कार्त्तिकेयस्वामिकुमारोत्पत्तिवर्णनम्
लोमश उवाच
तथैव विष्णुना सर्वे पर्वताश्च प्रपूजिताः ॥
सह्याचलश्च विंध्यश्च मैनाको गंधमादनः
॥१॥माल्यवान्मलयश्चैव महेंद्रो मंदरस्तथा ॥
मेरुश्चैव प्रयत्नेन पूजितो विष्णुना तदा
॥२॥श्वेतः कृतः श्वेतगिरिर्निलाद्रिश्च तथैव च ॥
उदयाद्रिश्च श्रृंगश्च अस्ताचलवरो महान्
॥३॥मानसाद्रिस्तथा शैलः कैलासः पर्वतोत्तमः ॥
लोकालोकस्तथा शैलः पूजितः परमेष्ठिना
॥४॥एवं ते पर्वतश्रेष्ठाः पूजिताः सर्व एव हि ॥
तथान्ये पूजितास्तेन सर्वे पर्वतवासिनः
॥५॥विष्णुना ब्रह्मणा सार्द्धं कृतं सर्वं यथोचितम् ॥
अन्येहनि च संप्राप्ते वरयात्रा कृता तथा
॥६॥हिमाद्रिणा बंधुभिश्च पर्वतं गंधमादनम् ॥
ययुः सर्वे सुरगणा गणाश्च बहवस्तथा
॥७॥प्रमथाश्च तथा सर्वे तथा चंडीगणाः परे ॥
ये चान्ये बहवस्तत्र समायाता हिमालया
॥८॥शिवस्योद्वहनं विप्राः शिवेन परिभाविताः ॥
परं हर्षं समापन्ना दृष्ट्वा तौ दंपती तदा
॥९॥पार्वतीसहितः शंभुः शंभुना सह पार्वती ॥
पुष्पगन्धौ यथा स्यातां वागर्थाविव तत्त्वतः
॥१०॥तथा प्रकृतिपुंसौ च ऐकपद्येन नान्यथा ॥
दंपती तौ गजारूढौ शुशुभाते महाप्रभौ
॥११॥विमास्थस्तदा ब्रह्मा विष्णुश्च गरुडोपरि ॥
ऐरावतगतश्चेंद्रः कुबेरः पुष्पकोपरि
॥१२॥पाशी च मकरा रूढो यमो महिषमेव च ॥
प्रेतारूढो नैर्ऋतः स्यादग्निर्बस्तगतो महान्
॥१३॥मृगारूढोऽथ पवन ईशो वृषभमेव च ॥
इत्येवं लोकपालाश्च सग्रहाः परमेष्ठिनः
॥१४॥स्वैः स्वैर्बलैः परिक्रांतास्तथान्ये प्रमथादयः ॥
हिमाद्रिश्च महाशैल ऋषभो गंधमादनः
॥१५॥सह्याचलो नीलगिरिर्मंदरो मलयाचलः ॥
कैलासो हि महातेजा मैनाकश्च महाप्रभः
॥१६॥एते चान्ये च गिरयः क्षीमंतो हि महाप्रभाः ॥
सकलत्राश्च ते सर्वे ससुताश्च मनोरमाः
॥१७॥बलिनो रूपिणः सर्वे मेर्वाद्यास्तत्र पर्वताः ॥
वरयात्राप्रसंगेन शिवार्चनपराभवन्
॥१८॥नंदिना ह्युपविष्टास्ते मेर्वाद्यास्तत्र पर्वताः ॥
वरयात्रा कृता ते यथोक्ता च हिमाद्रिणा ॥
सर्वैस्तैर्बंधुभिः सार्द्धं पुनरागमनं कृतम्
॥१९॥स्वकालयस्थो हिमवान्स रेजे हि महा यशा ॥
शिवसंपर्कजेनैव महसा परमेम च ॥
विख्यातो हि महाशैलस्त्रिषु लोकेषु विश्रुतः
॥२०॥कन्यादानेन महता तुष्टो यस्य च शंकरः ॥
ते धन्यास्ते महात्मानः कृतकृतत्यास्तथैव च
॥२१॥द्व्यक्षरं नाम येषां च जिह्वाग्रे संस्थितं सदा ॥
शिवेति द्व्यक्षरं नाम यैर्हृदीरितमद्य वै ॥
ते वै मनुष्यरूपेण रुद्रा एव न संशयः
॥२२॥किंचिद्दानेन संतुष्टः पत्रेणापि तथैव च ॥
