मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — केदारखण्डः, अध्याय ३२

3
माहेश्वरखण्डः · केदारखण्डः · 32

कालदहनवृत्तान्तवर्णनम्

लोमश उवाच

एवं ते शिवधर्माश्च कथितास्तेन वै द्विजाः ॥

सविशेषाः पाशुपताः प्रसादाच्चैव विस्तरात्

॥१॥

अनेकागमसंवीता यथातत्त्वमुदाहृताः ॥

कापालिकानां भेदाश्च प्रोक्ता व्याससमासतः

॥२॥

धर्मा नानाविधाः प्रोक्ता नंदिनं प्रति वै तदा

॥३॥

ऋषय ऊचुः

श्रुतं कुमारचरितमविशेषं सुमंगलम् ॥

अस्माभिश्च महाभागकिंचित्पृच्छामहे वयम्

॥४॥

श्वेतस्य राजसिंहस्य चरितं परमाद्भुतम् ॥

येन संतोषितो रुद्रः शिवो भक्त्याऽप्रमेयया

॥५॥

ते भक्तास्ते महात्मानो ज्ञानिनस्ते च कर्मिणः ॥

येऽर्चयंति महाशंभुं देवं भक्त्या समावृताः

॥६॥

तस्मात्पृच्छामहे सर्वे चरितं शंकरस्य च ॥

व्यासप्रसादात्सर्वं यज्जानासि त्वं न चापरः

॥७॥

निशम्य वचनं तेषां मुनीनां लोमशोऽब्रवीत्

॥८॥

लोमश उवाच

आकर्ण्यतां महाभागाश्चरितं परमाद्भुतम् ॥

तस्य राज्ञो हि भजतो राजभोगांश्च सर्वशः ॥

मतिर्द्धिर्मे समुत्पन्ना श्वेतस्य च महात्मनः

॥९॥

पृथिवीं पालयामास प्रजा धर्मेण पालयन् ॥

ब्रह्मण्यः सत्यवाक्छूरः शिवभक्तो निरंतरम्

॥१०॥

राज्यं शशासाथ स शक्तितो नृपो भक्त्या तदा चैव समर्चयत्सदा ॥

शंभुं परेशं परमं परात्परं शांतं पुराणं परमात्मरूपम्

॥११॥

आयुस्तस्य परिक्षीणमर्चतः परमेश्वरम् ॥

अथैतच्च महाभाग चरितं श्रूयतां मम

॥१२॥

वाणी शिवकथायुक्ता परमाश्चर्यसंयुता ॥

न वाऽऽधयो हि तस्यैव व्याधयो हि महीपतेः

॥१३॥

तस्य राज्ञो न बाधंते तथा चोपद्रवास्त्वमी ॥

निरीतिको जनो ह्यासीन्निरुपद्रव एव च

॥१४॥

अकृष्टपच्यौषधयस्तस्य राज्ञोऽभवन्भुवि ॥

तपस्विनो ब्राह्मणाश्च वर्णाश्रमयुता जनाः

॥१५॥

न पुत्रमरणे दुःखं नापमानं न मारकाः ॥

न दारिद्र्यं च ते सर्वे प्राप्नुवन्ति कदाचन

॥१६॥

एवं बहुतरः कालस्तस्य राज्ञो महात्मनः ॥

गतो हि सफलो विप्राः शिवपूजारतस्य वै

॥१७॥

एकदा पूजमानं तं शंकरं परमार्थदम् ॥

यमो हि प्रेषयामास यमदूतान्नृपं प्रति

॥१८॥

वचनाच्चित्रगुप्तस्य श्वेत आनीयतामिति ॥

तथेति मत्वा ते दूता आगताः शिवमंदिरम्

॥१९॥

राजानं नेतुकामास्ते पाशहस्ता महाभयाः ॥

