मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — केदारखण्डः, अध्याय २२

3
माहेश्वरखण्डः · केदारखण्डः · 22

एवमुक्तास्तदा देवा विष्णुना परमेष्ठिना

सूत उवाच

एवमुक्तास्तदा देवा विष्णुना परमेष्ठिना ॥

जग्मुः सर्वे महेशं च द्रष्टुकामाः पिनाकिनम्

॥१॥

परे पारे परमेण समाधिना ॥

योगपीठे स्धितं शंभुं गणैश्च परिवारितम्

॥२॥

यज्ञोपवीतविधिना उरसा बिभ्रतं वृतम् ॥

वासुकिं सर्पराजं च कंबलाश्वतरौ तथा

॥३॥

कर्णद्वये धारयंतं तथा कर्कोटकेन हि ॥

पुलहेन च बाहुभ्यां धारयंतं च कंकणे

॥४॥

सन्नूपुरे शङ्खकपद्मकाभ्यां संधारयंतं च विराजमानम् ॥

कर्पूरगौरं शितिकंठमद्भुतं वृषान्वितं देववरं ददर्शुः

॥५॥

तदा ब्रह्मा च विष्णुश्च ऋषयो देवदानवाः ॥

तुष्टुवुर्विविधैः सूक्तैर्वेदोपनिषदन्वितैः

॥६॥

ब्रह्मोवाच

नमो रुद्राय देवाय मदनांतकराय च ॥

भर्गाय भूरिभाग्याय त्रिनेत्राय त्रिविष्टपे

॥७॥

शिपिविष्टाय भीमाय शेषशायिन्नमोनमः ॥

त्र्यंबकाय जगद्धात्रे विश्वरूपाय वै नमः

॥८॥

त्वं धाता सर्वलोकानां पिता माता त्वमीश्वरः ॥

कृपया परया युक्तः पाह्यस्मांस्त्वं महेश्वर

॥९॥

इत्थं स्तुवत्सु देवेषु नन्दी प्रोवाच तान्प्रति ॥

किमर्थमागता यूयं किं वा मनसि वर्तते

॥१०॥

ते प्रोचुर्देवकार्यार्थं विज्ञप्तुं शंभुमागता ॥

विज्ञप्तो नंदिना तेन शैलादेन महात्मना ॥

ध्यानस्थितो महादेवः सुरकार्यार्थसिद्धये

॥११॥

ब्रह्मादयः सुरगणाः सुरसिद्धसंघास्त्वां द्रष्टुमेव सुरवर्य विशेषयंति ॥

कार्य्यार्थिनोऽसुरवरैः परिभर्त्स्यमाना अभ्यागताः सपदि शत्रुभिरर्दिताश्च

॥१२॥

तस्मात्त्वया हि देवेश त्रातव्याश्चाधुना सुराः ॥

एवं तेन तदा शंभुर्विज्ञप्तो नंदिना द्विजाः

॥१३॥

शनैःशनैरुपरमच्छंभुः परमकोपनः ॥

समाधेः परमात्माऽसावुवाच परमेश्वरः

॥१४॥

महादेव उवाच

कस्माद्यूयं महाभागा ह्यागता मत्समीपगाः ॥

ब्रह्मादयो ह्यमी देवा ब्रूत कारणमद्य वै

॥१५॥

तदा ब्रह्मा ह्युवाचेदं सुरकार्यं महत्तरम् ॥

तारकेण कृतं शंभो देवानां परमाद्भुतम्

॥१६॥

कष्टात्कष्टतरं देव तद्विज्ञप्तुमिहागताः ॥

हे शंभो तव पुत्रेण औरसेन हतो भवेत् ॥

तारको देवशत्रुश्च नान्यथा मम भाषितम्

॥१७॥

तस्मात्त्वया गिरिजा देव शंभो गृहीतव्या पाणिना दक्षिणेन ॥

पाणिग्रहेणैव महानुभाव दत्ता गिरीन्द्रेण च तां कुरुष्व

॥१८॥

ब्रह्मणो हि वचः श्रुत्वा प्रहसन्नब्रवीच्छिवः ॥

