मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — केदारखण्डः, अध्याय ३४

3
माहेश्वरखण्डः · केदारखण्डः · 34

तपोवनगमनवर्णनम्

लोमश उवाच

राज्यं चकार कैलास दवदवा जगत्पतिः ॥

गणैः समेतो बहुभिर्वीरभद्रान्वितो महान्

॥१॥

ऋषिभिः सहितो रुद्रो देवैरिन्द्रादिभिः सह ॥

ब्रह्मा यस्य स्तुतिपरो विष्णुः प्रेष्यवदास्थितः

॥२॥

इंद्रो देवगणैः सार्द्धं सेवाधर्मपरोऽभवत् ॥

यस्य च्छत्रधरश्चंद्रो वायुश्चामरधृक्तथा

॥३॥

सूपान्नकर्ता सततं जातवदा निरन्तरम् ॥

गंधर्वा गायका यस्य स्तावकाश्च पिनाकिनः

॥४॥

विद्याधराश्च बहवस्तथा चाप्सरसां गणाः ॥

ननृतुश्चाग्रगा यस्य सोऽसौ कैलासपर्वते

॥५॥

पुत्रैर्गणेशस्कंदाद्यैस्तथा गिरिजया सह ॥

राज्यं प्रतापिभिश्चक्रेऽशंकश्चंक्रमणेन च

॥६॥

येनांधको महा दैत्यः स देवानामरिर्महान् ॥

दुष्टो विद्धस्त्रिशूलेन गगने स्थापितश्चिरम्

॥७॥

हत्वा गजासुरं येन उत्कृत्त्य चर्म वै कृतम् ॥

चिरं प्रावरणं दिव्यं तथा त्रिपुरदीपनम् ॥

विष्णुना पाल्यभूतेन रेजे सर्वांगसुन्दरः

॥८॥

तं द्रष्टुकामो भगवान्नारदो दिव्य र्शनः ॥

ययौ च पर्वतश्रेष्ठं कैलासं चन्द्रपांडुरम्

॥९॥

सुधया परया चापि सेवितं परमाद्भुतम् ॥

कर्पूरगौरं च तदा दृष्ट्वा तं सुमहाबलम् ॥

नारदो विस्मयाविष्टः प्रविष्टो गन्धमादनम्

॥१०॥

अनेकाश्चर्यसंयुक्तं तपनैश्च सुशोभितम् ॥

गायद्विद्याधरीभिश्च पूरितं च महाप्रभम्

॥११॥

कल्पद्रुमाश्च बहवो लताभिः परिवेष्टिताः ॥

घनच्छायासू तास्वेव विशिष्टा कामधेनवः

॥१२॥

पारिजातवनामोदलंपटा बहवोऽलयः ॥

कलहंसाश्च बहवः क्रीडमानाः सरस्तु च

॥१३॥

शिखंडिनो महच्चक्रुस्तत्र केकारवं मुदा ॥

पंचमालापिनः सर्वे विहंगाः संमदान्विताः

॥१४॥

करिणः करिणीभिश्च मोदमानाः सुवर्चसः ॥

सिंहास्तथा गर्जमानाः शार्दूलैः सह संगताः

॥१५॥

वृषभा नंदिमुख्याश्च रेभमाना निरन्तरम् ॥

देवद्रुमाश्च बहवस्तथा चंदनवाटिकाः

॥१६॥

नागपुंनागबकुलाश्चंपका नागकेसराः ॥

तथा च वनजंब्वश्च तथा कनककेतकाः

॥१७॥

कह्लाराः करवीरिश्च कुमुदानि ह्यनेकशः ॥

मंदाराश्च बदर्यश्च क्रमुकाः पाटलास्तथा

॥१८॥

तथान्ये बहवो वृक्षाः शम्भोस्तोषकराह्यमी ॥

ऐकपद्येन दृष्टास्ते नानाद्रुमलतान्विताः ॥

आरामा बहवस्तत्र द्विगुणाश्च बभूविरे

॥१९॥

गगनान्निस्सृतः सद्यो गंगौघः परमाद्भुतः ॥

पतितो मस्तके तस्य पर्वतस्य सुशोभिते

॥२०॥

कूपो हि पयसां ये न पवित्रं वर्तते जगत् ॥

सोपि द्विधा तदा दृष्टो नारदेन महात्मना

॥२१॥

सर्वं तदा द्विधाभूतं दृष्टं तेन महात्मना ॥

नारदेन तदा विप्राः परमेण निरीक्षितः

॥२२॥

एवं विलोकमानोऽसौ नारदो भगवानृषिः ॥

त्वरितेन तथा यातः शिवालोकनतत्परः

॥२३॥

यावद्द्वारि स्थितोपश्यन्महदाश्चर्यमेव च ॥

द्वारपालौ तदा दृष्टौ कृतकौ विश्वक्मणा

