मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — केदारखण्डः, अध्याय ३१

3
माहेश्वरखण्डः · केदारखण्डः · 31

हत्वा तं तारकं संख्ये कुमारेण महात्मना

शोनक उवाच

हत्वा तं तारकं संख्ये कुमारेण महात्मना ॥

किं कृतं सुमहद्विप्र तत्सर्वं वक्तुमर्हसि

॥१॥

कुमारो ह्यपरः शंभुर्येन सर्वमिदं ततम् ॥

तपसा तोषितः शंभुर्ददाति परमं पदम्

॥२॥

कुमारो दर्शनात्सद्यः सफलो हि नृणां सदा ॥

ये पापिनो ह्यधर्म्मिष्ठाः श्वपचा अपि लोमश ॥

दर्शनाद्धूतपापास्ते भवंत्येव न संशयः

॥३॥

शौनकस्य वचः श्रुत्वा उवाच चरितं तदा ॥

व्यास शिष्यो महाप्रज्ञः कुमारस्य महात्मनः

॥४॥

लोमश उवाच

ह्ताव तं तारकं संख्ये देवानामजयं ततः ॥

अवध्यं च द्विजश्रेष्ठाः कुमारो जयमाप्तवान्

॥५॥

महिमा हि कुमारस्य सर्वशास्त्रेषु कथ्यते ॥

वेदैश्च स्वागमैश्चापि पुराणैश्च तथैव च

॥६॥

तथोपनिषदैश्चैव मीमांसाद्वितयेन तु ॥

एवंभूतः कुमारोयमशक्यो वर्णितुं द्विजाः

॥७॥

यो हि दर्शनमात्रेण पुनाति सकलं जगत् ॥

त्रातारं भुवनस्यास्य निशम्य पितृराट्स्वयम्

॥८॥

ब्रह्माणं च पुरस्कृत्य विष्णुं चैव सवासवम् ॥

स ययौ त्वरितेनैव शंकरं लोकशंकरम् ॥

तृष्टाव प्रयतो भूत्वा दक्षिणाशापतिः स्वयम्

॥९॥

नमो भर्गाय देवाय देवानां पतये नमः ॥

मृत्युंजयाय रुद्राय ईशानाय कपर्द्दिने

॥१०॥

नीलकंठाय शर्वाय व्योमावयवरूपिणे ॥

कालाय कालनाथाय कालरूपाय वै नमः

॥११॥

यमेन स्तूयमानो हि उवाच प्रभुरीश्वरः ॥

किमर्थमागतोऽसि त्वं तत्सर्वं कथयस्व नः

॥१२॥

यम उवाच

श्रूयतां देवदेवेश वाक्य वाक्यविशारद ॥

तपसा परमेणैव तुष्टिं प्राप्तोसि शंकर

॥१३॥

कर्मणा परमेणैव ब्रह्मा लोकपितामहः ॥

तुष्टिमेति न संदेहो वराणां हि सदा प्रभुः

॥१४॥

तथा विष्णुर्हि भगवान्वेदवेद्यः सनातनः ॥

यज्ञैरनेकैः संतुष्ट उपवासव्रतैस्तथा

॥१५॥

ददाति केवलं भावं येन कैवल्यमाप्नुयुः ॥

नराः सर्वे मम मतं नान्यता हि वचो मम

॥१६॥

ददाति तुष्टो वै भोगं तथा स्वर्गादिसंपदः ॥

सूर्यो नमस्ययाऽरोग्यं ददातीह न चान्यथा

॥१७॥

गणेशो हि महादेव अर्घ्यपाद्यादिचंदनैः ॥

मंत्रावृत्त्या तथा शंभो निर्विघ्नं च करिष्यति

॥१८॥

तथान्ये लोकपाः सर्वे यथाशक्त्या फलप्रदाः ॥

यज्ञाध्ययनदानाद्यैः परितुष्टाश्च शंकर

॥१९॥

महदाश्चर्य संभूतं सर्वेषां प्राणिनामिह ॥

कृतं च तव पुत्रेण स्वर्गद्वारमपावृताम्

॥२०॥

दर्शनाच्च कुमारस्य सर्वे स्वर्गैकसो नराः ॥

