श्रीभवान्युत्पत्तिवर्णनम्
ऋषय ऊचुः
ब्रह्मा विष्णुश्च रुद्रश्च सगुणाः कीर्तितास्त्वया ॥
लिंगरूपी तथैवेशो निर्गुणोऽसौ कथं वद
॥१॥त्रिभिर्गुणैर्व्याप्तमिदं चराचरं जगन्महद्व्याप्यथ वाल्पकं वा ॥
मायामयं सर्वमिदं विभाति लिंगं विना केन कुतोविभाति
॥२॥यद्दृश्यमानं महदल्पकं च तन्नश्वरं कृतकत्वाच्च सूत
॥३॥तस्माद्विमृश्य भोः सूत संशयं छेत्तुमर्हसि ॥
व्यासप्रसादात्सकलं जानासि त्वं न चापरः
॥४॥सुत उवाच
व्यासेन कथितं सर्वमस्मिन्नर्थे शुकं प्रति ॥
शुक उवाच ॥
लिंगरूपी कथं शंभुर्निर्गुणः कथते त्वया ॥
एतन्मे संशयं तात च्छेत्तुमर्हस्यशेषतः
॥५॥व्यास उवाच
श्रुणु वत्स ब्रवीम्येतत्पुरा प्रोक्तं च नंदिना ॥
अगस्त्यं पृच्छमानं च येन सर्वं श्रुतं शुक
॥६॥निर्गुणं परमात्मानं विद्धि लिंगस्वरूपिणम् ॥
परा शक्तिस्तथा ज्ञेया निर्गुणा शाश्वती सती
॥७॥यया कृतिमिदं सर्वं गुणत्रयविभावितम् ॥
एतच्चराचरं विश्वं नश्वरं परमार्थतः
॥८॥एक एव परो ह्यात्मा लिंगरूपी निरंजनः ॥
प्रकृत्या सह ते सर्वे त्रिगुणा विलयं गताः
॥९॥यस्मिन्नेव ततो लिंगं लयनात्कथितं पुरा ॥
तस्माल्लिंगे लयं प्राप्ता परा शक्तिः कुतोऽपरे
॥१०॥लीना गुणाश्च रुद्रोक्त्या यैरिदं बद्धमेव च ॥
चराचरं महाभाग तस्माल्लिंगं प्रपूजयेत्
॥११॥लिंगं च निर्गुणं साक्षाज्जानीध्वं भो द्रिजोतमाः ॥
लयाल्लिंगस्य माहात्म्यं गुणानां परिकीर्त्यते
॥१२॥शंकरः सुखदाता हि उच्यमानो मनीषिभिः ॥
सर्वो हि कथ्यते विप्राः सर्वेषामाश्रयो हि स
॥१३॥शंभुर्हि कथ्यते विप्रा यस्माच्च शुभसंभवः
॥१४॥एवं सर्वाणि नामानि सार्थकानि महात्मनः ॥
तेनावृतं जगत्सर्वं शंभुना परमेष्ठिना
॥१५॥ऋषय ऊचुः
यदा दाक्षायणी चाग्नौ पतिता यज्ञकर्मणि ॥
दक्षस्य च महाभागा तिरोधानगता सती
॥१६॥प्रादुर्भूता कदा सूत कथ्यतां तत्त्वयाऽधुना ॥
परा शक्तिर्महेशस्य मिलिता च कथं पुनः
॥१७॥एतत्सर्वं महाभाग पूर्ववृत्तं च तत्त्वतः ॥
कथनीयं च अस्माकं नान्यो वक्तास्ति कश्चन
॥१८॥सूत उवाच
जज्ञे दाक्षायणी ब्रह्मन्विदग्धावयवा यदा ॥
विना शक्त्या महेशोऽपि तताप परमं तपः
॥१९॥लीलागृहीतवपुषा पर्वते हिमवद्गिरौ ॥
भृंगिणा सह विश्वेन नंदिना च तथैव च
॥२०॥तथा चंडेन मुंडेन तथान्यैर्बहुभिर्वृतः ॥
दशभिः कोटिगुणितैर्गणैश्च परिवारितः
॥२१॥गणानां चैव कोट्या च तथा षष्टिसहस्रकैः ॥
एवं तत्र गणैर्देव आवृतो वृषभध्वजः
॥२२॥तपो जुषाणः सहसा महात्मा हिमालयस्याग्रगतस्तथैव ॥
गणैर्वृतो वीरभद्रप्रधानैः स केवलो मूलविद्याविहीनः
॥२३॥एतस्मिन्नंतरे दैत्याः प्रादुर्भूता ह्यविद्यया ॥
विष्णुना हि बलिर्बद्धस्तथा ते वै महाबलाः
॥२४॥जाता दैत्यास्ततो विप्रा इंद्रोपद्रवकारकाः ॥
कालखंजा महारौद्राः कालकायास्तथापरे
॥२५॥निवातकवचाः सर्वे रवरावकसंज्ञकाः ॥
