स्वदेहविसर्जनम्
लोमश उवाच
ततः शची तान्प्रोवाच वाचं धर्मार्थसंयुताम् ॥
मा चिंता क्रियतां देवा बृहस्पतिपुरोगमः
॥१॥गच्छत त्वरिताः सर्वे शक्रं द्रष्टुं विचक्षणाः ॥
ब्रह्महत्याभिभूतोऽसौ यत्रास्ते सुरसत्तमः
॥२॥बहूनां कारणेनैव विश्वरूपे हि मंदधीः ॥
हतस्तेन महेंद्रेण सर्वैः सोऽपि निराकृतः
॥३॥तस्मात्सर्वैर्भवद्भिश्च गंतव्यं यत्र स प्रभुः ॥
अवज्ञा हि कृता पूर्वं महेंद्रेण तवानघ
॥४॥अवज्ञामात्रक्षुबंधेन त्वया शप्तः पुरंदरः ॥
तथैव शापितश्चासि मया त्वं हि बृहस्पते
॥५॥निरस्तोऽपि हि तस्मात्त्वमवसानपरो भव
॥६॥यथा मदर्थमानीतौ शक्रे जीवति तावुभौ ॥
त्वयि जीवति भो ब्रहमन्कार्यं तव करिष्यति
॥७॥कोऽपि सौभाग्यवाँल्लोके तव क्षेत्रे जनिष्यति ॥
पुत्रं विख्यातनामानमत्रनैवास्ति संशयः
॥८॥गच्छ शीघ्रं सुरैःसार्द्धं शक्रमानय म चिरम् ॥
प्रयासि त्वरितो नो चेत्पुनः शापं ददामि ते
॥९॥शच्योक्तं वचनं श्रुत्वा सुरैः सार्द्धं जगाम सः ॥
पुरंदरं गताः सर्वे ब्रह्महत्याभिपीडितम्
॥१०॥सरसस्तीरमासाद्य ते शक्रं चाभ्यवादयन् ॥
दृष्टाः शक्रेम ते सर्वे तदा ह्यप्सु स्थितेन वै
॥११॥उवाच देवानेदेवेशः कस्माद्यूयमिहागताः ॥
अहं हि पातकग्रस्तो ब्रह्महत्यापरिप्सुतः ॥
अप्सु तिष्ठामि भो देवा एकाकी तपसान्वितः
॥१२॥तच्छ्रुत्वा वचनं तस्य सर्वे देवाः शतक्रतोः ॥
ऊचुर्विह्वलिता एनं देवराजानमद्भुतम्
॥१३॥एतादृशं न वाच्यं ते परेषामुपकारतः ॥
कृतं त्वयैव यत्कर्म विश्वरूपवधादिकम्
॥१४॥विश्वकर्मसुतेनैव कृतं याजनमद्भुतम् ॥
येन देवाः क्षयं यांति ऋषयोऽपि महाप्रभाः
॥१५॥तस्माद्वतस्त्वया देव परेषामुपकारतः ॥
ततः सर्वे वयं प्राप्तास्त्वां नेतुममरावतीम्
॥१६॥एवं विवदमानेषु देवेषु च तदाऽब्रवीत् ॥
ब्रह्महत्या त्वरायुक्ता देवेंद्रं वरयाम्यहम्
॥१७॥तदा बृहस्पतिर्वाक्यमुवाच सहसैव तु
॥१८॥बृहस्पतिरुवाच
वासार्थं च करिष्यामः स्थानानि तव सांप्रतम् ॥
प्रसांत्विता तदा हत्या देवैस्तत्कार्यगौरवात्
॥१९॥विमृश्य सर्वे विभजुश्चतुर्द्धा हत्यां सुरास्ते ऋषयो मनीषिणः ॥
यक्षाः पिशाचा उरगाः पतंगास्तथा च सर्वे सुरसिद्धचारणाः
॥२०॥आदौ क्षमां प्रति तदा ऊचुः सर्वे दिवौकसः ॥
हे क्षमेंऽशस्त्वया ग्राह्यो हत्यायाः कार्यसिद्धये
॥२१॥सुराणां तद्वचः श्रुत्वा धरित्री कंपिताऽवदत् ॥
कथं ग्राह्ये मया ह्यंशो हत्यायास्तद्विमृश्यताम्
॥२२॥अहं हि सर्वभूतानां धात्री विश्वं धराम्यहम् ॥
अपवित्रा भविष्यामि एनसा संवृता भृशम्
॥२३॥पृथ्वयास्तद्वचनं श्रुत्वा बृहस्पतिरुवाच ताम् ॥
मा भौषीश्चारुसर्वांगि निष्पापासि न चान्यथा