तोयेनापि हि संतुष्टो महादेवो निरन्तरम्
॥२३॥पत्रेण पुष्पेण तथा जलेन प्रीतो भवत्येष सदाशिवो हि ॥
तस्माच्च सर्वैः प्रतिपूजनीयः शिवो मद्दाभाग्यकरो नृणामिह
॥२४॥एको महाञ्ज्योतिरजः परेशः परापराणां परमो महात्मा ॥
निरंतरो निर्विकारो निरीशो निराबाधो निर्विकल्पो निरीहः
॥२५॥निरंजनो नित्यरूपो निरोधो नित्यानन्दो नित्यमुक्ताः सदेव ॥
एवंभूतो देवदेवोऽर्च्चितश्च तैर्देवाद्यर्विश्ववेद्यो भवश्च ॥
स्तुतो ध्यातः पूजितश्चिंतितश्च सर्वज्ञोऽसौ सर्वदा सर्वदश्च
॥२६॥यथा वरिष्ठो हिमवान्प्रसिद्धः सर्वैर्गुणैः सर्वगुणो महात्मा ॥
विश्वेशवंद्यो हि तदा हिमालयो जातो गिरीणां प्रवरस्तदानीम्
॥२७॥मेनया सह धर्मात्मा यथास्थानगतस्ततः ॥
सर्वान्विसर्जयामास पर्वतान्पर्वतेश्वरः
॥२८॥गतेषु तेषु हिमवान्पुत्रैः पौत्रैः प्रपौत्रकैः ॥
राजा गिरीणां प्रवरो महादेवप्रसादतः
॥२९॥अथो गिरिजया सार्द्धं महेशो गन्धमादने ॥
एकांते च मतिं चक्रे रमणार्थं स्वरूपवान्
॥३०॥सुरतेनैव महता तपसा हि समागमे ॥
द्वयोः सुरतमारब्धं तद्द्वयोश्च तदाऽभवत्
॥३१॥अनिष्टं महदाश्चर्यं प्रलयोपममेव च ॥
तस्मिन्महारते प्राप्ते नाविंदंत सुखं परम्
॥३२॥सर्वे ब्रह्मादयो देवाः कार्याकार्यव्यवस्थितौ ॥
रेतसा च जगत्सर्वं नष्टं स्थावरजंगमम्
॥३३॥सस्मार चाग्निं ब्रह्मा च विष्णुश्चाध्यात्मदायकः ॥
मनसा संस्मृतः सद्यो जगामाग्निस्त्वरान्वितः
॥३४॥ताभ्यां संप्रेषितोऽपश्यद्रुचिरं शिवमांदिरम् ॥
द्वारि स्थितं नंदिनं च ददर्शाग्रे महाप्रभम्
॥३५॥अग्निर्ह्रस्वस्तदा भूत्वा काश्मीरसदृशच्छविः ॥
प्रविष्टोंतः पुरं शंभोर्नानाश्चर्यसमन्वितम्
॥३६॥अनेकरत्नसंवीतं प्रासादैश्च स्वलं कृतम् ॥
तदंगणमनुप्राप्य उपविश्याह हव्यवाट्
॥३७॥पाणिपात्रस्य मे ह्यम्ब भिक्षां देह्यवरोधतः ॥
तच्छ्रुत्वा वचनं तस्य पाणिपात्रस्य बालिका
॥३८॥यावद्दातुं च सारेभे भिक्षां तस्मै ततः स्वयम् ॥
उत्थाय सुरतात्तस्माच्छिवो हि कुपितो भृशम्
॥३९॥रुद्रस्त्रिशूलमुद्यम्य भैरवो ह्यऽभवत्तदा ॥
निवारितो गिरिजया वधात्तस्माच्छिवः स्वयम् ॥
भिक्षां तस्मै ददौ वाचा अग्नये जातवेदसे
॥४०॥पाणौ भिक्षां गृहीत्वाथ प्रत्यक्षं तेन चाग्निना ॥
भिक्षिता कुपिता तं वै शशाप गिरिजा ततः
॥४१॥रे भिक्षो भविता शापात्सर्वभक्षो ममाशु वै ॥
अनेन रेतसा सद्यः पीडां प्राप्स्यसि सर्वतः
॥४२॥इत्युक्तो भक्षयित्वाग्नी रेत ईशस्य हव्यवाट् ॥
यत्र देवाः स्थिताः सर्वे ब्रह्माद्याश्चैव सर्वशः
