मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — केदारखण्डः, अध्याय ८

3
माहेश्वरखण्डः · केदारखण्डः · 8

तस्करोऽपि पुरा ब्रह्मन्सर्वधर्मबाहिष्कृतः

लोमश उवाच

तस्करोऽपि पुरा ब्रह्मन्सर्वधर्मबाहिष्कृतः ॥

ब्रह्मघ्नोऽसौ सुरापश्च सुवर्णस्य च तस्करः

॥१॥

लंपटोहि महापाप उत्तमस्त्रीषु सर्वदा ॥

द्यूतकारी सदा मंदः कितवैः सह संगतः

॥२॥

एकदा क्रीडता तेन हारितं द्यूतमद्भुतम् ॥

कितवैर्मर्द्यमानो हि तदा नोवाच किञ्चन

॥३॥

पीडितोऽप्यभवत्तूष्णीं तैरुक्तः पापकृत्तमः ॥

द्यूते त्वया च तद्द्रव्यं हारितं किं प्रयच्छसि

॥४॥

नो वा तत्कथ्यतां शीघ्रं याथातथ्येन दुर्मते ॥

यद्धारितं प्रयच्छामि रात्रावित्यब्रवीच्च सः

॥५॥

तैर्मुक्तस्तेन वाक्येन गतास्ते कितवादयः ॥

तदा निशीथसमये गतोऽसौ शिवमंदिरम्

॥६॥

शिरोधिरुह्य शम्भोश्च घण्टामादातुमुद्यतः ॥

तावत्कैलासशिखरे शंभुः प्रोवाच किंकरान्

॥७॥

अनेन यत्कृतं चाद्य सर्वेषामधिकं भुवि ॥

सर्वेषामेव भक्तानां वरिष्ठोऽयं च मत्प्रियः

॥८॥

इति प्रोक्त्वान यामास वीरभद्रादिभिर्गणैः ॥

ते सर्वे त्वरिता जग्मुः कैलासाच्छिववल्लभात्

॥९॥

सर्वैर्डमरुनादेन नादितं भुवनत्रयम् ॥

तान्दृष्ट्वा सहसोत्तीर्य तस्करोसौ दुरात्मवान् ॥

लिंगस्य मस्तकात्सद्यः पलायनपरोऽभवत्

॥१०॥

पलायमानं तं दृष्ट्वा वीरभद्रः समाह्वयत्

॥११॥

कस्माद्विभेपि रे मन्द देवदेवो महेस्वरः ॥

प्रसन्नस्तव जातोद्य उदारचरितो ह्यसौ

॥१२॥

इत्युक्त्वा तं विमाने च कृत्वा कैलासमाययौ ॥

पार्षदो हि कृतस्तेन तस्करो हि महात्मना

॥१३॥

तस्माद्भाव्या शिवे भक्तिः सर्वेषामपि देहिनाम् ॥

पशवोऽपि हि पूज्याः स्युः किं पुनर्मानवाभुवि

॥१४॥

ये तार्किकास्तर्कपरास्तथ मीमांसकाश्च ये ॥

अन्योन्यवादिनश्चान्ये चान्ये वात्मवितर्ककाः

॥१५॥

एकवाक्यं न कुर्वंति शिवार्चनबहिष्कृताः ॥

तर्को हि क्रियते यैश्च तेसर्वे किं शिवं विना

॥१६॥

तथा किं बहुनोक्तेन सर्वेऽपि स्थिरजंगमाः ॥

प्राणिनोऽपि हि जायंते केवलं लिंगधारिणः

॥१७॥

पिण्डीयुक्तं यथा लिंगं स्थापितं च यथाऽभवत् ॥

तथा नरा लिंगयुक्ताः पिण्डीभूतास्तथा स्त्रियः

॥१८॥

शिवशक्तियुतं सर्वं जगदेतच्चराचरम् ॥

तं शिवं मौढ्यतस्त्यक्त्वा मूढाश्चान्यं भजंति ये

॥१९॥

धर्ममात्यंतिकं तुच्छं नश्वरं क्षणभंगुरम् ॥

यो विष्णुः स शिवो ज्ञेयो यः शिवो विष्णुरेव सः

॥२०॥

पीठिका विष्णुरूपं स्याल्लिंगरूपी महेश्वरः ॥

