मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — केदारखण्डः, अध्याय २१

3
माहेश्वरखण्डः · केदारखण्डः · 21

वर्द्धमाना तदा साध्वी रराज प्रतिवासरम्

लोमश उवाच

वर्द्धमाना तदा साध्वी रराज प्रतिवासरम् ॥

अष्टवर्षा यदा जाता हिमालयगृहे सती

॥१॥

महेशो हिमवद्द्रोण्यां तताप परमं तपः ॥

सर्वैर्गणैः परिवृतो वीरभद्रादिभिस्तदा

॥२॥

एतत्तपो जुषाणं तं महेशं हिमवान्ययौ ॥

तत्पादपल्लवं द्रष्टुं पार्वत्या सह बुद्धिमान्

॥३॥

यावत्समागतो द्रष्टं नंदिनासौ निवारितः ॥

द्वारि स्थिते च तदा क्षणमेकं स्थिरोऽभवत्

॥४॥

पुनर्विज्ञापयामास नंदिना हिमवान्गिरिः ॥

विज्ञप्तो नंदिना शंभुरचलो द्रष्टुमागतः

॥५॥

तदाकर्ण्य वचस्तस्य नंदिनः परमेश्वरः ॥

आनयस्व गिरिं चात्र नंदिनं वाक्यमब्रवीत्

॥६॥

तथेति मत्वा नंदी तं पर्वतं च हिमाचलम् ॥

आनयामास स तथा शंकरं लोकशंकरम्

॥७॥

दृष्ट्वा तदानीं सकलेश्वरं प्रभुं तपो जुषाणं विनिमीलितेक्षणम्

॥८॥

कपर्द्धिनं चंद्रकलाविभूषणं वेदांतवेद्यं परमात्मनि स्थितम् ॥

ववंद शीर्ष्णा च तदा हिमाचलः परां मुदं प्रापदहीनसत्त्वः

॥९॥

उवाच वाक्यं जगदेकमंगलं हिमालयो वाक्यविदां वरिष्ठः

॥१०॥

सभाग्योऽहं महादेव प्रसादात्तव शंकर ॥

प्रत्यहं चागमिष्यामि दर्शनार्थं तव प्रभो

॥११॥

अनया सह देवेश अनुज्ञां दातुर्महसि ॥

श्रुत्वा तु वचनं तस्य देवदेवो महेश्वरः

॥१२॥

आगंतव्यं त्वया नित्यं दर्शनार्थं ममाचल ॥

कुमारीं च गृहे स्थाप्य नान्यथा मम दर्शनम्

॥१३॥

अचलः प्रत्युवाचेदं गिरिशं नतकंधरः ॥

कस्मान्मयानया सार्द्धं नागंतव्यं तदुच्यताम् ॥

अचलं च व्रीत शंभुः प्रहसन्वाक्यमब्रवीत्

॥१४॥

इयं कुमारी सुश्रोणी तन्वी चारुप्रभाषिणी ॥

नानेतव्या मत्समीपे वारयामि पुनः पुनः

॥१५॥

एतच्छ्रुत्वा वचनं तस्य शंभोर्निरामयं निःस्पृहनिष्ठुरं वा ॥

तपस्विनोक्तं वचनं निशम्य उवाच गौरी च विहस्य शंभुम्

॥१६॥

गौर्युवाच

तपःशक्त्यान्वितः शंभो करोषि विपुलं तपः ॥

तव बुद्धिरियं जाता तपस्तप्तुं महात्मनः

॥१७॥

कस्त्वं का प्रकृतिः सूक्ष्मा भगवंस्तद्विमृश्यताम् ॥

पार्वत्यास्तद्वचः श्रुत्वा महेशो वाक्यमब्रवीत्

॥१८॥

तपसा परमेणैव प्रकृतिं नाशयाम्यहम् ॥

प्रकृत्या रहितः सुभ्रु अहं तिष्ठमि तत्त्वतः ॥

तस्माच्च प्रकृते सिद्धैर् कार्यः संग्रहः क्वचित्

॥१९॥

पार्वत्युवाच

यदुक्तं परया वाचा वचननं शंकर त्वया ॥

सा किं प्रकृति र्नैव स्यादतीतस्तां भवान्कथम्

॥२०॥

यच्छृणोपि यदश्रासि यच्च पश्यसि शंकर ॥

वाग्वादेन च किं कार्यमस्माके चाधुना प्रभो

॥२१॥

तत्सर्वं प्रकृतेः कार्यं मिथ्यावादो निर्र्थकः ॥