यदा मया कृता देवी गिरिजा सर्वसुन्दरी

॥१९॥

तदा सर्वे सुरेन्द्राश्च ऋषयो मुनयस्तथा ॥

सकामाश्च भविष्यंति अक्षमाश्च परे पथि

॥२०॥

मदनो हि मया दग्धः सर्वेषां कार्यसिद्धये ॥

मया ह्यधि कृता तन्वी गिरिजा च सुमध्यमा

॥२१॥

तदानीमेव भो देवाः पार्वती मदनं च सा ॥

जीवयिष्यति भो ब्रह्मन्नात्र कार्या विचारणा

॥२२॥

एवं विमृश्य भो देवाः कार्या कार्यविचारणा ॥

मदनेनैव दग्धेन सुरकार्यं महत्कृतम्

॥२३॥

यूयं सर्वे च निष्कामा मया नास्त्यत्र संशयः ॥

यथाहं च सुराः सर्वे तथा यूयं प्रयत्नतः

॥२४॥

तपः परमसंयुक्ताः पारयामः सुदुष्करम् ॥

परमानन्दसंयुक्ताः सुखिनः सर्व एव हि

॥२५॥

यूयं समाधिना तेन मदनेन च विस्मृतम् ॥

कामो हि नरकायैव तस्मात्क्रोधोऽभिजायते

॥२६॥

क्रोधाद्भवति संमोहः संमोहाद्भ्रमते मनः ॥

कामक्रोधौ परित्यज्य भवद्भिः सुरसत्तमैः ॥

सर्वैरेव च मंतव्यं मद्वाक्यं नान्यथा क्वचित्

॥२७॥

एवं विश्राव्य भगवान्स हि देवो वृषध्वजः ॥

सुरान्प्रबोधयामास तथा ऋषिगणान्मुनीन्

॥२८॥

तूष्णींभूतोऽभवच्छंभुर्ध्यानमाश्रित्य वै पुनः ॥

आस्ते पुरा यथावच्च गणैश्च परिवारितः

॥२९॥

ध्यानास्थितं च तं दृष्ट्वा नन्दौ सर्वान्विसृज्य तान् ॥

सब्रह्मसेन्द्रान्विबुधानुवाच प्रहसन्निव

॥३०॥

यतागतेन मार्गेण गच्छध्वं मा विलंबितम् ॥

तथेति मत्वा ते सर्वे स्वंस्वं स्थानमथाऽव्रजन्

॥३१॥

गतेषु तेषु सर्वेषु समाधिस्थोऽभवद्भवः ॥

आत्मानमात्मना कृत्वा आत्मन्येन विचंतयन्

॥३२॥

परात्परतरं स्वच्छं निर्मलं निरवग्रहम् ॥

निरञ्जनं निराभासं यस्मिन्मुह्यंति सूरयः

॥३३॥

भानुर्नभात्यग्निरथो शशी वा न ज्योतिरेवं न च मारुतो न हि ॥

यं केवलं वस्तुविचारतोऽपि सूक्ष्मात्परं सूक्ष्मतरात्परं च

॥३४॥

अनिर्द्देश्य मचिन्त्यं च निर्विकारं निरामयम् ॥

ज्ञप्तिमात्रस्वरूपं च न्यासिनो यांति तत्र वै

॥३५॥

शब्दातीनं निर्गुणं निर्विकारं सत्तामात्रं ज्ञानगम्यं त्वगम्यम् ॥

यत्तद्वस्तु सर्वदा कथ्यते वै वेदातीतैश्चागमैर्मन्त्रभूतैः

॥३६॥

तद्वस्तुभूतो भगवान्स ईश्वरः पिनाकपाणिर्भगवान्वृध्वजः ॥

येनैव साक्षान्मकरध्वजो हतस्तपो जुषाणः परमेश्वरः सः

॥३७॥

लोमश उवाच

गिरिजा हि तदा देवी तताप परमं तपः ॥

तपसा तेन रुद्रोऽपि उत्तमं भयमागतः

॥३८॥

विजित्य तपसा देवी पार्वती परमेण हि ॥

शम्भुं सर्वार्थदं स्थाणुं केवलं स्वस्वरूपिणम्

॥३९॥

यदा जितस्तया देव्या तपसा वृषभध्वजः ॥

