मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — केदारखण्डः, अध्याय ३

3
माहेश्वरखण्डः · केदारखण्डः · 3

वीरभद्रप्रादुर्भाववर्णनम्

लोमश उवाच

दाक्षायणी गता तत्र यत्र यज्ञो महानभूत् ॥

तत्पितुः सदनं गत्वा ना नाश्चर्यसमन्वितम्

॥१॥

द्वारि स्थिता तदा देवा अवतीर्य निजासनात् ॥

नंदिनो हि महाभागा देवलोकं निरीक्ष्य च

॥२॥

मातरं पितरं दृष्ट्वा सुहृत्संबंधि वांधवान् ॥

अभिवाद्यैव पिरतं मातरं च मुदान्विता

॥३॥

बभाषे वचनं देवी प्रस्तापसदृशं तदा ॥

अनाहूतस्त्वया कस्माच्छंभुः परमशोभनः

॥४॥

येन पूतमिदं सर्वं समग्रं सचराचरम् ॥

यज्ञो यज्ञविदां श्रेष्ठो यज्ञांगो यज्ञदक्षिणः

॥५॥

द्रव्यं मंत्रादिकं सर्वं हव्यं कव्यं च यन्मयम् ॥

विना तेन कृतं सर्वमपवित्रं भविष्यति

॥६॥

शंभुना हि विना तात कथं यज्ञः प्रवर्तते ॥

एते कथं समायाता ब्रह्मणा सहिताः पितः

॥७॥

हे भृगो त्वं न जानासि हे कश्यप महामते ॥

अत्रे विशिष्ठ एकस्त्वं शक्र किं कृतमद्यते

॥८॥

हे विष्णो त्वं महादेवं जानासि परमेश्वरम् ॥

ब्रह्मन्किं त्वं न जानासि महादेवस्य विक्रमम्

॥९॥

पुरा पंचमुखो भूत्वा गर्वितोसि सदाशिवम् ॥

कृतश्चतुर्मुखस्तेन विस्मृतोऽसि तदद्भुतम्

॥१०॥

भिक्षाटनं कृतं येन पुरा दारुवने विभुः ॥

शप्तोयं भिक्षुको रुद्रो भवद्भिः सखिभिस्तदा

॥११॥

शप्तेनापि च रुद्रेण भवद्भिर्विस्मृतं कथम् ॥

यस्यावयवमात्रेण पूरितं सचराचरम्

॥१२॥

लिंगभूतं जगत्सर्वं जातं तत्क्षणमेव हि ॥

लयानाल्लिंगमित्याहुः सर्वे देवाः सवासवाः

॥१३॥

सर्वे देवाश्च संभूता यतो देवस्य शूलिनः ॥

सोऽसौ वेदांतगो देवस्त्वया ज्ञातुं न पार्यते

॥१४॥

तस्या वचनमाकर्ण्य दक्षः क्रुद्धोऽब्रवीद्वचः ॥

किं त्वया बहुनोक्तेन कार्यं नास्तीह सांप्रतम्

॥१५॥

गच्छ वा तिष्ठवा भद्रे कस्मात्त्वं हि समागता ॥

अमंगलो हि भर्ता ते अशिवोसौ सुमध्यमे

॥१६॥

अकुलीनो वेदबाह्यो भूतप्रेतपिशाचराट् ॥

तस्मान्नाकारितो भद्रे यज्ञार्थं चारुभाषिणि

॥१७॥

मया दत्तासि सुश्रोणि पापिना मंदबुद्धिना ॥

रुद्रायाविदितार्थाय उद्धताय दुरात्मने

॥१८॥

तस्मात्कायं परित्यज्य स्वस्था भव शुचिस्मिते ॥

दक्षेणोक्ता तदा पुत्री सा सती लोकपूजिता

॥१९॥

निंदायुक्तं स्वपितरं विलोक्य रुषिता भृशम् ॥

चिंतयंती तदा देवी कथं यास्यामि मंदिरे

॥२०॥

शंकरं द्रष्टुकामांह किं वक्ष्ये तेन पृच्छिता ॥