प्रकृतेः परतो भूत्वा किमर्थं तप्यते तपः

॥२२॥

त्वया शंभोऽधुना ह्यस्मिन्गिरौ हिमवति प्रभो ॥

प्रकृत्या मिलितोऽसि त्वं न जानासि हि शंकर

॥२३॥

वाग्वादेन च किं कार्यमस्माकं चाधुना प्रभो ॥

प्रकृतेः परतस्त्वं च यदि सत्यं वचस्तव ॥

तर्हि त्वया न भेतव्यं मम शंकर संप्रति

॥२४॥

प्रहस्य भगवान्देवो गिरिजां प्रत्युवाच ह

॥२५॥

महादेव उवाच

प्रत्यहं कुरु मे सेवां गिरिजे साधुभाषिणि

॥२७॥

इत्येवमुक्त्वा गिरिजां महेशो हिमालयं वाक्यमथो बभाषे ॥

अत्रैव सोऽहं तपसा परेण चरामि भूम्यां परमार्थभावः

॥२७॥

तपस्तप्तुमनुज्ञा मे दातव्या पर्वताधिप ॥

अनुज्ञया विना किंचित्तपः कर्तुं न पार्यते

॥२८॥

एतच्छ्रुत्वा वचस्तस्य देवदेवस्य शूलिनः ॥

प्रहस्य हिमवाञ्छंभुमिदं वचनमब्रवीत्

॥२९॥

त्वदीयं हि जगत्सर्वं सदेवासुरमानुषम् ॥

किमहं तु महादेव तुच्छो भूत्वा ददामि ते

॥३०॥

एवमुक्तो हिमवता शंकरो लोकशंकरः ॥

प्रहस्य गिरिराजं तं याहीति प्राह सादरम्

॥३१॥

शंकरेणाब्यनुज्ञातः स्वगृहं हिमवान्ययौ ॥

सार्द्धं गिरिजया सोऽपि प्रत्यहं दर्शने स्थितः

॥३२॥

एवं कतिपयः कालो गतश्चोपासनात्तयोः

॥३३॥

सुतापित्रोश्च तत्रैव शंकरो दुरतिक्रमः ॥

पार्वतीं प्रति तत्रैव चिंतामापेदिरे सुराः

॥३४॥

ते चिंत्यमानाश्च सुरास्तदानीं कथं महेशो गिरिजां समेष्यति ॥

किं कार्यमद्यैव वयं च कुर्मो बृहस्पते तत्कथयस्व मा चिरम्

॥३५॥

बृहस्पतिरुवाचेदं महेंद्रं प्रति सद्वचः ॥

एवमेतत्त्वया कार्यं महेंद्र श्रूयतां तदा

॥३६॥

एतत्कार्यं मदनेनैव राजन्नान्यः समर्थो भविता त्रिलोके ॥

विप्लावितं तापसानां तपो हि तस्मात्त्वरात्प्रार्थनीयो हि मारः

॥३७॥

गुरोर्वचनमाकर्ण्य आह्वयन्मदनं हरिः ॥

आह्वानादाजगामाथ मदनः कार्यसाधकः

॥३८॥

रत्या समेतः सह माधवेन स पुष्पधन्वा पुरतः सभायाम् ॥

महेंद्रमागम्य उवाच वाक्यं सगर्वितं लोकमनोहरं च

॥३९॥

अहमाकारितः कस्माद्ब्रूहि मेऽद्य शचीपते ॥

किं कार्यं करवाण्यद्य कथ्यतां मा विलंबितम्

॥४०॥

मम स्मरणमात्रेण विभ्रष्टा हि तपस्विनः ॥

त्वमेव जानासि हरे मम वीर्यपराक्रमौ

॥४१॥

मम वीर्यं च जानाति शक्तेः पुत्रः पराशरः ॥

एवं चानये च बहवो भृग्वाद्य ऋषयो ह्यमी

॥४२॥

गुरुरप्यभिजानाति भार्योतथ्यस्य चैव हि ॥

तस्यां जातो भरद्वाजो गुरुणा संकरो हि सः

॥४३॥

भरद्वाजो महाभाग इत्युवाच गुरुस्तदा ॥

जानाति मम वीर्यं च शौर्यं चैव प्रजापतिः

॥४४॥

क्रोधो हि मम बंधुश्च महाबलपरक्रमः ॥

उभाभ्यां द्रावितं विश्वं जंगमाजंगमं महत् ॥

ब्रह्मादिस्तंबपर्यंतं प्लावितं सचराचरम्

॥४५॥

देवा ऊचुः