समाधेश्चलितो भूत्वा यत्र सा पार्वती स्थिता

॥४०॥

जगाम त्वरितेनैव देवदेवः पिनाकधृक् ॥

तत्रापश्यत्स्थितां देवीं सखीभिः परिवारिताम्

॥४१॥

वेदिकोपरि विन्यस्तां यथैव शशिनः कलाम् ॥

स देवस्तां निरीक्ष्याथ बटुर्भूत्वाथ तत्क्षणात्

॥४२॥

ब्रह्मचारिस्वरूपेण महेशो भगवान्भवः ॥

सखीनां मध्यमाश्रित्य ह्युवाच बटुरूपवान् ॥

किमर्थमालिमध्यस्था तन्वी सर्वांगसुन्दरी

॥४३॥

केयं कस्य कुतो याता किमर्थं तप्यते तपः ॥

सर्वं मे कथ्यतां सख्यो याथातथ्येन संप्रति

॥४४॥

तदोवाच जया रुद्रं तपसः कारणं परम्

॥४५॥

हिमाद्रेर्दुहितेयं वै तपसा रुद्रमीश्वरम् ॥

प्राप्तुकामा पतित्वन सेयमत्रोपविश्य च

॥४६॥

तपस्तताप सुमहत्सर्वेषां दुरतिक्रमम् ॥

बटो जानीहि मे वाक्यं नान्यथा मम भाषितम्

॥४७॥

तच्छ्रुत्वा वचनं तस्याः प्रहस्येदमुवाच ह ॥

श्रृण्वतीनां सखीनां वै महेशो बटुरूपवान्

॥४८॥

मूढेयं पार्वती सख्यो न जानाति हिताहितम् ॥

किमर्थं च तपः कार्यं रुद्रप्राप्त्यर्थमेव च

॥४९॥

सोऽमंगलः कपाली च श्मशानालय एव च ॥

अशिवः शिवशब्देन भण्यते च वृथाथ वै

॥५०॥

अनया हि वृतो रुद्रो यदा सख्यः समेष्यति ॥

तदेयमशुभा तन्वी भविष्यति न संशयः

॥५१॥

यो दक्षशापाद्विकृतो यज्ञबाह्योऽभवद्विटा ॥

ये ह्यंगभूताः शर्वस्य सर्पा ह्यासन्महाविषाः

॥५२॥

शवभस्मान्वितो रुद्रः कृत्तिवासा ह्यमंगलः ॥

पिशाचैः प्रमथैर्भूतैरावृतो हि निरंतरम्

॥५३॥

तेन रुद्रेण किं कार्यमनया सुकुमारया ॥

निवार्यतां सखीभिश्च मर्तुकामा पिशाचवत्

॥५४॥

इंद्रं हित्वा मनोज्ञं च यमं चैव महाप्रभम् ॥

नैर्ऋतं च विशालाक्षं वरुणं च अपां पतिम्

॥५५॥

कुबेरं पवनं चैव तथैव च विभावसुम् ॥

एवमादीनि वाक्यानि उवाच परमेश्वरः ॥

सखीनां श्रृण्वतीनां च यत्र सा तपसि स्थिता

॥५६॥

इत्याकर्ण्य वचस्तस्य रुद्रस्य बटुरूपिणः ॥

चुकोप च शिवा साध्वी महेशं बटुरूपिणम्

॥५७॥

जये त्वं विजये साध्वि प्रम्लोचेऽप्यथ सुन्दरि ॥

सुलोचने महाभागे समीचीनं कृतं हि मे

॥५८॥

किमेतस्य बटोः कार्यं भवतीनामिहाधुना ॥

बटुस्वरूपमास्थाय आगतो देवनिंदकः

॥५९॥

अयं विसृज्यतां सख्यः किमनेन प्रयोजनम् ॥

बटुस्वरूपिणं रुद्रं कुपिता सा ततोऽब्रवीत्

॥६०॥

बटो गच्छाशु त्वरितो न स्थेयं च त्वयाऽधुना ॥

किमनेन प्रलापेन तव नास्ति प्रयोजनम्

॥६१॥

बटुर्निर्भर्त्सितस्तत्र तया चैवं तदा पुनः ॥

प्रहस्य वै स्थिरो भूत्वा पुनर्वाक्यमथाब्रवीत्

