देवासुरसंग्रामवर्णनम्
लोमश उवाच
ततस्ते गर्ज्जमानाश्च आक्षिपंतः सुरान्रणे ॥
शतक्रतुप्रमुख्यांस्तन्महाबलपराक्रमान्
॥१॥विमानमारुह्य तदा महात्मा वैरोचनिः सर्वबलेन सार्द्धम् ॥
दैत्यैः समेतो विविधैर्महाबलैः सुरान्प्रदुद्राव महाभयावहम्
॥२॥स्वानि रूपाणि बिभ्रंतः समापेतुः स हस्रशः ॥
केचिद्व्याघ्रान्समारूढा महिषांश्च तथा परे
॥३॥अश्वान्केचित्समारूढा द्विपान्केचित्तथा परे ॥
सिंहांस्तथा परे रूढाः शार्दूलाञ्छरभांस्तथा
॥४॥मयूरान्राजहंसांश्च कुक्कुटांश्च तथा परे ॥
केचिद्धयान्समारूढा उष्ट्रानश्वतरानपि
॥५॥गजान्खरान्परे चैव शकटांश्च तथा परे ॥
पादाता बहवो दैत्याः खङ्गशक्त्यृष्टिपाणयः
॥६॥परिघायुधिनः पाशशूलमुद्गरपाणयः ॥
असिलोमान्विताः केचिद्भुशुंडीपरिघायुधाः
॥७॥हयनागरथाश्चान्ये समारूढाः प्रहारिणः ॥
विमानानि समारूढा बलिमुख्याः सहस्रशः
॥८॥स्पर्द्धमानास्ततान्योन्यं गर्जंतश्च मुहुर्मुहुः ॥
वृषपर्वा ह्युवा चेदं बलिनं दैत्यपुंगवम्
॥९॥त्वया कृतं महाबाहो इंद्रेण सह संगमम् ॥
विश्वासो नैव कर्तव्यो दुर्हृदा च कथंचन
॥१०॥ऊनेनापि हि तुच्छेन वैरिणापि कथंचन ॥
मैत्री बुद्धिमता कार्या आपद्यपि निवर्तते
॥११॥न विश्वसेत्पूर्वविरोधिना क्वचित्पराजिताः स्मोऽथ बले त्वयाधुना ॥
पुराणदुष्टाः कथमद्य वै पुनर्मंत्रं विकर्तुं न च ते यतेरन्
॥१२॥इत्यूचुस्ते दुराधर्षा योद्धुकामा व्यवस्थिताः ॥
ध्वजैश्छत्रैः पताकैश्च रणभूमिममंडयन्
॥१३॥चामरैश्च दिशः सर्वा लोपितं च रणस्थलम् ॥
तथा सर्वे सुरास्तत्र दैत्यान्प्रति समुत्सुकाः
॥१४॥पीत्वामृतं महाभागा वाहान्यारुह्य दंशिताः ॥
गजारूढो महेंद्रोपि वज्रपाणिः प्रतापवान् ॥
सूर्यश्चोच्चैः श्रवारूढो मृगा रूढश्च चन्द्रमाः
॥१५॥छत्रचामरसंवीताः शोभिता विजयश्रिया ॥
प्रणम्य विष्णुं ते सर्व इंद्राद्या जयकांक्षिणः
॥१६॥ते विष्णुना ह्यनुज्ञाता असुरान्प्रति वै रुषा ॥
असुराश्च महाकाया भीमाक्षा भीमविक्रमाः
॥१७॥तेषां बोरमभूद्युद्धं देवानां दानवैः सह ॥
तुमुलं च महाघोरं सर्वभूतभयावहम्
॥१८॥शरधारान्वितं सर्वं बभूव परमाद्भुतम् ॥
ततश्च टचटाशब्दा बभूवुश्च दिशोदश
॥१९॥ततो निमिषमात्रेण शरघातयुता भवन् ॥
शरतोमरनाराचैराहताश्चापतन्भुवि
॥२०॥विध्यमानास्तथा केचिद्विविधुश्चापरान्रणे ॥
भल्लैर्भग्नाश्च पतिता नाराचैः शकलीकृताः
॥२१॥क्षुरप्रहारिताः केचिद्दैत्या दानवराक्षसाः ॥
शिलीमुखैर्मारिताश्च भग्नाः केचिच्च दानवाः
॥२२॥एवं भग्नं दानवानां च सैन्यं दृष्ट्वा देवा गर्जमानाः समंतात् ॥