तस्माल्लिंगार्चनं श्रेष्ठं सर्वेषामपि वै द्विजाः

॥२१॥

ब्रह्मा मणिमयं लिंगं पूजयत्यनिशं शुभम् ॥

इन्द्रो रत्नमयं लिंगं चन्द्रो मुक्तामयं तथा

॥२२॥

भानुस्ताम्रमयं लिंगं पूजयत्यनिशं शुभम् ॥

रौक्मं लिंगं कुबेरश्च पाशी चारक्तमेव च

॥२३॥

यमो नीलमयं लिंगं राजतं नैर्ऋतस्तथा ॥

काश्मीरं पवनो लिंगमर्चयत्यनिशं विभोः

॥२४॥

एवं ते लिंगिताः सर्वे लोकपालाः सवासवाः ॥

तथा सर्वेऽपि पाताले गंधर्वाः किंनरैः सह

॥२५॥

दैत्यानां वैष्णवाः केचित्प्रह्लादप्रमुखा द्विजाः ॥

तथाहि राक्षसानां च विभीषणपुरोगमाः

॥२६॥

बलिश्च नमुचिश्चैव हिरण्यकशिपुस्तथा ॥

वृषपर्वा वृषश्चैव संह्रादो बाण एव च

॥२७॥

एते चान्ये च बहवः शिष्याः शुक्रस्य धीमतः ॥

एवं शिवार्चनरताः सर्वे ते दैत्यदानवाः

॥२८॥

राक्षसा एव ते सर्वे शिवपूजान्विताः सदा ॥

हेतिः प्रहेतिः संयातिर्विघसः प्रघसस्तथा

॥२९॥

विद्युज्जिह्वस्तीक्ष्णदंष्ट्रो धूम्राक्षो भीमविक्रमः ॥

माली चैव सुमाली च माल्यवानतिभीषमः

॥३०॥

विद्युत्कैशस्तडिज्जिह्वो रावणश्च महाबलः ॥

कुंभकर्णो दुराधर्षो वेगदर्शी प्रतापवान्

॥३१॥

एते हि राक्षसाः श्रेष्ठा शिवार्चनरताः सदा ॥

लिंगमभ्यर्च्य च सदा सिद्धिं प्राप्ताः पुरा तु ते

॥३२॥

रावणेन तपस्तप्तं सर्वेषामपि दुःखहम् ॥

तपोधिपो महादेवस्तुतोष च तदा भृशम्

॥३३॥

वरान्प्रायच्छत तदा सर्वेषामपि दुर्लभान् ॥

ज्ञानं विज्ञानसहितं लब्धं तेन सदाशिवात्

॥३४॥

अजेयत्वं च संग्रामे द्वैगुण्यं शिरसामपि ॥

पंचवक्त्रो महा देवो दशवक्त्रोऽथ रावणः

॥३५॥

देवानृषीन्पितॄंश्चैव निर्जित्य तपसा विभुः ॥

महेशस्य प्रसादाच्च सर्वेषामधिकोऽभवत्

॥३६॥

राजा त्रिकूटाधिपतिर्महेशेन कृतो महान् ॥

सर्वेषां राक्षसानां च परमासनमास्तितः

॥३७॥

तपस्विनां परीक्षायै यदृषीणां विहिंसनम् ॥

कृतं तेन तदा विप्रा रावणेन तपस्विना

॥३८॥

अजेयो हि महाञ्जातो रावणो लोकरावणः ॥

सृष्ट्यंतरं कृतं येन प्रसादाच्छंकरस्य च

॥३९॥

लोकपाला जितास्तेन प्रतापेन तपस्विना ॥

ब्रह्मापि विजितो येन तपसा परमेण हि

॥४०॥

अमृतांशुकरो भूत्वा जितो येन शशी द्विजाः ॥

दाहकत्वाज्जितो वह्निरीशः कैलासतोलनात्

॥४१॥

ऐश्वर्येण जितश्चेन्द्रो विष्णुः सर्वगतस्तथा ॥

लिंगार्चनप्रसादेन त्रैलोक्यं च वशीकृतम्

॥४२॥

तदा सर्वे सुरगणा ब्रह्मविष्णुपुरोगमाः ॥

मेरुपृष्ठं समासाद्य सुमंत्रं चक्रिरे तदा

॥४३॥