पापिनोऽपि महादेव जाता नास्त्यत्र संशयः

॥२१॥

मया किं क्रियतां देव कार्याकार्यव्यवस्थितौ ॥

ये सत्यशीलाः शांताश्च वदान्या निरवग्रहाः

॥२२॥

जितेंद्रिया अलुब्धाश्च कामरागविवर्जिताः ॥

याज्ञिका धर्मनिष्ठाश्च वेदवेदांगपारगाः

॥२३॥

यां गतिं यांति वै शंभो सर्वे सुकृतिनोपि हि ॥

तां गतिं दर्शनात्सर्वे श्वपचा अधमा अपि

॥२४॥

कुमारस्य च देवेश महदाश्चर्यकर्मणः ॥

कार्त्तिक्यां कृत्तिकायोगसहितायां शिवस्य च

॥२५॥

शिवस्य तनयं दृष्ट्वा ते यांति स्वकुलैः सह ॥

कोटिभिर्बहुभिश्चैव मत्स्थानं परिमुच्य वै

॥२६॥

कुमारदर्शनात्सर्वे श्वपचा अपि यांति वै ॥

सद्गतिं त्वरितेनैव किं क्रियेत मयाधुना

॥२७॥

यमस्य वचनं श्रुत्वा शंकरो वाक्यमब्रवीत्

॥२८॥

शंकर उवाच

येषां त्वंतगतं पापं जनानां पुण्यकर्मणाम् ॥

विशुद्धभावो भो धर्म्म तेषां मनसि वर्त्तते

॥२९॥

सत्तीर्थगमनायैव दर्शनार्थं सतामिह ॥

वांछा च महती तेषां जायते पूर्वकारिता

॥३०॥

बहूनां जन्मनामंते मयि भावोऽनुवर्त्तते ॥

प्राणिनां सर्वभावेन जन्माभ्यासेनभो यम

॥३१॥

तस्मात्सुकृतिनः सर्वे येषां भावोऽनुवर्त्ते ॥

जन्मजन्मानुवृत्तानां विस्मयं नैव कारयेत्

॥३२॥

स्त्रीबालशूद्राः श्वपचाधमाश्च प्राग्जन्मसंस्कारवशाद्धि धर्म्म ॥

योनिं पापिषु वर्त्तमानास्तथापि शुद्धा मनुजा भवंति

॥३३॥

तथा सितेन मनसा च भवंति सर्वे सर्वेषु चैव विषयेषु भवंति तज्ज्ञाः ॥

दैवेन पूर्वचरितेन भवंति सर्वे सुराश्चेंद्रादयो लोकपालाः प्राक्तनेन

॥३४॥

जाता ह्यमी भूतगणाश्च सर्वे ह्यमी ऋषयो ह्यमी देवताश्च

॥३५॥

विस्मयो नैव कर्त्तव्यस्त्वया वापि कुमारके ॥

कुमारदर्शने चैव धर्मराज निबोध मे

॥३६॥

वचनं कर्मसंयुक्तं सर्वेषां फलदायकम् ॥

सर्वतीर्थानि यज्ञाश्च दानानि विविधानि च ॥

कार्याणि मनःशुद्ध्यर्थं नात्र कार्या विचारणा

॥३७॥

मनसा भावितो ह्यात्मा आत्मनात्मानमेव च ॥

आत्मा अहं च सर्वेषआं प्राणिनां हि व्यवस्थितः

॥३८॥

अहं सदा भावयुक्त आत्मसंस्थो निरंतरः ॥

जंगमाजंगमानां च सत्यं प्रति वदामि ते

॥३९॥

द्वंद्वातीतो निर्विकल्पो हि साक्षात्स्वस्थो नित्यो नित्ययुक्तो निरीहः ॥

कूटस्थो वै कल्पभेदप्रवादैर्बहिष्कृतो बोधबोध्यो ह्यनन्तः

॥४०॥

विस्मृत्य चैनं स्वात्मानं केवलं बोधलक्षणम् ॥

संसारिणो हि दृश्यंते समस्ता जीवराशयः

॥४१॥

अहं ब्रह्मा च विष्णुश्च त्रयोऽमी गुणकारिणः ॥