हृष्टाः सर्वे संमिलित्वा तदानीं लब्ध्वा युद्धे ते जयं श्लाघयन्ते
॥२३॥शंखवादित्रघोषेण पूरितं च जगत्त्रयम् ॥
देवान्प्रति कृतामर्षा दानवास्ते महाबलाः
॥२४॥बलिप्रभृतयः सर्वे संभ्रमेणोत्थिताः पुनः ॥
विमानैः सूर्यसंकासैरनेकैश्च समन्विताः
॥२५॥द्वंद्वयुद्धं सुतुमुलं देवानां दानवैः सह ॥
संप्रवृत्तं पुनश्चैव परस्परजिगीषया
॥२६॥बलिना दानवेंद्रेण महेंद्रो युयुधे तदा ॥
तथा यमो महाबाहुर्नमुच्या सह संगतः
॥२७॥नैर्ऋतः प्रघसेनैव पाशी कुंभेन संगतः ॥
निकुंभेनैव सुमहद्युद्धं चक्रे सदारयः
॥२८॥सोमेन सह राहुश्च युद्धं चक्रे सुदारुणम् ॥
राहुणा चन्द्रदेहोत्थममृतं भक्षितं तदा ॥
संपर्कादमृस्यैव यथा राहुस्तथाऽभवत्
॥२९॥तानि सर्वाणि दृष्टानि शंभुना परमेष्ठिना ॥
आश्रयोऽहं च सर्वेषां भूतानां नात्र संशयः ॥
असुराणां सुराणां च सर्वेषामपि वल्लभः
॥३०॥एवमुक्तस्तदा राहुः प्रणम्य शिरसा शिवम् ॥
मौलौ स्थितस्तदा चंद्रो अमृतं व्यसृजद्भयात्
॥३१॥तेन तस्य हि जातानि शिरांसि सुबहून्यपि ॥
एकपद्येन तेषां च स्रजं कृत्वा मनोहराम् ॥
बबंध शंभुः शिरसि शिरोभूषणवत्कृतम्
॥३२॥अशनात्कालकूटस्य नीलकंठोऽभवत्तदा ॥
देवानां कार्यसिद्ध्यर्थं मुंडमाला तथा कृता
॥३३॥दधार शिरसा तां च मुण्डमालां महेश्वरः
॥३४॥तया स्रजाऽसौ शुशुभे महात्मा देवादिदेवस्त्रिपुरांतको हरः ॥
गजासुरो येन निपातितो महानथांधको येन कृतश्च चूर्णः
॥३५॥गंगा धृता येन शिरस्सुमध्ये चंद्रं च चूडे कृतवान्भयापहः ॥
वेदाः पुराणानि तथागमाश्च तथैव नानाश्रुतयोऽथ शास्त्रम्
॥३६॥जल्पंति नानागमभेदैर्मीमांसमानाश्च भवंति मूकाः ॥
नानागमार्चायमतप्रभेदैर्निरूप्यमाणो जगदेकबंधुः
॥३७॥शिवं हि नित्यं परमात्मदैवं वेदैकवेद्यं परमात्मदिव्यम् ॥
विहाय तं मूढजनाः प्रमत्ताः शिवं न जानंति परात्मरूपम्
॥३८॥येनैव सृष्टं विधृतं च येन येन श्रितं येन कृतं समग्रम् ॥
यस्यांशभूतं हि जगत्कदाचिद्वेदांतवेद्यः परमात्मा शिवश्च
॥३९॥आढ्यो वापि दरिद्रो वा उत्तमो ह्यधमोऽपि वा ॥
शिवभक्तिरतो नित्यं शिव एव न संशयः
॥४०॥यो वा परकृतां पूजां शिवस्योपरि शोभिताम् ॥
दृष्ट्वा संतोषमायाति दायं प्राप्नोति तत्समम्
॥४१॥ये दीपमालां कुर्वंति कार्तिक्यां श्रद्धयान्विताः ॥
यावत्कालं प्रज्वलंति दीपास्ते लिंगमग्रतः ॥
तावद्युगसहस्राणि दाता स्वर्गे महीयते
॥४२॥कौसुंभतैलसंयुक्ता दीपा दत्ताः शिवालये ॥
दातारस्तेऽपि कैलासे मोदन्ते शिवसंनिधौ
॥४३॥अतसीतैलसंयुक्ता दीपा दत्ताः शिवालये ॥
ते शिवं यांति संयुक्ताः कुलानां च शतेन वै
॥४४॥ज्ञानिनोऽपि हि जायंते दीपदानफलेन हि