यावत्समागता याम्या राजानं ददृशुस्त्वरात्

॥२०॥

न चक्रिरे तदा दूता आज्ञां धर्मस्य चैव हि ॥

ज्ञात्वा सर्वं यमश्चैव आगतः स्वयमेव हि

॥२१॥

उद्धृत्य दंडं सहसा नेतुकामस्तदा नृपम् ॥

ददर्श च महाबाहुः शिवध्यानपरायणम्

॥२२॥

शिवभक्तियुतं शांतं केवलं ज्ञानसंयुतम् ॥

यमोऽपि दृष्ट्वा राजानं परं क्षोभमुपागमत्

॥२३॥

चित्रस्थो ह्यभवत्स्द्यः प्रेतराजोऽतिविह्वलः ॥

कालरूपश्च यो नित्यं प्रजानां क्षयकारकः

॥२४॥

आगतस्तत्क्षणादेव नृपं प्रति रुषान्वितः ॥

खड्गेन सितधारेण चर्मणा परमेम हि

॥२५॥

तावत्तं ददृशे सोऽपि स्थितं द्वारि भयावृतम् ॥

उवाच कालो हि तदा यमं वैवस्वतं प्रति

॥२६॥

कस्मात्त्वया धरमराज नो नीतोऽयं नृपो महान् ॥

यम दूतसहायश्च भीतवत्प्रतिभासि मे

॥२७॥

कालात्ययो न कर्त्तव्यो वचनान्मम सुव्रत ॥

कालेनोक्तस्तदा धर्म उवाच प्रस्तुतं वचः

॥२८॥

तवाज्ञां च करिष्यामि नात्र कार्या विचारणा ॥

असौ हुरत्ययोऽस्माकं शिवभक्तो निरंतरम्

॥२९॥

चित्रस्था इव तिष्ठाम भयाद्देवस्य शूलिनः ॥

यमस्य वचनं श्रुत्वा कालः क्रोधसमन्वितः ॥

राजानं हंतुमारेभे त्वरितः खड्गमाददे

॥३०॥

त्रिगुणाष्टाक्रसंकाशं प्रविवेश शिवालयम् ॥

यावत्कोपेन महता तावद्दृष्टः पिनाकिना ॥

स्वभक्तं हंतुकामोसौ श्वेतराजानमुत्तमम्

॥३१॥

ध्यानस्थितं चात्मनि तं विशुद्धज्ञानप्रदीपेन विशुद्धचित्तम् ॥

आत्मानमात्मात्मतया निरंतरं स्वयंप्रकाशं परमं पुरस्तात्

॥३२॥

एवंविधं तं प्रसमीक्ष्य कालं संचिंत्यमानं मनसाऽचलेन ॥

शैवं पदं यत्परमार्थरूपं कैवल्यसायुज्यकरं स्वरूपतः

॥३३॥

सदाशिवेन दृष्टोऽसौ कालः कालांतकेन च ॥

उच्छृंखलः खलो दर्पाद्विशमानो निजांतिके

॥३४॥

नंदिकेश्वरमध्यस्थो यावद्दृष्टो निजांतिके ॥

शिवेन जगदीशेन भक्तवत्सलबंधुना

॥३५॥

निरीक्षितस्तृतीयेन चक्षुषा परमेष्ठिना ॥

स्वभक्तं रक्षमाणेन भस्मसादभवत्क्षणात्

॥३६॥

ददाह तं कालमनेकवर्णं व्यात्ताननं भीमबहूग्ररूपम् ॥

ज्वालावलीभिः परिदह्यमानमतिप्रचंडं भुवनैकभक्षणम्

॥३७॥

ददर्शिरे देवगणाः समेताः सयक्षगंधर्वपिशाचगुह्यकाः ॥

सिद्धाप्सरःसर्वखगाश्च पन्नगाः पतत्रिणो लोकपालास्तथैव

॥३८॥

ज्वालामालावृतं कालमीश्वरस्याग्रतः स्थितम् ॥