॥६२॥

शनैः शनैरवितथं विजयां प्रति सत्वरम् ॥

कस्मात्कोपस्तयातन्वि कृतः केनैव हेतुना

॥६३॥

सर्वेषामपि तद्वाच्यं वचनं सूक्तमेव यत् ॥

यथोक्तेन च वाक्येन कस्मात्तन्वी प्रकोपिता

॥६४॥

यः शंभुरुच्यते लोके भिक्षुको भिक्षुकप्रियः ॥

यदि मे ह्यनृतं प्रोक्तं तदा कोप इहोचितः

॥६५॥

इयं तावत्सुरूपा च विरूपोऽसौ सदाशिवः ॥

विशालाक्षी त्वियं बाला विरूपाक्षो भवस्तथा

॥६६॥

एवंभूतेन रुद्रेण मोहितेयं कथं भवेत् ॥

सभाग्यो हि पतिः स्त्रीणां सदा भाव्यो रतिप्रियः

॥६७॥

इयं कथं मोहितास्ति निर्गुणेन युगात्मिका ॥

न श्रुतो न च विज्ञातो न दृष्टः केन वा शिवः

॥६८॥

सकामानां च भूतानां दुर्लभो हि सदाशिवः ॥

तपसा परमेणैव गर्वितेयं सुमध्यमा

॥६९॥

निःस्तंभो हि सदा स्थाणुः कथं प्राप्स्यति तं पतिम् ॥

मयोक्तं किं विशालाक्षि कस्मान्मे रुषिताऽधुना

॥७०॥

यावद्रोषो भवेन्नॄणां नारीणां च विशेषतः ॥

तेन रोषेण तत्सर्वं भस्मीभूतं भविष्यति

॥७१॥

सुकृतं चोर्जितं तन्वि सत्यमेवोदितं सति ॥

कामः क्रोधश्च लोभश्च दंभो मात्सर्यमेव च

॥७२॥

हिंसेर्ष्या च प्रपंचश्च तेन सर्वं विनश्यति ॥

तस्मात्तपस्विभिर्युक्तं कामक्रोधादिवर्जनम्

॥७३॥

यदीश्वरो हृदि मध्ये विभाव्यो मनीषिभिः सर्वदा ज्ञप्तिमात्रः ॥

तदा सर्वैर्मुनिवृत्त्या विभाव्यस्तपस्विभिर्नान्यथा चिंतनीयः

॥७४॥

एतच्छ्रुत्वा वचनं तस्य शंभोस्तदाब्रवीद्विजया तं च सर्वम् ॥

गच्छात्र किंचित्तव नास्ति कार्यं न वक्तव्यं वचनं बालिशान्यत्

॥७५॥

एवं विवदमानं तं बटुरूपं सदाशिवम् ॥

विसर्जयामास तदा विजया वाक्यकोविदा

॥७६॥

तिरोधानं गतः सद्यो महेशो गिरिजां प्रति ॥

अलक्ष्यमाणः सर्वासां सखीनां परमेश्वरः

॥७७॥

प्रादुर्बभूव सहसा निजरूपधरस्तदा ॥

यदा ध्यानस्थिता देवी निजध्यानपरा सती

॥७८॥

तदा हृदिस्थो देवेशो बहिर्दृष्टिचरोभवत् ॥

नेत्रे उन्मील्य सा साध्वी गिरिजायतलोचना ॥

अपश्यद्देवदेवेशं सर्वलोकमहेश्वरम्

॥७९॥

द्विभुजं चैकवक्त्रं कृत्तिवाससमद्भुतम् ॥

कपर्दं चंद्ररेखांकं निवीतं गजचर्मणा

॥८०॥

कर्णस्थौ हि महानागौ कंबलाश्वतरौ तदा ॥

वासुकिः सर्पराजश्च कृताहारो महाद्युतिः

॥८१॥

वलयानि महार्हाणि तदा सर्पमयानि च ॥

कृतानि तेन रुद्रेण तथा शोभाकराणि च

॥८२॥

एवंभूतस्तदा शंभुः पार्वतीं प्रति चाग्रतः ॥

उवाच त्वरया युक्तो वरं वरय भामिनि

॥८३॥

व्रीडया परया युक्ता साध्वी प्रोवाच शंकरम् ॥

