मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — केदारखण्डः, अध्याय १९

3
माहेश्वरखण्डः · केदारखण्डः · 19

एवं संबोधितो दैत्यो गुरुणा भार्गवेण हि

लोमश उवाच

एवं संबोधितो दैत्यो गुरुणा भार्गवेण हि ॥

उवाच प्रहसन्वाक्यं मेघगंभीरया गिरा

॥१॥

त्वयोक्तोहं हितार्थाय यैर्वाक्यैश्चालितोऽस्म्यहम् ॥

तव वाक्यं मम प्रीत्यै हितमप्यहितं भवेत्

॥२॥

दास्यामि भिक्षितं चास्मै विष्मवे बटुरूपिणे ॥

पात्रीभूतो ह्ययं विष्णुः सर्वकर्मफलेश्वरः

॥३॥

येषां हृदि स्थितो विष्णुस्ते वै पात्रतमा ध्रुवम् ॥

यस्य नाम्ना सर्वमिदं पवित्रमिव चोच्यते

॥४॥

येन वेदाश्च यज्ञाश्च मंत्रतंत्रादयो ह्यमी ॥

सर्वे संपूर्णतां यांति सोऽयं विश्वेश्वरो हरिः

॥५॥

आगतः कृपया मेद्य सर्वात्मा हरिरीश्वरः ॥

उद्धर्तुं मां न संदेह एतज्जानीहि तत्त्वतः

॥६॥

तस्य तद्वचनं श्रुत्वा चुकोप च रुषान्वितः ॥

भार्गवः शप्तुमारेभे दैत्येंद्रं धर्म्मवत्सलम्

॥७॥

मम वाक्यमतिक्रम्य दातुमिच्छस्यरिंदम ॥

विगुणो भव रे मंद तस्मात्त्वं निःश्रिको भव

॥८॥

एवं शशाप च तदा परमार्थविज्ञं शिष्यं महात्मानमगाधबोधम् ॥

स वै जगामाथ महाकविस्त्वरात्स्वमाश्रमं धर्म्मविदां वरिष्ठः

॥९॥

गते तु भार्गवे तस्मिन्बलिर्विरोचनात्मजः ॥

वामनं चार्चयित्वा स महीं दातुं प्रचक्रमे

॥१०॥

विंध्यावलिः समागत्य बलेरर्द्धांगशोभिता ॥

अवनिज्य बटोः पादौ प्रददौ विष्णवे महीम्

॥११॥

संकल्पपूर्वेण तदा विधिना विधिकोविदः ॥

संकल्पेनैव महता ववृधे भगवानजः

॥१२॥

यदैकेन मही व्याप्ता विष्णुना प्रभविष्णुना ॥

सर्वे स्वर्गा द्वितीयेन व्याप्तास्तेन महात्मना

॥१३॥

सत्यलोकगतो विष्णोश्चरणः परमेष्ठिना ॥

कमण्डलुगतेनैव अंभसा चावनेनिजे

॥१४॥

तत्पादसंपर्कजलाच्च जाता भागीरथी सर्वसुमंगला च ॥

यया त्रिलोकी च कृता पवित्रा यया च सर्वे सगराः समुद्धृताः ॥

यया कपर्दः परिपूरितो वै शंभोस्तदानीं च भगीरथेन

॥१५॥

तीर्थानां तीर्थमाद्यं च गंगाख्यमवतारितम् ॥

तद्विष्णोश्चरणेनैव समेतं ब्रह्मणा कृतम्

॥१६॥

त्रिविक्रमात्परो ह्यात्मा नाम्ना त्रिविक्रमोऽभवत् ॥

त्रिविक्रमक्रमाक्रांतं त्रैलोक्यं च तदाऽभवत्

॥१७॥

पदद्वयेन वा पूर्णं जगदेतच्चराचरम् ॥

विहाय तत्स्वरूपं च देवदेवो जनार्द्दनः ॥

पुनश्च बटुरूपोऽसावुपविश्य निजासने

॥१८॥

तदा देवाः सगंधर्वा मुनयः सिद्धचारणाः ॥

आगताश्च बलेर्यज्ञं द्रष्टुं यज्ञपतिं प्रभुम्

॥१९॥

तत्र ब्रह्मा समागत्य स्तुतिं चक्रे परात्मनः ॥

बलेस्तत्रैव चान्येन च दैत्येंद्राश्चागतास्त्वरम्

॥२०॥

एभिः सर्वैः परिवृतो वामनो बलिसद्मनि ॥

उपविश्यासने सोऽथ उवाच गरुडं प्रति

॥२१॥

दैत्योऽसौ बालिशो भूत्वा दत्तानेन मही मम ॥

त्रिपदक्रमणेनैव गृहीतं च पदद्वयम्

॥२२॥

पदमेकं प्रतिश्रुत्य न ददाति हि दुर्मतिः ॥

तस्मात्त्वया गृहीतव्यं तृतीयं पदमेव च

॥२३॥

इत्युक्तो गरुडस्तेन वामनेन महात्मना ॥

