मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — केदारखण्डः, अध्याय ३०

3
माहेश्वरखण्डः · केदारखण्डः · 30

स्वामिकार्त्तिकेयविजयोत्सववर्णनम्

लोमश उवाच

वल्गमानं तमायांतं तारका सुरमोजसा ॥

आजघान च वज्रेण इंद्रो मतिमतां वरः

॥१॥

तेन वज्रप्रहारेण तारको विह्वलीकृतः पतितोऽपि समुत्थाय शक्त्या तं प्राहरद्द्विपम्

॥२॥

पुरंदरं गजस्थं हि अपातया भूतले ॥

हाहाकारो महानासीत्पतिते च पुरंदरे

॥३॥

तारकेणापि तत्रैव यत्कृतं तच्छृणु प्रभो ॥

पतितं च पदाक्रम्य हस्ताद्वज्रं प्रगृह्य च

॥४॥

हतं देवेंद्रमालोक्य तारको रिपुसूदनः ॥

वज्रघातेन महताऽताडयत्तु पुरंदरम्

॥५॥

त्रिशूलमुद्यम्य महाबलस्तदा स वीरभद्रो रुषितः पुरंदरम् ॥

संरक्षमाणो हि जघान तारकं शूलेन दैत्यं च महाप्रभेण

॥६॥

शूलप्रहाराभिहतो निपपात महीतले ॥

पतितोऽपि महातेजास्तारकः पुनरुत्थितः

॥७॥

जघान परया शक्त्या वीरभद्रं तदोरसि ॥

वीरभद्रोपि पतितः शक्तिघातेन तस्य वै

॥८॥

सगणाश्चैव देवाश्च गंधर्वोरगराक्षसाः ॥

हाहाकारेण महता चुक्रुशुश्च पुनःपुनः

॥९॥

तदोत्थितः सहसा महाबलः स वीरभद्रो द्विषतां निहंता ॥

त्रिशूलमुद्यम्य तडित्प्रकाशं जाज्वल्यमानं प्रभया निरंतरम् ॥

स्वरोचिषा भासितदिग्वितानं सूयदुबिंबाग्न्युडुमण्डलाभम्

॥१०॥

त्रिशूलेन तदा यावद्धंतुकामो महाबलः ॥

निवारितः कुमारेण मावधीस्त्वं महामते

॥११॥

जगर्ज च महातेजाः कार्त्तिकेयो महाबलः

॥१२॥

तदा जयेत्यभिहितो भूतैराकाशसंस्थितैः ॥

शक्त्या परमया वीरस्तारकं हंतुमुद्यतः

॥१३॥

तारकस्य कुमारस्य संग्रामस्तत्र दुःसहः ॥

जातस्ततो महाघोरः सर्वभूतभयंकरः

॥१४॥

शक्तिहस्तौ च तौ वीरौ युयुधाते परस्परम् ॥

शक्तिभ्यां भिन्नहस्तौ तौ महासाहससंयुतौ

॥१५॥

परस्परं वंचयंतौ सिंहाविव महाबलौ ॥

वैतालिकीं समाश्रित्य तथा वै खेचरीं गतिम्

॥१६॥

पार्वतं मतमाश्रित्य शक्त्या शक्तिं निजघ्नतुः ॥

एभिर्मतैर्महावीरौ चक्रतुर्युद्धमुत्तमम्

॥१७॥

अन्योन्यसाधकौ भूत्वा महाबलपराक्रमौ ॥

जघ्नतुः शक्तिधाराभी रणे रणविशारदौ

॥१८॥

मूर्ध्नि कण्ठे तथा बाह्वोर्जान्वोश्चैव कटीतटे ॥

वक्षस्युरसि पृष्ठे च चिच्छिदतुः परस्परम्

॥१९॥

तदा तौ युध्यमानौ च हन्तुकामौ महाबलौ ॥

प्रेक्षका ह्यभवन्सर्वे देवगन्धर्वगुह्यकाः

॥२०॥

ऊचुः परस्परं सर्वे कोऽस्मिन्युद्धे विजेष्यते ॥

तदा नभोगता वाणी उवाच परिसांत्व्य वै

॥२१॥

तारकं हि सुराश्चाद्य कुमारोऽयं हनिष्यति ॥

मा शोच्यतां सुराः सर्वैः सुखेन स्थीयतां दिवि

॥२२॥

श्रुत्वा तदा तां गगने समीरितां तदैव वाचं प्रमथैः परीतः ॥

कुमारकस्तं प्रति हंतुकामो दैत्याधिपं तारकमुग्ररूपम्

॥२३॥

शक्त्या तया महाबाहुराजघान स्तनांतरे ॥

तारकं ह्यसुरश्रेष्ठं कुमारो बलवत्तरः

॥२४॥

तं प्रहारमना दृत्य तारको दैत्यपुंगवः ॥

कुमारं चाऽपि संक्रुद्धः स्वशक्त्या चाजघान वै

॥२५॥

तेन शक्तिप्रहारेण शांकरिर्मूर्च्छितोऽभवत् ॥

मुहूर्ताच्चेतनां प्राप्तः स्तूयमानो महर्षिभिः

॥२६॥

यथा सिंहो मदोन्मत्तो हंतुकामस्तथैव च ॥