त्वं नाथो मम देवेश त्वया किं विस्मृतं पुरा

॥८४॥

दक्षयज्ञविनाशं च यदर्थं कृतवान्प्रभो ॥

स त्वं साहं समुत्पन्ना मेनायां कार्यसिद्धये

॥८५॥

देवानां देवदेवेश तारकस्य वधं प्रति ॥

भवतो हि मया देव भविष्यति कुमारकः

॥८६॥

तस्मात्त्वया हि कर्तव्यं मम वाक्यं महेश्वर ॥

गंतव्यं हिमवत्पार्श्वं नात्र कार्या विचारणा

॥८७॥

याचस्व मां महादेव ऋषिभिः परिवारितः ॥

करिष्यति न संदेहस्तव वाक्यं च मे पिता

॥८८॥

दक्षकन्या पुराहं वै पित्रा दत्ता यदा तव ॥

यथोक्तविधिना तत्र विवाहो न कृतस्त्वया

॥८९॥

न ग्रहाः पूजितास्तेन दक्षेण च महात्मना ॥

ग्रहाणां विषयत्वेन सच्छिद्रोऽयं महानभूत्

॥९०॥

तस्माद्यथोक्तविधिना कर्तुमर्हसि सुव्रत ॥

विवाहं स्वं महाभाग देवानां कार्यसिद्धये

॥९१॥

तदोवाच महाबाहो गिरिजां प्रहसन्निव ॥

स्वभावेनैव तत्सर्वं जंगमाजंगमं महत् ॥

जातं त्वया मोहितं च त्रिगुणैः परिवेष्टितम्

॥९२॥

अहंकारात्समुत्पन्नं महत्तत्त्वं च पार्वति ॥

महत्तत्त्वात्तमो जातं तमसा वेष्टितं नभः

॥९३॥

नभसो वायुरुत्पन्नो वायोरग्निरजायत ॥

अग्नेरापः समुत्पन्ना अद्भ्यो जाता मही तदा

॥९४॥

मह्यादिकानि स्थास्नूनि चराणि च वरानने ॥

दृश्यं यत्सर्वमेवैतन्नश्वरं विद्धि मानिनि

॥९५॥

एकोऽनेकत्वमापन्नो निर्गुणो हि गुणावृतः ॥

स्वज्योतिर्भाति यो नित्यं परज्योत्स्नान्वितोऽभवत् ॥

स्वतंत्रः परतंत्रश्च त्वया देवि महत्कृतम्

॥९६॥

मायामयं कृतमिदं च जगत्समग्रं सर्वात्मना अवधृतं परया च बुद्ध्या ॥

सर्वात्मभिः सुकृतिभिः परमार्थभावैः संसक्तिरिंद्रियगणैः परिवेष्टितं च

॥९७॥

के ग्रहाः के उडुगणाः के बाध्यंते त्वया कृताः ॥

विमुक्तं चाधुना देवि शर्वार्थं वरवर्णिनि

॥९८॥

गुणकार्यप्रसंगेन आवां प्रादुर्भवः कृतः ॥

त्वं हि वै प्रकृतिः सूक्ष्मा रजःसत्त्वतमोमयी

॥९९॥

व्यापारदक्षा सततमहं चैव सुमध्यमे ॥

हिमालयं न गच्छामि न याचामि कथंचन

॥१००॥

देहीति वचनात्सद्यः पुरुषो याति लाघवम् ॥

इत्थं ज्ञात्वा च भो देवि किमस्माकं वदस्व वै

॥१०१॥

कार्यं त्वदाज्ञया भद्रे तत्सर्वं वक्तुमर्हसि ॥

तेनोक्तात्र तदा साध्वी उवाच कमलेक्षणा

॥१०२॥

त्वमात्मा प्रकृतिश्चाहं नात्र कार्या विचारणा ॥

तथापि शंभो कर्तव्यं मम चोद्वहनं महत्

॥१०३॥

देहो ह्यविद्ययाक्षिप्तो विदेहो हि भवान्परः ॥

तथाप्येवं महादेव शरीरावरणं कुरु

॥१०४॥

प्रपंचरचनां शंभो कुरु वाक्यान्मम प्रभो ॥