वैरोचनिं विनिर्भर्त्स्य वाक्यं चेदमुवाच ह

॥२४॥

रे बले किं त्वया मूढ कृतमस्ति जुगुप्सितम् ॥

अविद्यमाने ह्यर्थे हि किं ददासि परमात्मने ॥

औदार्येण हि किं कार्यमल्पकेन त्वयाधुना

॥२५॥

इत्युक्तो बलिराविष्टः स्यमानः खगेश्वरम् ॥

वक्ष्यमाणमिदं वाक्यं गरुत्मन्तं तदाऽब्रवीत्

॥२६॥

समर्थोस्मि महापक्ष गृपणो न भवाम्यहम् ॥

येनेदं कारितं सर्वं तस्मै किं प्रददाम्यहम्

॥२७॥

असमर्थो ह्यहं तात कृतोऽनेन महात्मना ॥

तदोवाच बलिं सोऽपि तार्क्ष्यपुत्रो महामनाः

॥२८॥

जानन्नपि च दैत्येंद्र गुरुणापि निवारितः ॥

विष्णवेऽपि महीं प्रादास्त्वया किं विस्मृतं महत्

॥२९॥

दातव्यं तत्पदं विष्णोस्तृतीयं यत्प्रतिश्रुतम् ॥

न ददासि कथं वीर निरयेच पतिष्यसि

॥३०॥

न ददासि तृतीयं च पदं मे स्वामिनः कथम् ॥

बलाद्गृह्णामि रे मूढ इत्युक्त्वा तं महासुरम् ॥

बबंध वारुणैः पाशैर्विरोचन सुतं तदा

॥३१॥

नितरां निष्ठुरो भूत्वा गरुडो जयतां वरः ॥

बद्धं स्वपतिमालोक्य विंध्यावलिः समभ्ययात्

॥३२॥

बाणमेकं समारोप्य वामनस्याग्रतः स्थिता ॥

वामनेन तदा पृष्टा केयं चात्राग्रतः स्थिता

॥३३॥

तदोवाच महातेजाः प्रह्लादो ह्यसुराधिपः ॥

बलेः पत्नीति त्वां प्राप्ता इयं विंध्यावली सती

॥३४॥

प्रह्लादस्य वचः श्रुत्वा वामनो वाक्यमब्रवीत् ॥

ब्रूहि विंध्यावले वाक्यं किं कार्यं ते करोम्यहम् ॥

एवमुक्ता भगवता विंध्यावलिरभाषत

॥३५॥

विन्ध्यावलिरुवाच

कस्माद्बद्धो मम पतिर्गरुडेन महात्मना ॥

तत्कथ्यतां महाभाग त्वरन्नेव जनार्द्दन ॥

तदोवाच महातेजा बटुवेषधरो हिः

॥३६॥

श्रीभगवानुवाच

अनेनैव प्रदत्ता मे मही त्रिपदलक्षणा ॥

पदद्वयेन च मयाक्रांतं त्रैलोक्यमद्य वै

॥३७॥

अनेन मम दातव्यं तृतीयं पदमेव च ॥

तस्माद्बद्धो मया साध्वि गरुडेनैव ते पतिः

॥३८॥

श्रुत्वा भगवतो वाक्यमुवाच परमं वचः ॥

प्रतिश्रुतमनेनैव न दत्तं हि तव प्रभो

॥३९॥

क्रांतं त्रिभुवनं चाद्य त्वया विक्रमरूपिणा ॥

तदस्माकं विजघ्नीथाः स्वर्गे वाप्यथवा भुवि

॥४०॥

किंचिन्न दत्ता हि विभो देवदेव जगत्पते ॥

प्रहस्य भगवानाह तदा विंध्यावलिं प्रभुः

॥४१॥

पदानि त्रीणि मे चाद्य दातव्यानि कुतोऽधुना ॥

शीघ्रं वद विशालाक्षि यत्ते मनसि वर्त्तते ॥

तदोवाच च सा साध्वी ह्युरुक्रममवस्थिता

॥४२॥

त्वया कुतो वेयमुरुक्रमेण क्रांता त्रिलोकी भुवनैकनाथ ॥

तथैव सर्वं जगदेकबंधो देयं किस्माभिरतुल्यरूपिणे

॥४३॥

तस्माद्विहाय तद्विष्णो त्वमेवं कुरु संप्रति ॥

प्रति श्रुतानि मे भर्त्रा पदानि त्रीणि चाधुना ॥

ददाति मे पतिस्तेद्य नात्र कार्या विचारणा

॥४४॥

निधेहि मे पदं त्वं हि शीर्ष्णि देववर प्रभो ॥

द्वितीयं मे शिशोस्त्वं हि कुरु मूर्ध्नि जगत्पते

॥४५॥

तृतीयं च जगन्नाथ कुरु शीर्ष्णि पतेर्मम ॥

एवं त्रीणि पदानीश तव दास्यामि केशव

॥४६॥

तस्यास्तद्वचनं श्रुत्वा परितुष्टो जनार्दनः ॥