॥२४॥

नारदो मोहितो ह्यासीत्पप्रच्छ च स तौ तदा ॥

अहं प्रवेष्टुमिच्छामि शिवदर्शनलालसः

॥२५॥

तस्मादनुज्ञा दातव्या दर्शनार्थं शिवस्य च ॥

अश्रृण्वन्तौ तदा दृष्ट्वा नारदो विस्मितोऽभवत्

॥२६॥

ज्ञानदृष्ट्या विलोक्याथ दूष्णींभूतोऽभवत्तदा ॥

कृत्रिमौ हि च तौ ज्ञात्वा प्रविष्टो हि महामनाः

॥२७॥

तथान्ये तत्सरूपाश्च दृष्टास्तेन महात्मना ॥

ऋषिः प्रणमितस्तैश्च नारदो भगवान्मुxx

॥२८॥

एवमादीन्यनेकानि आश्चर्याणि ददर्श सः ॥

ददर्शाथ च सुव्यक्तं त्र्यंबकं गिरिजान्वितम्

॥२९॥

अर्धासनगता साध्वी शंकरस्य महात्मनः ॥

तनया गिरिराज्य यया व्याप्तं जगत्त्रयम्

॥३०॥

गौरी सितेक्षणा बाला तन्वंगी चारुलोचना ॥

यया रूपी कृतः शम्भुरुपादेयः कृतो महान्

॥३१॥

निर्विकानि विकारैश्च बहुभिर्विकलीकृतः ॥

अर्द्धागलग्ना सा देवी दृष्टा तेन शिवस्य च

॥३२॥

नारदेन तथा शम्भुर्दृष्टस्त्रिभुवनेश्वरः ॥

शुद्धचामी करप्रख्यः सेव्यमानः सुरासुरैः

॥३३॥

शंखेन भोगिवर्येण सेवितं चांघ्रिपंकजम् ॥

धृतराष्ट्रेण च तथा तक्षकेण विशेषतः ॥

तथा पद्मेन महा शेषेणापि विशेषतः

॥३४॥

अन्यैश्च नागवर्यैश्च सेवितो हि निरंतरंम् ॥

वासुकिः कंठलग्नो हि हारभूतो महाप्रभः

॥३५॥

कंबलाश्वतरौ नित्यं कर्णभूषणभूषितौ ॥

जटामूलगताश्चान्ये महाफणिवरा ह्यमी

॥३६॥

अनेकजातिसंवीता नानावर्णाश्च पद्मिनः ॥

तक्षकः कुलिकः शंखो धृतराष्ट्रो महाप्रभः

॥३७॥

पद्मो दंभः सुदंभश्च करालो भीषणस्तथा ॥

एते चान्ये च बहवो नागाश्चाशीविषा ह्यमी

॥३८॥

अंगभूता हरस्या सन्पूज्यस्यास्य जगत्त्रये ॥

फणैकया शोभमानाः केचिद्धि पन्नगोत्तमाः

॥३९॥

फणानां द्वितयं केषां त्रितयं च महाप्रभम् ॥

चतुष्क पंचकषट्कं सप्तकं चाष्टकं तथा

॥४०॥

नवकं दशकं चैव तथैकादशकं त्वथ ॥

द्वादशकं चाष्टादशकमेकोनविंशकं तथा

॥४१॥

चत्वारिंशत्फणाः केऽपि पंचाशत्कं च षष्टिकम् ॥

सप्ततिश्चाप्यशीतिश्च नवतिश्च तथैव च

॥४२॥

तथा शतसहस्राणि ह्ययुतप्रयुतानि च ॥

अर्बुदानि च रत्नानि तथा शङ्खमितानि च

॥४३॥

अनंताश्च फणा येषां ते सर्पाः शिवभूषणाः ॥

दृष्टास्तदानीं ते सर्वे नारदेन महात्मना

॥४४॥

विद्यावंतोऽपि ते सर्वे भोगिनोऽपि सुशोभिताः ॥

हारभूषणभूतास्ते मणिमंतोऽमितप्रभाः

॥४५॥

अर्द्धचंद्रांकितो यस्य कपर्द्दस्त्वतिसुंदरः ॥

चक्षुषा च तृतीयेन भालस्थेन विराजितः

॥४६॥

पंचवक्त्रो महादेवो बाहुभिर्द्दशभिर्वृतः ॥

तथा मरकतश्यामकंधरोऽतीवसुंदरम्

॥४७॥

उरो यस्य विशालं च तथोरुजघनं परम् ॥

चरणद्वयं च रुद्रस्य शोभितं परमं महत्

॥४८॥

तद्दृष्टं चरणारविंदमतुलं तेजोमयं सुंदरं संध्यारागसुमंगलं च परमं तापापनुत्तिंकरम् ॥

तेजोराशिकरं परात्परमिदं लावण्यलीलस्पदं सर्वेषां सुखवृद्धिकारणपरं शंभोः पदं पावनम्