॥४३॥आगत्याकथयत्सर्वं तद्रेतोभक्षणादिकम् ॥
सर्वे सगर्भा ह्यभवन्निन्द्राद्या देवतागणाः
॥४४॥अग्नेर्यथा हविश्चैव सर्वेषामुपतिष्ठति ॥
अग्नेर्मुखोद्भवेनैव रेतसा ते सुरेश्वराः
॥४५॥सगर्भाह्यभवन्सर्वे चिंतया चप्रपीडिताः ॥
विष्णुं शरणमाजग्मुर्द्देवदेवेश्वरं प्रभुम्
॥४६॥देवा ऊचुः
त्वं त्राता सर्वदेवानां लोकानां प्रभुरेव च ॥
तस्माद्रक्षा विधातव्या शरणागतवत्सल
॥४७॥वयं सर्वे मर्तुकामा रेतसानेन पीडिताः ॥
असुरेभ्यः परित्रस्ता वयं सर्वे दिवौकसः
॥४८॥शरणं शंकरं याताः परित्रातुं कृतोद्वहाः ॥
यदा पुत्रो हि रुद्रस्य भविष्यति तदा वयम् ॥
सुखिनः स्याम सर्वे निर्भयाश्च त्रिविष्टपे
॥४९॥एवं विष्टभ्यमानानां सर्वेषां भयमागतम् ॥
अनेन रेतसा विष्णो जीवितुं शक्यते कथम्
॥५०॥त्रिवर्गो हि यथा पुंसां कृतो हि सुपरिष्कृतः ॥
विपरीतो भवत्येव विना देवेन नान्यथा
॥५१॥तस्मात्तद्वै बलं मत्वा सर्वेषामपि देहिनाम् ॥
कार्याकार्यव्यवस्थायां सर्वे मन्यामहे वयम्
॥५२॥तथा निशम्य देवानां परेशः परिदेवनम् ॥
उवाच प्रहसन्वाक्यं देवानां देवतारिहा
॥५३॥स्तूयतां वै महादेवो महेशः कार्यगौरवात्
॥५४॥तथेति गत्वा ते सर्वे देवा विष्णुपुरोगमाः ॥
तथा ब्रह्मादयः सर्व ईडिरे ऋषयो हरम्
॥५५॥ॐनमो भर्गाय देवाय नीलकंठाय मीढुषे ॥
त्रिनेत्राय त्रिवेदाय लोकत्रितयधारिणे
॥५६॥त्रिस्वराय त्रिमात्राय त्रिवेदाय त्रिमूर्त्तये ॥
त्रिवर्गाय त्रिधामाय त्रिपदाय त्रिशूलिने
॥५७॥त्राहित्राहि महादेव रेतसो जगतः पते
॥५८॥ब्रह्मणा तु स्तुतो यावत्तावद्देवो वृषध्वजः ॥
प्रादुर्बभूव तत्रैव सुराणां कार्यसिद्धये
॥५९॥दृष्टस्तदानीं जगदेकबंधुर्महात्मभिर्देववरैः सुपूजितः ॥
संस्तूयमानो विविधैर्वचोभिः प्रत्यग्रूपैः श्रुतिसंमतैश्च
॥६०॥स्तुवतां चैव देवानामुवाच परमेश्वरः ॥
त्रासं कुर्वंतु मा सर्वे रेतसानेन पीडिताः
॥६१॥वमनं वै भवद्भिश्च कार्यमद्यैव भोःसुराः ॥
तथेति मत्वा ते सर्व इंद्राद्या देवतागणाः ॥
वेमुः सर्वे तदा विप्रास्तद्रेतः शंकरस्य च
॥६२॥ऐकपद्येन तद्रेतो महापर्वतसन्निभम् ॥
तप्तचामीकरप्रख्यं बभूव परमाद्भुतम्
॥६३॥सर्वे च सुखिनो जाता इंद्राद्या देवतागणाः ॥
विना ह्यग्निं च ते सर्वे परितुष्टास्तदाऽभवन्
॥६४॥तेनाग्निनापि चोक्तस्तु शंकरो लोकशंकरः ॥
किं मयाद्य महा देव कर्तव्यं देवतावर
॥६५॥तद्ब्रूहि मे प्रभोऽद्य त्वं येनाहं सर्वदा सुखी ॥
भविष्यामि च येनाहं देवानां हव्यवाहकः
॥६६॥तदोवाच शिवः साक्षाद्देवानामिह श्रृण्वताम् ॥
