उभे सेने तदा तेषां सुराणां चामरद्विषाम्
लोमश उवाच
उभे सेने तदा तेषां सुराणां चामरद्विषाम् ॥
अनेकाश्चर्यसंवीते चतुरंगबलान्विते ॥
विरेजतुस्तदान्योऽन्यं गर्जतो वांबुदागमे
॥१॥एतस्मिन्नन्तरे तत्र वल्गमानाः परस्परम् ॥
देवासुरास्तदा सर्वे युयुधुश्च महाबलाः
॥२॥युद्धं सुतुमुलं ह्यासीद्देवदैत्यसमाकुलम् ॥
रुण्डमुण्डांकितं सर्वं क्षणेन समपद्यत
॥३॥भूमौ निपतितास्तत्र शतशोऽथ सहस्रशः ॥
केषांचिद्बाहविश्छिन्नाः खड्गपातैः सुदारुणैः
॥४॥मुचुकुंदो हि बलवांस्त्रैलोक्येऽमितविक्रमः
॥५॥तारको हि तदा तेन मुचुकुंदेन धीमता ॥
खड्गेन चाहतास्तत्र सर्वप्राणेन वक्षसि ॥
प्रसह्य तत्प्रहारं च प्रहसन्वाक्यमब्रवीत्
॥६॥किं रे मूढ त्वया चाद्य कृतमस्ति बलादिदम् ॥
न त्वया योद्धुमिच्छामि मानुषेणैव लज्जया
॥७॥तारकस्य वचः श्रुत्वा मुचुकुंदोऽभ्यभाषत ॥
मया हतोऽसि दैत्येंद्र नान्यो भवितुमर्हसि
॥८॥दृष्ट्वा मे खड्गसंपातं न त्वं तिष्ठसि चाग्रतः ॥
त्वां हन्मि पश्य मे शौर्यं दैत्यराज स्थिरो भव
॥९॥एवमुक्त्वा तदा वीरो मुचुकुंदो महाबलः ॥
यावज्जघान खड्गेन तावच्छक्त्या समाहतः ॥
मांधातुस्तनयस्तत्र पपात रणमंडले
॥१०॥पतितस्तत्क्षणादेव चोत्थितः परवीरहा
॥११॥स सज्जमानोतिमहाबलो वै हंतुं तदा दैत्यपतिं च तारकम् ॥
ब्रह्मास्त्रमुद्यम्य धनुर्गृहीत्वा मांधातृपुत्रो भुवनैकजेता
॥१२॥स तारकं योद्धकामस्तरस्वी रुषान्वितोत्फुल्लविलोचनो महान् ॥
स नारदो ब्रह्मसुतो बभाषे तदा नृवीरं मुचुकुंदमेवम्
॥१३॥न तारको हन्यते मानुषेण तस्मादेतन्मा विमोचीर्महास्त्रम्
॥१४॥निशम्य वचनं तस्य देवर्षेर्नारदस्य च ॥
मुचुकुंद उवाचेदं भविता कोऽस्य मारकः
॥१५॥तदोवाच महातेजा नारदो दिव्यदर्शनः ॥
एनं हंता कुमारश्च कुमारोऽयं शिवात्मजः
॥१६॥तस्माद्भवद्भिः स्थातव्यमैकपद्येन युध्यताम् ॥
तिष्ठ त्वं चायतो भूत्वा मुचुकुंद महामते
॥१७॥निशम्य वाक्यं च मनोहरं शुभं ह्युदीरितं तेन महाप्रभेण ॥
सर्वे सुराः शांतिपरा बभूवुस्तेनैव साकं नृवरेणयत्नात्
॥१८॥ततो दुंदुभयो नेदुः शंखाश्च कृतनिश्चयाः ॥
ताडिता विविधैर्वाद्यैः सुरासुरसमन्वितैः
॥१९॥जगर्जुरसुरास्तत्र देवान्प्रति कृतोद्यमाः ॥
शिवकोपोद्भवो वीरो वीरभद्रो रुषान्वितः
॥२०॥गणैर्बहुभिरासाद्य तारकं च महाबलम् ॥
मुचुकुंदं पृष्ठतः कृत्वा तथैव च सुरानपि