॥४९॥

तथैव दृष्ट्वा परमं पराणां परा सती रूपवती च सुंदरी ॥

सौभाग्यलावण्यमहाविभूत्या विराजमाना ह्यतिसुंदरी शुभा

॥५०॥

दृष्ट्वा तौ दपती शुद्धौ राजमानौ जगत्त्रये ॥

अभिन्नौ भेदमापन्नौ निर्गुणौ गुणिनौ च तौ

॥५१॥

साकारौ च निराकारौ निरातंकौ सुखप्रदौ ॥

ववंदे च मुदा तौ स नारदो भगवत्प्रियः ॥

उत्थायोत्थाय च तदा तुष्टाव जगदीश्वरौ

॥५२॥

नारद उवाच

नतोस्म्यहं देववरौ युवाभ्यां परात्पराभ्यां कलया तथापि ॥

दृष्टौ मया दंपती राजमानौ यौ वीजभूतौ सचराचरस्य

॥५३॥

पितरौ सर्वललोकस्य ज्ञातौ चाद्यैव तत्त्वतः ॥

मया नास्त्यत्र संदेहो भवतोः कृपया तथा

॥५४॥

एवं स्तुतौ तदा तेन नारदेन महात्मना ॥

तुतोष भगवाञ्छंभुः पार्वत्या सहितस्तदा

॥५५॥

महादेव उवाच

सुखेन स्थीयते ब्रह्मन्किं कार्यं करवाणि ते ॥

तच्छ्रुत्वा वचनं शंभोर्नारदो वाक्यमब्रवीत्

॥५६॥

दर्शनं जातमद्यैव तेन तुष्टोऽस्म्यहं विभो ॥

दर्शनात्सर्वमेवाद्य शंभो मम न संशयः

॥५७॥

क्रीडनार्थमिहायातः कैलासं पर्वतोत्तमम् ॥

हृदिस्थो हि सदा नॄणामास्थितो भगवन्प्रभो

॥५८॥

तथापि दर्शनं भाव्यं सततं प्राणिनामिह

॥५९॥

गिरिजोवाच

का क्रीडा हि त्वया भाव्या वद शीघ्रं ममाग्रतः ॥

तस्यास्तद्वचनं श्रुत्वा उवाच प्रहसन्निव

॥६०॥

द्यूतक्रीडा महादेव दृश्यते विविधात्र च ॥

भवेद्द्वाभ्यां च द्यूते हि रमणाच् महत्सुखम्

॥६१॥

इत्येवमुक्त्वो परतं सती भृशमुवाच वाक्यं कुपिता ऋषिं प्रति ॥

कथं विजानासि परं प्रसिद्धं द्यूतं च दुष्टोदरकं मनस्विनाम्

॥६२॥

त्वं ब्रह्मपुत्रोऽसि मुनिर्मनीषिणां शास्ता हि वाक्यं विविधैः प्रसिद्धैः ॥

चरिष्यमाणो भुवनत्रये न हि त्वदन्यो ह्यपरो मनस्वी

॥६३॥

एवमुक्तस्तदा देव्या नारदो देवदर्शनः ॥

उवाच वाक्यं प्रहसन्गिरिजां शिवसन्निधौ

॥६४॥

नारद उवाच

द्यूतं न जानामि न चाश्रयामि ह्यहं तपस्वी शिवकिंकरश्च कथं च मां पृच्छसि राजकन्यके योगीश्वराणां परमं पवित्रे

