मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — केदारखण्डः, अध्याय १४

3
माहेश्वरखण्डः · केदारखण्डः · 14

मृतदैत्यसंजीवनवर्णनम्

लोमश उवाच

ततो युद्धमतीवासीदसुरैर्विष्णुना सह ॥

ततः सिंहाः सपक्षास्ते दंशिताः परमाद्भुताः

॥१॥

असुरैरुह्यमानास्ते रहुत्मंतं व्यदारयन् ॥

सिंहास्ते दारितास्तेन खंडशश्च विदारिताः

॥२॥

विष्णुना च तदा दैत्याश्चक्रेण शकलीकृताः ॥

हतांस्तानसुरान्दृष्ट्वा कालनेमिः प्रतापवान्

॥३॥

त्रिशूलेनाहनद्विष्णुं रोषपर्याकुलेक्षणः ॥

तमायांतं च जगृहे मुकुंदोऽनाथसंश्रयः

॥४॥

करेण वामेन जघान लीलया तं कालनेमिं ह्यसुरं महाबलम् ॥

तेनैव शूलेन समाहतोऽसौ मूर्च्छान्वितोऽसौ सहसा पपात

॥५॥

पतितः पुनरुत्थाय शनैरुन्मील्य लोचने ॥

पुरतः स्थितमालोक्य विष्णुं सर्वगुहाशयम्

॥६॥

लब्धसंज्ञोऽब्रवीद्वाक्यं कालनेमिर्महाबलः ॥

तव युद्धं न दास्यामि नास्ति लोके स्पृहा मम

॥७॥

ये येऽसुरा हता युद्धे अक्षयं लोकमाप्नुयुः ॥

ब्रह्मणो वचनात्सद्य इंद्रेण सह संगताः

॥८॥

भुंजतो विविधान्भोगान्देववद्विचरंति ते ॥

इंद्रेण सहिताः सर्वे संसारे च पतंत्यथ

॥९॥

तस्माद्युद्धेन मरणं न कांक्षे क्षणभंगुरम् ॥

अन्यजन्मनि मे वीर वैरभावान्न संशयः ॥

दातुमर्हसि मे नाथ कैवल्यं केवलं परम्

॥१०॥

तथेति दैत्यप्रवरो निपातितः परेण पुंसा परमार्थदेन ॥

दत्त्वाऽभयं देवतानां तदानीं तथा सुधां देवताभ्यः प्रदत्त्वा

॥११॥

कालनेमिर्हतो दैत्यो देवा जाता ह्यकटकाः ॥

शल्यरूपो महान्सद्यो विष्णुना प्रभविष्णुना

॥१२॥

तिरोधानं गतः सद्यो भगवान्कमलेक्षणः ॥

इंद्रोऽपि कदनं कृत्वा दैत्यानां परमाद्भुतम्

॥१३॥

पतितानां क्लीबरूपाणां भग्नानां भीतचेतसाम् ॥

मुक्तकच्छशिखानां च चक्रे स कदनक्रियाम्

॥१४॥

अर्थशास्त्रपरो भूत्वा महेंद्रो दुरातिक्रमः ॥

दैत्यानां कालरूपोऽसौ शचीपतिरुदारधीः

॥१५॥

एवं निहन्य्मानानामसुराणां शचीपतेः ॥

निवारणार्थं भगवानागतो नारदस्तदा

॥१६॥

नारद उवाच

युद्धहताश्च ये वीरा ह्यसुरा रणमण्डले ॥

तेषामनु कथं कर्ता भीतानां च विहिंसनम्

॥१७॥

ये भीतांश्च प्रपन्नांश्चघातयंति मदोद्धताः ॥

ब्रह्मघ्नास्तेऽपि विज्ञेया महापातकसंयुताः

॥१८॥

तस्मात्त्वया न कर्त्तव्यं मनसापि विहिंसनम् ॥

एवमुक्तस्तदा शक्रो नारदेन महात्मना

॥१९॥

सुरसेनान्वितः सद्य आगतो हि त्रिविष्टपम् ॥

तदा सर्वे सुरगणाः सुहृद्भ्यश्च परस्परम् ॥

बभूवुर्मुदिताः सर्वे यक्षगंधर्वकिंनराः

॥२०॥

तदा इंद्रोऽमरावत्यां हस शच्याऽभिषेचितः

॥२१॥

देवर्षिप्रमुखैश्चैव ब्रह्मर्षिप्रमुखैस्तथा ॥

शक्रोऽपि विजयं प्राप्तः प्रसादाच्छंकरस्य च

॥२२॥

तदा महोत्सवो विप्रा देवलोके महानभूत् ॥

शंखाश्च पटहाश्चैव मृदंगा मुरजा अपि ॥

तथानकाश्च भेर्यश्च नेदुर्दुंदुभयः समम्

॥२३॥

गायकाश्चैव गंधर्वाः किन्नराश्चाप्सपोगणाः ॥

ननृतुर्जगुस्तुष्टुवुश्च सिद्धचारणगुह्यकाः

॥२४॥

एवं विजयमापन्नः शक्रो देवेस्वरस्तदा ॥

देवैर्हतास्तदा दैत्याः पतितास्ते महीतले

॥२५॥

गतासवो महात्मानो बलिप्रमुखतो ह्यमी ॥

तपस्तप्तुं पुरा विप्रो भार्गवो मानसोत्तरम्

॥२६॥

गतः शिष्यैः परिवृतस्तस्माद्युद्धं न वेद तत् ॥

अवशेषाश्च ये दैत्यास्ते गता भार्गवं प्रति

॥२७॥

कथितं वै महद्धृत्तमसुराणां क्षयावहम् ॥

निशम्य मन्युमाविष्टो ह्यागतो भृगुनंदनः

॥२८॥

शिष्यैः परिवृतो भूत्वा मृतांस्तानसुरानपि ॥

विद्यया मृतजीविन्या पतितान्समजीवयत्

॥२९॥

निद्रापायगता यद्वदुत्थितास्ते तदाऽसुराः ॥

उत्थितः स बलिः प्राह भार्गवं ह्यमितद्युतिम्

॥३०॥

जीवितेन किमद्यैव मम नास्ति प्रयोजनम् ॥

पातितस्त्रिदशेंद्रेण यथा कापुरुषस्तथा

॥३१॥

बलिनोक्तं वचः श्रुत्वा शुक्रो वचनमब्रवीत् ॥

मनस्विनो हि ये शूराः पतंति समरे बुधा

॥३२॥

ये शस्त्रेण हताः सद्यो म्रियमाणा व्रजंति वै ॥

त्रिविष्टपं न संदेह इति वेदानुशासनम्

॥३३॥

एवमाश्वासयामास बलिनं भृगुनंदनः ॥

तपस्तताप विविधं दैत्यानां सिद्धिदायकम्

॥३४॥

तथा दैत्य गताः सर्वे भृगुणा च प्रचोदिताः ॥

पातालमवसन्सर्वे बलिमुख्याः सुखेन वै

॥३५॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे देवासुरसंग्रामे भार्गवेण मृतदैत्यसंजीवनवर्णनंनाम चतुर्दशोऽध्यायः ॥ १४ ॥