पीडिताः स्मो रावणेन तपसा दुष्करेण वै ॥

गोकर्णाख्ये गिरौ देवाः श्रूयतां परमाद्भुतम्

॥४४॥

साक्षाल्लिंगार्चनं येन कृतमस्ति महात्मना ॥

ज्ञानज्ञेयं ज्ञानगम्यं यद्यत्परममद्भुतम् ॥

तत्कृतं रावणेनैव सर्वेषां दुरतिक्रमम्

॥४५॥

वैराग्यं परमास्थाय औदार्यं च ततोऽधिकम् ॥

तेनैव ममता त्यक्ता रावणेन महात्मना

॥४६॥

संवत्सरसहस्राच्च स्वशिरो हि महाभुजः ॥

कृत्त्वा करेण लिंगस्य पूजनार्थं समर्पयत्

॥४७॥

रावणस्य कबंधं च तदग्रे च समीपतः ॥

योगधारणया युक्तं परमेण समाधिना

॥४८॥

लिंगे लयं समाधाय कयापि कलया स्थितम् ॥

अन्यच्छिरोविवृश्च्यैवं तेनापि शिवपूजनम् ॥

कृतं नैवान्यमुनिना तथा चैवापरेणहि

॥४९॥

एवं शिरांस्येव बहूनि तेन समर्पितान्येव शिवार्चनार्थे ॥

भूत्वा कबंधो हि पुनः पुनश्च शिवोऽसौ वरदो बभूव

॥५०॥

मया विनासुरस्तत्र पिंडीभूतेन वै पुरा ॥

वरान्वरय पौलस्त्य यथेष्टं तान्ददाम्यहम्

॥५१॥

रावणेन तदा चोक्तः शिवः परममंगलः ॥

यदि प्रसन्नो भगवन्देयो मे वर उत्तमः

॥५२॥

न कामयेऽन्यं च वरमाश्रये त्वत्पदांबुजम् ॥

यथा तथा प्रदातव्यं यद्यस्ति च कृपा मयि

॥५३॥

तदा सदाशिवेनोक्तो रावणो लोकरावणः ॥

मत्प्रसादाच्च सर्वं त्वं प्राप्स्यसे मनसेप्सितम्

॥५४॥

एवं प्राप्तं शिवात्सर्वं रावणेन सुरेश्वराः ॥

तस्मात्सर्वैर्भवद्भिश्च तपसा परमेण हि

॥५५॥

विजेतव्यो रावणोयमिति मे मनसि स्थितम् ॥

्च्युतस्य वचः श्रुत्वा ब्रह्माद्या देवतागणाः

॥५६॥

चिंतामापेदिरे सर्वे चिरं ते विषयान्विताः ॥

ब्रह्मापि चेंद्रियग्रस्तः सुता रमितुमुद्यतः

॥५७॥

इंद्रो हि जारभावाच्च चंद्रो हि गुरुतल्पगः ॥

यमः कदर्यभावाच्च चंचलत्वात्सदागतिः

॥५८॥

पावकः सर्वभक्षित्वात्तथान्ये देवतागणाः ॥

अशक्ता रावणं जेतुं तपसा च विजृंभितम्

॥५९॥

शैलादो हि महातेजा गणश्रेष्ठः पुरातनः ॥

बुद्धि मान्नीतिनिपुणो महाबलपराक्रमी

॥६०॥

शिवप्रियो रुद्ररूपी महात्मा ह्युवाच सर्वानथ चेंद्रमुख्यान् ॥

कस्माद्यूयं संभ्रमादागताश्च एतत्सर्वं कथ्यतां विस्तरेण

॥६१॥

नंदिना च तदा सर्वे पृष्टाः प्रोचुस्त्वरान्विताः

॥६२॥

देवा ऊचुः

रावणेन वयं सर्वे निर्जिता मुनिभिः सह ॥

प्रसादयितुमायाताः शिवं लोकेश्वरेश्वरम्

॥६३॥

प्रहस्य भगवान्नंदी ब्रह्माणं वै ह्युवाच ह ॥

क्व यूयं क्व शिवः शंभुस्तपसा परमेण हि ॥

द्रष्टव्यो हृदि मध्यस्थः सोऽद्य द्रष्टुं न पार्यते

॥६४॥

यावद्भावा ह्यनेकाश्च इंद्रियार्थास्तथैव च ॥