कुमारस्तारकं दैत्यमाजघान प्रतापवान्

॥२७॥

एवं परस्परेणैव कुमारश्चैव तारकः ॥

युयुधातेऽतिसंरब्धौ शक्तियुद्धपरायणौ

॥२८॥

अभ्यासपरमावास्तामन्योन्यविजिगीषया ॥

तथा तौ युध्यमानौ च चित्ररूपौ तपस्विनौ

॥२९॥

धाराभिश्च अणीभीश्च सुप्रयुक्तौ च जघ्नतुः ॥

अवलोकपराः सर्वे देवगन्धर्वकिन्नराः

॥३०॥

विस्मयं परमं प्राप्ता नोचुः किंचन तस्य वै ॥

न ववौ च तदावायुर्निष्प्रभोऽभूद्दिवाकरः

॥३१॥

हिमालयोऽथ मेरुश्च श्वेतकूटश्च दर्दुरः ॥

मलयोऽथ महाशैलो मैनाको विंध्यपर्वतः

॥३२॥

लोकालोकौ महाशैलौ मानसोत्तरपर्वतः ॥

कैलासो मन्दरो माल्यो गन्धमादन एव च

॥३३॥

उदयाद्रिर्महेंद्रश्च तथैवास्तगिरिर्महान्

॥३४॥

एते चान्ये च बहवः पर्वताश्च महाप्रभाः ॥

स्नेहार्द्दितास्तदाजग्मुः कुमारं च परीप्सवः

॥३५॥

ततः स दृष्ट्वा तान्सर्वान्भयभीतांश्च शांकरिः ॥

पर्वतान्गिरिजापुत्रो बभाषे प्रतिबोधयन्

॥३६॥

कुमार उवाच

मा खिद्यत महाभागा मा चिंता क्रियतां नगाः ॥

घातयाम्यद्य पापिष्ठं सर्वेषामिह पश्यताम्

॥३७॥

एवं समाश्वास्य तदा मनस्वी तान्पर्वतान्देवगणैः समेतान् ॥

प्रणम्य शंभुं मनसा हरिप्रियः स्वां मातरं चैव नतः कुमारः

॥३८॥

कार्त्तिकेयस्ततः शक्त्या निचकर्त रिपोः शिरः ॥

तच्छिरो निपपातोर्व्यां तारकस्य च तत्क्षणात् ॥

एवं स जयमापेदे कार्त्तिकेयो महाप्रभुः

॥३९॥

ददृशुस्तं सुरगणा ऋषयो गुह्यकाः खगाः ॥

किंनराश्चारणाः सर्पास्तथा चैवाप्सरो गणाः

॥४०॥

हर्षेण महताविष्टास्तुष्टुवुस्तं कुमारकम् ॥

विद्याधर्यश्च ननृतुर्गायकाश्च जगुस्तदा

॥४१॥

एवं विजयमापन्नं दृष्ट्वा सर्वे मुदा युताः ॥

ततो हर्षात्समागम्य स्वांकमारोप्य चात्मजम्

॥४२॥

परिष्वज्य तु गाढेन गिरिजापि तुतोष वै ॥

स्वोत्संगे च समारोप्य कुमारं सूर्यवर्चसम्

॥४३॥

लालयामास तन्वंगी पार्वती रुचिरेक्षणा ॥

ऋषीभिः सत्कृतः शंभुः पार्वत्या सहितस्तदा

॥४४॥

आर्यासनगता साध्वी शुशुभे मितभाषिणी ॥

संस्तूयमाना मुनिभिः सिद्धचारणपन्नगैः

॥४५॥

नीराजिता तदा देवैः पार्वती शंभुना सह ॥

कुमारेण सहैवाथ शोममाना तदा सती

॥४६॥

हिमालयस्तदागत्य पुत्रैश्च परिवारितः ॥

मेर्वाद्यैः पर्वतैश्चैव स्तूयमानः परोऽभवत्

॥४७॥

तदा देवगणाः सर्व इन्द्राद्य ऋषिभिः सह ॥

पुष्पवर्षेण महात ववर्षुरमितद्युतिम् ॥

कुमारमग्रतः कृत्वा नीराजनपरा बभुः

॥४८॥

गीतवादित्रघोषेण ब्रह्मघोषेण भूयसा ॥

संस्तूयमानो विविधैः सूक्तैर्वेदविदां वरैः

॥४९॥

कुमारविजयंनाम चरित्रं परमाद्भुतम् ॥

सर्वपापहरं दिव्यं सर्वकामप्रदं नृणाम्

॥५०॥

ये कीर्त्तयंति शुचयोऽमितभाग्ययुक्ताश्चानंत्यरूपमजरामरमादधानाः ॥

कौमारविक्रममहात्म्यमुदारमेतदानंददायकमनोर्थकरं नृणां हि

॥५१॥

यः पठेच्छृणुयाद्वापि कुमारस्य महात्मनः ॥

चरितं तारकाख्यं च सर्वपापैः समुच्यते

॥५२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखंडे शिवशास्त्रे तारकासुरवधपूर्वकं स्वामिकार्त्तिकेयविजयोत्सववर्णनं नाम त्रिंशोऽध्यायः ॥ ३० ॥