॥४५॥तिलतैलेन संयुक्ता दीपा दत्ताः शिवालये ॥
ते शिवं यांति संयुक्ताः कुलानां च शतेन वै
॥४६॥घृताक्ता यैः कृता दीपा दीपिताश्च शिवालये ॥
ते यांति परमं स्थानं कुललक्षसमन्विताः
॥४७॥कर्पूरागुरुधूपैश्च ये यजंति सदा शिवम् ॥
आरार्तिकां सकर्प्पूरां ये कुर्वंति दिनेदिने ॥
ते प्राप्नुवंति सायुज्यं नात्र कार्या विचारणा
॥४८॥एककालं द्विकालं वा त्रिकालं ये ह्यतंद्रिताः ॥
लिंगार्चनं प्रकुर्वंति ते रुद्रा नात्र संशयः
॥४९॥रुद्राक्षधारणं ये च कुर्वंति शिवपूजने ॥
दाने तपसि तीर्थे च पर्वकाले ह्यतंद्रिताः ॥
तेषां यत्सुकृतं सर्वमनंतं भवति द्विजाः
॥५०॥रुद्राक्षा ये शिवेनोक्तास्ताच्छृणुध्वं द्विजोत्तमाः ॥
आरम्भैकमुखं तावद्याबद्वक्त्राणि षोडश ॥
एतेषां द्वौ च विज्ञेयौ श्रेष्ठौ तारयितुं द्विजाः
॥५१॥रुद्राक्षाणां पंचमुखखस्तथा चैकमुखः स्मृतः ॥
ये धारयंत्येकमुखं रुद्राक्षमनिशं नराः ॥
रुद्रलोकं च गच्छंति मोदन्ते रुद्रसंनिधौ
॥५२॥जपस्तपः क्रिया योगः स्नानं दानार्चनादिकम् ॥
क्रियते यच्छृभं कर्म्म ह्यनंतं चाक्षधारणात्
॥५३॥शुनः कंठनिबद्धोऽपि रुद्राक्षो यदि वर्तते ॥
सोऽपि संतारितस्तेन नात्र कार्या विचारणा
॥५४॥तथा रुद्राक्षसंबंधात्पापमपिक्षयं व्रजेत् ॥
एवं ज्ञात्वा शुभं कर्म कार्यं रुद्राक्षबंधनात्
॥५५॥त्रिपुण्ड्रधारणं येषां विभूत्वा मन्त्रपूतया ॥
ते रुद्रलोके रुद्राश्च भविष्यंति न संशयः
॥५६॥कपिलायाश्च संगृह्य गोमयं चांतरिक्षगम् ॥
शुष्कं कृत्वाथ संदाह्यं विभूत्यर्थं शिवप्रियैः
॥५७॥विभूतीति समाख्याता सर्वपापप्रणाशिनी ॥
ललाटेंऽगुष्ठरेखा च आदौ भाव्या प्रयत्नतः
॥५८॥मध्यमां वर्जयित्वा तु अंगुलीक्द्वयेन च ॥
एवं त्रिरेखासंयुक्तो ललाटे यस्य दृश्यते ॥
स शैवः शिववज्ज्ञेयो दर्शनात्पापनाशनः
॥५९॥जटाधराश्च ये शैवाः सप्त पंच तथा नव ॥
जटा ये स्थापियिष्यंति शैवेन विधिना युताः
॥६०॥ते शिवं प्राप्नुवं तीह नात्र कार्या विचारणा ॥
रुद्राक्षधारणं कार्यं शिवभक्तैर्विशेषतः
॥६१॥अल्पेन वा महत्त्वेन पूजितो वा सदाशिवः ॥
कुलकोटिं समुद्धृत्य शिवेन सह मोदते
॥६२॥तस्माच्छिवात्परतरं नास्ति किंचिद्द्विजोत्तमाः ॥
यदैवमुच्यते शास्त्रे तत्सर्वं शिवकारणम्
॥६३॥शिवो दाता हि लोकानां कर्ता चैवानुमोदिता ॥
शिवशक्त्यात्मकं विश्वं जानीध्वं हि द्विजोत्तमाः
॥६४॥शिवेति द्व्यक्षरं नाम त्रायते महतो भयात् ॥
तस्माच्छिवश्चिंत्यतां वै स्मर्यतां च द्विजोत्तमाः
॥६५॥ऋषय ऊचुः
सोमनाथस्य माहात्म्यं ज्ञातं तस्य प्रसादतः ॥