॥६५॥

निशम्य वाक्यं गिरिजा सती तदा ह्युवाच वाक्यं च विहस्य तं प्रति ॥

जानासि सर्वं च बटोऽद्य पश्य मे द्यूतं महेशेन करोमि तेऽग्रतः

॥६६॥

इत्येवमुक्त्वा गिरिराजकन्यका जग्राह चाक्षान्भुवनैकसुंदरी ॥

क्रीडां चकाराथ महर्षिसाक्ष्यके तत्रास्थिता सा हि भवेन संयुता

॥६७॥

तौ दंपती क्रीडया सज्जमानौ दृष्टौ तदा ऋषिणा नारदेन ॥

सविस्मयोत्फुल्लमना मनस्वी विलोकमानोऽतितरां तुतोष

॥६८॥

सखीजनेन संवीता तदा द्यूतपरा सती ॥

शिवेन सह संगत्य च्छलाद्द्यूतमकारयत्

॥६९॥

स पणं च तदा चक्रे छलेन महता वृतः ॥

जिता भवानी च तदा शिवेन प्रहसन्निव

॥७०॥

नारदोऽस्याः शिवेनाथ उपहासकरोऽभवत् ॥

निशम्य हारितं द्यूतमुपहासं निशम्य च

॥७१॥

नारदस्य दुरुक्तैश्च कुपिता पार्वती भृशम् ॥

उवाच त्वरिता चैव दत्त्वा चैवार्द्धचंद्रकम्

॥७२॥

तथा शिरोमणी चैव तरले च मनोहरे ॥

मुखं सुखोभनं चैव तथा कुपितसुंदरम् ॥

दृष्टं हरेण च पुनः पुनर्द्यूतमकारयत्

॥७३॥

तथा गिरिजया प्रोक्तः शंकरो लोकशंकरः ॥

हारितं च मया दत्तः पण एव च नान्यथा

॥७४॥

क्रियते च त्वया शंभो कः पणो हि तदुच्यताम् ॥

ततः प्रहस्य चोवाच पार्वतीं च त्रिलोचनः

॥७५॥

मया पणोऽयं क्रियते भवानि त्वदर्थमेतच्च विभूषणं महत् ॥

सा चंद्रलेखा हि महान्हि हारस्तथैव कर्णोत्पलभूषणद्वयम्

॥७६॥

इदमेव त्वया तन्वि मां जित्वा गृह्यतां सुखम् ॥

ततः प्रवर्तितं द्यूतं शंकरेण सहैव च

॥७७॥

एवं विक्रीडमानौ तावक्षविद्याविशारदौ ॥

तदा जितो भवान्याथ शंकरो बहुभूषणः

॥७८॥

प्रहस्य गौरी प्रोवाच शंकरं त्वतिसुंदरी ॥

हारितं च पणं देहि मम चाद्यैव शंकर

॥७९॥

तदा महेशः प्रहसन्सत्यं वाक्यमुवाच ह ॥

न जितोऽहं त्वया तन्वि तत्त्वतो हि विमश्यताम्

॥८०॥

अजेयोऽहं प्राणिनां सर्वथैव तस्मान्न वाच्यं तु वोच हि साध्वि ॥

द्यूतं कुरुष्वाद्य यथेष्टमेव जेष्यामि चाहंच पुनः प्रपश्या

॥८१॥

तदाम्बिकाह स्वपतिं महेशं मया जितोऽस्यद्य न विस्मयोऽत्र ॥

एवमुक्त्वा तदा शंभुं करे गृह्य वरानना ॥

जितोऽसि त्वं न संदेहस्त्वं न जानासि शंकर

॥८२॥