अन्ये च बहवो दैत्याः प्रजासंहारकारकाः
॥२६॥तारको नमुचेः पुत्रस्तपसा परमेण हि ॥
ब्रह्माणं तोषयामास ब्रह्मा तस्य तुतोष वै
॥२७॥वरान्ददौ यथेष्टांश्च तारकाय दुरात्मने ॥
वरं वृणीष्व भद्रं ते सर्वान्कामान्ददामि ते
॥२८॥तच्छत्वा वचनं तस्य ब्रह्मणः परमेष्ठिनः ॥
वरयामास च तदा वरं लोकभयावहम्
॥२९॥यदि मे त्वं प्रसन्नऽसि अजरामरतां प्रभो ॥
देहि मे यद्विजानासि अजेयत्वं तथैव च
॥३०॥एवमुक्तस्तदा तेन तारकेण दुरात्मना ॥
उवाच प्रहसन्वाक्यममरत्वं कुतस्तव
॥३१॥जातस्य हि ध्रुवो मृत्युरेतज्जानीहि तत्त्वतः ॥
प्रहस्य तारकः प्राह अजेयत्वं च देहि मे
॥३२॥ब्रह्मोवाच तदा दैत्यजेयत्वं तवानघ ॥
विनार्भकेण दत्तं वै ह्यर्भकस्त्वां विजेष्यते
॥३३॥तदा स तारकः प्राह ब्रह्माणं प्रणतः प्रभो ॥
कृतार्थोऽहं हि देवेश प्रसादात्तव संप्रति
॥३४॥एवं लब्धवरो भूत्वा तारको हि महाबलः ॥
देवान्युद्धार्थमाहूय युयुधे तैः सहासुरः
॥३५॥मुचुकुन्दं समाश्रित्य देवास्ते जयिनोऽभवन् ॥
पुनः पुनर्विकुर्वाणा देवास्ते तारकेण हि
॥३६॥मुचुकुन्दबलेनैव जयमापुःसुरास्तदा ॥
किं कर्तव्यं हि चास्माकं युध्यमानैर्निरंतरम्
॥३७॥भवितव्यमिति स्मृत्वा गतास्ते ब्रह्मणः पदम् ॥
ब्रह्मणश्चाग्रतो भूत्वा ह्यब्रुवंस्ते सवासवाः
॥३८॥देवा ऊचूः ॥
बलिना सह पातालमास्तेऽसौ मधुसूदनः ॥
विष्णुं विना हि ते सर्वे वृषाद्याः पतिताः परैः
॥३९॥दैत्येंद्रैश्च महाभाग त्रातुमर्हसि नः प्रभो ॥
तदा नभोगता वाणी ह्युवाच परिसांत्व्य वै
॥४०॥हे देवाः क्रियतामाशु मम वाक्यं हि तत्त्वतः ॥
शिवात्मजो यदा देवा भविष्यति महाबलः
॥४१॥युद्धे पुनस्तारकं च वधिष्यति न संशयः ॥
येनोपायेन भगवाञ्छंभुः सर्वगुहाशयः
॥४२॥दारापरिग्रही देवास्तथा नीतिर्विधीयताम् ॥
क्रियतां च परो यत्नो भवद्भिर्नान्यथा वचः
॥४३॥यूयं देवा विजानीध्वमित्युवाचाशरीरवाक् ॥
परं विस्मयमापन्ना ऊचुर्देवाः परस्परम्
॥४४॥श्रुत्वा नभोगतां वाणीमाजग्मुस्ते हिमालयम् ॥
बृहस्पतिं पुरस्कृत्य सर्वे देवा वचोऽब्रुवन्
॥४५॥हिमालयं महाभागाः सर्वे कार्यार्थगौरवात् ॥
हिमालय महाभाग श्रूयतां नोऽधुना वचः
॥४६॥तारकस्त्रासयत्यस्मान्साहाय्यं तद्वधे कुरु ॥
त्वं शरण्यो भवास्माकं सर्वेषां च तपस्विनाम् ॥
तस्मात्सर्वे वयं याता महेंद्रसहिता विभो
॥४७॥लोमश उवाच
एवमभ्यर्थितो देवैर्हिमवान्गिरिसत्तमः ॥
उवाच देवान्प्रहसन्वाक्यं वाक्यविदां वरः
॥४८॥महेन्द्र मुद्दिश्य तदा ह्युपहाससमन्वितः ॥
अक्षमाश्च वयं सर्वे महेन्द्रेण कृताः सुराः
॥४९॥किं कुर्मः सुरकार्यं च तारकस्य वधं प्रति ॥
पक्षयुक्ता वयं सर्वे यदि स्याम सुरोत्तमाः
॥५०॥तदा वयं घातयामस्तारकं सह बांधवैः ॥
अचलोहं विपक्षश्च किं कार्यं करवाणि व