उवाच श्लक्ष्णया वाचा विरोचनसुतं प्रति

॥४७॥

भगवानुवाच

सुतलंगच्छ दैत्येन्द्र मा विलंबितुमर्हसि ॥

सर्वैश्चासुरसंघैश्च चिरं जीव सुखी भव

॥४८॥

परितुष्टोऽस्म्यहं तात किं कार्यं करवाणि ते ॥

सर्वेषामपि दातॄणां वरिष्ठोऽसि महामते

॥४९॥

वरं वरय भद्रं ते सर्वान्कामान्ददामि ते ॥

त्रिविक्रमेणैवमुक्तो विरोचनसुतस्तदा

॥५०॥

विमुक्तो हि परिष्वक्तो देवदेवेन चक्रिणा ॥

तदा बलिरुवाचेदं वाक्यं वाक्यविशारदः

॥५१॥

त्वया कृतमिदं सर्वं जगदेतच्चराचरम् ॥

तस्मान्न कामये किंचित्त्वत्पदाब्जं विना प्रभो

॥५२॥

भक्तिरस्तु पदांभोजे तव देव जनार्दन ॥

भूयोभूयश्च देवेश भक्तिर्भवतु शाश्वती

॥५३॥

एवमभ्यर्थितस्तेन भगवान्भूतभावनः ॥

उवाच परमप्रीतो विरोचनसुतं तदा

॥५४॥

भगवानुवाच

बले त्वं सुतलं याहि ज्ञातिसंबंधिभिर्वृतः ॥

एवमुक्तस्तदा तेन असुरो वाक्यब्रवीत्

॥५५॥

सुतले किं नु मे कार्यं देवदेव वदस्व मे ॥

तिष्ठामि तव सांनिध्ये नान्यथा वक्तुमर्हसि

॥५६॥

तदोवाच हृषीकेशो बलिं तं कृपयाऽन्विततः ॥

अहं तव समीपस्थो भवामि सततं नृप

॥५७॥

द्वारि स्थितस्तव विभो निवासामि नित्यं मा खिद्यतामसुरवर्य बले श्रृणुष्व ॥

वाक्यं तु मे वर महो वरदस्तवाद्य वैकुंठवासिभिपलं च भजामि गेहम्

॥५८॥

तच्छ्रुत्वा वचनं तस्य विष्मोरतुलतेजसः ॥

जगाम सुतलं दैत्यौ ह्यसुरैः परिवारितः

॥५९॥

तदा पुत्रशतेनैव बाणमुख्येन सत्वरम् ॥

वसमानो महाबाहुर्दातॄणां च परा गतिः

॥६०॥

त्रैलोक्ये याचका ये च सर्वे यांति बलिं प्रति ॥

द्वारि स्थितस्तस्य विष्णुः प्रयच्छति यथेप्सितम्

॥६१॥

भुक्तिकामाश्च ये केचिन्मुक्तिकामास्तथा परे ॥

येषां यज्ञे च ते विप्रास्तत्तेभ्यः संप्रयच्छति

॥६२॥

एवंविधो बलिर्जातः प्रसादाच्छंकरस्य च ॥

पुरा हि कितवत्वेन यद्दत्तं परमात्मने

॥६३॥

अशुचिं भूमिमासाद्य गंधपुष्पादिकं महत् ॥

पतितं चार्प्पितं तेन शिवाय परमात्मने

॥६४॥

किं पुनः परया भक्त्या चार्चयंति महेश्वरम् ॥

पुष्पं फलं तोयं ते यांति शिवसन्निधिम्

॥६५॥

शिवात्परतरो नास्ति पूजनीयो हि भो द्विजाः ॥

ये हि मूकास्तथांधाश्च पंगवो ये जडास्तथा

॥६६॥

जातिहीनाश्च चंडालाः श्वपचा ह्यंत्यजा ह्यमी ॥

शिवभक्तिपरा नित्यं ते यांति परमां गतिम्

॥६७॥

तस्मात्सदाशिवः पूज्यः सर्वैरेवमनीषिभिः ॥

पूजनीयो हि संपूज्यो ह्यर्चनीयः सदाशिवः

॥६८॥

महेशं परमारथज्ञाश्चिंतयंति हृदि स्थितम् ॥

यत्र जीवो भवत्येव शिवस्तत्रैव तिष्ठति

॥६९॥

विना शिवेन यत्किंचिदशिवं भवति क्षणात् ॥

ब्रह्मा विष्णुश्च रुद्रश्च गुणकार्यकरा ह्यमी

॥७०॥

रजोगुणान्वितो ब्रह्मा विष्णुः सत्त्वगुणान्वितः ॥

तमोगुणाश्रितो रुद्रो गुणातीतो महेश्वरः

॥७१॥

लिंगरूपो महादेवो ह्यर्चनीयो मुमुक्षुभिः ॥

शिवात्परतरो नास्ति भुक्तिमुक्तिप्रदायकः

॥७२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखण्डे बलये वरप्रदानवर्णनंनामैकोविंशोऽध्यायः ॥ १९ ॥