लब्धसंज्ञस्तदा राजा कालं स्वं हंतुमागतम्

॥३९॥

पुनः पुनर्द्ददर्शाथ दह्यमानं कृशानुना ॥

प्रार्थयामास स व्यग्रो रुद्रं कालाग्निसन्निभम्

॥४०॥

राजोवाच

नमो रुद्राय शांताय स्वज्योत्स्नायात्मवेधसे ॥

निरंतराय सूक्ष्माय ज्योतिषां पतये नमः

॥४१॥

त्राता त्वं हि जगन्नाथ पिता माता सुहृत्सखा ॥

त्वमेव बंधुः स्वजनो लोकानां प्रभुरीश्वरः

॥४२॥

किं कृतं हि त्वया शंभो कोऽसौ दग्धो ममाग्रतः ॥

न जानामि च किं जातं कृतं केन महत्तरम्

॥४३॥

एवं प्रार्थयतस्तस्य श्रुत्वा च परिदेवनम् ॥

उवाच शंकरो वाक्यं बोधयन्निव तं नृपम्

॥४४॥

रुद्र उवाच

मया दग्धो ह्ययं कालस्तवार्थे च तवाग्रतः ॥

दह्यमानो हि दृष्टस्ते ज्वाला मालाकुलो महान्

॥४५॥

एवमुक्तस्तदा तेन शंभुना राजसत्तमः ॥

उवाच प्रश्रितो भूत्वा वचनं शिवमग्रतः

॥४६॥

किमनेन कृतं शंभो अकृत्यं वद तत्त्वतः ॥

य इमां प्राप्तितोऽवस्थां प्राणात्ययकरीं भव

॥४७॥

एवं विज्ञापितस्तेन ह्युवाच परमेश्वरः ॥

भक्षकोऽयं महाराज सर्वेषां प्राणिनामिह

॥४८॥

भक्षणार्थं तव विभो सोऽयं क्रूरोऽधुनाऽऽगतः ॥

ममांतिकं महाराज तस्माद्दग्धो मया विभो

॥४९॥

बहूनां क्षेममन्विच्छंस्तवार्थेऽन्हं विशेषतः

॥५०॥

ये पापिनो ह्यधर्मिष्ठा लोकसंहारकारकाः ॥

पाषंडवादसंयुक्ता वध्यास्ते मम चैव हि ॥

वाक्यं निशम्य रुद्रस्य श्वेतो वचनमब्रवीत्

॥५१॥

कालेनैव हि लोकोऽयं पुण्यमाचरते सदा ॥

धर्मनिष्ठाश्च केचित्तु भक्त्या परमया युताः

॥५२॥

उपासनारताः केचिज्ज्ञानिनो हि तथा परे ॥

केचिदध्यात्मसंयुक्ताश्चान्ये मुक्ताश्च केचन

॥५३॥

कालो हि हर्ता च चराचराणां तथा ह्यसौ पालकोऽप्यद्वितीयः ॥

स स्रष्टा वै प्राणिनां प्राणभूतस्तस्मादेनं जीवयस्वाशु भूयः

॥५४॥

यदि सृष्टिपरोऽसि त्वं कालं जीवय सत्वरम् ॥

यदि संहारभूतोऽसि सर्वेषां प्राणिनामिह

॥५५॥

तर्ह्येवं कुरु शंभो त्वं कालस्य च महात्मनः ॥

विना कालेन यत्किंचिद्भविष्यति न शंकर

॥५६॥

इति विज्ञापितस्तेन राज्ञा शंभुः प्रतापिना ॥

चकार वचनं तस्य भक्तस्य च चिकीर्षितम्

॥५७॥

शंभुः प्रहस्याथ तदा महेशः संजीवयामास पिनाकपाणिः ॥

चकार रूपं च यथा पुरासीदालिंगतोसौ यमदूतमध्ये

॥५८॥

उपस्थितोऽसौ त्वथ लज्जमानस्तुष्टाव देवं वृषभध्वजं तम् ॥