एवं प्रहस्य रुचिरं गिरिजा तु शंभुं सा प्रेक्ष्या नर्मवचसा स तयाभिभूतः ॥

देहीति म सकलमंगलमंगलेश यद्धारितं स्मररिपो वचसानुमोदितम्

॥८३॥

शिव उवाच

अजेयोऽहं विशालाक्षि तव नास्त्यत्र संशयः ॥

अहंकारेण यत्प्रोक्तं तत्त्वतस्तद्विमृश्यताम्

॥८४॥

तस्य तद्वचनं श्रुत्वा प्रोवाच च विहस्य सा ॥

अजेयो हि महादेवः सर्वेषामपि वै प्रभो

॥८५॥

मयैकया जितोऽसि त्वं द्यूतेन विमलेन हि ॥

न जानासि च किंचिच्च कार्याकार्यं विवक्षितम्

॥८६॥

एवं विवदमानौ तौ दंपती परमेश्वरौ ॥

नारदः प्रहसन्वाक्यमुवाच ऋषिसत्तमः

॥८७॥

नारद उवाच

आकर्णयाऽऽकर्णविशालनेत्रे वाक्यं तदेकं जगदेकमंगलम् ॥

असौ महाभाग्यवतां वरेण्यस्त्वया जितः किं च मृषा ब्रवीषि

॥८८॥

अजितो हि महादेवो देवानां परमो गुरुः ॥

अरूपोऽयं सुरूपोयं रूपातीतोऽयमुच्यते

॥८९॥

एक एव परं ज्योतिस्तेषामपि च यन्महः ॥

त्रैलोक्यनाथो विश्वात्मा शंकरो लोकशंकरः

॥९०॥

कथं त्वया जितो देवि ह्यजेयो भुवनत्रये ॥

शिवमेनं न जानासि स्त्रीभावाच्च वरानने

॥९१॥

नारदेनैवमुक्ता सा कुपिता पार्वती भृशम् ॥

बभाषे मत्सरग्रस्ता साक्षेपं वचनं सती

॥९२॥

पार्वत्युवाच

चापल्याच्च न वक्त्व्यं ब्रह्मपुत्र नमोस्तु ते ॥

तव भीतास्मि भद्रं ते देवर्षे मौनमावह

॥९३॥

कथं शिवो हि देवर्ष उक्तोऽतो हि त्वया बहु ॥

मत्प्रसादा स्छवो जात ईश्वरो यो हि पठ्यते

॥९४॥

मया लब्धप्रतिष्ठोऽयं जातो नास्त्यत्र संशयः

॥९५॥

एवं बहुविधं श्रुत्वा नारदो मौनमाश्रयत् ॥

पस्थितं च तद्दृष्ट्वा भृंगी वाक्यमथाब्रवीत्

॥९६॥

भृंग्युवाच

त्वया बहु न वक्तव्यं पुनरेव च भामिनि ॥

अजेयो निर्विकारो हि स्वामी मम सुमध्यमे

॥९७॥

स्त्रीभावयुक्तासि वरानने त्वं देवं न जानासि परं पराणाम् ॥

कामं पुरस्कृत्य पुरा भवानि समागतास्येव महेशमुग्रम

॥९८॥

यथा कृतं तेन पिनाकिना पुरा एतत्स्मृतं किं सुभगे वदस्व नः ॥

कृतो ह्यनंगो हि तदा ह्यनेन दग्धं वनं तस्य गिरेः पितुस्ते

॥९९॥

xxxवात्त्वयाराधित एव एष शिवः पराणां परमः परात्मा

॥१००॥

भृंगिणेत्येवमुक्ता सा ह्युवाच किपिता भृशम् ॥