सृष्टिपालनसंहारकारका नान्यथा भवेत्

॥४२॥

अहंकारवृतेनैव कर्मणा कारितावयम् ॥

यूयं च सर्वे विबुधा मनुष्याश्च खगादयः

॥४३॥

पश्वादयः पृथग्भूतास्तथान्ये बहवो ह्यमी ॥

पृथक्पृथक्समीचीना गुणवतश्च संसृतौ

॥४४॥

पतिता मृगतृष्णायां मायया च वशीकृताः ॥

वयं सर्वे च विबुधाः प्राज्ञाः पंडितमानिनः

॥४५॥

परस्परं दूषयंतो मिथ्यावादरताः खलाः

॥४६॥

त्रैगुणा भवसंपन्ना अतत्तवज्ञाश्च रागिणः ॥

कामक्रोधभयद्वेषमदमात्सर्यसंयुताः

॥४७॥

परस्परं दूषयंतो ह्यतत्त्वज्ञा बहिर्मुखाः ॥

तस्मादेवं विदित्वाथ असत्यं गुणभेदतः

॥४८॥

गुणातीते च वस्त्वर्थे परमार्थैकदर्शनम्

॥४९॥

यस्मिन्भेदो ह्यभेदं च यस्मिन्रागो विरागताम् ॥

क्रोधो ह्यक्रोधतां याति तद्वाम परमं श्रृणु

॥५०॥

न तद्भासयते शब्दः कृतकत्वाद्यथा घटः ॥

शब्दो हि जायते धर्म्मः प्रवृत्तिपरमो यतः

॥५१॥

प्रवृत्तिश्च निवृत्तिश्च तथा द्वंद्वानि सर्वशः ॥

विलयं यांति यत्रैव तत्स्थानं शाश्वतं मतम्

॥५२॥

निरंतरं निर्गुणं ज्ञप्तिमात्रं निरंजनं निर्विकाशं निरीहम् ॥

सत्तामात्रं ज्ञानगम्यं स्वसिद्धं स्वयंप्रभं सुप्रभं बोधगम्यम्

॥५३॥

एतज्ज्ञानं ज्ञानविदो वदंति सर्वात्मभावेन निरीक्षयंति ॥

सर्वातीतं ज्ञानगम्यं विदित्वा येन स्वस्थाः समबुद्ध्या चरंति

॥५४॥

अतीत्य संसारमनादिमूलं मायामयं मायया दुर्विचार्यम् ॥

मायां त्यक्त्वा निर्ममा वीतरागा गच्छंति ते प्रेतराणिनर्विकल्पम्

॥५५॥

संसृतिः कल्पनामूलं कल्पना ह्यमृतोपमा ॥

यैः कल्पना परित्यक्ता ते यांति परमां गतिम्

॥५६॥

शुक्त्यां रजतबुद्धिश्च रज्जुबुद्धिर्यर्थोरणे ॥

मरीचौ जलबुद्धिश्च मिथ्या मिथ्यैव नान्यथा

॥५७॥

सिद्धिः स्वच्छंदवर्त्तित्वं पारतंत्र्यं हि वै मृषा ॥

बद्धो हि परतंत्राख्यो मुक्तः स्वातंत्र्यभावनः

॥५८॥

एको ह्यात्मा विदित्वाथ निर्ममो निरवग्रहः ॥

कुतस्तेषां बंधनं च यथाखे पुष्पमेव च

॥५९॥

शशविषाणमेवैतज्त्रानं संसार एव च ॥

किं कार्यं बहुनोक्तेन वचसा निष्फलेन हि

॥६०॥

ममतां च निराकृत्य प्राप्तुकामाः परं पदम् ॥

ज्ञानिनस्ते हि विद्वांसो वीतरागा जितेंद्रियाः

॥६१॥

यैस्त्यक्तो ममताभावो लोभकोपौ निराकृतौ ॥

ते यांति परमं स्थानं कामक्रोधविवर्जिताः

॥६२॥

यावत्कामश्च लोभश्च रागद्वेषौ व्यवस्थितौ ॥

नाप्नुवंति च तां सिद्धिं शब्दमात्रैकबोधकाः

॥६३॥

यम उवाच

शब्दाच्छब्दः प्रवर्त्तेत निःशब्दं ज्ञानमेव च ॥

अनित्यत्वं हि शब्दस्य कथं प्रोक्तं त्वया प्रभो