यावच्च ममताभावस्तावदीशो हि दुर्लभः

॥६५॥

जितेंद्रियाणां शांतानां तन्निष्ठानां महात्मनाम् ॥

सुलभो लिंगरूपी स्याद्भवतां हि सुदुर्लभः

॥६६॥

तदा ब्रह्मादयो देवा ऋषयश्च विपश्चितः ॥

प्रणम्य नंदिनं प्राहुः कस्मात्त्वं वानराननः ॥

तत्सर्वं कथयान्यं च रावणस्य तपोबलम्

॥६७॥

नंदीश्वर उवाच

कुबेरोऽधिकृतस्तेन शंकरेण महात्मना ॥

धनानामादिपत्ये च तं द्रष्टुं रावणोऽत्र वै

॥६८॥

आगच्छत्त्वरया युक्तः समारुह्य स्ववाहनम् ॥

मां दृष्ट्वा चाब्रवीत्क्रुद्धः कुबेरो ह्यत्र आगतः

॥६९॥

त्वया दृष्टोऽथ वात्रासौ कथ्यतामविलंबितम् ॥

किं कार्यं धनदेनाद्य इति पृष्टो मया हि सः

॥७०॥

तदोवाच महातेजा रावणो लोकरावणः ॥

मय्यश्रद्धान्वितो भूत्वा विषयात्मा सुदुर्मदः

॥७१॥

शिक्षापयितुमारब्धो मैवं कार्यमिति प्रभो ॥

यथाहं च श्रिया युक्त आढ्योऽहं बलवानहम् ॥

तथा त्वं भव रे मूढ मा मूढत्वमुपार्जय

॥७२॥

अहं मूढः कृतस्तेन कुबेरेण महात्मना ॥

मया निराकृतो रोषात्तपस्तेपे स गुह्यकः

॥७३॥

कुबेरः स हि नंदिन्किमागतस्तव मंदिरम् ॥

दीयतां च कुबेरोद्य नात्र कार्या विचारणा

॥७४॥

रावणस्य वचः श्रुत्वा ह्यवोचं त्वरितोऽप्यहम् ॥

लिंगकोसि महाभाग त्वमहं च तथाविधः

॥७५॥

उभयोः समनां ज्ञात्वा वृथा जल्पसि दुर्मते ॥

यथोक्तः स त्ववादीन्मां वदनार्थे बलोद्धतः

॥७६॥

यथा भवद्भिः पृष्टोऽहं वदनार्थे महात्मभिः ॥

पुरावृत्तं मया प्रोक्तं शिवार्चनविधेः फलम् ॥

शिवेन दत्तं सालूप्यं न गृहीतं मया तदा

॥७७॥

याचितं च मया शंभोर्वदनं वानरस्य च ॥

शिवेन कृपया दत्तं मम कारुण्यशालिना

॥७८॥

निराभिमानिनो ये च निर्दभा निष्परिग्रहाः ॥

शंभोः प्रियास्ते विज्ञेया ह्यन्ये शिववबहिष्कृताः

॥७९॥

तथावदन्मया सार्द्धं रावणस्तपसो बलात् ॥

मया च याचितान्येव दश वक्त्राणि धीमता

॥८०॥

उपहासकरं वाक्यं पौलस्त्यस्य तदा सुराः ॥

मया तदा हि शप्तोऽसौ रावणो लोकरावणः

॥८१॥

ईदृशान्येव वक्त्राणि येषां वै संभवंति हि ॥

तैः समेतो यदा कोऽपि नरवर्यो महातपाः ॥

मां पुरस्कृत्य सहसा हनिष्यति न संशयः

॥८२॥

एवं शप्तो मया ब्रह्मन्रावणो लोकरावणः ॥

अर्चितं केवलं लिंगं विना तेन महात्मना

॥८३॥

पीठिकारूपसंस्थेन विना तेन सुरोत्तमाः ॥

विष्णुना हि महाभागास्तस्मात्सर्वं विधास्यति

॥८४॥

देवदेवो महादेवो विष्णुरूपी महेश्वरः ॥

सर्वे यूयं प्रार्थयंतु विष्णुं सर्वगुहाशयम्

॥८५॥

अहं हि सर्वदेवानां पुरोवर्ती भवाम्यतः ॥

