मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — केदारखण्डः, अध्याय २५

3
माहेश्वरखण्डः · केदारखण्डः · 25

शिवपार्वतीविवाहवर्णनम्

लोमश उवाच

तत्रोपविविशुः सर्वे सत्कृताश्च हिमाद्रिणा ॥

ते देवाः सपरिवाराः सहर्षाश्च सवाहनाः

॥१॥

तत्रैव च महामात्रं निर्मितं विश्वकर्मणा ॥

दीप्त्या परमया युक्तं निवासार्थं स्वयम्भुवः

॥२॥

तथैव विष्णोस्त्वपरं भवनं स्वयमेव हि ॥

भास्वरं सुविचित्र च कृतं त्वष्ट्रा मनोरमम् ॥

वण्डीगृहं मनोज्ञं च तथैव कृतवान्स्वयम्

॥३॥

तथैव श्वेतं परमं मनोज्ञं महाप्रभं देववरैः सुपूजितम् ॥

कैलासलक्ष्मीप्रभया महत्या सुशोभितं तद्भवनं चकार

॥४॥

तत्रैव शंभुः परया विभूत्या स स्थापितस्तेन हिमाद्रिणा वै

॥५॥

एतस्मिन्नंतरे मेना समायाता सखीगणैः ॥

नीराजनार्थं शंभुं च ऋषिभिः परिवारिता

॥६॥

तदा वादित्रदिर्घोपैर्नादितं भुवनत्रयम् ॥

नीराजनं कृतं तस्य मेनया च तपस्विनः

॥७॥

अवलोक्य परा साध्वी मेनाऽजानाद्धरं तदा ॥

गिरिजोक्तमनुस्मृत्य मेना विस्मयमागता

॥८॥

यद्वै पुरोक्तं च तया पार्वत्या मम सन्निधौ ॥

ततोऽधिकं प्रपश्यामि सौंदर्यं परमेष्ठिनः ॥

महेशस्य मया दृष्टमनिर्वाच्यं च संप्रति

॥९॥

एवं विस्मयमापन्ना विप्रपत्नीभिरावृता ॥

अहतां बरयुग्मेन शोभिता वरवर्णिनी

॥१०॥

कंचुकी परमा दिव्या नानारत्नैश्च शोभिता ॥

अंगीकृता तदा देव्या रराज परया श्रिया

॥११॥

बिभ्रती च तदा हारं दिव्यरत्नविभूषितम् ॥

वलयानि महार्हाणि शुद्धचामीकराणि च

॥१२॥

तत्रोपविष्टा सुभगा ध्यायंती परमेश्वरम् ॥

सखीभिः सेव्यमाना सा विप्रपत्नीभिरेव च

॥१३॥

एतस्मिन्नंतरे तत्र गर्गो वाक्यमभाषत ॥

पाणिग्रहार्थं शंभुं च आनयध्वं स्वमंदिरम् ॥

त्वरितेनैव वेलायामस्यामेव विचक्षणाः

॥१४॥

तच्छ्रुत्वा वचनं तस्य गर्गस्य च महात्मनः ॥

अभ्युत्थानपराः सर्वे पर्वताः सकलत्रकाः

॥१५॥

महाविभूत्या संयुक्ताः सर्वे मंगलपाणयः ॥

सालंकृतास्तदा तेषां पत्न्योलंकारमंडिताः

॥१६॥

उपायनान्यनेकानि जगृहुः स्निग्धलोचनाः ॥

तदा वादित्रघोषेण ब्रह्मघोषेण भूयसा

॥१७॥

आजग्मुः सकलात्रास्ते यत्र देवो महेश्वरः ॥

प्रमथैरावृतस्तत्र चंड्या चैवाभिसेवितः

॥१८॥

तथा महर्षिभिस्तत्र तथा देवगणैः सह ॥

एभिः परिवृतः श्रीमाञ्छंकरो लोकशंकरः

॥१९॥

श्रुत्वा वादित्रनिर्घोषं सर्वे शंकरसेवकाः ॥

उत्थिता ऐकापद्येन देवैर्ऋषिभिरावृताः

॥२०॥

तथोद्यतो योगिनाचक्रयुक्ता गणा गणानां गणानां पतिरेकवर्चसाम् ॥

शिवंपुरस्कृत्य तदानुभावास्तथैव सर्वे गणनायकाश्च

॥२१॥

तद्योगिनी चक्रमतिप्रचंडं टंकारभेरीरवनिस्वनेन ॥

