मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — केदारखण्डः, अध्याय ९

3
माहेश्वरखण्डः · केदारखण्डः · 9

एकदा तु सभामध्य आस्थितो देवराट् स्वयम्

लोमश उवाच

एकदा तु सभामध्य आस्थितो देवराट् स्वयम् ॥

लोकपालैः परिवृतो देवैश्च ऋषिभिस्तथा

॥१॥

अप्सरोगणसंवीतो गंधर्वैश्च पुरस्कृतः ॥

उपगीयमानविजयः सिद्धविद्याधरैरपि

॥२॥

तदा शिष्यैः परिवृतो देवराजगुरुः सुधीः ॥

आगतोऽसौ महाभागो बृहस्पति रुदारधीः

॥३॥

तं दृष्ट्वा सहसा देवाः प्रणेमुः समुपस्थिताः ॥

इंद्रोपि ददृशे तत्र प्राप्तं वाचस्पतिं तदा

॥४॥

नोवाच किंचिद्दुर्मेधावचो मानुपुरःसरम् ॥

नाह्वानं नासनं तस्य न विसर्जनमेव च

॥५॥

शक्रं प्रमत्तं ज्ञात्वाथ मदाद्राज्यस्य दुर्मतिम् ॥

तिरोधानमनुप्राप्तो बृहस्पती रुषान्वितः

॥६॥

गते देवगुरौ तस्मिन्विमनस्काऽभवन्सुराः ॥

यक्षा नागाः सगंधर्वा ऋषयोऽपि तथा द्विजाः

॥७॥

गांधर्वस्या वसाने तु लब्धसंज्ञो हरिः सुरान् ॥

पप्रच्छ त्वरितेनवै क्व गतो हि महातपाः

॥८॥

तदैव नारदेनोक्तः शक्रो देवाधिपस्तथा ॥

त्वया कृता ह्यवज्ञा च गुरोर्नस्त्यत्र संशयः

॥९॥

गुरोरवज्ञया राज्यं गतं ते बलसूदन ॥

तस्मात्क्षमापनीयोऽसौ सर्वभावेन हि त्वया

॥१०॥

एतच्छ्रुत्वा वचस्तस्य नारदस्य महात्मनः ॥

आसनात्सहसोत्थाय तैः सर्वैः परिवारितः ॥

आगच्छत्त्वरया शक्रो गुरोर्गेहमतंद्रितः

॥११॥

पृष्ट्वा तारां प्रणम्यादौ क्व गतो हि महातपाः ॥

न जानामीत्युवाचेदं तारा शक्रं निरीक्षती

॥१२॥

तदा चिंतान्वितो भूत्वा शक्रः स्वगृहमाव्रजत् ॥

एतस्मिन्नंतरे स्वर्गे ह्यनिष्टान्द्भुतानि च

॥१३॥

अभवन्सर्वदुःखार्थे शक्रस्य च महात्मनः ॥

पातालस्थेन बलिना ज्ञातं शक्रस्य चेष्टितम्

॥१४॥

ययौ दैत्यैः परिवृतः पातालादमरावतीम् ॥

तदा युद्धमतीवासीद्देवानां दानवैः सह

॥१५॥

देवाः पराजिता दैत्यै राज्यं शक्रस्य तत्क्षणात् ॥

संप्राप्तं सकलं तस्य मूढस्य च दुरात्मनः

॥१६॥

नीतं सर्वप्रयत्नेन पातालं त्वरितं गताः ॥

शुक्रप्रसादात्ते सर्वे तथा विजयिनोऽभवन्

॥१७॥

शक्रोऽपि निःश्रिको जातो देवैस्त्यक्तस्ततो भृशम् ॥

देवी तिरोधानगता बभूव कमलेक्षणा

॥१८॥

ऐरावतो महानागस्तथैवोच्चैःश्रवा हयः ॥

एवमादीनि रत्नानि अनेकानि बहून्यपि ॥

नीतानि सहसा दैत्यैर्लोभादसाधुवृत्तिभिः

॥१९॥

पुण्यभांजि च तान्येव पतितानि च सागरे ॥

