मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — केदारखण्डः, अध्याय ४

3
माहेश्वरखण्डः · केदारखण्डः · 4

युद्धवर्णनम्

लोमश उवाच

विष्णुनोक्तं वचः श्रुत्वा दक्षो वचनमब्रवीत् ॥

वेदानामप्रमाणं च कृतं ते मधुसूदन

॥१॥

वैदिकं कर्म चोत्सृज्य कथं सेश्वरतां व्रजेत् ॥

तदुच्यतां महाविष्णो येन धर्मः प्रतिष्ठितः

॥२॥

दक्षेणोक्तो महाविष्णुरुवाच परिसांत्वयन् ॥

त्रैगण्यविषया वेदाः संभवंति न चान्यथा

॥३॥

वेदोदितानि कर्माणि ईश्वरेण विना कथम् ॥

सफलानि भविष्यंति विफलान्येव तानि च

॥४॥

तस्मात्सर्वप्रयत्नेन ईश्वरं शरणं व्रऐजा ॥

एवं ब्रुवति गोविन्द आगतः सैन्यसागरः ॥

वीरभद्रेण सदृशो ददृशुस्तं तदा सुराः

॥५॥

इंद्रोपि प्रहसन्विष्णुमात्मवादरतं तदा ॥

वज्रपाणिः सुरैः सार्द्धं योद्धुकामोऽभवत्तदा

॥६॥

भृगुणाचारितः शीघ्रमुच्चाटनपरेण हि ॥

तदा गणाः सुरैः सार्धं युयुधुस्ते गणान्विताः

॥७॥

शरतोमरनागचैर्जघ्नुस्ते च परस्परम् ॥

नेदुःशंखाश्च बहुशस्तस्मिन्रणमहोत्सवे

॥८॥

तथा दुन्दुभयो नेदुः पटहा डिंडिमादयः ॥

तेन शब्देन महताश्लाघ्यमानास्तदा सुराः ॥

लोकपालैश्च सहिता जघ्नुस्ताञ्छिवकिंकरान्

॥९॥

खड्गैश्चापि हताः केचिद्गदाभिश्च विपोथिताः ॥

देवैः पराजिताः सर्वे गणाः शतसहस्रशः

॥१०॥

इंद्राद्यौर्लोकपालैश्च गणास्ते च पराङ्गमुखाः ॥

कृताश्च तत्क्षणादेव भृगोर्मंत्रबलेन हि

॥११॥

उच्चाटनं कृतं तेषां भृगुणा यज्विना तदा ॥

यजनार्थं च देवानां तुष्ट्यर्थं दीक्षितस्य च

॥१२॥

तेनैव देवा जयिनो जातास्तत्क्षणमेव हि ॥

स्वानां पराजयं दृष्ट्वा वीरभद्रो रुपान्वितः

॥१३॥

भूतान्प्रेतान्पिशाचांश्च कृत्वा तानेव पृष्ठतः ॥

वृषभस्थान्पुरस्कृत्य स्वयं चैव महाबलः ॥

तीक्ष्णं त्रिशूलमादाय पातयामास तान्रणे

॥१४॥

देवान्यक्षान्पिशाचांश्च गुह्यकान्राक्षसां स्तथा ॥

शूलघातैश्च ते सर्वे गणा देवान्प्रजघ्निरे

॥१५॥

केचिद्द्विधाकृताः खङ्गैर्मुद्गरैश्चापि पोथिताः ॥

परश्वधैः खंडशश्च कृताः केचिद्रणाजिरे

॥१६॥

शूलैर्भिन्नाश्च शतशः केचिच्च शकलीकृताः ॥

एवं पराजिताः सर्वे पलायनपरायणाः

॥१७॥

परस्परं परिष्वज्य गतास्तेपि त्रिविष्टपम् ॥

केवलं लोकपालाश्च इंद्राद्यास्तस्थुरुत्सुकाः ॥