मदनद्वं समर्थोसि अस्माञ्जेतुं सदैव हि ॥

महेशं प्रति गच्छाशु सुरकार्यार्थसिद्धये ॥

पार्वत्या सहितं शंभुं कुरुष्वाद्य महामते

॥४६॥

एवमभ्यर्थितो देवैर्मदनो विश्वमोहनः ॥

जगाम त्वरितो भूत्वा अप्सरोभिः समन्वितः

॥४७॥

ततो जगामाशु महाधनुर्द्धरो विस्फार्य चापं कुसुमान्वितं महत् ॥

तथैव बाणांश्च मनोरमांश्च प्रगृह्य वीरो भुवनैकजेता ॥

तस्मिन्हिमाद्रौ परिदृश्यमानोऽवनौ स्मरो योधयतां वरिष्ठः

॥४८॥

तत्रागता तदा रंभा उर्वशी पुंजिकस्थली ॥

सुम्लोचा मिश्रकेशी च सुभगा च तिलोत्तमा

॥४९॥

अन्याश्च विविधाः जाताः साहाय्ये मदनस्य च ॥

अप्सरसो गणैर्दृष्टा मदनेन सहैव ताः

॥५०॥

सर्वे गणाश्च सहसा मदनेन विमोहिताः ॥

भृंगिणा च तदा रंभा चण्डेन सह चोर्वशी

॥५१॥

मेनका वीरभद्रेण चण्डेन पुंजिकस्थली ॥

तिलोत्तमादयस्तत्र संवृताश्च गणैस्तदा

॥५२॥

अमत्तभूतैर्बहुभिस्त्रपां त्यक्त्वा मनीषिभिः ॥

अकाले कोकिला भिश्च व्याप्तामासीन्महीतलम्

॥५३॥

अशोकाश्चंपकाश्चूता यूथ्यश्चैव कदंबकाः ॥

नीषाः प्रियालाः पनसा राजवृक्षाश्चरायणाः

॥५४॥

द्राक्षावल्लयः प्रदृश्यंते बहुला नागकेशराः ॥

तथा कदल्यः केतक्यो भ्रमरैरुपशोभिताः

॥५५॥

मत्ता मदनसंगेन हंसीभिः कलहंसकाः ॥

करेणुभिर्गजाह्यासञ्छिखंडीभिः शिखंडिनः

॥५६॥

निष्कामा ह्यतुरा ह्यासञ्छिवसंपर्कजैर्गुणैः ॥

अकस्माच्च तथाभूतं कथं जातं विमृश्य च

॥५७॥

शैलादो हि महातेजा नंदी ह्यमितविक्रमः ॥

रक्षसं विबुधानां वा कृत्यमस्तीत्यचिंतयत्

॥५८॥

एतस्मिन्नंतरे तत्र मदनो हि धनुर्द्धरः ॥

पंचबाणान्समारोप्य स्वकीये धनुषि द्विजाः ॥

तरोश्छायां समाश्रित्य देवदारुगतां तदा

॥५९॥

निरीक्ष्य शंभुं परमासने स्तितं तपो जुषाणं परमेष्ठिनां पतिम् ॥

गंगाधरं नीलतमालकंठं कपर्दिनं चन्द्रकलासमेतम्

॥६०॥

भुजंगभोगांकितसर्वगात्रं पंचाननं सिंहविशालविक्रमम् ॥

कर्पूरगौरे परयान्वितं च स वेद्धुकामो मदनस्तपस्विनम्

॥६१॥

दुरासदं दीप्तिमतां वरिष्ठं महेशमुग्रं सह माधवेन ॥

यावच्छिवं वेद्धुकामः शरेण तावद्याता गिरिजा विश्वमाता ॥

सखीजनैः संवृता पूजनार्थं सदाशिवं मंगलं मंगलानाम्

॥६२॥

कनककुसुममालां संदधे नीलकंठे सितकिरणमनोज्ञादुर्ल्लभा सा तदानीम् ॥

स्मितविकसितनेत्रा चारुवक्त्रं शिवस्य सकलजननित्री वीक्षमाणा बभूव

॥६३॥

तावद्विद्धः शरेणैव मोहनाख्येन चत्वरात् ॥

विध्यमानस्तदा शंभुः शनैरुन्मील्य लोचने ॥

ददर्श गिरिजां देवोब्धिर्यथा शशिनः कलाम्

॥६४॥

चारुप्रसन्नवदनां बिंबोष्ठीं सस्मितेक्षणाम् ॥

सुद्विजामग्निजां तन्वीं विशालवदनोत्सवाम्

॥६५॥

गौरीं प्रसन्नमुद्रां च विश्वमोहनमोहनाम् ॥