रेतो विसृज्यतां योनौ तदाग्निः प्रहसन्नवि
॥६७॥उवाच शंकरं देवं भवत्तेजो दुरासदम् ॥
इदमुल्बणवत्तेजो धार्यते प्राकृतैः कथम्
॥६८॥ततः प्रोवाच भगवानग्निं प्रति महेश्वरः ॥
मासिमासि प्रतप्तानां देहे तेजो विसृज्यताम्
॥६९॥तथेति मत्वा वचनं महाप्रभः स जातवेदाः परमेण वर्चसा ॥
समुज्ज्वलंस्तत्र महाप्रभावो ब्राह्मे मुहूर्त्ते हि सचोपविष्टः
॥७०॥तदा प्रातः समुत्थाय प्रातः स्नानपराः स्त्रियः ॥
ययुः सदा ऋषीणां च सत्यस्ता जातवेदसम्
॥७१॥दृष्ट्वा प्रज्वलितं तत्र सर्वास्ताः शीतकर्षिताः ॥
तप्तुकामास्तदा सर्व्वा ह्यरुधत्या निवारिताः
॥७२॥तया निवारिताश्चापि तास्तेपुः कृत्तिकाः स्वयम् ॥
यावत्तेपुश्च ताः सर्व्वा रेतसः परमाणवः ॥
विविशू रोमकूपेषु तासां तत्रैव सत्वरम्
॥७३॥नीरेतोग्निस्तदा जातो विश्रांतः स्वयमेव हि
॥७४॥ततस्ता ऋषिभार्या हि ययुः स्वभवनं प्रति ॥
ऋषिभिस्तु तदा शप्ताः कृत्तिकाः खेचराभवन्
॥७५॥तदानीमेव ताः सर्वा व्यभिचारेण दुःखिताः ॥
तत्ससर्जुस्तदा रेतः पृष्ठे हिमवतो गिरेः
॥७६॥एकपद्येन तद्रेतस्तप्तचामीकरप्रभम् ॥
गंगायां च तदा क्षिप्रं कीचकैः परिवेष्टितम्
॥७७॥षण्मुखं बालकं ज्ञात्वा सर्वे देवा मुदान्विताः ॥
गर्गेणोक्तास्तदंते वै सुखेन ह्रियतामिति
॥७८॥शंभोः पुत्रः प्रसादेन सर्वो भवति शाश्वतः ॥
गंगायाः पुलिने जातः कार्त्तिकेयो महाबलः
॥७९॥उपविष्टोथ गांगेयो ह्यहोरात्रोषितस्तदा ॥
शाखो विशाखोऽतिबलः षण्मुखोऽसौ महाबलः
॥८०॥जातो यदाथ गंगायां षण्मुखः शंकरात्मजः ॥
तदानीमेव गिरिजा संजाता प्रस्नुतस्तनी
॥८१॥शिवं निरीक्ष्य सा प्राह हे शंभो प्रस्नवो महान् ॥
संजातो मे महादेव किमर्थस्तन्निरीक्ष्यताम् ॥
सर्वज्ञोऽपि महादेवो ह्यब्रवीत्तामथाज्ञवत्
॥८२॥नारदस्तत्र चागत्य प्रोक्तवाञ्जन्म तस्य तत् ॥
शिवाय च शिवायै च पुत्रो जातो हि सुंदरः
॥८३॥तदाकर्ण्य वचो विप्रा हर्षनिर्भरमानसाः ॥
बभूवुः प्रमथाः सर्वे गंधर्वा गीततत्पराः
॥८४॥अनेकाभिः पताकाभिश्चैलपल्लवतोरणैः ॥
तथा विमानैर्बहुभिर्बभौ प्रज्वलितो महान् ॥
पर्वतः पुत्रजननाच्छंकरस्य महात्मनः
॥८५॥तदा सर्वे सुरगणा ऋषयः सिद्धचारणाः रक्षोगंधर्वयक्षाश्च अप्सरोगणसेविताः
॥८६॥एकपद्येन ते सर्वे सहिताः शंकरेण तु ॥
द्रष्टुं गांगेयमधिकं जग्मुः पुलिनसंस्थितम्
॥८७॥ततो वृषभमारुह्य ययौ गिरिजया सह ॥
अन्यैः समेतो भगवान्सुरैरिंद्रादिभिस्तथा
॥८८॥तदा शंखाश्च भेर्यश्च नेदुस्तूर्यीण्यनेकशः
॥८९॥तदानीमेव सर्वेशं वीरभद्रादयो गणाः ॥