॥५१॥तस्य तद्वचनं श्रुत्वा सर्वे देवास्तमब्रुवन् ॥
सर्वे यूयं वयं चैव असमर्था वधं प्रति ॥
तारकस्य महाभाग एतत्कार्यं विचंत्यताम्
॥५२॥येन साध्यो भवेच्छत्रुस्तारको हि महाबलः ॥
तदोवाच महातेजा हिमवान्स सुरान्प्रति
॥५३॥केनोपायेन भो देवास्तारकं हंतुमिच्छथ ॥
कथयंतुत्वरेणैव कार्यं वेत्तुं ममैव हि
॥५४॥तदा सुरैः कथितं सर्वमेतद्वाण्या चोक्तं यत्पुरा कार्यहेतोः ॥
श्रुतं तदा गिरिणा वाक्यमेत xxxxxxx हिमवान्पर्वतो हि
॥५५॥शिवस्य पुत्रेण च धीमता यदा वध्यो दैत्यस्तारको वै महात्मा ॥
तदा सर्वं सुरगकार्यं शुभंस्याद्वाण्या चोक्तं सत्यमेतद्भवेच्च
॥५६॥तस्मात्तदेनत्क्रियतां भवद्भिर्यथा महेशः कुरुते परिग्रहम् ॥
कन्या यथा तस्य शिवस्य योग्या निरीक्ष्यतामाशु सुरैरिदानीम्
॥५७॥तस्य तद्वचनं श्रुत्वा प्रहस्योचुः सुरास्तदा ॥
जनितव्या त्वया कन्या शिवार्थं कार्यसिद्धये
॥५८॥सुराणां च गिरे वाक्यं कुरु शीघ्रं महामते ॥
आधारस्त्वं तु देवानां भविष्यसि न संशयः
॥५९॥इत्युक्तो गिरिराजोऽथ देवैः स्वगृहमामाविशत् ॥
पत्नीं मेनां च पप्रच्छ सुकार्यं समागतम्
॥६०॥जनितव्या सुकन्यैका सुरकार्यार्थसिद्धये ॥
देवानां च ऋषीणां च तथैव च तपस्विनाम्
॥६१॥प्रियं न भवति स्त्रीणां कन्याजननसेव च ॥
तथापि जनितव्या च कन्यैका च वरानने
॥६२॥प्रहस्य मेना प्रोवाच स्वपतिं च हिमालयम् ॥
यदुक्तं भवता वाक्यं श्रूयतां मे त्वयाऽधुना
॥६३॥कन्या सदा दुःखकरी नृणां पते स्त्रीणां तथा शोककरी महामते ॥
तस्माद्विमृश्य सुचिरं स्वयमेव बुद्ध्या यथा हितं शैलपते तदुच्यताम्
॥६४॥हिमवांस्तदुपश्रुत्या प्रियाया वचनं तदा ॥
उवाच वाक्यं मेधावी परोपकरणान्वितम्
॥६५॥येनयेन प्रकारेण परेषामुपजीवनम् ॥
भविष्यति च तत्कार्यं धीमता पुरुषेण हि
॥६६॥स्त्रियापि चैव तत्कार्यं परोपकरणान्वितम् ॥
एवं प्रवर्तिता तेन गिरिणा महिषी तदा ॥
दधार जठरे कन्यां मेना भाग्यवती तदा
॥६७॥महाविद्या महामाया महामेधास्वरूपिणी ॥
रुद्रकाली च अंबा च सती दाक्षायणी परा
॥६८॥तां विभूतिं विशालाक्षी जठरे परमां सती ॥
बभार सा महाभागा मेना चारुविलोचना
॥६९॥स्तुतिं चक्रुस्तदा देवा ऋषयो यक्षकिन्नराः ॥
मेनाया भूरिभाग्यायास्तथा हिमवतो गिरेः
॥७०॥एतस्मिन्नंतरे जाता गिरिजा नाम नामतः ॥
प्रादुर्भूता यदा देवी सर्वेषां च सुखप्रदा
॥७१॥देवदुंदुभयो नेदुर्ननृतुश्चाप्सरोगणाः ॥
जगुर्गंधर्वपतयो ननृतुश्चाप्सरोगणाः
॥७२॥पुष्पवर्षेण महता ववृषुर्विबुधास्तथा ॥
तदा प्रसन्नमभवत्सर्वं त्रैलोक्यमेव च
॥७३॥यदावतीर्णा गिरिजा महासती तदैव दैत्या भयमाविशंस्ते ॥
प्राप्ता मुदं देवगणा महर्षयः सचारणाः सिद्धगणास्तथैव
॥७४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखण्डे श्रीभवान्युत्पत्तिवर्णनंनाम विंशोऽध्यायः ॥ २० ॥