनेकैः

॥३३॥

नमश्चक्रुश्च ते सर्वे ससुरासुरदानवाः ॥

तदा गर्गं पृच्छमाना बलं चंद्रस्य तत्त्वतः

॥३४॥

गर्गेणोक्तास्तदा सर्वेषां बलमद्य वै ॥

केंद्रस्थानगताः सर्वे भवतामुत्तमा ग्रहाः

॥३५॥

चंद्रं मुरुः समायातो बुधश्चैव समागतः ॥

आदित्यश्च तथा शुक्रः शनिरंगारको महान्

॥३६॥

तस्माच्चंद्रबलं श्रेष्ठं भवतां कार्यसिद्धये ॥

गोमंतसंज्ञकोनाम मुहूर्तोऽयं जयप्रदः

॥३७॥

एवमाश्वासिता देवा गर्गेणैव महात्मना ॥

ममंथुरब्धिं त्वरिता गर्जमाना महाबलाः

॥३८॥

द्विगुणं बलमापन्ना महात्मानो दृढव्रताः ॥

महेशं स्मरमाणास्ते गणेशं च पुनः पुनः

॥३९॥

निर्मथ्यमानादुदधेर्गर्जमानाच्च सर्वशः ॥

निर्गता सुरभिः साक्षाद्देवानां कार्यसिद्धये

॥४०॥

तुष्टा कपिलवर्णां सा ऊधोभारेण भूयसा ॥

तरंगोपरि गच्छंती शनकैः शनकैस्ततः

॥४१॥

कामधेनुं समायांतीं दृष्ट्वा सर्वे सुरासुराः ॥

पुष्पवर्षेण महता ववर्षुरमितप्रभाम्

॥४२॥

तदा तूर्याण्यनेकानि नेदुर्वाद्यान्यनेकशः ॥

आनीता जलमध्याच्च संवृता गोशतैरपि

॥४३॥

तासु नीलाश्च कृष्णश्च कपिलाश्च कपिंजलाः ॥

बभ्रवः श्यामका रक्ता जंबूवर्णाश्च पिंगलाः ॥

आभिर्युक्ता तदा गोभिः सुरभिः प्रत्यदृश्यत

॥४४॥

असुरासुरसंवीतां कामधेनुं ययाचिरे ॥

ऋषयो हर्षसंयुक्ता देवान्दैत्यांश्च तत्क्षणात्

॥४५॥

सर्वेभ्यश्चैव विप्रेभ्यो नानागोत्रेभ्य एव च ॥

सुरभीसहिता गावो दातव्या नात्र संशयः

॥४६॥

तैर्याचितास्तेऽत्र सुरासुराश्च ददुश्च ता गाः शिवतोषणाय ॥

तैः स्वीकृतास्ता ऋषिभिः सुमंगलैर्महात्मभिः पुण्यतमैः सुरभ्यः

॥४७॥

पुण्याहं मुनिभिः सर्वैः कारितास्ते तदा सुराः ॥

देवानां कार्यसिद्ध्यर्थमसुराणां क्षयाय च

॥४८॥

पुनः सर्वे सुसंरब्धा ममंथुः क्षीरसागरम् ॥

मथ्यमानात्तदा तस्मादुदधेश्च तथाऽभवत्

॥४९॥

कल्पवृक्षः पारिजातश्चूतः संतानकस्तथा ॥

तान्द्रुमानेकतः कृत्वा गन्धर्वनगरोपमान् ॥

ममंथुरुग्रं त्वरिताः पुनः क्षीरार्णवं बुधा

॥५०॥

निर्मथ्यमानादुदधेरभवत्सूर्यवर्चसम् ॥

रत्नानामुत्तमं रत्नं कौस्तुभाख्यं महाप्रभम्

॥५१॥

स्वकीयेन प्रकाशेन भासयंतं जगत्त्रयम् ॥

चिंतामणिं पुरस्कृत्य कौस्तुभं ददृशुर्हि ते

॥५२॥

सर्वे सुरा ददुस्तं वै कौस्तुभं विष्णवे तदा ॥

चिंतामणि ततः कृत्वा मध्ये चैव सुरासुराः ॥

ममंथुः पुनरेवाब्धिं गर्जंतस्ते बलोत्कटाः

॥५३॥

मथ्यमानात्ततस्तस्मादुच्चैःश्रवाः समद्भुतम् ॥

बभूव अश्वो रत्नानां पुनश्चैरावतो गजः

॥५४॥

तथैव गजरत्नं च चतुःषष्ट्या समन्वितम् ॥

गजानां पांडुराणां च चतुर्द्दन्तं मदान्वितम्

॥५५॥

तान्सर्वान्मध्यतः कृत्वा पुनश्चैव ममंथिरे ॥

निर्मथ्यमानादुदधेर्निर्गतानि बहून्यथ

॥५६॥

मदिरा विजया भृंगी तथा लशुनगृंजनाः ॥

अतीव उन्मादकरो धत्तूरः पुष्करस्तथा

॥५७॥

स्थापिता नैकपद्येन तीरे नदनदीपतेः ॥