॥२१॥तदा ते प्रमथाः सर्वे पुरस्कृत्य कुमारकम् ॥
युयुधुः संयुगे तत्र वीरभद्रादयो गणाः
॥२२॥त्रिशूलैर्ऋष्टिभिः पाशैः खड्गैः परशुपाट्टिशैः ॥
निजघ्नुः समरेन्योन्यं सुरासुरविमर्द्दने
॥२३॥तारको वीरभद्रेण त्रिशूलेन हतो भृशम् ॥
पपात सहसा तत्र क्षण मूर्छापरिप्लुतः
॥२४॥उत्थाय च मुहूर्त्ताच्च तारको दैत्यपुंगवः ॥
लब्धसंज्ञो बलाविष्टो वीरभद्रं जघान च
॥२५॥स शक्तिं च महातेजा वीरभद्रो हि तारकम् ॥
त्रिशूलेन च घोरेण शिवस्यानुचरो बली
॥२६॥एवं संयुध्यमानौ तौ जघ्नतुश्चेतरेतरम् ॥
द्वंद्वयुद्धं सुतुमुलं तयोर्जातं महात्मनोः
॥२७॥सुरास्तत्रैव समरे प्रेक्षकाह्यभवंस्तदा ॥
तयोर्भेरीमृदंगाश्च पटहानकगोमुखाः
॥२८॥तथा डमरूनादेन व्याप्तमासीज्जगत्त्रयम् ॥
तेन घोषेण महता युद्यमानौ महाबलौ
॥२९॥शुशुभातेऽतिसंरब्धौ प्रहारैर्जरीकृतौ ॥
अन्योन्यमभिसंरब्धौ तौ बुधांगारकाविव
॥३०॥नारदेन तदा ख्यातो वीरभद्रस्य तद्वधः ॥
न रोचते च तद्वाक्यं वीरभद्रस्य वै तदा
॥३१॥नारदेन यदुक्तं हि तारकस्य वधं प्रति ॥
यथा रुद्रस्तथा सोऽपि वीरभद्रो महाबलः
॥३२॥एवं प्रयुध्यमानौ तौ जघ्नतुश्चेतरेतरम् ॥
अन्योन्यं स्वर्द्धमानौ तौ गर्जंतौ सिंहयोरिव
॥३३॥एवं तदा तौ भुवि युध्यमानौ महात्मना ज्ञानवतां वरेण ॥
स वीरभद्रो हि तदा निवारितो वाक्यैरनेकैरथ नारदेन
॥३४॥तथा निशम्य तद्वाक्यं नारदस्य मुखोद्गतम् ॥
वीरभद्रो रुषाविष्टो नारदं प्रत्युवाच ह
॥३५॥तारकं च वधिष्यामि पश्य मेऽद्य पराक्रमम् ॥
आनयंति च ये वीराः स्वामिनं रणसंसदि ॥
ते पापिनो ह्यधर्मिष्ठा विमृशंतिरणं गताः
॥३६॥भीरवस्ते तु विज्ञेया न वाच्यास्ते कदाचन ॥
त्वं न जानासि देवर्षे योधानां च प्रतिक्रियाम्
॥३७॥मृत्युं च पृष्ठतः कृत्वा रणभूमौ गतव्यथाः ॥
शस्त्राशस्त्रैर्भिन्नगात्राः प्रशस्ता नात्र संशयः
॥३८॥इत्युक्त्वा चावदद्देवान्वीरभद्रो महाबलः ॥
श्रुण्वंतु मम वाक्यानि देवा इन्द्रपुरोगमाः
॥३९॥अतारकां महीं चाद्य करिष्ये नात्र संशयः
॥४०॥अथ त्रिशूलमादाय तारकेण युयोध सः ॥
वृषारूढैरनेकैश्च त्रिशूलवरधारिभिः
॥४१॥कपर्द्दिनो वृषांकाश्च गणास्तेतिप्रहारिणः ॥
वीरभद्रं पुरस्कृत्य वीरभद्रपराक्रमाः
॥४२॥त्रिशूलधारिणः सर्वे सर्वे सर्पागभूषणाः ॥
सचंद्रशेखराः सर्वे जटाजूटविभूषिताः
॥४३॥निलकण्ठा दशभुजाः पञ्चकत्त्रास्त्रिलोचनाः ॥