॥२४॥यदा यदुकुले श्रीमान्वासुदेवो भविष्यति ॥
तदा तत्पदविन्यासान्नष्पापा त्वं भविष्यसि
॥२५॥कुरु वाक्यं त्वमस्माकं नात्र कार्या विचारणा
॥२६॥इत्युक्ता पृथिवी तेषां निष्पापा साकरोद्वचः ॥
ततो वृक्षान्समाहूय सर्वे देवाऽब्रुवन्वचः
॥२७॥हत्यांशो हि ग्रहीतव्यो भवद्भिः कार्यसिद्धये ॥
एवमुक्ताऽब्रुवन्वबृक्षा देवान्सर्वे समागताः
॥२८॥वयं सर्वे तथा भूतास्तापसानां फलप्रदाः ॥
तदा हत्यान्विताः सर्वे भविष्यंति तपस्विनः
॥२९॥पापिनो हि महाभागास्तस्मात्सर्वं विमृश्यताम् ॥
तदा पुरोधसा चोक्ताः सर्वे वृक्षाः समागताः
॥३०॥मा चिंता क्रियतां सर्वैः प्रसादाच्च शतक्रतोः ॥
छेदिताश्चैव सर्वे वै ह्यनेकांशत्वमागताः
॥३१॥ततो विटपिनो नित्यं यूयं सर्वे भविष्यथ ॥
इत्युक्तास्ते तदा सर्वेगृह्णन्हत्यां विभागशः
॥३२॥ततो ह्यपः समाहूय ऊचुः सर्वे दिवौकसः ॥
अद्भिश्च गृह्यतामद्य हत्यांशः कार्यसिद्धये
॥३३॥तदा ह्यापो मिलित्वाथ ऊचुः सर्वाः पुरोधसम् ॥
यानि कानि च पापानि तथा दुश्चरितानि च
॥३४॥अस्मत्संपर्कसंबंधात्स्नानशौचाशनादिभिः ॥
पुनंति प्राणिनः सर्वे पापेन परिवेष्टिताः
॥३५॥तासां वचनमाकर्ण्य बृहस्पतिरुवाच ह ॥
मा भयं क्रियतामाप एनसा दुस्तरेण हि
॥३६॥आपः पुनंतु सर्वेषां चराचरनिवासिनाम् ॥
तदा स्त्रियः समाहूय बृहस्पतिरुवाच ह
॥३७॥अद्यैव ग्राह्ये हत्यांशः सर्वकार्यार्थसिद्धये ॥
निशम्य तद्गुरोर्वाक्यमूचुः सर्वाश्चयोपितः
॥३८॥पापमाचरते योषा तेन पापेन नान्यथा ॥
लिप्यंते बहवः पक्षा इति वेदानुशासनम्
॥३९॥श्रुतमस्ति न ते किंचिद्धेपुरोधो विमृश्यताम् ॥
योषिद्भिः प्रोच्यमानोऽपि उवाचाथ बृहस्पतिः
॥४०॥मा भयं क्रियतां सर्वाः पापादस्मात्सुलोचनाः ॥
भविष्याणां तथान्येषां भविष्यति फलप्रदः ॥
हत्यांशो यो हि सर्वासां यथाकामित्वमेव च
॥४१॥एवमंशाश्च त्यायाश्चत्वारः कल्पिताः सुरैः ॥
निवासमकरोत्सद्यस्तेषुतेषु द्विजोत्तमाः
॥४२॥निष्पापो हि तदा जातो महेंद्रो ह्यभिषेचितः ॥
देवपुर्यां सुरगणैस्तथैव ऋषभिः सह
॥४३॥शच्या समेतो हि तदा पुरंदरो बभूव विश्वाधिपतिर्महात्मा ॥
देवैः समेतो हि महानुभावैर्मुनीश्वरैः सिद्धगणैस्तदानीम्
॥४४॥तदाग्नयः शोभना वायवश्च सर्वे ग्रहाः सुप्रभाः शांतियुक्ताः ॥
जाताः सद्यः पृथिवी शोभमाना तथाद्रयो मणिप्रभवा बभूवुः
॥४५॥प्रसन्नानि तथा ह्यासन्मनांसि च मनस्विनाम्
॥४६॥नद्यश्चामृतवाहिन्यो वृक्षा ह्यासन्सदाफलाः ॥
अकृष्टपच्यौषधयो बभूवुश्चमृतोपमाः
॥४७॥ऐकपद्येन सर्वेषामिंद्रलोकनिवासिनाम् ॥
बभूव परमोत्साहो महामोदकरस्तथा
॥४८॥लोमश उवाच
एतस्मिन्नंतरे त्वष्टा दृष्ट्वा चेंद्रमहोत्सवम् ॥