श्रृण्वतो हि महेशस्य वाक्यं पृष्टा च भृंगिणम्

॥१०१॥

पार्वत्युवाच

हं भृंगिन्पक्षपातित्वाद्यदुक्तं वचनं मम ॥

शिवप्रियोऽसि रे मन्द भेदबुद्धिरतो ह्यसि

॥१०२॥

अहं शिवात्मिका मूढ शिवो नित्यं मयि स्थितः ॥

कथं शिवाभ्यां भिन्नत्वं त्वयोक्तं वाग्बलेन हि

॥१०३॥

श्रुतं च वाक्यं शुभदं पार्वत्या भृंगिणा तदा ॥

उवाच पार्वतीं भृंगी रुषितः शिवसन्निधौ

॥१०४॥

पुतुर्यज्ञे च दक्षस्य शिवनिंदा त्वया श्रुता ॥

अप्रियक्षवणात्सद्यस्त्वया त्यक्तं कलेवरम्

॥१०५॥

तत्क्षणादेव नन्वंगि ह्यधुना किं कृतं त्वया ॥

संभ्रमात्किं न जानासि शिवनिंदकमेव च ॥

३४.१०६ कथं वा पर्वतश्रेष्ठाज्जाता से वरवर्णिनि ॥

कथं वा तपसोग्रेण संतप्तासि सुमध्यमे

॥१०७॥

सप्रेमा च शिवे भक्तिस्तव नास्तीह संप्रातम् ॥

शिवप्रियासि तन्वंगि तस्नादेवं ब्रवीमि ते

॥१०८॥

शिवात्परतरं नान्यत्त्रिषु लोकेषु विद्यते ॥

शिवे भक्तिस्त्वया कार्या सप्रेमा वरवर्णिनि

॥१०९॥

भक्तासि त्वं महादेवि महाभाग्यवतां वरे ॥

संसेव्यतां प्रयत्नेन तपसोपार्जितस्त्वया

॥११०॥

शिवो वरेण्यः सर्वेशो नान्यथा कर्तुमर्हसि ॥

भृंगिणो वचनं श्रुत्वा गिरिजा तमुवाचह

॥१११॥

गिरिजोवाच

रे भृंगिन्मौनमालंब्य स्थिरो भवाथ वा व्रज ॥

वाच्यावाच्यं न जानासि किं ब्रवीषि पिशाचवत्

॥११२॥

तपसा केन चानीतः कया चापि शिवो ह्ययम् ॥

काहं कोऽसौ त्वया ज्ञातो भेदबुद्ध्या ब्रवीषि मे

॥११३॥

कोऽसि त्वं केन युक्तोऽसि कस्माच्च बहु भाषसे ॥

शापं तव प्रदास्यामि शिवः किं कुरुतेऽधुना

॥११४॥

भृंगिणोक्ता तिरस्कृत्य तदा शापं ददौ सती ॥

निमामो भव रे मन्द रे भृंगिञ्छिंकरप्रिय

॥११५॥

एवमुक्त्वा तदा देवी पार्वती शंकरप्रिया ॥

अथ कोपेन संयुक्ता पार्वती शंकरं तदा

॥११६॥

कर गृह्य च तन्वंगी भुजंगं वासुकिं तथा ॥

उदतारयत्कंठात्सा तथान्यानि बहूनि च

॥११७॥

शंभोर्जग्राह कुपिता भूषणानि त्वरान्विता ॥

हृत चंद्रकला तस्य गजाजिनमनुत्तमम्

॥११८॥

कंबलाश्वतरौ नागौ महेशकृतभूषणौ ॥

हृतौ तया महादेव्या छलोक्त्यां च प्रहस्य वै