यया त्रिलोकरचना कृता ब्रह्मादिभिः सह

॥६६॥

उत्पत्तिपालनविनाशकरी च या वै कृत्वाग्रतः सत्त्वरजस्तमांसि ॥

सा चेतनेन ददृशे पुरतो हरेण संमोहनी सकलमंगलमंगलैका

॥६७॥

तां निरीक्ष्य भवो देवो गिरिजां लोकपावनीम् ॥

मुमोह दर्शनात्तस्या मदनेनातुरीकृतः ॥

विस्मयोत्फुल्लनयनो बभूव सहसा शिवः

॥६८॥

एवं विलोकमानोऽसौ देवदेवो जगत्पतिः ॥

मनसा दूयमानेन इदमाह सदाशिवः

॥६९॥

अनया मोहितः कस्मात्तपःस्थोऽहं निरामयः ॥

कुतः कस्माच्च केनेदं कृतमस्ति ममाप्रियम्

॥७०॥

ततो व्यलोकयच्छंभुर्द्दिक्षु सर्वासु सादरम् ॥

तावद्दृष्टो दक्षिणस्यां दिशि ह्यात्तशरासनः

॥७१॥

चक्रीकृतधनुः सज्जं चक्रे बेद्धुं सदाशिवम् ॥

यावत्पुनः संधयति मदनो मदनांतकम् ॥

तावद्दृष्टो महेशेन सरोषेण तदा द्विजाः

॥७२॥

निरीक्षितस्तृतीयेन चक्षुषा परमेण हि ॥

मदनस्तत्क्षणादेव ज्वालामालावृतोऽभवत् ॥

हाहाकारो महानासीद्देवानां तत्र पश्यताम्

॥७३॥

देवा ऊचुः

देवदेव महादेव देवानां वरदो भव ॥

गिरिजायाः सहायार्थं प्रेषितो मदनोऽधुना

॥७४॥

वृथा त्वयाथ दग्धोऽसौ मदनो हि महाप्रभः

॥७५॥

त्वया हि कार्यं जगदेकबंधो कार्यं सुराणां परमेण वर्चसा ॥

अस्यां समुत्पत्स्यति देव शंभो तेनैव सर्वं भवतीह कार्यम्

॥७६॥

तारकेण महादेव देवाः संपीडिता भृशम् ॥

तदर्थं जीवितं चास्य दत्त्वा च गिरिजां प्रभो

॥७७॥

वरयस्व महाभाग देवाकार्ये भव क्षमः ॥

गजासुरात्तवया त्राता वयं सर्वे दिवौकसः

॥७८॥

कालकूटाच्च नूनं हि रक्षिताः स्मो न चान्यथा ॥

भस्मासुराच्च सर्वेश त्वया त्राता न संशयः

॥७९॥

मदनोयं समायातः सुराणां कार्यसिद्धये ॥

तस्मात्त्वया रक्षणीय उपकारः परो हि नः

॥८०॥

विना तेन जगत्सर्वं नाशमेष्यति शंकर ॥

निष्कामस्त्वं कथं शंभो स्वबुद्ध्या च विमृस्यताम्

॥८१॥

तदोवाच रुषाविष्टो देवान्प्रति महेश्वरः ॥

विना कामेन भो देवा भवितव्यं न चान्यथा

॥८२॥

यदाःकामं पुरस्कृत्य सर्वे देवाः सवासवाः ॥

पदभ्रष्टाश्च दुःखेन व्याप्ता दैन्यं समाश्रिताः

॥८३॥

कामो हि नरकायैव सर्वेषां प्राणिनां ध्रुवम् ॥

दुःखरूपी ह्यनंगोऽयं जानीध्वं मम भाषितम्

॥८४॥

तारकोऽपि दुराचारो निष्कामोऽद्य भविष्यति ॥

विनाकामेन च कथं पापमाचरते नरः

॥८५॥

तस्मात्कामो मया दग्धः सर्वेषां शांतिहेतवे ॥

युष्माभिश्च सुरैः सर्वैरसुरैश्च महर्षिभिः

॥८६॥

अन्यैः प्राणिभिरेवात्र तपसे धीयतां मनः ॥

कामक्रोधविहीनं च जगत्सर्वं मया कृतम्

॥८७॥

तस्मादेनं पापिनं दुःखमूलं न जीवयिष्यामि सुराः प्रतीक्ष्यताम् ॥

निरन्तरं चात्मसुखप्रबोधमानंदलक्षणमागाधमनन्यरूपम्

॥८८॥