याचस्व मां महादेव सौभाग्यं चैव देहि मे

॥१०५॥

इत्येवमुक्तः स तया महात्मा महेश्वरो लोकविडंबनाय ॥

तथेति मत्वा प्रहसञ्जगाम स्वमालयं देववरैः सुपूजितः

॥१०६॥

एतस्मिन्नंतरे तत्र हिमवान्गिरिभिः सह ॥

मेनया भार्यया सार्द्धमाजगाम त्वरान्वितः

॥१०७॥

पार्वतीदर्शनार्थं च सुतैश्च परिवारितः ॥

तेन दृष्टा महादेवी सखीभिः परिवारिता

॥१०८॥

पार्वत्या च तदा दृष्टो हिमवान्गिरिभिः सह ॥

अभ्युत्थानपरा साध्वी प्रणम्य शिरसा तदा ॥

पितरौ च तदा भ्रातॄन्बंधूंश्चैव च सर्वशः

॥१०९॥

स्वमंकमारोप्य महायशास्तदा सुतां परिष्वज्य च बाष्पपूरितः ॥

उवाच वाक्यं मधुरं हिमालयः किं वै कृतं साध्वि यथा तथेन

॥११०॥

तत्कथ्यतां महाभागे सर्वं शुश्रूषतां हि नः ॥

तच्छ्रुत्वा मधुरं वाक्यमुवाच पितरं प्रति

॥१११॥

तपसा परमेणैव प्रार्थितो मदनांतकः ॥

शांतं च मे महात्कार्यं सर्वेषामपि दुर्ल्लभम्

॥११२॥

तत्र तुष्टो महादेवो वरणार्थं समागतः ॥

स मयोक्तस्तदा शंभुर्ममषाणिग्रहः कथम्

॥११३॥

क्रियते च तदा शंभो मम पित्रा विनाधुना ॥

यतागतेन मार्गेण गतोऽसौ त्रिपुरांतकः

॥११४॥

तस्यास्तद्वचनं श्रुत्वा अवाप परमां मुदम् ॥

बंधुभिः सह धर्मात्मा उवाच स्वसुतां पुनः

॥११५॥

स्वगृहं चाद्य गच्छामो वयं सर्वे च भूधराः ॥

अनया राधितो देवः पिनाकी वृषभध्वजः

॥११६॥

इत्यूचुस्ते सुराः सर्वे हिमालयपुरोगमाः ॥

पार्वतीसहिताः सर्वे तुष्टुवुर्वाग्भिरादृताः

॥११७॥

तां स्तूयमानां च तदा हिमालयो ह्यारोप्य चांसं वरवर्णिनीं च ॥

सर्वेथ शैलाः परिवार्य चोत्सुकाः समानयामासुरथ स्वमालयम्

॥११८॥

देवदुंदुभयो नेदुः शंखतूर्याण्यनेकशः ॥

वादित्राणि बहून्येव वाद्यमानानि सर्वशः

॥११९॥

पुष्पवर्षेण महता तेनानीता गृहं प्रति

॥१२०॥

सा पूज्यमाना बहुभिस्तदानीं महाविभूत्युल्लसिता तपस्विनी ॥

तथैव देवैः सह चारणैश्च महर्षिभिः सिद्धगणैश्च सर्वशः

॥१२१॥

पूज्यमाना तदा देवी उवाच कमलासनम् ॥

देवानृषीन्पितॄन्यक्षानन्यान्सर्वान्समागतान्

॥१२२॥

गच्छध्वं सर्व एवैते येन्ये ह्यत्र समागताः ॥

स्वंस्वं स्थानं यताजोषं सेव्यतां परमेश्वरः

॥१२३॥

एवं तदानीं स्वपितुर्गृहं गता संशोभमाना परमेण वर्चसा ॥

सा पार्वती देववरैः सुपूजिता संचिंतयंती मनसा सदाशिवम्

॥१२४॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे पार्वत्यै शंकरेण स्वरूपदर्शनंनामद्वाविंशोऽध्यायः ॥ २२ ॥