नत्वा पुरःस्थाग्निमयं हि कालः सविस्मयो वाक्यमिदं बभाषे

॥५९॥

काल उवाच

कालांतक त्रिपुरेश त्रिपुरांतकर प्रभो ॥

मदनो हि त्वया देव कृतोऽनंगो जगत्पते

॥६०॥

दक्षयज्ञविनाशश्च कृतो हि परमाद्भुतः ॥

कालकूटं दुःप्रसहं सर्वेषां क्षयकृन्महत्

॥६१॥

ग्रसितं तत्त्वया शंभो अन्येषामपि दुर्द्धरम् ॥

लिंगरूपेण महता व्याप्तमासीज्जगत्त्रयम्

॥६२॥

लयनाल्लिंगमित्युक्तं सर्वैरपि सुरा सुरैः ॥

यस्यांतं न विदुर्द्देवा ब्रह्मविष्णुपुरोगमाः

॥६३॥

लिंगस्य देवदेवस्य महिमानं परस्य च ॥

नमस्ते परमेशाय नमस्ते विश्वमंगल ॥

नमस्ते शितिकण्ठाय नमस्तस्मै कपर्दिने

॥६४॥

नमोनमः कारणकारणाय ते नमोनमो मंगलमंगलात्मने ॥

ज्ञानात्मने ज्ञानविदां मनीषिणां त्वमादिदेवोऽसि पुमान्पुराणः

॥६५॥

त्वमेव सर्वं जगदेवबंधो वेदांतवेद्योऽसि महानुभावः ॥

महानुभावैः परिकीर्त्तनीयस्त्वमेव विश्वेश्वर विश्वमान्यः

॥६६॥

त्वं पासि लुंपसि जगत्त्रितयं महेश स्रष्टासि भूतपतिरेव न कश्चिदन्यः

॥६७॥

इति स्तुतस्तदा तेन कालेन जगदीश्वरः ॥

उवाच कालो राजानं श्वेतं संबोधयन्निव

॥६८॥

काल उवाच

मनुष्यलोके सकले नान्यस्त्वत्तो हि विद्यते ॥

येन त्वया जितो देवो ह्यजेयो भुवनत्रये

॥६९॥

मया हतमिदं विश्वं जगदेतच्चराचरम् ॥

जेताहं सर्वदेवानां सर्वेषां दुरतिक्रमः

॥७०॥

स हि ते चानुगो जातो महाराज प्रयच्छ मे ॥

अभयं देवदेवाच्च शूलिनः परमेष्ठिनः

॥७१॥

एवमुक्तस्तदा तेन श्वेतः कालेन चैव हि ॥

उवाच प्रहसन्वाचा मेघनादगभीरया

॥७२॥

राजोवाच

शिवस्य परमं रूपं त्वमेको नास्ति संशयः ॥

कालस्त्वमसि भूतानां स्थितिसंहाररूपवान्

॥७३॥

तस्मात्पूज्यतमोऽसि त्वं सर्वेषां च नियामकः ॥

त्वद्भयात्कृतिनः सर्वे शरणं परमेश्वरम् ॥

व्रजंति विविधैर्भार्वैरात्मलक्षणतत्पराः

॥७४॥

सुत उवाच

तेनैवं रक्षिततः कालो राज्ञा परमधर्मिणा ॥

शिवप्रसादमात्रेण लब्धसंज्ञो बभूवह

॥७५॥

तदा यमेन स्तवितो मृत्युना यमदूतकैः ॥

शिवं प्रणम्य संस्तुत्य श्वेतं राजानमेव च ॥

ययौ स्वमालयं विप्रा मेने स्वं जनितं पुनः

॥७६॥

मायया सह पत्न्या च शिवस्य चरितं महत् ॥

अनुसंस्मृत्य संस्मृत्य विस्मयं परमं ययौ

॥७७॥

कथयामास सर्वेषां दूतानां स्वयमेव हि ॥