एवमुक्तास्तदा तेन शंभुना परमेष्ठिना ॥

ऊचुर्महर्षयः सर्वे शकर लोकशंकरम्

॥८९॥

यदुक्तं भवता शंभो परं श्रेयस्करं हि नः ॥

किं तु वक्ष्याम देवेश श्रूयतां चावधार्यताम्

॥९०॥

यथा सृष्टमिदं विश्वं कामक्रोधसमन्वितम् ॥

तत्सर्वं कामरूपं हि स कामो न तु हन्यते

॥९१॥

धर्मार्थकामामोक्षाश्च चत्वारो ह्येकरूपताम् ॥

नीतायेन महादेव स कामोऽयं न हन्यते

॥९२॥

कथं त्वया हि संदग्धः कामो हि दुरतिक्रमः ॥

येन संघटितं विश्वमाब्रह्मस्थावरात्मकम्

॥९३॥

कामेन हीयते विश्वं कामेन पाल्यते ॥

कामेनोत्पद्यते विश्वं तस्मात्कामो महाबलः

॥९४॥

यस्मात्क्रोधो भवत्युग्रो येन त्वं च वशीकृतः ॥

तस्मात्कामं महादेव संबोधयितुमर्हसि

॥९५॥

त्वया संपादितो देव मदनो हि महाबलः ॥

समर्थो हि समर्थत्वात्तत्सामर्थ्यं करिष्यति

॥९६॥

ऋषिभिश्चैवमुक्तोऽपि द्विगुणं रूपमास्थितः ॥

चक्षुषा हि तृतीयेन दग्धुकामो हरस्तदा

॥९७॥

मुनिभिश्चारणैः सिद्धैर्गणैश्चापि सदाशिवः ॥

स्तुतश्च वंदितो रुद्रः पिनाकी वृषवाहनः

॥९८॥

मदनं च तथा दग्ध्वा त्यक्त्वा तं पर्वतं रुषा ॥

हिमवंताभिधं सद्यस्तिरोधानगतोऽभवत्

॥९९॥

तिरोधानगतं देवी वीक्ष्य दग्धं च मन्मथम् ॥

सकोकिलं सचूतं च सभृंगं सहचंपकम्

॥१००॥

तथैव दग्धं मदनं विलोक्य रत्या विलापं च तदा मनस्विनी ॥

सबाष्पदीर्घं विमना विमृस्य कथं स रुद्रो वशगो भवेन्मम

॥१०१॥

एवं विमृश्य सुचिरं गिरिजा तदानीं संमोहमाप च सती हि तथा बभाषे ॥

संमुह्यमाना रुदतीं निरीश्यरतिर्महारूपवतीं मनस्विनीम्

॥१०२॥

मा विषादं कुरु सखि मदनं जीवयाम्यहम् ॥

त्वदर्थं भो विशालाक्षि तपसाऽऽराधयाम्यहम्

॥१०३॥

हरं रुद्रं विरुपाक्षं देवदेवं जगद्गुरुम् ॥

मा चिंतां कुरु सुश्रोमि मदनं जीवयाम्यहम्

॥१०४॥

एवम श्वास्य तां साध्वी गिरिजां रतिरंजसा ॥

तपस्तेपे च सुमहत्पतिं प्राप्तुं सुमध्यमा

॥१०५॥

मदनो यत्र दग्धश्च रुद्रेण परमात्मना ॥

तप्यमानां तपस्तत्र नारदो ददृशे तदा

॥१०६॥

उवाच गत्वा सहसा भामिनीं रतिमंतिके ॥

कस्यासि त्वं विशालाक्षि केन वा तप्यते तपः

॥१०७॥

तरुणी रूपसंपन्ना सौभाग्येन परेण हि ॥

नारदस्य वचः श्रुत्वा रोषेण महता तदा ॥

उवाच वाक्यं मधुरं किंचिन्निष्ठुरमेव च

॥१०८॥

रतिरुवाच

नारदोऽसि मया ज्ञातः कुमारस्त्वं न संशयः ॥

स्वस्वरूपादर्शनं च कर्तुमर्हसि सुव्रत

॥१०९॥

यथागतेन मार्गेण गच्छ त्वं मा विलंबितम् ॥

बटो न किंचिज्जानासि केवलं कलिकृन्महान्

॥११०॥

परस्त्रीकामुकाः क्षुद्रा विटा व्यसनिनश्च ये ॥

तथा ह्यकर्मिणः स्तब्धास्तेषां मध्ये त्वमग्रणीः

॥१११॥

एवं निर्भर्त्सितो रत्या नारदो मुनिसत्तमः ॥