छत्रचामरसंवीताः सर्वे तेऽत्युग्रबाहवः
॥४४॥वीरभद्रं पुरस्कृत्य सर्वे हरपराक्रमाः ॥
युयुधुस्ते तदा दैत्यास्ताकासुरजीविनः
॥४५॥पुनः पुनस्तैश्च तदा बभूवुर्गणैर्जितास्ते ह्यसुराः पराङ्मुखाः ॥
बभूव तेषां च तदातिसंगरो महाभयो दैत्यवरैस्तदानीम्
॥४६॥अमृष्यमाणाः परमास्त्रकोविदैस्ततो गणास्ते जयिनो बभूवुः ॥
गणैर्जितास्ते ह्यसुराः पराभवं तं तारकं ते व्यथिताः शशंसुः
॥४७॥विनाम्य चापं हि तथा च तारकः स योद्धुकामः प्रविवेश सेनाम् ॥
यथा झषो वै प्रविवेश सागरं तथा ह्यसौ दैत्यवरो महात्मा
॥४८॥गणैः समेतो युयुधे तदानीं स वीरभद्रो हि महाबलश्च ॥
सर्वान्सुरांश्चेंद्रमुखान्महाबलस्तथा गणान्यक्षपिशाचगुह्यकान् ॥
स दैत्यवर्योऽतिरुषं प्रविष्टः संमर्दयामास महाबलो हि
॥४९॥ततः समभवद्युद्धं देवदानवसंकुलम् ॥
देवदानवयक्षाणां सन्निपातकरं महत्
॥५०॥तथा वृषा गर्जमाना अश्वाञ्जघ्नुश्च सादिभिः ॥
रथिभिश्च रथाञ्जघ्नुः कुंजरान्सादिभिः सह
॥५१॥वृषारूढौः सरथैस्ते च सर्वे निष्पाटिता ह्यसुराः पोथिताश्च
॥५२॥क्षयं प्रणीता बहवस्तदानीं पेतुः पृथिव्यां निहताश्च केचित् ॥
केचित्प्रविष्टा हि रसातलं च पलायमाना बहवस्तथैव
॥५३॥केचिच्च शरणं प्राप्ता रुद्रानुचरकिंकरान् ॥
एवं नष्टं तदा सैन्यं विलोक्यासुरपालकः ॥
तारको हि रुषाविष्टो हंतुं देवगणान्ययौ
॥५४॥भुजानामयुतं कृत्वा दैत्यराजो हि तारकः ॥
आरुह्य सिंहं सहसा घातयामास तान्रणे
॥५५॥दंशितेन च सिंहेन वृषाः केचिद्विदारिताः ॥
तथैव तारकेणैव घातिता बहवो गणाः
॥५६॥एवं कृतं तदा तेन तारकेण महात्मना ॥
सर्वेषामेव देवानामशक्यस्तारको महान्
॥५७॥जातस्तदा महाबाहुस्त्रैलोक्यक्षयकारकः ॥
तारकस्यानुगा दैत्या अजेया बलवत्तराः
॥५८॥महारूढा दंशिताश्च करालास्ते प्रहारिणः ॥
तै राहृता गणाः सर्वे सिंहैश्च वृषभा हताः
॥५९॥एवं निहन्यमाना वै गणास्ते रणमण्डले ॥
प्रहस्य विष्णुः प्रोवाच कुमारं शिववल्लभम्
॥६०॥विष्णुरुवाच
नान्यो हंतास्य पापस्य त्वद्विना कृत्तिकासुत ॥
तस्मात्त्वया हि कर्त्तव्यं वचनं च महाभुज
॥६१॥तारकस्य वधार्थाय उत्पन्नोऽसि शिवात्मज ॥
तस्मात्त्वयैव कर्त्तव्य निधनं तारकस्य च
॥६२॥तच्छ्रुत्वा भगवान्क्रुद्धः पार्वतीनन्दनो महान् ॥
उवाच प्रहसन्वाक्यं विष्णुं प्रति यथोचितम्
॥६३॥मया निरीक्ष्यते सम्यक्चित्रयुद्धं महात्मनाम् ॥