तदा स विस्मयाविष्टो बलिराह गुरुं प्रति

॥२०॥

देवान्निर्जित्य चास्माभिरानीतानि बहूनि च ॥

रत्नानि तु समुद्रेऽथ पतितानि तदद्भुतम्

॥२१॥

बलेस्तद्वचनं श्रुत्वा उशना प्रत्युवाच तम् ॥

अश्वमेधशतेनैव सुरराज्यं भविष्यति ॥

दीक्षितस्य न संदेहस्तस्माद्भोक्त स एव च

॥२२॥

अश्वमेधं विना किंचित्स्वर्गं भोक्तं न पार्यते

॥२३॥

गुरोर्वचनमाज्ञाय तूष्णींभूतो बलिस्ततः ॥

बभूव देवैः सार्द्धं च यथोचितमकारयत्

॥२४॥

इन्द्रोपि शोच्यतां प्राप्तो जगाम परमेष्ठिनम्. ॥

विज्ञापयामास तथा सर्वं राज्यभयादिकम्

॥२५॥

शक्रस्य वचनं श्रुत्वा परमेष्ठी उवाच ह

॥२६॥

संमिलित्वा सुरान्सर्वांस्त्वया साकं त्वरान्विताः ॥

आराधनार्थं गच्छामो विष्णुं सर्वेश्वरेश्वरम्

॥२७॥

तथेति गत्वा ते सर्वे शक्राद्या लोकपालकाः ॥

ब्रह्माणं च पुरस्कृत्य तटं क्षीरार्णवस्य च ॥

प्राप्योपविश्य ते सर्वे हरिं स्तोतुं प्रचक्रमुः

॥२८॥

ब्रह्मोवाच

देवदेव जगान्नाथ सुरासुरनमस्कृत ॥

पुण्यश्लोकाव्ययानंत परमात्मन्नमोऽस्तु ते

॥२९॥

यज्ञोऽसि यज्ञरूपोऽसि यज्ञांगोऽसि रमापते ॥

ततोऽद्य कृपया विष्णो देवानां वरदो भव

॥३०॥

गुरोरवज्ञया चाद्य भ्रष्टराज्यः शतक्रतुः ॥

जातः सुरर्षिभिः साकं तस्मादेनं समुद्धर

॥३१॥

श्रीभगवानुवाच

दुकोकलज्ञया सर्वं नस्यतीति किमद्भुतम् ॥

ये पापिनो ह्यधर्मिष्ठाः केवलं विषयात्मकाः ॥

पितरौ निंदितौ यैश्च निर्दैवात्वेन संशयः

॥३२॥

अनेन यत्कृतं ब्रह्मन्सद्यस्तत्फलमागतम् ॥

कर्मणा चास्य शक्रस्य सर्वेषां संकटागमः

॥३३॥

विपरीतो यदा कालः पुरुषस्य भवेत्तदा ॥

भूतमैत्रीं प्रकुर्वंति सर्वकार्यार्थसिद्धये

॥३४॥

तेन वै कारणेनेंद्र मदीयं वचनं कुरु ॥

कार्यहेतोस्त्वया कार्यो दैत्यैः सह समागमः

॥३५॥

एवं भगवतादिष्टः शक्रः परमबुद्धिमान् ॥

अमरावतीं ययौ हित्वा सुतलं दैवतैः सह

॥३६॥

इन्द्रं समागतं श्रुत्वा इंद्रसेनो रुषान्वितः ॥

बभूव सह सैन्येन हंतुकामः पुरंदरम्

॥३७॥

नारदेन तदा दैत्या बलिश्च बलिनां वरः ॥

निवारितस्तद्वधाच्च वाक्यैरुच्चावचैस्तथा

॥३८॥

ऋषेस्तस्यैव वचनात्त्यक्तमन्युर्बलिस्तदा ॥

बभूव सह सैन्येन आगतो हि शतक्रतुः

॥३९॥

इन्द्रसेनेन दृष्टोऽसौ लोकपालैः समावृतः ॥

उवाच त्वरया युक्तः प्रहसन्निव दैत्यराट्

॥४०॥

कस्मादिहागतः शक्र सुतलं प्रति कथ्यताम् ॥

तस्यैतद्वचनं श्रुत्वा स्मयमान उवाचतम्.