॥६४॥

अक्षरं ब्रह्मपरमं शब्दो वै ह्यरात्मकः ॥

तस्माच्छब्दस्त्वया प्रोक्तो निरीक्षक इति श्रुतम्

॥६५॥

प्रतिपाद्यं हि यत्किंचिच्छब्देनैव विना कथम् ॥

तत्सर्वं कथ्यतां शंभो कार्याकार्यव्यवस्थितौ

॥६६॥

शंकर उवाच

श्रृणुष्वावहितो भूत्वा परमार्धयुतं वचः ॥

यस्य श्रवणमात्रेण ज्ञातव्यं नावशिष्यते

॥६७॥

ज्ञानप्रवादिनः सर्व ऋषयो वीतकल्मषाः ॥

ज्ञानाभ्यासेन वर्त्तंते ज्ञानं ज्ञानविदो विदुः

॥६८॥

ज्ञानं ज्ञेयं ज्ञानगम्यं ज्ञात्वा च परिगीयते ॥

कथं केन च ज्ञातव्यं किं तद्वक्तुं विवक्षितम्

॥६९॥

एतत्सर्वं समासेन कथयामि निबोध मे ॥

एको ह्यनेकधा चैव दृश्यते भेदभावनः

॥७०॥

यथा भ्रमरिकादृष्टा भ्रम्यते च मही यम ॥

तथात्मा भेदबुद्ध्या च प्रतिभाति ह्यनेकधा

॥७१॥

तस्माद्विमृश्य तेनैव ज्ञातव्यः श्रवणेन च ॥

मंतव्यः सुप्रयोगेण मननेन विशेषतः

॥७२॥

निर्द्धार्य चात्मनात्मानं सुखं बंधात्प्रमुच्यते ॥

मायाजालमिदं सर्वं जगदेतच्चाराचरम्

॥७३॥

मायामयोऽयं संसारो ममतालक्षणो महान् ॥

ममतां च बहिः कृत्वा सुखं बंधात्प्रमुच्यते

॥७४॥

कोऽहं कस्त्वं कुतश्चान्ये महामायावलंबिनः ॥

अजागलस्तनस्येव प्रपंचोऽयं निरर्थकः

॥७५॥

निष्फलोऽयं निराभासो निःसारो धूमडंबरः ॥

तस्मात्सर्वप्रयत्नेन आत्मानं स्मर वै यम

॥७६॥

लोमश उवाच

एवं प्रचोदितस्तेन शंभुना प्रेतराट्‌स्वयम् ॥

बुद्धो भूत्वा यमः साक्षादात्मभूतोऽभवत्तदा

॥७७॥

कर्म्मणां हि च सर्वेषां शास्ता कर्मानुसारतः ॥

बभूव डंबरो नॄणां भूतानां च समाहितः

॥७८॥

ऋषय ऊचुः

हत्वा तु तारकं युद्धे कुमारेण महात्मना ॥

अत ऊर्ध्वं कथ्यतां भोः किं कृतं महदद्भुतम्

॥७९॥

सूत उवाच

हते तु तारके दैत्ये हिमवन्प्रमुखाद्रयः ॥

कार्त्तिकेयं समागत्य गीर्भी रम्याभिरैडयन्

॥८०॥

गिरय ऊचुः

नमः कल्याणरूपाय नमस्ते विश्वमंगल ॥

विश्वबंधो नमस्तेऽस्तु नमस्ते विश्वभावन

॥८१॥

वरीष्ठाः श्वपचा येन कृता वै दर्शनात्त्वया ॥

त्वां नमामो जगद्बंधुं त्वां वयं शरणागताः

॥८२॥

नमस्ते पार्वतीपुत्र शंकरात्मज ते नमः ॥

नमस्ते कृत्तिकासूनो अग्निभूत नमोस्तु ते

॥८३॥

नमोस्तु ते देववरैः सुपूज्य नमोऽस्तु ते ज्ञानविदां वरिष्ठ ॥

नमोऽस्तु ते देववर प्रसीद शरण्य सर्वार्तिविनाशदक्ष

॥८४॥

एवं स्तुतो गिरिभिः कार्त्तिकेयो ह्युमासुतः ॥

तान्गिरीन्सुप्रसन्नात्मा वरं दातुं समुत्सुकः

॥८५॥

कार्त्तिकेय उवाच