राहोः शिरोभयात्सर्वे रक्षिताः परमेष्ठिना
॥६६॥सुराश्चेंद्रादयश्चान्ये तस्मिन्युद्धे सुदारुणे ॥
अत ऊर्ध्वं सुराः सर्वे किमकुर्वत उच्यताम्
॥६७॥शिवस्य महिमा सर्वः श्रुतस्तव मुखोद्गतः ॥
अथ युद्धस्य वृत्तान्तः कथ्यतां परमार्थतः
॥६८॥लोमश उवाच
यदा हि दैत्यैश्च पराजिताः सुराः शम्भुं च सर्वे शरणं प्रपन्नाः ॥
शिवं प्रणेमुः सहसा सुरोत्तमा युद्धाय सर्वे च मनो दधुस्तदा
॥६९॥तथैव दैत्या अपि युध्यमाना उत्साहयुक्तातिबलाश्च सर्वे ॥
देवैः समेताश्च पुनः पुनश्च युद्धं प्रचक्रुः परमास्त्रयुक्ताः
॥७०॥एवं च सर्वे ह्यसुराः सुराश्च शक्त्यृष्टिशूलैः परिघैः परश्वधैः ॥
जयार्थिनोमर्षयुताः परस्परं सिंहा यथा हैमवतीं दुरात्ययाः ॥
निहन्यमाना ह्यसुराः सुरैस्तदा नानास्त्रयोगैः परमैर्निपेतुः
॥७१॥चक्रुस्ते सकलामुर्वी मांसशोणितकर्दमाम् ॥
महीं वृक्षाद्रिसंयुक्तां ससागरवनाकराम्
॥७२॥शिरांसि च कबन्धानि कवचानि महांति च ॥
ध्वजारथाः पताकाश्च गजवाजिशिरांसि च
॥७३॥बहन्त्यश्चापगा ह्यासन्नद्यो भीरुभयावहाः ॥
अगाधाः शोणितोदाश्च तरंतो ब्रह्मराक्षसाः ॥
तयंति परान्भूतप्रतप्रमथराक्षसान्
॥७४॥शाकिनीडाकिनीसंघा यक्षिण्योऽथ सहस्रशः ॥
नानाकेलिषु संयुक्ताः परस्परमुदान्विताः
॥७५॥एवं संक्रीडमानास्ते भूतप्रमथराक्षसाः ॥
रणे तस्मिन्महारौद्रे देवासुरसमागमे
॥७६॥बलिना सह देवेन्द्रो युयुधेऽद्भुतविक्रमः ॥
शक्त्या जघान देवेंद्रं वैरोचनिरमर्षणः
॥७७॥तां शक्तिं वञ्चयामास महेन्द्रो लघुविक्रमः ॥
जघान स बलिं यत्नाद्दैत्येंद्रं परमेण हि
॥७८॥वज्रेण शितधारेण बाहुं चिच्छेद विक्रमी ॥
गातासुरपतद्भूमौ विमानात्सूर्यसंन्निभात्
॥७९॥पतितं च बलिं दृष्ट्वा वृषपर्वा रूपान्वितः ॥
ववर्ष शरधाराभिः पयोद इव पर्वतम्
॥८०॥महेंद्रं सगजं चैव सहमानं शिताञ्छरान् ॥
तदा युद्धमभूद्वोरं महेन्द्रवृषपर्वणोः
॥८१॥निपात्य वृषपर्वाणमिंद्रः परबलार्दनः
॥८२॥ततो वज्रेण महता दानवानवधीद्रणे ॥
शिरसि च्छेदिताः केचित्केचित्कंधरतो हताः
॥८३॥विह्वलाश्च कृताः केचिदिंद्रेण कुपितेन च ॥
तथा यमेन निहता वायुना वरुणेन च
॥८४॥कुबेरेण हताश्चान्ये नैर्ऋतेन तथा परे ॥
अग्निना निहताः केचिदीशेनैव विदारिताः
॥८५॥एवं तदा तैर्निहता बलीयसो महासुरा विक्रमशानिनश्च ॥
सुरैस्तु सर्वैः सह लोकपालैः शिवप्रसादा भिहतास्तदानीम्
॥८६॥ततो महादैत्यवरो दुरात्मा स कलानेमिः परमास्त्रयुक्तः ॥
ययौ तदानीं सुरसत्तमांस्तान्हंतुं सदा क्रूरमतिः स एकः
॥८७॥सिंहारूढो दंशितश्च त्रिशुलेन हि संयुतः ॥
दैत्यानामर्बुदेनैव सिंहारूढेन संवृतः