स्वयं जगाम त्वरीतं शंबरं दैत्यपुंगवम्

॥११२॥

शशंस दैत्यराजाय दग्धं मदनमेव च ॥

रुद्रेण क्रोधयुक्तेन तस्य भार्या मनस्विनी

॥११३॥

तामानय महाभाग भार्यां कुरु महाबल ॥

अतीव रूपसंपन्ना या आनीतास्त्वयानघ ॥

तासां मध्ये रूपवती रतिः सा मदनप्रिया

॥११४॥

एवमाकर्ण्य वचनं देवर्षेर्भावितात्मनः ॥

जगाम सहसा तत्र यत्रास्ते सा सुशोभना

॥११५॥

तां दृष्ट्वा सु विशालाक्षीं रतिं मदनमोहिनीम् ॥

उवाच प्रहसन्वाक्यं शंबरो देवसंकटः

॥११६॥

एहि तन्वि मया सार्द्धं राज्यं भोगान्यथेष्टतः ॥

भुंक्ष्व देवि प्रसादान्मे तपसा किं प्रयोजनम्

॥११७॥

एवमुक्ता तदा तेन शंबरेण महात्मना ॥

उवाच तन्वी मधुरं महिषी मदनस्य सा

॥११८॥

विधवाहं महाबाहो नैवं भाषितुमर्हसि ॥

राजा त्वं सर्वदैत्यानां लक्ष्णैः परिवारितः

॥११९॥

एतत्तद्वचनं श्रुत्वा शंबरः काममोहितः ॥

करे ग्रहीतु कामोऽसौ तदा रत्या निवारितः

॥१२०॥

विमृश्य मनसा सर्वमजेयत्वं च तस्य वै ॥

मा स्पृश त्वं च रे मूढ मम संस्पर्शजेन वै

॥१२१॥

संपर्केण च दग्धोऽसि नान्यथा मम भाषितम् ॥

तदोवाच महातेजाः शंबरः प्रहसन्निव

॥१२२॥

विभीषिकाभिर्बह्वीभिर्मां भीषयसि मानिनि ॥

गच्छ शीघ्रं मम गृहं बहूक्त्या किं प्रयोजनम्

॥१२३॥

इत्युच्यमानेन तदा नीता सा प्रसभं तथा ॥

स्वपुरं परमं तन्वी शंबरेण मनस्विनी

॥१२४॥

कृता महानसेऽध्यक्षा नाम्ना मायावतीति च

॥१२५॥

ऋषय ऊचुः

पार्वत्याधिकृतं सर्वं मदनानयनं प्रति ॥

संबरेण हृतातन्वी मदनस्य प्रिया सती ॥

अत ऊर्ध्वं तदा सूत किं जातं तत्र वर्ण्यताम्

॥१२६॥

सूत उवाच

गतं तदा शिवं दृष्ट्वा दग्ध्वा मदनमोजसा ॥

पार्वती तपसा युक्ता स्थिता तत्रैव भामिनी

॥१२७॥

पित्रा तेन तदा तन्वी मात्रा चैव विचारिता ॥

बाले एहि गृहे शीघ्रं मा श्रमं कर्तुमर्हसि

॥१२८॥

उक्ता ताभ्यां तदा साध्वी गिरिजा वाक्यमब्रवीत्

॥१२९॥

पार्वत्युवाच

नागच्छामि गृहं मातस्तात मे श्रृणु तत्त्वतः ॥

वाक्यं धर्मार्थयुक्तं च येन त्वं तोषमेष्यसि

॥१३०॥

शंभुः परेषां परमो दग्धो येन महाबलः ॥

मदनो मम सान्निध्यमानयेऽत्रैव तं शिवम्

॥१३१॥

दुर्लभोहि तदा शंभुः प्राणिनां गृहमिच्छताम् ॥

नागच्छामि गृहं मातस्तस्मात्सर्वं विमृश्यताम्

॥१३२॥

तदोवाच महातेजा हिमवान्स्वसुतां प्रति ॥

दुराराध्यः शिवः साक्षात्सर्वदेवनमस्कृतः ॥

त्वया प्राप्तुमशक्यो हि तस्मात्त्वं स्वगृहं व्रज

॥१३३॥

सा बाष्पपूरितेनैव कंठेन स्वसुतां प्रति ॥

उवाच मेना तन्वंगियाहि शीघ्रं गृहं प्रति

॥१३४॥

तदा प्रहस्य चोवाच मातरं प्रति पार्वती ॥

प्रतिज्ञां श्रृणु मे मातस्तपसा परमेण हि