भोभो गिरिवरा यूयं श्रृणुध्वं मद्वचोऽधुना ॥

कर्मिभिर्ज्ञानिभिश्चैव सेव्यमाना भविष्यथ

॥८६॥

भवत्स्वेव हि वर्त्तते दृषदो यत्नसेविताः ॥

पुनंतु विश्चं वचनान्मम ता नात्र संशयः

॥८७॥

पर्वतीयानि तीर्थानि भविष्यंति न चान्यथा ॥

शिवालयानि दिव्यानि दिव्यान्यायतनानि च

॥८८॥

अयनानि विचित्राणि शोभनानि महांति च ॥

भविष्यंति न संदेहः पर्वता वचनान्मम

॥८९॥

योऽयं मातामहो मेऽद्य हिमवान्पर्वतोत्तमः ॥

तपस्विनां महाभागः फलदो हि भविष्यति

॥९०॥

मेरुश्च गिरिराजोऽयमाश्रयो हि भविष्यति ॥

लोकालोको गिरिवर उदयाद्रिर्महायशः

॥९१॥

लिंगरूपो हि भगवान्भविष्यति न चान्यथा ॥

श्रीशैलो हि महेंद्रश्च तथा सह्याचलोगिरिः

॥९२॥

माल्यवान्मलयो विन्ध्यस्तथासौ गंधमादनः ॥

श्वेतकूटस्त्रिकूटो हि तथा दर्दुरपर्वतः

॥९३॥

एते चान्ये च बहवः पर्वता लिंगरूपिणः ॥

मम वाक्याद्भविष्यंति पापक्षयकरा ह्यमी

॥९४॥

एवं वरं ददौ तेभ्यः पर्वतेभ्यश्च शांकरिः ॥

ततो नंदीह्युवाचाथ सर्वागमपुरस्कृतम्

॥९५॥

नंद्युवाच

त्वया कृता हि गिरयो लिंगरूपिण एव ते ॥

शिवालयाः कथं नाथ पूज्याः स्युःसर्वदैवतैः

॥९६॥

कुमार उवाच

लिंगं शिवालयं ज्ञेयं देवदेवस्य शूलिनः ॥

सर्वैर्नृभिर्दैवतैश्च ब्रह्मादिभिरतांद्रितैः

॥९७॥

नीलं मुक्ता प्रवालं च वैडूर्यं चंद्रमेव च ॥

गोमेदं पद्मरागं च मारतं कांचनं तथा

॥९८॥

राजतं ताम्रमारं च तथा नागमयं परम् ॥

रत्नधातुमयान्येव लिंगानि कथितानि ते

॥९९॥

पवित्राण्येव पूज्यानि सर्वकामप्रदानि च ॥

एतेषामपि सर्वेषां काश्मीरं हि विशिष्यते

॥१००॥

ऐहिकामुष्मिकं सर्वं पूजाकर्तुः प्रयच्छति

॥१०१॥

नंद्युवाच

लिंगानामपि पूज्यं स्याद्बाणलिंगं त्वया कथम् ॥

कथितं चोत्तमत्वेन तत्सर्वं वदसुव्रत

॥१०२॥

कुमार उवाच

रेवायां तोयमध्ये च दृश्यंते दृषदो हि याः ॥

शिवप्रसादात्तास्तु स्युर्लिंगरूपा न चान्यथा

॥१०३॥

श्लक्ष्णमूलाश्च कर्तव्याः पिंडिकोपरि संस्थिताः ॥

पूजनीयाः प्रयत्नेन शिवदीक्षायुतेन हि

॥१०४॥

पिंडीयुक्तं च शास्त्रेण विधिना च यजेच्छिवम् ॥

वरदो हि जगन्नाथः पूजकस्य न चान्यथा

॥१०५॥

पंचाक्षरी यस्य मुखे स्थिता सदा चेतोनिवृत्तिः शिवचिंतने च ॥

भूतेषुः साम्यं परिवादमूकता षंढत्वमेव परयोषितासु

॥१०६॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखण्डे शिवशास्त्रे कार्त्तिकेयप्रोक्तशिवलिंगमाहात्म्यवर्णनं नामैकत्रिंशोऽध्यायः ॥ ३१ ॥