बृहस्पतिं पृच्छमानाः कुतोस्माकं जयो भवेत्

॥१८॥

बृहस्पतिरुवाचेदं सुरेंद्रं त्वरितस्तदा ॥

बृहस्पतिरुवाच ॥

यदुक्तं विष्णुना पूर्वं तत्सत्यं जातमद्य वै

॥१९॥

अस्ति चेदीश्वरः कश्चित्फलरूप्यस्य कर्म्मणः ॥

कर्तारं भजते सोपि न ह्यकर्तुः प्रभुर्हिसः

॥२०॥

न मंत्रौषधयः सर्वे नाभिचारा न लौकिकाः ॥

न कर्माणि न वेदाश्च न मीमांसाद्वयं तथा

॥२१॥

ज्ञातुमीशाः संभवंति भक्त्याज्ञेयस्त्वनन्यया ॥

शांत्या च परया तृष्ट्या ज्ञातव्यो हि सदाशिवः

॥२२॥

तेन सर्वं संभवंति सुखदुःझखात्मकं जगत् ॥

परंतु संवदिष्यामि कार्याकार्यविवक्षया

॥२३॥

त्वमिंद्र बालिशो भूत्वा लोकपालैः सहाद्य वै ॥

आगतो बालिशो भूत्वा इदानीं किं करिष्यसि

॥२४॥

एते रुद्रसहायाश्च गणाः परमशोभनाः ॥

कुपिताश्च महाभागा न तु शेषं प्रकुर्वते

॥२५॥

एवं बृहस्पतेर्वाक्यं श्रुत्वा तेऽपि दिवौकसः ॥

चिंतामापेदिरे सर्वे लोकपाला महेश्वराः

॥२६॥

ततोऽब्रवीद्वीरभद्रो गणैः परिवृतो भृशम् ॥

सर्वे यूयं बालिशत्वादवदानार्थमागताः

॥२७॥

अवदानानि दास्यामि तृप्त्यर्थं भवतां त्वरन् ॥

एवमुक्त्वा शितैर्बाणैर्जघानाथ रुषान्वितः

॥२८॥

तैर्बाणैर्निहताः सर्वे जग्मुस्ते च दिशो दश

॥२९॥

गतेषु लोकपालेषु विद्रुतेषु सुरेषु च ॥

यज्ञवाटे समायातो वीरभद्रो गणान्वतः

॥३०॥

तदा त ऋषयः सर्वे सर्वमेवेश्वरेश्वरम् ॥

विज्ञप्तुकामाः सहसा ऊचुरेवं जनार्दनम्

॥३१॥

रक्ष यज्ञं हि दक्षस्य यज्ञोसि त्वं न संशयः ॥

एतच्छ्रुत्वा तु वचनमृषीणां वै जनार्दनः

॥३२॥

योद्धुकामः स्थितो युद्धे विष्णुरध्यात्मदीपकः ॥

वीरभद्रो महाबाहुः केशवं वाक्यमब्रवीत्

॥३३॥

अत्र त्वयागतं कस्माद्विष्णो वेत्त्रा महाबलम् ॥

दक्षस्य पक्षमाश्रित्य कथं जेष्यसि तद्वद

॥३४॥

दाक्षायण्या कृतं यच्च न दृष्टं किं त्वयानघ ॥

त्वं चापि यज्ञे दक्षस्य अवदानार्थमागतः ॥

अवदानं प्रयच्छामि तव चापि महाभूज

॥३५॥

एवमुक्त्वा प्रणम्यादौ विष्णुं सदृशरूपिणम् ॥

वीरभद्रोऽग्रतो भूत्वा विष्णुं वाक्यमथाब्रवीत्

॥३६॥

यथा शंभुस्तथा त्वं हि मम नास्त्यत्र संशयः ॥

तथापि त्वं महाबाहो योद्धुकामोऽग्रतः स्तितः ॥

नेष्याम्यपुनरावृत्तिं यदि तिष्ठेस्त्वमात्मना