बभूव रुषि तोऽतीव पुत्रशोकप्रपीडितः
॥४९॥जगाम निर्वेदपरस्तपस्तप्तुं सुदारुणम् ॥
तपसा तेन संतुष्टो ब्रह्मा लोकपितामहः
॥५०॥त्वष्टारमब्रवीत्तुष्टो वरं वरय सुव्रत ॥
तदा वव्रे वरं त्वष्टा सर्वलोकभयावहम् ॥
वरं पुत्रो हि दात्वोय देवानां हि भयावहः
॥५१॥तथेति च वरो दत्तो ब्रह्मणा परमेष्ठिना ॥
वरदानात्सद्य एव बभूव पुरुषस्तदा
॥५२॥वृत्रनामांकितस्तत्र दैत्यो हि परमाद्भुतः ॥
धनुषां शतमात्रं हि प्रत्यहं ववृधेऽसुरः
॥५३॥पातालान्निर्गता दैत्या ये पुराऽमृतमंथने ॥
घातिताः सुरसंघैश्च भृगुणा जीवितास्त्वरात्
॥५४॥सर्वं महीतलं व्याप्तं तेनैकेन महात्मना
॥५५॥तदा सर्वेऽपि ऋषयो वध्यमानास्तपस्विनः ॥
ब्रह्माणं त्वरिताः सर्वे ऊचुर्व्यसनमागतम्
॥५६॥तथा चेंद्रादयो देवा गंधर्वाः समरुद्गणाः ॥
ब्रह्मणा कथितं सर्वं त्वष्टुश्चैतच्चिकीर्षितम्
॥५७॥भवद्वधार्थं जनितस्तपसा परमेण तु ॥
वृत्त्रोनाम महातेजाः सर्वदैत्यापिधो महान्
॥५८॥तथापि यत्नः क्रियतां यथा वध्यो भवेदसौ ॥
निशम्य ब्रह्मणो वाक्यमूचुर्द्देवाः सवासवाः
॥५९॥देवा ऊचुः
यदा इंद्रो हि हत्याया विमुक्तः स्थापितो दिवि ॥
तदास्माभिरकार्यं वै कृतमस्ति दुरासदम्
॥६०॥शस्त्राण्यस्त्राण्यनेकानि संक्षिप्तानि ह्यबुद्धितः ॥
दधीच स्याश्रमे ब्रह्मन्किं कार्यं करवामहे
॥६१॥तच्छ्रुत्वा प्रहसन्वाक्यं देवान्ब्रह्मा तदाऽब्रवीत् ॥
चिरं स्थितानि विज्ञायागच्छध्वं तानि वै सुराः
॥६२॥गत्वा देवास्तदा सर्वे नापश्यन्स्वं स्वमायुधम् ॥
पप्रच्छुश्च दधीचिं ते सोऽवादीन्नैव वेद्भयहम्
॥६३॥पुनर्ब्रह्माणमागात्य ऊचुः सर्वे मुनेर्वचः
॥६४॥ब्रह्मोवाच तदा देवान्सर्वेषां कार्यसिद्धये ॥
तस्यास्थीन्येव याचध्वं प्रदास्यति न संशयः
॥६५॥तच्छ्रुत्वा ब्राह्मणो वाक्यं शक्रो वचनमब्रवीत्
॥६६॥विश्वरूपो हतो देव देवानां कार्यसिद्धये ॥
एक एव तदा ब्रह्मन्पापिष्ठोऽहं कृतः सुरैः
॥६७॥तथा पुरोधसा चैव निःश्रीकस्तत्क्षणात्कृतः ॥
दिष्ट्या परमया चाहं प्रविष्टो निजमंदिरम्
॥६८॥दधीचं घातयित्वा वै तस्यास्थीनि बहून्यपि ॥
अस्त्राणि तानि भगवन्कृतानि ह्यशुभानि वै
॥६९॥त्वष्ट्रा हि जनितो यो वै वृत्रो नामैष दैत्यराट् ॥
कथं तं घातयाम्येवं सततं पापभीरुणा ॥
शक्रेणोक्तं निशम्याथ ब्रह्मा वाक्यमुवाच ह
॥७०॥अर्थशास्त्रपरेणैव विधिना तमबोधयत् ॥
आततायिनमायांतं ब्राह्मणं वा तपस्विनम् ॥
हंतुकामं जिघांसीयान्न तेन ब्रह्महा भवेत्
॥७१॥इन्द्र उवाच
दधीचस्य वधाद्ब्रह्मन्नहं भीतो न संशयः ॥
तस्माद्ब्रह्मवधात्सत्यं महदेनो भविष्यति
॥७२॥अतो न कार्यमस्माभिर्ब्राह्मणानां तु हेलनम् ॥