ते सर्वे नंदिनो वाक्यं श्रुत्वा मुदितमानसाः ॥

वैकुंठमागता गीर्भिर्विष्णुं स्तोतुं प्रचक्रिरे

॥८६॥

देवा ऊचुः

नमो भगवते तुभ्यं देवदेव जगत्पते ॥

त्वदाधारमिदं सर्वं जगदेतच्चराचरम्

॥८७॥

एतल्लिंगं त्वया विष्णो धृतं वै पिण्डिरूपिणा ॥

महाविष्णुस्वरूपेण घातितौ मधुकैटभौ

॥८८॥

तथा कमठरूपेण धृतो वै मंदराचलः ॥

वराहरूपमास्थाय हिरण्याक्षो हतस्त्वया

॥८९॥

हिरण्यकशिपुर्दैत्यो हतो नृहरिरूपिणा ॥

त्वया चैव बलिर्बद्धो दैत्यो वामनरूपिणा

॥९०॥

भृगूणामन्वये भूत्वा कृतवीर्यात्मजो हतः ॥

इतोप्यस्मान्महाविष्णो तथैव परिपालय

॥९१॥

रावमस्य भयादस्मात्त्रातुं भूयोर्हसि त्वरम्

॥९२॥

एवं संप्रार्थितो देवैर्भगवान्भूतभावनः ॥

उवाच च सुरान्सर्वान्वासुदेवो जगन्मयः

॥९३॥

हे देवाः श्रूयतां वाक्यं प्रस्तावसदृशं महत् ॥

शैलादिं च पुरस्कृत्य सर्वे यूयं त्वरान्विताः ॥

अवतारान्प्रकुर्वन्तु वानरीं तनुमाश्रिताः

॥९४॥

अहं हि मानुषो भूत्वा ह्यज्ञानेन समावृतः ॥

संभविष्याम्ययोध्यायं गृहे दशरथस्य च ॥

ब्रह्मविद्यासहायोस्मि भवतां कार्यसिद्धये

॥९५॥

जनकस्य गृहे साक्षाद्ब्रह्मविद्या जनिष्यति ॥

भक्तो हि रावणः साक्षाच्छिवध्यानपरायणः

॥९६॥

तपसा महता युक्तो ब्रह्मविद्यां यदेच्छति ॥

तदा सुसाध्यो भवति पुरुषो धर्मनिर्जितः

॥९७॥

एवं संभाष्य भगवान्विष्णुः परममङ्गलः ॥

वाली चेन्द्रांशसंभूतः सुग्रीवों शुमतः सुतः

॥९८॥

तथा ब्रह्मांशसंभूतो जाम्बवान्नृक्षकुञ्जरः ॥

शिलादतनयो नंदी शिवस्यानुचरः प्रियः

॥९९॥

यो वै चैकादशो रुद्रो हनूमान्स महाकपिः ॥

अवतीर्णः सहायार्थं विष्णोरमिततेजसः

॥१००॥

मैंदादयोऽथ कपयस्ते सर्वे सुरसत्तमाः ॥

एवं सर्वे सुरगणा अवतेरुर्यथा तथम्

॥१०१॥

तथैव विष्णुरुत्पन्नः कौशल्यानंदवर्द्धनः ॥

विश्वस्य रमणाच्चैव राम इत्युच्यते बुधैः

॥१०२॥

शेषोपि भक्त्या विष्णोश्च तपसाऽवातरद्भुवि

॥१०३॥

दोर्दण्डावपि विष्णोश्च अवतीर्णौ प्रतापिनौ ॥

शत्रुघ्नभरताख्यौ च विख्यातौ भुवनत्रये

॥१०४॥

मिथिलाधिपतेः कन्या या उक्ता ब्रह्मवादिभिः ॥

सा ब्रह्मविद्यावतरत्सुराणां कार्य्यसिद्धये ॥

सीता जाता लांगलस्य इयं भूमिविकर्षणात्

॥१०५॥

तस्मात्सीतेति विख्याता विद्या सान्वीक्षिकी तदा ॥

मिथिलायां समुत्पन्ना मैथितीत्यभिधीयते

॥१०६॥

जनकस्य कुले जाता विश्रुता जनकात्मजा ॥

ख्याता वेदवती पूर्वं ब्रह्मविद्याघनाशिनी

॥१०७॥