॥४१॥

वयं कश्यपदायादा यूयं सर्वे तथैव च ॥

यथा वयं तथा यूयं विग्रहो हि निरर्थकः

॥४२॥

मम राज्यं क्षणेनैव नीतं दैववशात्तवया ॥

तथा ह्येतानि तान्येन रत्नानि सुबहून्यपि ॥

गतानि तत्क्षणादेव यत्नानीतानि वै त्वया

॥४३॥

तस्माद्विमर्शः कर्तव्यः पुरुषेण विपश्चिता ॥

विमर्शज्जायते ज्ञानं ज्ञानान्मोक्षो भविष्यति

॥४४॥

किं तु मे बत उक्तेन जाने न च तवाग्रतः ॥

शरणार्थी ह्यहं प्राप्तः सुरैः सह तवांतिकम्

॥४५॥

एतच्छ्रुत्वा तु शक्रस्य वाक्यं वाक्यविदां वरः ॥

प्रहस्योवाच मतिमाञ्छक्रं प्रति विदां वरः

॥४६॥

त्वमागतोसि देवेंद्र किमर्थं तन्न वेद्मयहम्

॥४७॥

शक्रस्तद्वचनं श्रुत्वा ह्यश्रुपूर्णाकुलेक्षणः ॥

किंचिन्नोवाच तत्रैनं नारदो वाक्यमब्रवीत्

॥४८॥

बले त्वं किं न जानासि कार्याकार्यविचारणाम् ॥

धर्मो हि महतामेष शरणागतपालनम्

॥४९॥

शरणागतं च विप्रं च रोगिणं वृद्धमेव च ॥

यएतान्न च रक्षंति ते वै ब्रह्महणो नराः

॥५०॥

शरणागतशब्देन आगतस्तव सन्निधौ ॥

संरक्षणाय योग्यश्च त्वया नास्त्यत्र संशयः ॥

एवमुक्तो नारदेन तदा दैत्यपतिः स्वयम्

॥५१॥

विमृश्य परया बुद्ध्या कार्याकार्यविचारणाम् ॥

शक्रं प्रपूजयामास बहुमानपुरःसरम् ॥

लोकपालैः समेतं च तथा सुरगणैः सह

॥५२॥

प्रत्ययार्थं च सत्त्वानि ह्यनेकानि व्रतानि वै ॥

बलिप्रत्ययभूतानि स चकारः पुरंदरः

॥५३॥

एवं स समयं कृत्वा शक्रः स्वार्थपरायणः ॥

बलिना सह चावासीदर्थशास्त्रपरो महान्

॥५४॥

एवं निवसतस्तस्य सुतलेऽपि शतक्रतोः ॥

वत्सरा बहवो ह्यासंस्तदा बुद्धिमकल्पयत् ॥

संस्मृत्य वचनं विष्णोर्विमृश्य च पुनःपुनः

॥५५॥

एकदा तु सभामध्य आसीनो देवराट्‌स्वयम् ॥

उवाच प्रहसन्वाक्यं बलिमुद्दिश्य नीतिमान्

॥५६॥

प्राप्तव्यानि त्वया वीर अस्माकं च त्वया बले ॥

गजादीनि बहून्येव रत्नानि विविधानि च

॥५७॥

गतानि तत्क्षणादेव सागरे पतितानि वै ॥

प्रयत्नो हि प्रकर्तव्यो ह्यस्माभिस्त्वयान्वितैः

॥५८॥

तेषां चोद्धरणे दैत्य रत्नानामिह सागरात् ॥

तर्हि निर्मथनं कार्यं भवता कार्यसिद्धये

॥५९॥

बलिः प्रवर्तितस्तेन शक्रेण सुरसूदनः ॥