॥३७॥

तस्य तद्वचनं श्रुत्वा वीरभद्रस्य धीमतः ॥

उवाच प्रहसन्देवो विष्णुः सर्वेश्वरेश्वरः

॥३८॥

विष्णुरुवाच

रुद्रतेजःप्रसूतोसि पवित्रोऽसि महामते ॥

अनेन प्रार्थितः पूर्वं यज्ञार्थं च पुनः पुनः

॥३९॥

अहं भक्तपराधीनस्तथा सोऽपि महेश्वरः ॥

तेनैव कारणेनात्र दक्षस्य यजनं प्रति

॥४०॥

आगतोऽहं वीरभद्र रुद्रकोपसमुद्भव ॥

अहं निवारयामि त्वां त्वं वा मां विनिवारय

॥४१॥

इत्युक्तवति गोविंदे प्रहस्य स महाभुजः ॥

प्रश्रयावनतो भूत्वा इदमाह जनार्दनम्

॥४२॥

यथा शिवस्तथा त्वं हि यथा त्वं च तथा शिवः ॥

सेवकाश्च वयं सर्वे तव वा शंकरस्य च

॥४३॥

तच्छ्रुत्वा वचनं तस्य सोऽच्युतः संप्रहस्य च ॥

इदं विष्णुर्महावाक्यं जगाद परमेश्वरः

॥४४॥

योधयस्व महाबाहो मया सार्धमशंकितः ॥

तवास्त्रैः पूर्यमाणोऽहं गच्छामि भवनं स्वकम्

॥४५॥

तथेत्युक्त्वा तु वीरोऽसौ वीरभद्रो महाबलः ॥

गृहीत्वा परमास्त्राणि सिंहनादैर्जगर्ज ह

॥४६॥

विष्णुश्चापि महाघोषं शंखनादं चकार सः ॥

तच्छ्रुत्वा ये गता देवा रणं हित्वाऽऽययुः पुनः

॥४७॥

व्यूहं चक्रुस्तदा सर्वे लोकपालाः सवासवाः ॥

तदेन्द्रेण हतो नंदीवज्रेण शतपर्वणा

॥४८॥

नंदीना च हतः शक्रस्त्रिशूलेन स्तनांतरे ॥

वायुना च हतो भृंगी भृंगिणा वायुराहतः

॥४९॥

शूलेन सितधारेण संनद्धो दण्डधारिणा ॥

यमेन सह संग्रामं महाकालो बलान्वितः

॥५०॥

कुबेरेण च संगम्य कूष्मांडानां पतिः स्वयम् ॥

वरुणेन समं युद्धं मुंडश्चैव महाबलः

॥५१॥

युयुधे परयाशक्त्या त्रैलोक्यं विस्मयन्निव ॥

नैर्ऋतेन समागम्य चंडश्चबलवत्तरः

॥५२॥

युयुधे परमास्त्रेण नैर्ऋत्यं च विडंबयन् ॥

योगिनीचक्रसंयुक्तो भैरवो नायको महान्

॥५३॥

विदार्य देवानखिलान्पपौ शोणितमद्बुतम् ॥

क्षेत्रपालास्तथा चान्ये भूतप्रमथगुह्यकाः

॥५४॥

साकिनी डाकिनी रौद्रा नवदुर्गास्तथैव च ॥

योगिन्यो यातुदान्यश्च तथा कूष्मांडकादयः ॥

नेदुः पपुः शोणितं च बुभुजुः पिशितं बहु

॥५५॥

भक्ष्यमाणं तदा सैन्यं विलोक्य सुरराट्स्वयम् ॥

विहाय नंदिनं पश्चाद्वीरभद्रं समाक्षिपत्

॥५६॥

वीरभद्रो विहायैव विष्णुं देवेन्द्रमास्थितः ॥

तयोर्युद्धमभूद्धोरं बुधांगारकयोरिव

॥५७॥

वीरभद्रं यदा शक्रो हंतुकामस्त्वरान्वितः ॥