यो निंदति महादेवं निंद्यमानं श्रृणोति यः ॥

तावुभौ नरके यातो यावच्चन्द्रदिवाकरौ

॥२१॥

तस्मात्तयक्ष्याम्यहं देहं प्रवेक्ष्यामि हुताशनम्

॥२२॥

एवं मीमांसमाना सा शिवरुद्रेतिभाषिणी ॥

अपमानाभिभूता सा प्रविवेश हुताशनम्

॥२३॥

हाहाकारेण महता व्याप्तमासीद्दिगंतरम् ॥

सर्वे ते मंचमारूढाः शस्त्रैर्व्याप्ता निरंतराः

॥२४॥

शस्त्रैः स्वैर्जध्नुरात्मानं स्वानि देहानि चिच्छिदुः ॥

केचित्करतले गृह्य शिरांसि स्वानि चोत्सुकाः

॥२५॥

नीराजयंतस्त्वरिता भस्मीभूताश्च जज्ञिरे ॥

एवमूचुस्तदा सर्वे जगर्ज्जुरतिभीषणम्

॥२६॥

शस्त्रप्राहारैः स्वांगानि चिच्छिदुश्चातिभीषणाः ॥

ते तथा विलयं प्राप्ता दाक्षायण्या समं तदा

॥२७॥

गणास्तत्रायूते द्वे च तदद्भुतमिवाभवत् ॥

ते सर्व ऋषयो देवा इंद्राद्याः समरुद्गणाः

॥२८॥

विश्वेऽश्वनौ लोकपालास्तूष्णींबूतास्तदाभवन् ॥

विष्णुं वरेण्यं केचिच्च प्रार्थयंतः समंततः

॥२९॥

एवं भूतस्तदा यज्ञो जातस्तस्य दुरात्मनः ॥

दक्षस्य ब्रह्मबंधोश्च ऋषयो भयमागताः

॥३०॥

एतस्मिन्नंतरे विप्रा नारदेन महात्मना ॥

कथितं सर्वमेवैतद्दक्षस्य च विचेष्टितम्

॥३१॥

तदाकर्ण्येश्वरो वाक्यं नारदस्य मुखोद्गतम् ॥

चुकोप परमं क्रुद्ध आसनादुत्पतन्निव

॥३२॥

उद्धृत्य च जटां रुद्रो लोकसंहारकारकः ॥

आस्फोटयामास रुषा पर्वतस्य शिरोपरि

॥३३॥

ताडनाच्च समुद्भूतो वीरभद्रो महायशाः ॥

तथा काली समुत्पन्ना भूतकोटिभिरावृता

॥३४॥

कोपान्निःश्वसितेनैव रुद्रस्य च महात्मनः ॥

जातं ज्वराणां च शतं सन्निपातास्त्रयोदश

॥३५॥

विज्ञप्तो वीरभद्रेण रुद्रो रौद्रपराक्रमः ॥

किं कार्यं भवतः कार्यं शीघ्रमेव वद प्रभो

॥३६॥

इत्युक्तो भगवान्रुद्रः प्रेषयामास सत्वरम् ॥

गच्छ वीर महा बाहो दक्षयज्ञं विनाशय

॥३७॥

शासनं शिरसा धृत्वा देवदेवस्य शूलिनः ॥

कालिकाऽऽलिहितो वीरः सर्वभूतैः समावृतः ॥

वीरभद्रो महातेजा ययौ दक्षमखं प्रति

॥३८॥

तदानीमेव सहसा दुर्निमित्तानि चाभवन् ॥

रूक्षो ववौ तदा वायुः शर्कराभिः समावृतः

॥३९॥

असृग्वर्षति देवश्च तिमिरेणाऽऽवृता दिवशः ॥

उल्कापाताश्च बहवः पेतुरुर्व्यां सहस्रशः

॥४०॥

एवंविधान्यरिष्टानि ददृशुर्विबुधादयः ॥

दक्षोऽपि भयमापन्नो विष्णुं शरणमाययौ

॥४१॥

रक्षरक्ष महाविष्णो त्वं हि नः परमो गुरुः ॥

यज्ञोऽसि त्वं सुरश्रेष्ठ भयान्मां परिमोचय

॥४२॥