पुनश्च ते तत्र महासुरेन्द्रा ममंथुरब्धिं सुरसत्तमैः सह

॥५८॥

निर्मथ्यमानादुदधेस्तदासीत्सा दिव्य लक्ष्मीर्भुवनैकनाथा ॥

आन्वीक्षिकीं ब्रह्मविदो वदंति तथआ चान्ये मूलविद्यां गृणंति

॥५९॥

ब्रह्मविद्यां केचिदाहुः समर्थाः केचित्सिद्धिमृद्धिमाज्ञा मथाशाम् ॥

यां वैष्णवीं योगिनः केचिदाहुस्तथा च मायां मायिनो नित्ययुक्ताः

॥६०॥

वदंति सर्वे केनसिद्धांतयुक्तां यां योगमायां ज्ञानशक्त्यान्विता ये

॥६१॥

ददृशुस्तां महालक्ष्मीमायांती शनकैस्तदा ॥

गौरां च युवतीं स्निग्धां पद्मकिंजल्कभूषणाम्

॥६२॥

सुस्मितां सुद्विजां श्यामां नवयौवनभूषणाम् ॥

विचित्रवस्त्राभरणरत्नानेकोद्यतप्रभाम्

॥६३॥

बिंबोष्ठीं सुनसां तन्वीं सुग्रीवां चारुलोचनाम् ॥

सुमध्यां चारुजघनां बृहत्कटितटां तथा

॥६४॥

नानारत्नप्रदीपैश्च नीराजितमुखांबुजाम् ॥

चारुप्रसन्नवदनां हारनूपूरशोभिताम्

॥६५॥

मूर्द्धनि ध्रियमाणेन च्छत्रेणापि विराजिताम् ॥

चामरैर्वीज्यमानां तां गंगाकल्लोललोहितैः

॥६६॥

पांडुरं गजमारूढां स्तूयमानां महर्षिभिः ॥

सुरद्रुमपुष्पमालां बिभ्रतीं मल्लिकायुताम्

॥६७॥

कराग्रे ध्रियमाणां तां दृष्ट्वा देवाः समुत्सुकाः ॥

आलोकनपरा यावत्तावत्तान्ददृशे ह्यसौ

॥६८॥

देवांश्च दानवांश्चैव सिद्धचारणपन्नगान् ॥

यथा माता स्वपुत्रांश्च महालक्ष्मीस्तथा सती

॥६९॥

आलोकितास्तथा देवास्तया लक्ष्म्या श्रियान्विताः ॥

सञ्जातास्तत्क्षणादेव राज्य लक्षणलक्षिताः ॥

दैत्यास्ते निःश्रिका जाता ये श्रियाऽनवलोकिताः

॥७०॥

निरीक्ष्यमाणा च तदा मुकुन्दं तमालनीलं सुकपोलनासम् ॥

विभ्राजमानं वपुषा परेण श्रीवत्सलक्ष्मं सदयावलोकम्

॥७१॥

दृष्ट्वा तदैव सहसा वनमालयान्विता लक्ष्मीर्गजादवततार सुविस्मयंती ॥

कंठे ससर्ज पुरुषस्य परस्य विष्णोर्मालां श्रिया विरचितां भ्रमरैरुपेताम्

॥७२॥

वामांगमाश्रित्य तदा महात्मनः सोपाविशत्तत्र समीक्ष्य ता उभौ ॥

सुराः सदैत्या मुदमापुरद्भुतां सिद्धाप्सरः किंनरचारणाश्च

॥७३॥

सर्वेषामेव लोकानामैकपद्येन सर्वशः ॥

हर्षो महानभूत्तत्र लक्ष्मीनारायणागमे

॥७४॥

लक्ष्म्या वृतो महाविष्णुर्लक्ष्मीस्तेनैव संवृता ॥

एवं परस्परं प्रीत्या ह्यवलोकनतत्परौ

॥७५॥

शंखाश्च पटहाश्चैव मृदंगानकगोमुखाः ॥

भेर्यश्च झर्झरीणां च स शब्दस्तुमुलोऽभवत्

॥७६॥

बभूव गायकानां च गायनं सुमहत्तदा ॥

ततानि विततान्येन घानानि सुषिराणि च

॥७७॥

एवं वाद्यप्रभेदैश्च विष्णुं सर्वात्मना हरिम् ॥

अतोषयन्सुगीतज्ञा गंधर्वाप्सरसां गणाः

॥७८॥

तथा जगुर्नारदतुंबुरादयो गंधर्वयक्षाः सुरसिद्ध संघाः ॥

संसेवमानाः परमात्मरूपं नारायणं देवमगाधबोधम्

॥७९॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखण्डे समुद्रमन्थनाख्याने लक्ष्मीप्रादुर्भाववर्णनंनामैकादशोऽध्यायः ॥ ११ ॥