उवाच शक्रं त्वरितः केनेदं मथनं भवेत्

॥६०॥

तदा नभोगता वाणी मेघगंभीरनिःस्वना ॥

उवाच देवा दैत्याश्च मंथध्वं क्षीरसागरम्

॥६१॥

भवतां बलवृद्धिश्च भविष्यति न संशयः

॥६२॥

मंदरं चैव मंथानं रज्जुं कुरुत वासुकिम् ॥

पश्चाद्देवाश्च दैत्याश्च मेलयित्वा विमथ्यताम्

॥६३॥

नभोगतां च तां वाणीं निशम्याथ तदाःसुराः ॥

दैत्यैः सार्द्धं ततः सर्व उद्यमं चक्रुरुद्यताः

॥६४॥

पातालान्निर्गताः सर्वे तदा तेऽथ सुरासुराः ॥

आजग्मुरतुलं सर्वे मंदरं पर्वतोत्तमम्

॥६५॥

दैत्याश्च कोटिसंख्याकास्तथा देवा न संशयः ॥

उद्युक्ताः सहसा प्राऽयुर्मंदरं कनकप्रभम्

॥६६॥

सरत्नं वर्तुलाकारं स्थूलं चैव महाप्रभम् ॥

अनेकरत्नसंवीतं नानाद्रुमनिषेवितम्

॥६७॥

चंदनैः पारिजातैश्च नागपुन्नागचंपकैः ॥

नानामृगगणाकीर्णं सिंहशार्दूलसेवितम्

॥६८॥

महाशैलं दृष्ट्वा ते सुरसत्तमाः ॥

ऊचुः प्रांजलयः सर्वे तदा ते सुरसत्तमाः

॥६९॥

देवा ऊचुः

अद्रे सुरा वयं सर्वे विज्ञप्तुमिह चागताः ॥

तच्छृणुष्व महाशैल परेषामुपकारकः

॥७०॥

एवमुक्तस्तदा शैलो दवैर्दैत्यैः स मंदरः ॥

उवाच निःसृतो भूत्वा परं विग्रहवान्वचः

॥७१॥

तेन रूपेण रूपी स पर्वतो मंदराचलः ॥

किमर्थमागताः सर्वे मत्समीपं तदुच्यताम्

॥७२॥

तदा बलिरुवाचेदं प्रस्तावसदृशं वचः ॥

इंद्रोपि त्वरया युक्तो बभाषे सूनृतं वचः

॥७३॥

अस्माभिः सह कार्यार्थे भव त्वं मंदराचल ॥

अमृतोत्पादनार्थे त्वं मंथानं भव सुव्रत

॥७४॥

तथेति मत्वा तद्वाक्यं देवानां कार्यसिद्धये ॥

ऊचे देवासुरांश्चेदमिन्द्रं प्रति विशेषतः

॥७५॥

छेदितौ च त्वया पक्षौ वज्रेण शतपर्वणा ॥

गंतुं कथं समर्थोऽहं भवतां कार्यसिद्धये

॥७६॥

तदा देवासुराः सर्वे स्तूयमाना महाचलम् ॥

उत्पाटयेयुरतुलं मंदरं च ततोद्भुतम्

॥७७॥

क्षीरार्णवं नेतुकामा ह्यशक्तास्ते ततोऽभवन् ॥

पर्वतः पतितः सद्यो देवदैत्योपरि ध्रुवम्

॥७८॥

केचिद्भग्ना मृताः केचित्केचिन्मूर्छापरा भवन् ॥

परीवादरताः केचित्केचित्क्लेशत्वमागताः

॥७९॥

ेवं भग्नोद्यमा जाता असुराःसुरदानवाः ॥