॥१३५॥

अत्रैव तं समानीय वरयामि विचक्षणम् ॥

नाशयामि रुद्रस्य रुद्रत्वं वारवर्णिनि

॥१३६॥

सुखरूपं परित्यज्य गिरिजा च मनस्विनी ॥

शंभोरारधनं चक्रे परमेण समाधिना

॥१३७॥

जया च विजया चैव माधवी च सुलोचना ॥

सुश्रुता च श्रुता चैव तथैव च शुकी परा

॥१३८॥

प्रम्लोचा सुभगा श्यामा चित्रांगी चारुणी स्वधा ॥

एताश्चान्याश्च बहवः सख्यस्ता गिरिजां प्रति ॥

उपासांचक्रिरे सा च देवगर्भा च भामिनी

॥१३९॥

तपसा परमोग्रेण चरंती चारुहासिनी ॥

मदनो यत्र दग्धश्च रुद्रेण च महात्मना ॥

तत्रैव वेदिं कृत्वा च तस्योपरि सुसंस्थिता

॥१४०॥

त्यक्त्वा जलाशनं बाला पर्णादा ह्यभवच्च सा ॥

ततः साऽर्द्राणि पर्णानि त्यक्त्वा शुष्काणि चाददे

॥१४१॥

शुष्काणि चैव पर्णानि नाशितानि तया यदा ॥

अपर्णेति च विख्याता बभुव तनुमध्यमा

॥१४२॥

वायुपानरता जाता अंबुपानादनंतरम् ॥

कालक्रमेण महता बभूव गिरिजा सती ॥

एकांगुष्ठेन च तदा दधार च निजं वपुः

॥१४३॥

एवमुग्रेण तपसा शंकराराधनं सती ॥

चकार परया तुष्ट्या शंभोः प्रीत्यर्थमेव च

॥१४४॥

परं भावं समाश्रित्य जगन्मंगलमंगला ॥

तुष्ट्यर्थं च महेशस्य तताप परमं तपः

॥१४५॥

एवं दिव्यसहस्राणि वर्षाणि च तताप वै ॥

हिमा लयस्तदागत्य पार्वतीं कृतनिश्चयाम्

॥१४६॥

सभार्यः स सुतामाप्त उवाच च महासतीम् ॥

मा खिद्यतां महादेवि तपसानेन भामिनि

॥१४७॥

क्व रुद्रो दृश्यते बाले विरक्तो नात्र संशयः ॥

त्वं तन्वी तरुणी बाला तपसा च विमोहिता

॥१४८॥

भविष्यति न संदेहः सत्यं प्रतिवदामि ते ॥

तस्मादुत्तिष्ठ याह्याशु स्वगृहं वरवर्णिनि

॥१४९॥

किं तेन तव रुद्रेण ये दग्धः पुराऽनघे ॥

मदनो निर्विकारित्वात्तं कथं प्रार्थयिष्यसि

॥१५०॥

गगनस्थो यथा चंद्रो ग्रहीतुं न हि शक्यते ॥

तथैव दुर्गमः शर्भुर्जानीहि त्वं शुचिस्मिते

॥१५१॥

तथैव मेनया चोक्ता तथा सह्याद्रिणा सती ॥

मेरुणा मंदरेणैव मैनाकेन तथैव च

॥१५२॥

एभिरुक्ता तदा तन्वी पार्वती तपसि स्थिता ॥

उवाच प्रहसन्त्तेव हिमवंतं शुचिस्मिता

॥१५३॥

पुरा प्रोक्तं त्वया तात अंब किं विस्मृतं त्वया ॥

अधुनैव प्रतिज्ञां च श्रृणुध्वं मम बांधवाः

॥१५४॥

विरक्तोऽसौ महादेवो मदनो येन वै हतः ॥

तं तोषयामि तपसा शंकरं लोकशंकरम्

॥१५५॥

सर्वे यूयं च गच्छंतु नात्र कार्या विचारणा ॥

दग्धो हि मदनो येन येन दग्धं गिरेर्वनम्

॥१५६॥

तमानयामि चात्रैव तपसा केवलेन हि ॥

तपोबलेन महता सुसेव्यो हि सदाशिवः

॥१५७॥

तं जानीध्वं महाभागाः सत्यंसत्यं वदाम्यहम्

॥१५८॥

संभाषमाणा जननीं तदानीं हिमालयं चैव तथा च मेनाम् ॥