दक्षेण प्रार्थ्य मानो हि जगाद मधुसूदनः ॥

मया रक्षा विदातव्या भवतो नात्र संशयः

॥४३॥

अपूज्या यत्र पूज्यंते पूजनीयो न पूज्यते ॥

त्रीणी तत्र प्रवर्तंते दुर्भिक्षं त्वया धर्ममजानताः ॥

ईश्वरावज्ञया सर्वं विफलं च भविष्यति

॥४४॥

अपूज्या यत्र पूज्यं ते पूजनीयो न पूज्यते ॥

त्रीणी तत्र प्रवर्तंते दुर्भिक्षं मरणं भयम्

॥४५॥

तस्मात्सर्वप्रयत्नेन माननीयो वृषध्वजः ॥

अमानितान्महेशात्त्वां महद्भयमुपस्थितम्

॥४६॥

अधुनैव वयं सर्वे प्रभवो न भवामहे ॥

भवतो दुर्न्नयेनेव नात्र कार्या विचारणा

॥४७॥

विष्णोस्तद्वचनं श्रुत्वा दक्षश्चिंतापरोऽभवत् ॥

विविर्णवदनो भूत्वा तूष्णीमासीद्भुवि स्थितः

॥४८॥

वीरभद्रो महाबाहू रुद्रेणैव प्रचोदितः ॥

काली कात्यायनीशाना चामुंडा मुंडमर्द्दिनी

॥४९॥

भद्रकाली तथा भद्रा त्वरिता वैष्णवी तथा ॥

नवदुर्गादिसहितो भूतानां च गणो महान्

॥५०॥

शाकिनी डाकिनी चैव भूतप्रमथगुह्यकाः ॥

तथैव योगिनीचक्रं चतुः षष्ट्या समन्वितम्

॥५१॥

निजन्मुः सहसा तत्र यज्ञवाटं महाप्रभम् ॥

वीरभद्रसमेता सर्वे हरपराक्रमाः ॥

दशबाहवस्त्रिनेत्रा जटिला रुद्रभूषणाः

॥५२॥

पार्षदाः शंकरस्यैते सर्वे रुद्रस्वरूपिणः ॥

पंचवक्त्रा नीलकंठाः सर्वे ते शस्त्रपाणयः

॥५३॥

छत्रचामरसंवीताः सर्वे हरपराक्रमाः ॥

दशबाहवस्त्रिनेत्रा जटिला रुद्रभूषणाः

॥५४॥

अर्धचंद्रधराः सर्वे सर्वे चैव महौजसः ॥

सर्वे ते वृषभारूढाः सर्वे ते वेषभूषणाः

॥५५॥

सहस्रबाहुर्भुजगाधिपैर्वृतस्त्रिलोचनो भीमबलो भयावहः ॥

एभिः समेतश्च तदा महात्मा स वीरभद्रोऽभिजगाम यज्ञम्

॥५६॥

युग्यानां च सहस्रेण द्विप्रमाणेन स्यंदनम् ॥

सिंहानां प्रयुतेनैव वाह्यमानं च तस्य तत्

॥५७॥

तथैव दंशिताः सिंहा बहवः पार्श्वरक्षकाः ॥

शार्दूला मकरा मत्स्या गजाश्चैव सहस्रशः ॥

छत्राणि विविधान्येव चामराणि तथैव च

॥५८॥

मूर्द्धनिध्रियमाणानि सर्वतोग्राणि सर्वशः ॥

ततो भेरीमहानादाः शंखाश्च विविधस्वनाः ॥

पटहा गोमुखाश्चैव श्रृंगाणि विविधानि च

॥५९॥

ततोऽवाद्यंत तान्येव घनानि सुषिराणि च ॥

कलगानपराः सर्वे सर्वे मृदंगवादिनः

॥६०॥

अनेकलास्यसंयुक्ता वीरभद्राग्रतोभवन् ॥

रणवादित्रनिर्घोषैर्जगर्जुरमितौजसः

॥६१॥

तेन नादेन महता नादितं भुवनत्रयम् ॥

एवं सर्वे समायाता गणा रुद्रप्रणोदिताः

॥६२॥

यज्ञवाटं च दक्षस्य विनाशार्थं प्रहारिणः ॥