तावच्छंक्रं गजस्थं हि पुरयामास मार्गणैः

॥५८॥

वीरभद्रो रुषाविष्टो दुर्निवार्यो महाबलः ॥

तदेद्रेंणाहतः शीघ्रं वज्रेण शतपर्वणा

॥५९॥

सगजं च सवज्रं च वासवं ग्रस्तुमुद्युतः ॥

हाहाकारो महा नासीद्भूतानां तत्र पश्यताम्

॥६०॥

वीरभद्रं तताभूतं तथाभूतं हंतुकामं पुरंदरम् ॥

तव्रमाणस्तदा विष्णुर्वीरभद्राग्रतः स्थितः

॥६१॥

शक्रं च पृष्ठतः कृत्वा योधयामास वै तदा ॥

वीरभद्रस्य विष्णोश्च युद्धं परमभूत्तदा

॥६२॥

शस्त्रास्त्रैर्विविधाकारैर्योधयामासतुस्तदा ॥

पुनर्नंदिनमालोक्य शक्रो युद्ध विशारदः

॥६३॥

द्वंद्वयुद्धं सुतुमुलं देवानां प्रमथैः सह ॥

प्रमथा मथिता देवैः सर्वे ते प्राद्रवन्रणात्

॥६४॥

गणान्पराङ्मुखान्दृष्ट्वा सर्वे ते व्याधयो भृशम् ॥

रुद्रकोपात्समुद्भूता देवाश्चापि प्रदुद्रुवुः

॥६५॥

ज्वरैस्तु पीडितान्देवान्दृष्ट्वा विष्णुर्हसन्निव ॥

जीवग्राहेण जग्राह देवांस्तांश्च पृथक्पृथक्

॥६६॥

देवाश्चिनौ तदाहूय व्याधीन्हंतुं तदा भृतिम् ॥

ददौ ताभ्यां प्रयत्नेन गणयित्वा सुबुद्धिमान्

॥६७॥

ज्वरांश्च सन्निपातांश्च अन्ये भूतद्रुहस्तदा ॥

तान्सर्वान्निगृहीत्वाथ अश्विनौ तौ मुदान्वितौ ॥

विज्वरानथ देवांश्च कृत्वा मुमुदतुश्चिरम्

॥६८॥

तैर्जितं योगिनीचक्रं भैरवं व्याकुलीकृतम् ॥

तीक्ष्णाग्रैः पातयामासुः शरैर्भूतगणानपि

॥६९॥

सुरैर्विद्रावितं सैन्यं विलोक्य पतितं भुवि ॥

वीरभद्रो रुपाविष्टो विष्णुं वचनमब्रवीत्

॥७०॥

त्वं शूरोसि महाबाहो देवानां पालको ह्यसि ॥

युध्यस्व मां प्रयत्नेन यदि ते मतिरीदृशी

॥७१॥

इत्युक्त्वा तं समासाद्य विष्णुं सर्वेश्वरेश्वरम् ॥

ववर्ष निशितैर्बाणैर्वीरभद्रो महाबलः

॥७२॥

तदा चक्रेण भगवान्वीरभद्रं जघान सः ॥

आयांतं चक्रमालोक्य ग्रसितं तत्क्षणाच्च तत्

॥७३॥

ग्रसितं चक्रमालोक्य विष्णुः परपुरंजयः ॥

मुखं तस्य परामृज्य विष्णुनोद्गिलितं पुनः

॥७४॥

स्वचक्रमादाय महानुभावो दिवं गतोऽथो भुवनैकभर्ता ॥

ज्ञात्वा च तत्सर्वमिदं च विष्णुः कृती कृतं दुष्प्रसहं परेषाम्

॥७५॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखंडे वीरभद्रादीनां विष्ण्वादिभिः सह युद्धवर्णनंनाम चतुर्थोऽध्यायः ॥ ४ ॥