अनिभिज्ञोऽस्म्यहं विष्णो कार्याकार्यविचारणे
॥६४॥केऽस्मदीयाः परे चैव न जानामि कथंचन ॥
किमर्थं युध्यमाना वै परस्परवधे स्थिताः
॥६५॥कुमारस्य वचः श्रुत्वा नारदो वाक्यमब्रवीत्
॥६६॥नारद उवाच
कुमारोऽसि महाबाहो शंकरस्यांशसंभवः ॥
त्वं त्राता जगतां स्वामी देवानां च परा गतिः
॥६७॥तारकेण पुरा वीर तपस्तप्तं सुदारुणम् ॥
येनैव विजिता देवा येन स्वर्गस्तथा जितः
॥६८॥तपसा तेन चोग्रेण अजेयत्वमवाप्तवान् ॥
अनेनापि जितश्चेंद्रो लोकपालास्तथैव च
॥६९॥त्रैलोक्यं च जितं सर्वं ह्यनेनैव रदुरात्मना ॥
तस्मात्त्वया निहंतव्यस्तारकः पापपूरुषः
॥७०॥सर्वेषां शं विधातव्यं त्वया नाथेन चाद्य वै ॥
नारदस्य वचः श्रुत्वा कुमारः प्रहसन्महान् ॥
विमाना दवतीर्याथ पदातिः परमोऽभवत्
॥७१॥पद्म्यां तदासौ परिधावमानः शिवात्मजोयं च कुमाररूपी ॥
करे समादाय महाप्रभावां शक्तिं महोल्कामिव दीप्तियुक्ताम्
॥७२॥दृष्ट्वा तमायांतमतीव चंडमव्यक्तरूपं बलिनां वरिष्ठम् ॥
दैत्यो बभाषे सुरसत्तमानमसौ कुमारो द्विषतां निहंता
॥७३॥अनेन सार्द्धं ह्यहमेव वीरो योत्स्यामि सर्वानहमेव वीरान् ॥
गणांश्च सर्वानपि घातयामि महेश्वराँल्लोकपालांश्च सद्यः
॥७४॥इत्येवमुक्त्वा सततं महाबलः कुमारमुद्दिश्य ययौ च योद्धम् ॥
जग्राह शक्तिं परमाद्भुतां च स तारको वाक्यमिदं बभाषे
॥७५॥तारक उवाच
कुमारो मेग्रतश्चाद्य भवद्भिश्च कथं कृतः ॥
यूयं गतत्रपा देवा येषां राजा पुरंदरः
॥७६॥पुरा येन कृतं कर्म विदितं सर्वमेव तत् ॥
प्रसुप्ताश्चार्द्दिता गर्भे जठरस्था निपातिताः
॥७७॥कश्यपस्यात्मजेनैव बहुरूपो हतोऽसुरः ॥
नमुचिश्च हतो वीरो वृत्रश्चैव तथा हतः
॥७८॥कुमारं हंतुमोसौ देवेंद्रो बलघातकः ॥
कुमारोऽयं मया देवा घातितोद्य न संशयः
॥७९॥पुरा हतास्त्वया विप्रा दक्षयज्ञे ह्यनेकशः ॥
तत्कर्मणः फलं चाद्य वीरभद्र महामते ॥
दर्शयिष्यामि ते वीर रणे रणविशारद
॥८०॥इत्येवमुक्त्वा स तदा महात्मा दैत्याधिपो वीरवरः स एकः ॥
जग्राह शक्तिं परमाद्भुतां च स तारको युद्धविदां वरिष्ठः
॥८१॥इति परमरुषभिभूतो दितितनयः परीवृतोऽसुरेंद्रैः ॥
युधि मतिमकरोत्तदा निहंतुं समरविजयी स तारको बलीयान्
॥८२॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखण्डे शिवशास्त्रे सुरतारकासुरसंग्रामवर्णनंनामैकोनत्रिंशोऽध्यायः ॥ २९ ॥