सा दत्ता जनकेनैव विष्णवे परमात्मने

॥१०८॥

तयाथ विद्यया सार्द्धं देवदेवो जगत्पतिः ॥

उग्रे तपसि लीनोऽसौ विष्णुः परमदुष्करम्

॥१०९॥

रावणं जेतुकामो वै रामो राजीवलोचनः ॥

अरण्यवासमकरोद्देवानां कार्यसिद्धये

॥११०॥

शेषावतारोऽपि महांस्तपः परमदुष्करम् ॥

तताप परया शक्त्या देवानां कार्यसिद्धये

॥१११॥

शत्रुघ्नो भरतश्चैव तेपतुः परमं तपः

॥११२॥

ततोऽसौ तपसा युक्तः सार्द्धं तैर्देवतागणैः ॥

सगणं रावणं रामः षड्भिर्मासैरजीहनत् ॥

विष्णुना घातितः शस्त्रैः शिवसारूप्यमाप्तवान्

॥११३॥

सगमः स पुनः सद्यो बंधुभिः सह सुव्रताः

॥११४॥

शिवप्रसादात्सकलं द्वैताद्वैतमवाप ह ॥

द्वैताद्वैतविवेकार्थमृपयोप्यत्र मोहिताः ॥

तत्सर्वं प्राप्नुवंतीह शिवार्चनरता नराः

॥११५॥

येऽर्चयंति शिवं नित्यं लिंगरूपिणमेव च ॥

स्त्रियो वाप्यथ वा शूद्राः श्वपचा ह्यंत्यवासिनः ॥

तं शिवं प्राप्नुवंत्येव सर्वदुःखोपनाशनम्

॥११६॥

पशवोऽपि परं याताः किं पुनर्मानुषादयः

॥११७॥

ये द्विजा ब्रह्मचर्येण तपः परममास्थिताः ॥

वर्षैरनेकैर्यज्ञानां तेऽपि स्वर्गपरा भवन्

॥११८॥

ज्योतिष्टोमो वाजपेयो ह्यतिरात्रादयो ह्यमी ॥

यज्ञाः स्वर्गं प्रयच्छंति सत्त्रीणां नात्र संशयः

॥११९॥

तत्र स्वर्गसुखं भुक्त्वा पुण्यक्षयकरं महत् ॥

पुण्यक्षयेऽपि यज्वानो मर्त्यलोकं पतंति वै

॥१२०॥

पतितानां च संसारे दैवाद्बुद्धिः प्रजायते ॥

गुणत्रयमयी विप्रास्तासुतास्त्विह योनिषु

॥१२१॥

यथा सत्त्वं संभवति सत्त्वयुक्तभवं नराः ॥

राजसाश्च तथा ज्ञेयास्ता मसाश्चैव ते द्विजाः

॥१२२॥

एवं संसारचक्रेऽस्मिन्भ्रमिता बहवो जनाः ॥

यदृच्छया दैवगत्या शिवं संसेवते नरः

॥१२३॥

शिवध्यानपराणां च नराणां यतचेतसाम् ॥

मायानिरसनं सद्यो भविष्यति न चान्यथा

॥१२४॥

मायानिरसनात्सद्यो नश्यत्येव गुणत्रयम् ॥

यदा गुणत्रयातीतो भवतीति स मुक्तिभाक्

॥१२५॥

तस्माल्लिङ्गार्चनं भाव्यं सर्वेषामपि देहिनाम् ॥

लिङ्गरूपी शिवो भूत्वा त्रायते संचराचरम्

॥१२६॥

पुरा भवद्भिः पृष्टोऽहं लिङ्गरूपी कथं शिवः ॥

तत्सर्वं कथितं विप्रा याथातथ्येन संप्रति

॥१२७॥

कथं गरं भक्षितवाञ्छिवो लोकमहेश्वरः ॥

तत्सर्वं श्रूयतां विप्रा यतावत्कथयामि वः

॥१२८॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहास्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखंडे शिवशास्त्रे शिवलिङ्गार्चनमाहात्म्यकथने श्रीरामावतारकथावर्णनंनामाष्टमोऽध्यायः ॥ ८ ॥