चंडीं पुरस्कृत्य भयानकां तदा महाविभूत्या समलंकृतां तदा

॥२२॥

कंठे कर्कोटकं नागं हारभूतं च कार सा ॥

पदकं वृश्चिकानां च दंदशूकांश्च बिभ्रती

॥२३॥

कर्णावतंसान्सा दध्रे पाणिपादमयांस्तथा ॥

रणे हतानां वीराणां शिरांस्युरसिचापरान्

॥२४॥

द्वीपिचर्मपरीधाना योगिनीचक्रसंयुता ॥

क्षेत्रपालावृता तद्वद्भैरवैः परिवारिता

॥२५॥

तथा प्रेतैश्च भूतैश्च कपटैः परिवारिता ॥

वीरभद्रादयश्चैव गणाः परमदारुणाः ॥

ये दक्षयज्ञनाशार्थे शिवेनाज्ञापितास्तदा

॥२६॥

तथा काली भैरवी च माया चैव भयावहा ॥

त्रिपुरा च जया चैव तथा क्षेमकरी शुभा

॥२७॥

अन्याश्चैव तथा सर्वाः पुरस्कृत्य सदाशिवम् ॥

गंतुकामाश्चोग्रतरा भूतैः प्रेतैः समावृताः

॥२८॥

एताः सर्वा विलोक्याथ शिवभक्तो जनार्द्दनः ॥

महर्षीश्च पुरस्कृत्य ह्यमरांश्च तथैव च ॥

अनसूयां पुरस्कृत्य तथैव च ह्यरुंधतीम्

॥२९॥

विष्णुरुवाच

चण्डीं कुरु समीपस्थां लोकपालनतां प्रभो

॥३०॥

तदुक्तं विष्णुना वाक्यं निशम्य जगदीश्वरः ॥

उवाच प्रहसन्नेव चंडीं प्रति सदाशिवः

॥३१॥

अत्रैव स्थीयतां चंडीं यावदुद्वहनं भवेत् ॥

मम भावान्विजानासि कार्याकार्ये सुशोभने

॥३२॥

एवमाकर्ण्य वचनं शंभोरमिततेजसः ॥

उवाच कुपिता चंडी विष्णुमुद्दिश्य सादरम्

॥३३॥

तथान्ये प्रमथाः सर्वे विष्णुमूचुः प्रकोपिताः ॥

यत्रयत्र शिवो भाति तत्रतत्र वयं प्रभो

॥३४॥

त्वया निवारिताः कस्माद्वयमाभ्युदये परे ॥

तेषां तद्वचनं श्रुत्वा केशवोवाक्यमब्रवीत्

॥३५॥

चण्डीमुद्दिश्य प्रमथानन्यांश्चैव तथाविधान् ॥

यूयं चैव मया प्रोक्ता मा कोपं कर्त्तुमर्हथ

॥३६॥

एवमुक्तास्तदा तेन चंडीमुख्या गणास्तदा ॥

एकांतमाश्रिताः सर्वे विष्णुवाक्याज्ज्वलद्धृदः

॥३७॥

तावत्सर्वे समायाताः पर्वतेंद्रस्य मंत्रिणः ॥

सकलत्राः संभ्रमेण महेशं प्रति सत्वरम्

॥३८॥

पंचवाद्यप्रघोषेण ब्रह्मघोषेण भूयसा ॥

योषिद्भिः संवृतास्तत्र गीतशब्देन भूयसा

॥३९॥

एवं प्राप्ता यत्र शंभुः सकलैः परिवारितः ॥

आगत्य कलशैः साकं स्नापितो हि सदाशिवः ॥

स्त्रीभिर्मंगलगीतेन सर्वाभरणभूषितः

॥४०॥

ऋषयो देवगंधर्वास्तथान्ये पर्वतोत्तमाः ॥

शंभ्यग्रगास्तदा जग्मुः स्त्रियश्चैव सुपूजिताः ॥

बभौ छत्रेण महता ध्रिमाणेन मूर्द्धनि

॥४१॥

चामरै वीर्ज्यमानोऽसौ मुकुटेन विराजितः ॥

ब्रह्मा विष्णुस्तथा चंद्रो लोकपालस्तथैव च

॥४२॥

अग्रगा ह्यपि शोभंतः श्रिया परमया युताः ॥

तथा शंखाश्च भेर्यश्च पटहानकगोमुखाः

॥४३॥

तथैव गायकाः सर्वे परममंगलम् ॥

पुनः पुनरवाद्यंत वादित्राणि महोत्सवे

॥४४॥

अरुंधती महाभागा अनसूया तथैव च ॥