चेतनां परमां प्राप्तास्तुष्टुवुर्जगदीश्वरम्

॥८०॥

रक्षरक्ष महाविष्णो शरणागतवत्सल ॥

त्वया ततमिदं सर्वं जंगमाजंगमं च यत्

॥८१॥

देवानां कार्यसिद्ध्यर्थं प्रादुर्भूतो हरिस्तदा ॥

तान्दृष्ट्वा सहसा विष्णुर्गरुडोपरि संस्थितः

॥८२॥

लीलया पर्वतश्रेष्ठमुत्तभ्यारोपयत्क्षणात् ॥

गरुत्मति तदा देवः सर्वेषामभयं ददौ

॥८३॥

तत उत्थाय तान्देवान्क्षीरोस्योत्तरं तटम् ॥

नीत्वा तं पर्वतं वृद्धं निक्षिप्याप्सु ततो ययौ

॥८४॥

तदा सर्वे सुरगणाः स्वागत्य असुरैः सह ॥

वासुकिं च समादाय चक्रिरे समयंच तम्

॥८५॥

मंथानं मंदरं चैव वासुकिं रज्जुमेव च ॥

कृत्वा सुराऽसुराः सर्वे ममंथुः श्रीरसागरम्

॥८६॥

क्षीराब्धेर्मथ्यमानस्य पर्वतो हि रसातलम् ॥

गतः स तत्क्षणादेव कूर्मो भूत्वा रमापतिः ॥

उद्धृतस्तत्क्षणादेव तदद्भुतमिवाभवत्

॥८७॥

भ्राम्यमाणस्ततः शैलो नोदितः सुरदानवैः ॥

भ्रममाणो निराधारो बोधश्चेव गुरुं विना

॥८८॥

परमात्मा तदा विष्णुराधारो मंदरस्य च ॥

दोर्भिश्चतुर्भिः संगृह्य ममंथाब्धिं सुखावहम्

॥८९॥

तदा सुरासुराः सर्वे ममंथुः क्षीरसागरम् ॥

एकीभूत्वा बलेनैवमतिमात्रं बलोत्कटाः

॥९०॥

पृष्ठकंठोरुजान्वंतः कमठस्य महात्मनः ॥

तथासौ पर्वतश्रेष्ठो वज्रसारमयो दृढः ॥

उभयोर्घर्षणादेव वडवाग्निः समुत्थितः

॥९१॥

हलाहलं च संजातं तदॄष्ट्वा नारदेन हि ॥

ततो देवानुवाचेदं देवर्षिरमितद्युतिः

॥९२॥

न कार्यं मथनं चाब्धेर्भवद्भिरधुनाऽखिलैः ॥

प्रार्थयध्वं शिवं देवाः सर्वे दक्षस्य याजनम् ॥

तद्विस्मृतिं च वोयातं वीरभद्रेण यत्कृतम्

॥९३॥

तस्माच्छिवः स्मर्यतां चाशु देवाः परः पराणामपि वा परश्च ॥

परात्परः परमानंदरूपो योगिध्येयो निष्प्रपंचो ह्यरूपः

॥९४॥

ते मथ्यमानास्त्वरिता देवाः स्वात्मार्थसाधकाः ॥

अभिलाषपराः सर्वे न श्रृण्वंति यतो जडाः

॥९५॥

उपदेशैश्च बहुभिर्नोपदेश्याः कदाचन ॥

ते रागद्वेषसंघाताः सर्वे शिवपराङ्‌मुखाः

॥९६॥

केवलोद्यमसंवीता ममंथुः क्षीरसागरम् ॥

अतिनिर्मथनाज्जातं क्षीराब्धेश्चहलाहलम्

॥९७॥

त्रैलोक्यदहने प्रौढं प्राप्तं हंतुं दिवौकसः ॥