रजसा चाऽऽवृतं व्योम तमसा च वृता दिशः

॥६३॥

सप्तद्वीपवती पृथ्वी चचाल साद्रिकानना ॥

ते दृष्ट्वा महदाश्चर्य्यं लोकक्षयकरं तदा

॥६४॥

उत्तस्थुर्युगपत्सर्वे देवदैत्यनिशाचराः ॥

ते वै ददृशुरायांतीं रुद्रसेना भयावहाम्

॥६५॥

पृथ्वीं केचित्समायाता गगने केचिदागताः ॥

दिशश्च प्रदिशश्चैव समावृत्य तथापरे

॥६६॥

अनंता ह्यक्षयाः सर्वे शूरा रुद्रसमा युधि ॥

एवंभूतं च तत्सैन्यं रुद्रैश्च परिवारितम् ॥

दृष्ट्वो चुर्विस्मिताः सर्वे यामोऽद्य शस्त्रपाणयः

॥६७॥

इंद्रो हि गजमारूढो मृगारूढः सदागतिः ॥

यमो महिषमारूढो यमदंडसमन्वितः

॥६८॥

कुबेरः पुष्पकारूढः पाशी मकरमेव च ॥

अग्निर्बस्तमारूढो निर्ऋतिः प्रेतमेव च

॥६९॥

तथान्ये सुरसंघाश्च यक्षचारणगुह्यकाः ॥

आरुह्य वाहनान्येव स्वानिस्वानि प्रतिपिनः

॥७०॥

स्वेषामुद्योगमालोक्य दक्षश्चाश्रुमुखस्ततः ॥

दंडवत्पतितो भूमौ सर्वानेवाभ्यभाषत

॥७१॥

युष्मद्बलेनैव मया यज्ञः प्रारंभितो महान् ॥

सत्कर्मसिद्धये यूयं प्रमाणं सुमहाप्रभाः

॥७२॥

विष्णो त्वं कर्मणः साक्षाद्यज्ञानां परिपालकः ॥

धर्मस्य वेदगर्भस्य ब्रह्मण्यस्त्वं च माधव

॥७३॥

तस्माद्रक्षा विधातव्या यज्ञस्याऽस्य महाप्रभो ॥

दक्षस्य वचनं श्रुत्वा उवाच मधुसूदनः

॥७४॥

मया रक्षा विधातव्या धर्मस्य परिपालने ॥

तत्सत्यं तु त्वयोक्तं हि किं तु तस्य व्यतिक्रमः

॥७५॥

यातस्त्वद्यैव यज्ञस्य यत्त्वयोक्तं सदाशिवम् ॥

नैमिषेऽनिमिषक्षेत्रे तदा किं न स्मृतं त्वया

॥७६॥

योऽयं रुद्रो महातेजा यज्ञरूपः सदाशिवः ॥

यज्ञबाह्यः कृतो मूढ तच्च दुर्म्मत्रितं तव

॥७७॥

रुद्रकोपाच्च को ह्यत्र समर्थो रक्षणे तव ॥

न पश्यामि च तं विप्र त्वां वै रक्षति दुर्म्मतिम्

॥७८॥

किं कर्म्म किमकर्म्मेति तन्न पश्यसि दुर्म्मते ॥

समर्थं केवलं कर्मन भविष्यति सर्वदा

॥७९॥

सेश्वरं कर्म विद्ध्योतत्समर्थत्वेन जायते ॥

न ह्यन्यः कर्म्मणो दाता ईश्वरेण विना भवेत्

॥८०॥

ईश्वरस्य च ये भक्ताः शांतास्तद्गतमानसाः ॥

कर्म्मणो हि फलं तेषां प्रयच्छति सदाशिवः

॥८१॥

केवलं कर्म चाश्रित्य निरीश्वरपरा जनाः ॥

निरयं ते च गच्छंति कोटियज्ञशतैरपि

॥८२॥

पुनः कर्ममयैः पाशैर्बद्धा जन्मनिजन्मनि ॥

निरयेषु प्रपच्यंते केवलं कर्म्मरूपिणः

॥८३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखंडे वीरभद्रप्रादुर्भाववर्णनंनाम तृतीयोऽध्यायः ॥ ३ ॥