सावित्री च तथा लक्ष्मीर्मातृभिः परिवारिताः

॥४५॥

एभिः समेतो जगदेकबंधुर्बभौ तदानीं परमेण वर्चसा ॥

सचंद्रसूर्यानिलवायुना वृतः सलोकपालप्रवरैर्महर्षिभिः

॥४६॥

स वीज्यमानः पवनेनः साक्षाच्छत्रं च तस्मै शशिना ह्यधिष्ठितम् ॥

सूर्यः पुरस्तादभवत्प्रकाशकः श्रियान्वितो विष्णुरभूच्च सन्निधौ

॥४७॥

पुष्पैर्ववर्षुर्ह्यवकीर्यमाणा देवास्तदानीं मुनिभिः समेताः ॥

ययौ गृहं कांचनकुट्टिमं महन्महावि भूत्यापरिशोभितं तदा ॥

विवेश शंभुः परया सपर्यया संपूज्यमानो नरदेवदानवैः

॥४८॥

एवं समागतः शंभुः प्रविष्टो यज्ञमण्डपम् ॥

संस्तूयमानो विबुधैः स्तुतिभिः परमेश्वरः

॥४९॥

गजादुत्तारयामास महेशं पर्वतोत्तमः ॥

उपविश्य ततः पीठे कृत्वा नीराजनं महत्

॥५०॥

मेनया सखिभिः साकं तथैव च पुरोधसा ॥

मधुपर्कादिकं सर्वं यत्कृतं चैव तत्र वै

॥५१॥

ब्रह्मणा नोदितः सद्यः पुरोधाः कृतवान्प्रभुः ॥

मंगलं शुभकल्याणं प्रस्तावसदृशं बहु

॥५२॥

अंतर्वेद्यां संप्रवेश्य यत्र सा पार्वती स्थिता ॥

वेदिकोपरि तन्वंगी सर्वाभरणभूषिता

॥५३॥

तत्रानीतो हरः साक्षाद्विष्णुना ब्रह्मणा सह ॥

लग्नं निरीक्षमाणास्ते वाचस्पतिपुरोगमाः

॥५४॥

गर्गो मुनिश्चोपविष्टस्तत्रैव घटिकालये ॥

यावत्पूर्णा घटी जाता तावत्प्रणवभाषणम्

॥५५॥

ॐपुण्येति प्रणिगदन्गर्गो वध्वंजलिं दधे ॥

पार्वत्यक्षतपूर्णं च शिवोपरि ववर्ष वै

॥५६॥

तया संपूजितो रुद्रो दध्यक्षतकुशादिभिः ॥

मुदा परमया युक्ता पार्वती रुचिरानना

॥५७॥

विलोकयंती शंभुं तं यदर्थे परमं तपः ॥

कृतं पुरा महादेव्या परेषां परमं महत्

॥५८॥

तपसा तेन संप्राप्तो जगज्जीवनजीवनः ॥

नारदेन ततः प्रोक्तो महादेवो वृषध्वजः

॥५९॥

तथा गंगादिभिश्चन्यैर्मुनिभिः सनकादिभिः ॥

प्रति पूजां कुरु क्षिप्रं पार्वत्याश्च त्रिलोचन ॥

तदा शिवेन सा तन्वी पूजितार्घ्याक्षतादिभिः

॥६०॥

एवं परस्परं तौ च पार्वतीपरमेश्वरौ ॥

अर्च्यमानौ तदानीं च शुशुभाते जगन्मयौ

॥६१॥

त्रैलोक्यलक्ष्म्या संवीतौ निरीक्षंतौ परस्परम् ॥

तदा नीराजितौ लक्ष्म्या सावित्र्या च विशेषतः ॥

अरुंधत्या तदा तौ च दंपती परमेश्वरौ

॥६२॥

अनसूया तथा शंभुं पार्वतीं च यशस्विनीम् ॥

दृष्ट्वा नीराजयामास प्रीत्युत्कलितलोचना

॥६३॥

तथैव सर्वा द्विजयोषितश्च नीराजयामासुरहो पुनः पुनः ॥

सतीं च शंभुं च विलोकयंत्यस्तथैव सर्वा मुदिता हसंत्यः

॥६४॥

लोमश उवाच

एतस्मिन्नंतरे तत्र गर्गाचार्यप्रणोदितः ॥

हिमवान्मेनया सार्द्धं कन्यां दातुं प्रचक्रमे

॥६५॥

हैमं कलशमादाय मेना चार्द्धां गामाश्रिता ॥

हिमाद्रेश्च महाभागा सर्वाभरणभूषिता

॥६६॥