अत ऊर्ध्वं दिशः सर्वा व्याप्तं कृत्स्नं नभस्तलम् ॥

ग्रसितुं सर्वभूतानां कालकूटं समभ्ययात्

॥९८॥

दृष्ट्वा बृहंतं स्वकरस्थमोजसा तं सर्पराजं सह पर्वतेन ॥

तत्रैव हित्वापययुस्तदानीं पलायमाना ह्यसुरैः समेताः

॥९९॥

तथैव सर्व ऋषयो भृग्वाद्याः शतशाम्यति ॥

दक्षस्य यजनं तेन यथा जातं तथाभवत्

॥१००॥

सत्यलोकं गताः सर्वे भुगुणा नोदिता भृशम् ॥

वेदवाक्यैश्च विविधैः कालकूटं शतशस्ततः ॥

देवा नास्त्यत्र संदेहः सत्यं सत्यं वदामि वः

॥१०१॥

भृगुणोक्तं वचः श्रुत्वा कालकूटविषार्द्दिताः ॥

सत्यलोकं समासाद्य ब्रह्माणं शरणं ययुः

॥१०२॥

तदा जाज्वल्यमानं वै कालकूटं प्रभोज्जवलम् ॥

दृष्ट्वा ब्रह्माथ तान्दृष्ट्वा ह्यकर्मज्ञानसुरासुरान् ॥

तेषां शपितुमारेभे नारदेन निवारितः

॥१०३॥

ब्रह्मोवाच

अकार्यं किं कृतं देवाः कस्मात्क्षोभोयमुद्यतः ॥

ईश्वरस्य च जातोऽद्य नान्यथा मम भाषितम्

॥१०४॥

ततो देवैः परिवृतो वेदोपनिषदैस्तथा ॥

नानागमैः परिवृतः कालकूटभयाद्ययौ

॥१०५॥

ततश्चिंतान्विता देवा इदमूचुः परस्परम् ॥

अविद्याकामसंवीताः कुर्यामः शंकरं च कम्

॥१०६॥

ब्रह्माणं च पुरस्कृत्य तदा देवास्त्वरान्विताः ॥

वैकुण्ठमाव्रजन्सर्वे कालकूट भयार्द्दिताः

॥१०७॥

ब्रह्मादयश्चर्षिगणाश्च तदा परेशं विष्णुं पुराणपुरुषं प्रभविष्णुमीशम् ॥

वैकुण्ठमाश्रितमधोक्षजमाधवं ते सर्वे सुरासुरगणाः शरणं प्रयाताः

॥१०८॥

तावत्प्रवृद्धं सुमहत्कालकूटं समभ्ययात् ॥

दग्ध्वादो ब्रह्मणो लोकं वैकुण्ठं च ददाह वै

॥१०९॥

कालकूटाग्निना दग्धो विष्णुः सर्वगुहाशयः ॥

पार्षदैः सहितः सद्यस्तमालसदृशच्छविः

॥११०॥

वैकुण्ठं च सुनीलं च सर्वलोकैः समावृतम् ॥

जलकल्मषसंवीताः सर्वे लोकास्तदाभवन्

॥१११॥

अष्टावरणसंवीतं ब्रह्मांडं ब्रह्मणा सह ॥

भस्मीभूतं चकाराशु जलकल्मषमद्भुतम्

॥११२॥

नोभूमिर्न जलं चाग्निर्न वायुर्न नभस्तदा ॥

नाहंकारो न च महान्मूलाविद्या तथैव च ॥

शिवस्य कोपात्संजातं तदा भस्माकुलं जगत्

॥११३॥

इति श्रीस्कांदे महापुराणं एकाशीतिसाहस्र्यां संहितायां प्रथममाहेश्वरखण्डान्तर्गते केदारखण्डे नवमोऽध्यायः ॥ ९ ॥