अन्वयुः केलिसंरब्धा नानावादित्रवादकाः ॥
वादयन्तश्च वाद्यानि ततानि विततानि च
॥९०॥केचिन्नृत्यपरास्तत्र गायकाश्च तथा परे ॥
स्तावकाः स्तूयमानाश्च चक्रुस्ते गुणकीर्तनम्
॥९१॥एवंविधास्ते सुरसिद्धयक्षा गंधर्वविद्याधरपन्नगा ह्यमी ॥
शिवेन सार्द्धं परिहृष्टचित्ता द्रष्टुं ययुस्तं वरदं च शांकरिम्
॥९२॥यावत्समीक्षयामासुर्गांगेयं शंकरोपमम् ॥
ददृशुस्ते महत्तेजो व्याप्तमासीज्जगत्त्रयम्
॥९३॥तत्तोजसावृतं बालं तप्तचामीकरप्रभम् ॥
सुमुखं सुश्रिया युक्तं सुनसं सुस्मितेक्षणम्
॥९४॥चारुप्रसन्न वदनं तथा सर्वागसुंदरम् ॥
तं दृष्ट्वा महदाश्चर्यं गांगेयं प्रथितात्मकम्
॥९५॥ववंदिरे तदा बालं कुमारं सूर्यवर्चसम् ॥
प्रमथाश्च गणाः सर्वे वीरभद्रादयस्तथा
॥९६॥परिवार्योपतस्थुस्ते वामदक्षिणभागतः ॥
तथा ब्रह्मा च विष्णुश्च इंद्रश्चापि सुरैर्वृतः
॥९७॥ऋषयो यक्षगंधर्वाः परिवार्य कुमारकम् ॥
दंडवत्पितिता भूमौ केचिच्च नतकंधराः
॥९८॥प्रणेमुः शिरसा चान्ये मत्वा स्वामिनमव्ययम् ॥
अवाद्यंत विचित्राणि वादित्राणि महोत्सवे ॥
एवमभ्युदये तस्मिन्नृषयः शांतिमापठम्
॥९९॥एतस्मिन्नंतरे यातः शंकरो गिरिजापतिः ॥
अवतीर्य वृषाच्छीघ्रं पार्वत्या सहसुव्रताः
॥१००॥पुत्रं निरैक्षत तदा जगदेकबंधुः प्रीत्या युतः परमया सह वै भवान्या ॥
स्नेहान्वितो भुजगभोगयुतो हि साक्षात्सर्वेश्वरः परिवृतः प्रमथैः प्रहृष्टः
॥१०१॥उपगुह्य गुहं तत्र पार्वती जातसंभ्रमा ॥
प्रस्नुतं पाययामास स्तनं स्नेहपरिप्लुता
॥१०२॥तदा नीराजितो देवैः सकलत्रैर्मुदान्वितैः ॥
जयशब्देन महता व्याप्तमासीन्नभस्तलम्
॥१०३॥ऋषयो ब्रह्मगोषेण गीतेनैव च गायकाः ॥
वाद्यैश्च वादकाश्चैव उपतस्थुः कुमारकम्
॥१०४॥स्वमंकमारेप्य तदा गिरीशः कुमारकं तं प्रभया महाप्रभम् ॥
बभौ भवानीपतिरेव साक्षाच्छ्रिया युतः पुत्रवतां वरिष्ठः
॥१०५॥दंपती तौ तदा तत्र ऐकपद्येन नंदतुः ॥
अभिषिच्यमान ऋषिभिरावृतः सुरसत्तमैः
॥१०६॥कुमारः क्रीडयामास उत्संगे शंकरस्य च ॥
कंठे स्थितं वासुकिं च पाणिभ्यां समपीडयत्
॥१०७॥मुखं प्रपीडयित्वाऽसौ पाणीनगणयत्तदा ॥
एकं त्रीणिदशाष्टौ च विपरीतक्रमेण च
॥१०८॥प्रहस्य भगवाञ्छंभुरुवाच गिरिजां तदा
॥१०९॥मंदस्मितेन च तदा भगवान्महेशः प्राप्तो मुदंच परमां गिरिजासमेतः ॥
प्रेम्णा सगद्गदगिरा जगदेकबंधुर्नोवाच किंचन तदा भुवनैकभर्ता
॥११०॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कार्त्तिकेयस्वामिकुमारोत्पत्तिवर्णनंनाम सप्तविंशोऽध्यायः ॥ २७ ॥