आकर्ण्यतां मम वचो हे दूतास्त्वरितेन हि

॥७८॥

कर्त्तव्यं च प्रयत्नेन नान्यथा मम भाषितम्

॥७९॥

काल उवाच

ये त्रिपुण्ड्रंधारयंति तथा ये वै जटाधराः ॥

ये रुद्राक्षधराश्चैव तथा ये शिवनामिनः

॥८०॥

उपजीवनहेतोश्च भिया ये ह्यपि मानवाः ॥

पापिनोऽपि दुराचाराः शिववेषधरा ह्यमी

॥८१॥

नानेतव्या भवद्भिश्च मम लोकं कदाचन ॥

वर्ज्यास्ते हि प्रयत्नेन पापिनोऽपि सदैव हि

॥८२॥

अन्येषां का कथा दूता येऽर्चयंति सदाशिवम् ॥

भक्त्या परमया शंभुं रुद्रास्ते नात्र संशयः

॥८३॥

रुद्राक्षमेकं शिरसा बिभर्ति यस्तथा त्रिपुंड्रं च ललाटमध्यके ॥

पंचाक्षरीं ये प्रजपंति साधवः पूज्य भवद्भिश्च न चान्यथा क्वचित्

॥८४॥

यस्मिन्राष्ट्रोऽथ वा देशे ग्रामे चापि विचक्षणः ॥

शिवभक्तो न दृश्येत स्मशानात्तु विशिष्यते ॥

तद्राष्ट्रं देशमित्याहुः सत्यं प्रतिवदामि वः

॥८५॥

यस्मिन्न संति नित्यं हि शिवभक्तिसमन्विताः ॥

तद्ग्रमस्था जनाः सर्वे शासनीया न संशयः

॥८६॥

एवमाज्ञापयामास यमोऽपि निजकिंकरान् ॥

तथेति मत्वा ते सर्वे तूष्णी मासन्सुविस्मिताः

॥८७॥

एवंविधोऽयं भुवनैकभर्ता सदाशिवो लोकगुरुः स एकः ॥

दाता प्रहर्ता निजभावयुक्तः सनातनोऽयं जगदेकबंधुः

॥८८॥

दग्ध्वा कालं महादेवो निर्भयं च ददौ विभुः ॥

श्वेतस्य राजराजस्य महीपालवरस्य च

॥८९॥

तदा निर्भयमापन्नः श्वेतराजो महामनाः ॥

भक्त्या च परया मुक्तो बभूव कृतनिश्चयः

॥९०॥

तदा देवैः पूज्यमान ऋषिभिः पन्नगैस्तथा ॥

श्वतो राजन्यवर्योऽसौ शिवसायुज्यमाप्तवान्

॥९१॥

एवं भक्तिपराणां च महेशे च जगद्गुरौ ॥

सिद्धिः करतले तेषां सत्यं प्रतिवदामि वः

॥९२॥

श्वपचोऽपि वरिष्ठः स्यात्प्रसादाच्छं करस्य च ॥

तस्मात्सर्वप्रयत्नेन पूजनीयो हि शंकरः

॥९३॥

बहूनां जनमनामंते शिवभक्तिः प्रजायते

॥९४॥

ज्ञानिनां कृतबुद्धीनां जन्मजन्मनिशंकरः ॥

किं मया बहुनोक्तेन पूजनीयः सदाशिवः

॥९५॥

अत्रैवोदाहरंतीममितिहासं पुरातनम् ॥

किरातेन कृतं व्रतं च परमाद्भुतम् ॥

येनैव तारितं विश्वं जगदेतच्चराचरम्

॥९६॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखण्डे श्वेतराजचरिते शिवभक्तिप्रभावेण कालदहनवृत्तान्तवर्णनंनाम द्वात्रिंशोऽध्यायः ॥ ३२ ॥