तदा हिमाद्रिणा प्रोक्तो विश्वनाथो वरप्रदः ॥

ब्रह्मणा सह संगत्य विष्णुना च तथैव च

॥६७॥

सार्द्धं पुरोधसा चैव गर्गेण सुमहात्मना ॥

कन्यादानं करोम्यद्य देवदेवस्य शूलिनः

॥६८॥

प्रयोगो भण्यतां ब्रह्मन्नस्मिन्समय आगते ॥

तथेति मत्वा ते सर्वे कालज्ञा द्विजसत्तमाः

॥६९॥

कथ्यतां तात गोत्रं स्वं कुलं चैव विशेषतः ॥

कथयस्व महाभाग इत्याकर्ण्य वचस्तथा ॥

सुमुखेन विमुखः सद्यो ह्यशोच्यः शोच्यतां गतः

॥७०॥

एवंविधः सुरवरैर्ऋषिभिस्तदानीं गंधर्वयक्षमुनिसिद्धगणैस्तथैव ॥

दृष्टो निरुत्तरमुखो भगवान्महेशो हास्यं चकार सुभृशं त्वथ नारदश्च

॥७१॥

वीणां प्रकटयामास ब्रह्मपुत्रोऽथ नारदः ॥

तदानीं वारितो धीमान्वीणां मा वादय प्रभो

॥७२॥

इत्युक्तः पर्वतेनैव नारदो वाक्यमब्रवीत् ॥

त्वया पृष्टो भवः साक्षात्स्वगोत्रकथनं प्रति

॥७३॥

अस्य गोत्रं कुलं चैव नाद एव परं गिरे ॥

नादे प्रतिष्ठितः शंभुर्नादो ह्यस्मिन्प्रतिष्ठितः

॥७४॥

तस्मान्नादमयः शंभुर्नादाच्च प्रतिलभ्यते ॥

तस्माद्वीणा मया चाद्य वादिता हि परंतप

॥७५॥

अस्य गोत्रं कुलं नाम न जानंति हि पर्वत ॥

ब्रह्मादयो हि विवुधा अन्येषां चैव का कथा

॥७६॥

त्वं हि मूढत्वमापन्नो न जानासि हि किंचन ॥

वाच्यावाच्यं महेशस्य विषया हि बहिर्मुखाः

॥७७॥

येये आगमिकाश्चाद्रे नष्टास्ते नात्र संशयः ॥

अरूपोयं विरूपाक्षो ह्यकुलीनोऽयमुच्यते

॥७८॥

अगोत्रोऽयं गिरिश्रेष्ठ जामाता ते न संशयः ॥

न कर्त्तव्यो विमर्शोऽत्र भवता विबुधेन हि

॥७९॥

न जानंति हरं सर्वे किं बहूक्त्या मम प्रभो ॥

यस्याज्ञानान्महाभाग मोहिता ऋषयो ह्यमी

॥८०॥

ब्रह्मापि तं न जानाति मस्तकं परमेष्ठिनः ॥

विष्णुर्गतो हि पातालं न दृष्टो हि तथैव च

॥८१॥

तेन लिंगेन महता ह्यगाधेन जगत्त्रयम् ॥

व्याप्तमस्तीति तद्विद्धि किमनेन प्रयोजनम्

॥८२॥

अनयाराधितं नूनं तव पुत्र्या हिमालय ॥

तत्त्वतो हि न जानासि कथं चैव महागिरे

॥८३॥

आभ्यामुत्पाद्यते विश्वमाभ्यां चैव प्रतिष्ठितम् ॥

एतच्छ्रुत्वा वचस्तस्य नारदस्य महात्मनः

॥८४॥

हिमाद्रिप्रमुखाः सर्वे तथा चेंद्रपुरोगमाः ॥

साधुसाध्विति ते सर्वे ऊचुर्विस्मितमानसाः

॥८५॥

ईश्वरस्य तु गांभीर्यं ज्ञात्वा सर्वे विचक्षणाः ॥

विस्मयेन समाश्लिष्टा ऊचुः सर्वे परस्परम्

॥८६॥

ऋषय ऊचुः

यस्याज्ञया जगदिदं च विशालमेव जातं परात्परमिदं निजबोधरूपम् ॥

सर्वं स्वतंत्रपरमेश्वरभागम्यं सोऽसौ त्रिलोकनिजरूपयुतो महात्मा

॥८७॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखंडे शिवशास्त्रे शिवपार्वतीविवाहवर्णनंनाम पंचविंशोऽध्यायः ॥ २५ ॥