तथैव मेरुं मितभाषिणी तदा सा मंदरं पर्वतराजकन्या ॥

जग्मुस्तदा तेन पथा च पर्वता यथागतेनापि विचक्षमाणाः

॥१५९॥

गतेषु तेषु सर्वेषु सखीभिः परिवारिता ॥

तत्रैव च तपस्तेपे परमार्था सती तदा

॥१६०॥

तपसा तेन महता तप्तमासीच्चराचरम् ॥

तदा सुरासुराः सर्वे ब्रह्माणं शरणं गताः ॥

देवा ऊचुः ॥

त्वया सृष्टमिदं सर्वं जगद्देव चराचरम् ॥

त्रातुमर्हसि देवान्नस्त्वदन्यो नोपपद्यते

॥१६२॥

अस्माकं रक्षणे शक्त इत्याकर्ण्य वचस्तदा ॥

विमृश्य च तदा ब्रह्मा मनसा परमेण हि

॥१६३॥

गिरिजातपसोद्भूतं दावाग्निं परमं महत् ॥

ज्ञात्वा ब्रह्मा जगा माशु क्षीराब्धिं परमाद्भुतम्

॥१६४॥

तत्र सुप्तं सुप्लयंके शेषाख्ये चातिशोभने ॥

लक्ष्म्या पादोपयुगलं सेव्यमानं निरंतरम्

॥१६५॥

दूरस्थेनापि तार्क्ष्येण नतकंधरधारिणा ॥

सेव्यमानं श्रिया कांत्या क्षांत्या वृत्त्या दयादिभिः

॥१६६॥

नवशक्तियुतं विष्णुं पार्पदैः परिवारितम् ॥

कुमुदोथ कुमुद्वांश्च सनकश्च सनंदनः

॥१६७॥

सनातनो महाभागः प्रसुप्तो विजयोऽरिजित् ॥

जयंतश्च जयत्सेनो जयश्चैव महाप्रभः

॥१६८॥

सनत्कुमारः सुतपा नारदश्चैव तुंबुरुः ॥

पांचजन्यो महाशंखो गदा कौमोदकी तथा

॥१६९॥

सुदर्शनं तथा चापं शार्ङ्गं च परमाद्भुतम् ॥

एतानि वै रूपवंति दृष्टानि परमेष्ठिना

॥१७०॥

विष्णोः समीपे परमामनो भृशं समेत्य सर्वे सुरदानवास्तदा ॥

विष्णुं चाहुः परमेष्ठिनां पतिं तीरे तदानीमुदधेर्महात्मनः

॥१७१॥

त्राहित्राहि महाविष्णो तप्तान्नः शरणागतान् ॥

तपसोग्रेण महता पार्वत्याः परमेण हि ॥

शेषासने चोपविष्ट उवाच परमेश्वरः

॥१७२॥

युष्माभिः सहितश्चापि व्रजामि परमेश्वरम् ॥

महादेवं प्रार्थयामो गिरिजां प्रति वै सुराः

॥१७३॥

पाणिग्रहार्थमधुना देवदेवः पिनाकधृक् ॥

यथा नेष्यति तत्रैव करिष्यामोऽधुना वयम्

॥१७४॥

तस्माद्वयं गमिष्यामो यत्र रुद्रो महाप्रभुः ॥

तपसोग्रेण संयुक्तो ह्यास्ते परममंगलः

॥१७५॥

विष्णोस्तद्वचनं श्रुत्वा ऊचुः सर्वे सुरासुराः ॥

न यास्यामो वयं सर्वे विरूपाक्षं महाप्रभम्

॥१७६॥

यदा दग्धः पुरा तेन मदनो दुरतिक्रमः ॥

तथैव धक्ष्यत्यस्माकं नात्र कार्या विचारणा

॥१७७॥

प्रहस्य भगवान्विष्णुरुवाच परमेश्वरः ॥

मा भयं क्रियतां सर्वैः शिवरूपी सदाशिवः

॥१७८॥

स न धक्ष्यति सर्वेषां देवानां भयनाशनः ॥

तस्माद्भवद्भिर्गतव्यं मया सार्द्धं विचक्षणाः

॥१७९॥

शंभुं पुराणं पुरुषं ह्यधीशं वरेण्यरूपं च परं पराणाम् ॥

तपो जुषाणं परमार्थरूपं परात्परं तं शरणं व्रजामि

॥१८०॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखण्डे पार्वतीपश्चर्यावर्णनंनामैकविंशतितमोऽध्यायः ॥ २१ ॥