हेलनाद्बहवो दोषा भविष्यंति न चान्यथा
॥७३॥अदृष्टं परमं धर्म्यं विधिना परमेण हि ॥
कर्तव्यं मनसा चैवं पुरुषेण विजानता
॥७४॥निःस्पृहं तस्य तद्वाक्यं श्रुत्वा ब्रह्मा ह्युवाच तम् ॥
शक्रस्वबुद्ध्यावर्तस्व दधीचिं गच्छ सत्वरम्
॥७५॥याचस्व तस्य चास्थीनि दधीचेः कार्यगौरवात् ॥
गुरुणा सहितः शक्रो देवैः सह समन्वितः
॥७६॥तथेति गत्वा ते सर्वे दधीचस्याश्रमं शुभम् ॥
नानासत्त्वसमायुक्तं वैरबावविवर्जितम्
॥७७॥मार्जारमूषकाश्चैव परस्परमुदान्विताः ॥
ऐकपद्येन सिंहाश्च गजिन्यः कलभैः सह
॥७८॥तथा जात्यश्च विविधाः क्रीडायुक्ताः परस्परम् ॥
नकुलैः सह सर्पाश्च क्रीडायुक्ताः परस्परम्
॥७९॥एवंविधान्यनेकानि ह्यश्चर्याणि तदाश्रमे ॥
पश्यंतो विबुधाः सर्वे विस्मयं परमं ययुः
॥८०॥अथासने मुनिश्रेष्ठं ददृशुः परमास्थितम् ॥
तेजसा परमेणैव भ्राजमानं यथा रविम्
॥८१॥विभावसुं द्वितीयं वा सुवर्चसहितं तदा ॥
यथा ब्रह्मा हि सावित्र्या तथासौ मुनिसत्तमः
॥८२॥तं प्रणम्य ततो देवा वचनं चेदमब्रुवन् ॥
त्वं दाता त्रिषु लोकेषु त्वत्सकाशमिहगताः
॥८३॥निशम्य वचनं तेषां देवानां भुनिरब्रवीत् ॥
किमर्थ मागताः सर्वे वदध्वं तत्सुरोत्तमाः
॥८४॥प्रयच्छामि न संदेहो नान्यथा मम भाषितम् ॥
तदोचुः सहिताः सर्वे दधीचिं स्वार्थकामुकाः
॥८५॥भयभीता वयं विप्र भवद्दर्शनकांक्षिणः ॥
त्रातारं त्वां समाकर्ण्य ब्रह्मणा नोदिता वयम्
॥८६॥सम्प्राप्ता विद्धि तत्सर्वं दातुमर्होऽथ सुव्रत
॥८७॥निशम्य वचनं तेषां किं दातव्यं तदुच्यताम्
॥८८॥ततो देवाब्रुवन्विप्र दैत्यानां निधनायनः ॥
शस्त्रनिर्माणकार्यार्थं तवास्थीनि प्रयच्छ वै
॥८९॥प्रहस्योवाच विप्रर्षिस्तिष्ठध्वं क्षणमेव हि ॥
स्वयमेव त्वहं देवास्त्यक्ष्याम्यद्य कलेवरम्
॥९०॥इत्युक्त्वा तानथो पत्नीं समाहूय सुवर्चसम् ॥
प्रोवाच स महातेजाः श्रृणु देवी शुचिस्मिते
॥९१॥अस्थ्यर्थं याचितो देवैस्त्यजाम्येतत्कलेवरम् ॥
ब्रह्मलोकं व्रजाम्यद्य परमेण समाधिना
॥९२॥मयि याते ब्रह्मलोकं त्वं स्वधर्मेण तत्र माम् ॥
प्राप्स्यस्येव न संदेहो वृथा चिन्तां च मा कृथाः
॥९३॥इत्युक्त्वा तां स्वपत्नीं स प्रेषयामास चाश्रमम् ॥
ततो देवाग्रतो विप्रः समाधिमगमत्तदा
॥९४॥समाधिना परेणैव विसृज्य स्वं कलेवरम् ॥
ब्रह्मलोकं गतः सद्यः पुनर्नावर्तते यतः
॥९५॥दधीचिनामा मुनिवृंदवर्यः शिवप्रियः शिवदीक्षाभियुक्तः ॥
परोपकारार्थमिदं कलेवरं शीघ्रं स विप्रोऽत्यजदात्मना तदा
॥९६॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखण्डे देवैरस्थिकृताऽभ्यर्थितस्य दधीचेर्योगेन स्वदेहविसर्जननाम षोडशोऽध्यायः ॥ १६ ॥