॥८८॥ते सिंहा दंशिताः सर्वे महाबलपराक्रमाः ॥
तेषु सिंहेषु चारूढा महादैत्याश्च तत्समाः
॥८९॥आयांतीं दैत्यसेनां तां सर्वां सिंहविभूषिताम् ॥
कालनेमियुतां दृष्ट्वा देवा इंद्रपुरोगमाः ॥
भयमाजग्मुरतुलं तदा ध्यानपरा भवन्
॥९०॥किं कुर्मोऽद्य वयं सर्वे कथं जेष्याम चाद्भुतम् ॥
एतादृशमसंख्याकमनीकं सिंहसंवृतम्
॥९१॥एवं विचिंत्यमानास्ते ह्यागतस्तत्र नारदः ॥
नारदेन च तत्सर्वं पुरावृत्तं महत्तरम्
॥९२॥कथितं च महेंद्राय कालनेमेस्तपोबलम् ॥
अजेयत्वं च संग्रामे वरदानबलेन तु
॥९३॥विष्णुं विना वयं देवा अशक्ता रणमंडले ॥
जेतुं च स ततो विष्णुः स्मर्यतां परमेश्वरः ॥
तमालनीलो वरदः सर्वैर्विजयकांक्षिभिः
॥९४॥नारदस्य वचः श्रुत्वा तदा देवास्त्वरान्विताः ॥
ध्यानेन च महाविष्णुं ततः परबलार्द्दनम् ॥
स्मरंतः परमात्मानमिदमूचुश्च तं विभुम्
॥९५॥देवा ऊचुः
नमस्तुभ्यं भगवते नमस्ते विश्वमंगलम् ॥
श्रीनिवास नमस्तुभ्यं श्रीपते ते नमोनमः
॥९६॥अद्यास्मान्भयभीतांस्त्वं कालनेमिभयार्दितान् ॥
त्रातुमर्हसि दैत्याच्च देवानामभयप्रद
॥९७॥एवं ध्यातः संस्मृतश्च प्रादुर्भूतो हरिस्तदा ॥
नीलो गरुडमारुह्य जगतामभयप्रदः
॥९८॥चक्रपाणिस्तदायातो देवानां विजयाय च ॥
गगनस्थं महाविष्णुं गरुडोपरि संस्थितम् ॥
श्रीवासमेनं दुर्द्धर्षं योद्धुकामं ददर्शिरे
॥९९॥तथा दृष्ट्वा कालनेमिस्तदानीं प्रहस्यमानोऽतिरुषा बलान्वितः ॥
कस्त्वं महाभाग वरेण्यरूपः श्यामो युवा वारणमत्तविक्रमः ॥
करे गृहीतं निशितं महाप्रभं चक्रं च कस्मात्कथयस्व मे प्रभो
॥१००॥श्रीभगवानुवाच
युद्धार्थमिह चायातो देवानां कार्यसिद्धये ॥
त्वं स्थिरो भव रे मंद दहाम्यद्य न संशयः
॥१०१॥श्रुत्वा भगवतो वाक्यं कालनेमिः प्रतापवान् ॥
उवाच रुषितो भूत्वा भगवंतमधोक्षजम्
॥१०२॥मूलभूतो हि देवानां भगवान्युद्धदुर्मदः ॥
युद्धं कुरु मया सार्द्धं यदि शूरोऽसि संप्रति
॥१०३॥प्रहस्य भगवान्विष्णुरुवाचेदं महाप्रभः ॥
गगनस्थो भव त्वं हि महीस्थोऽहं भवामि वै
॥१०४॥अप्रशस्तं च विषमं युद्धं चैव यथा भवेत् ॥
तथा कुरु महाबाहो गगनो वा महीतले
॥१०५॥तथेति मत्वा हि महानुभावो दैत्यैः समेतोऽर्बुदसंख्यकैश्च ॥
सिंहोपरिस्थैश्च महानुभावैर्महाबलैः क्रूरतरैस्तदानीम्
॥१०६॥गगनमथ जगाहे मंदमंदं महात्मा ह्यसुरगणसमेतो विश्वरूपं जिघांसुः ॥
त्रिशिखमपरमुग्रं गृह्य संदेशचेष्टादशनविकृतवक्त्रो योद्धुकामो हरिं सः
॥१०७॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे समुद्रमंथनाख्याने देवासुरसंग्रामवर्णनंनाम त्रयोदशोऽध्यायः ॥ १३ ॥