॥११९॥

कौपीनाच्छा दनं तस्या च्छलोक्त्या च प्रहस्य वै ॥

तदा गणाश्च सख्यश्च त्रपया पीडिता भवन्

॥१२०॥

पराङ्गमुखाश्च संजाता भृङ्गी चैव महातपाः ॥

तथा चण्डो हि मुण्डश्च महालोमा महोदरः

॥१२१॥

एते चान्ये च बहवो गणास्ते दुःखिनोऽभवन् ॥

तांश्च दृष्ट्वा तथाभूतन्महेशो लज्जितोऽभवत्

॥१२२॥

उवाच वाक्यं रुषितः पार्वतीं प्रति शंकरः

॥१२३॥

रुद्र उवाच

उपहासं प्रकुर्वंति सर्वे हि ऋषयो भृशम् ॥

तथा ब्रह्मा च विष्णुश्च तथा चेन्द्रादयो ह्यमी

॥१२४॥

उपहासपराः सर्वे किं त्वयाद्य कृतं शुभे ॥

कुले जातासि तन्वंगि कथमेवं करिष्यसि

॥१२५॥

त्वया जितो ह्यहं सुभ्रु यदि जानासि तत्त्वतः ॥

तर्ह्येवं कुरु मे देहि कौपीनाच्छादनं परम् ॥

देहि कौपी नामात्रं मे नान्यथा कर्तुमर्हसि

॥१२६॥

एवमुक्ता सती तेन शंभुना योगिना तदा ॥

प्रहस्य वाक्यं प्रोवाच पार्वती रुचिरानना

॥१२७॥

किं कौपीनेन ते कार्यं मुनिना भावितात्मना ॥

दिगम्बरेणैव तदा कृतं दारुवनं तथा

॥१२८॥

भिक्षाटनमिषेणैव ऋषिपत्न्यो विरोहिताः ॥

गच्छ तस्ते तदा शंभो पूजनं तैर्महत्कृतम्

॥१२९॥

कौपीनं पतितं तत्र मुनिभिर्नान्यथोदितम् ॥

तस्मात्त्वया प्रहातव्यं द्यूतोहारितमेव तत्

॥१३०॥

तच्छ्रुत्वा कुपितो रुद्रः पार्वतीं परमेश्वरः ॥

निरीक्षमाणोऽतिरुषा तृतीयेनैव चक्षुषा

॥१३१॥

कुपितं शंकरं दृष्ट्वा सर्व देवगणास्तदा ॥

भयेन महताविष्टास्तथा गणकुमारकाः

॥१३२॥

ऊचुः सर्वे शनैस्तत्र शंकितेन परस्परम् ॥

अद्यायं कुपितो रुद्रो गिरिजां प्रति संप्रति

॥१३३॥

यथा हि मदनो दग्धस्तथेयं नान्यथा वचः ॥

एवं मीमांसमानास्ते गणा देवर्षयस्तदा

॥१३४॥

विलोकितास्तया देव्या सर्वे सौभाग्यमुद्रया ॥

उवाच प्रहसन्नेव सती सत्पुरुषं तदा

॥१३५॥

किमालोकपरो भूत्वा चक्षुषा परमेण हि ॥

नाहं कालो न कामोऽहं नाहं दभस्य वै मखः

॥१३६॥

त्रिपुरो नैव वै शंभो नांधको वृषभध्वज ॥

वीक्षितेनैव किं तेन तव चाद्य भविष्यति ॥

वृथैव त्वं विरूपाक्षो जातोऽसि मम चाग्रतः

॥१३७॥

एवमादीन्यनेकानि हयुवाच परमेश्वरी ॥

निशम्य देवो वाक्यानि गमनाय मनो दधे

॥१३८॥

वनमेव वरं चाद्य विजनं परमार्थतः ॥

एकाकी यतचित्तात्मा त्यक्तसर्वपरिग्रहः

॥१३९॥

स सुखी परमार्थज्ञः स विद्वान्स च पंडितः ॥

येन मुक्तौ कामरागौ स मुक्तः स सुखी भवेत्

॥१४०॥

एवं विमृश्य च तदा गिरिजां विहाय श्रीशंकरः परमकारुणिकस्तदानीम् ॥

यातः प्रियाविरहितो वनमद्भुतं च सिद्धाटवीं परमहंसयुतां तथैव

॥१४१॥

निर्गतं शंकरं दृष्ट्वा सर्वे कैलासवासिनः ॥

निर्ययुश्च गणाः सर्वे वीरभद्रादयोऽनु तम्

॥१४२॥

छत्रं भृंगी समादाय जगाम तस्य पृष्ठतः ॥

चामरे वीज्यमाने च गंगायमुनसन्निभे

॥१४३॥

ताभ्यां युक्तस्तदा नंदी पृष्ठतोऽन्वगमत्सुधीः ॥

वृषभों ह्यग्रतो भूत्वा पुष्पकेण विराजितः

॥१४४॥

शोभमानो महादेव एभिः सर्वैः सुशोभनैः ॥

अंतःपुरगता देवी पार्वती सा हि दुर्मनाः

॥१४५॥

सखीभिर्बहुभिस्तत्र तथान्याभिः सुसंवृता ॥

गिरिजा चिंतयामास मनसा परमेश्वरम्

॥१४६॥

ततो दूरं गतः शंभुर्विसृज्य च गणांस्तदा ॥

गणेशं च कुमारं च वीरभद्रं तथाऽपरान्

॥१४७॥

भृंगिणं नंदिनं चंडं सोमनंदिनमेव च ॥

एतानन्यांश्च सर्वांश्च कैलासपुरवासिनः

॥१४८॥

विसृज्य च महादेव एक एव महातपाः ॥

गतो दूरं वनस्यांते तथा सिद्धवटं शिवः

॥१४९॥

काश्मीररत्नोपलसिद्धरत्नवैदूर्यचित्रं सुधया परिष्कृतम् ॥

दिव्यासनं तस्य च कल्पितं भुवा तत्रास्थितो योगपतिर्महेशः

॥१५०॥

पद्मासने चोपविष्टो महेशो योगवित्तमः ॥

केवलं चात्मनात्मानं दध्यौ मीलितलोचनः

॥१५१॥

शुशुभे स महादेवः समाधौ चंद्रशेखरः ॥

योगपट्टः कृतस्तेन शेषस्य च महात्मनः ॥

वासुकिः सर्पराजश्च कटिबद्धः कृतो महान्

॥१५२॥

आत्मानमात्मात्मतया च संस्तुतो वेदांतवेद्यो न हि विश्वचेष्टितः ॥

एको ह्यनेको हि दुरंतपारस्तथा ह्यर्क्यो निजबोधरूपः ॥

स्थितस्तदानीं परमं पराणां निरीक्षमाणो भुवनैकभर्ता

॥१५३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखंडे शिवशास्त्रे शिवपार्वतीद्यूतप्रसंगेन पार्वतीहारितसर्वस्वस्य शिवस्य कैलासं विहाय तपोवनगमनवर्णनंनाम चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