मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — केदारखण्डः, अध्याय २३

3
माहेश्वरखण्डः · केदारखण्डः · 23

विवाहवर्णनम्

लोमश उवाच

एतस्मिन्नंतरे तत्र महेशेन प्रणोदिताः ॥

आजग्मुः सहसा सद्य ऋषयोऽपि हिमालयम्

॥१॥

तान्दृष्ट्वा सहसोत्थाय हिमाद्रिः प्रतिमानसः ॥

पूजयामास तान्सर्वानुवाच नतकंधरः

॥२॥

किमर्थमागता यूयं ब्रूतागमनकारणम् ॥

तदोचुः सप्त ऋषयो महेशप्रेरिता वयम्

॥३॥

समागतास्त्वत्सकाशं कन्यायाश्च विलोकने ॥

तानस्मान्विद्धि भोः शैल स्वां कन्यां दर्शयाशु वै

॥४॥

तथेत्युक्त्वा ऋषिगणानानीता तत्र पार्वती ॥

स्वोत्संगे परिगृह्याशु गिरीन्द्रः पुत्रवत्सलः ॥

हिमवान्गिरिराजोऽथ उवाच प्रहसन्निव

॥५॥

इयं सुता मदीया हि वाक्यं श्रुणुत मे पुनः ॥

तपस्विनां वरिष्ठऽसौ विरक्तो मदनांतकः

॥६॥

कथमुद्वहनार्थी च येनानंगः कृत स्मरः ॥

अत्यासन्नेचातिदूरे आढ्ये धनविवर्जिते ॥

वृत्तिहीने च मूर्खे च कन्यादानं न शस्यते

॥७॥

मूढाय च विरक्ताय आत्मसंभाविताय च ॥

आतुराय प्रमत्ताय कन्यादानं न कारयेत्

॥८॥

तस्मान्मया विचार्यैव भवद्भिर्ऋषिसत्तमाः ॥

प्रदातव्या महेशाय एतन्मे व्रतमुत्तमम्

॥९॥

तच्छ्रुत्वा गिरिराजस्य वचनं ते महर्षयः ॥

एकपद्येन ऊचुस्ते प्रहस्य च हिमालयम्

॥१०॥

यया कृतं तपस्तीव्रं यया चाराधितः शिवः ॥

तपसा तेन संतुष्टः प्रसन्नोद्य सदाशिवः

॥११॥

अस्यास्तस्य च भोः शैल न जानासि च किंचन ॥

महिमानं परं चैव तस्मादेनां प्रयच्छ वै

॥१२॥

शिवाय गिरिजामेनां कुरुष्य वचनं हि नः ॥

तच्छ्रुत्वा वचनं तेषामृषीणां भावितात्मनाम्

॥१३॥

उवाच त्वरया युक्तः पर्वतान्पर्वतेश्वरः ॥

हे मेरो हे निषधकिं गन्धमादन मन्दर ॥

मैनाक क्रियतामद्य शंसध्वं च यथातथम्

॥१४॥

मेना तदा उवाचेदं वाक्यं वाक्यविशारदा ॥

अधुना किं विमशन कृतं कार्यं तदैव हि

॥१५॥

उत्पन्नेयं महाभागा देवकार्यार्थमेव च ॥

प्रदातव्या शिवायेति शिवस्यार्थेऽवतारिता

॥१६॥

अनयाराधितो रुद्रो रुद्रेण परिभाविता ॥

इयं महाभागा शिवाय प्रतिदीयताम्

॥१७॥

निमित्तमात्रं च कृतं तया वै शिवपूजने ॥

एतच्छ्रुत्वा वचस्तस्यामेनायाः परिभाषितम्

॥१८॥

परितुष्टो हिमाद्रिश्च वाक्यं चेदमुवाच ह ॥

ऋषीन्प्रति निरीक्षंस्तां कन्येयं मम संप्रति

॥१९॥

ततः समानीय सुलोचनां तां श्यामां नितंबार्षितमेखलां शुभाम् ॥

वैडूर्यमुक्तावलयान्दधानां भास्वत्प्रभां चांद्रमसीं व रेखम्

॥२०॥

लावण्यामृतवापिकां सुवदनां गौरीं सुवासां शुभां दृष्ट्वा ते ह्यृषयोऽपि मोहमगन्भ्रांतास्तदा संभ्रमात् ॥

नोचुः किंचना वाक्यमेव सुधियो ह्यासन्प्रमत्ता इव स्तब्धाः कान्तिमतीमतीव रुचिरां त्रैलोक्यनाथप्रियाम्

॥२१॥

एवं तदा ते ह्यृषयोऽपि मोहिता रूपेण तस्याः किमुताथ देवताः ॥

तथैव सर्वे च निरीक्ष्य तन्वीं सतीं गिरिन्द्रस्य सुतां शिवप्रियाम्

॥२२॥

ततः पुनश्चैत्य शिवं शिवप्रियाः शशंसुरस्मा ऋषयस्तदानीम्

॥२३॥

ऋषय ऊचुः

भूषिता हि गिरीन्द्रेण स्वसुता नास्ति संशयः ॥

उद्वोढुं गच्छ देवेश देवैश्च परिवारितः

॥२४॥

गच्छ शीघ्रं महादेव पार्वतीमात्मजन्मने ॥

तच्छ्रुत्वा वचनं तेषां प्रहस्येदमुवाच ह

॥२५॥

विवाहो हि महाभागा न दृष्टो न श्रुतोऽपि वा ॥

मया पुरा च ऋषयः कथ्यतां च विशेषतः

॥२६॥

तदोचुर्ऋषयः सर्वे प्रहसंतः सदाशिवम् ॥

विष्णुमाह्वय वै देव ब्रह्मणं च शतक्रतुम्

॥२७॥

तथा ऋषिगणांश्चैव यक्षगन्धर्वपन्नगान् ॥

सिद्धविद्याधरांश्चैव किंनरांश्चाप्सरोगणान्

॥२८॥

एतांश्चान्यांश्च सुबहूनानयस्वेति सत्वरम् ॥

तदाकर्ण्य ऋषिप्रोक्तं वाक्यं वाक्यविशारदः

॥२९॥

उवाच नारदं देवो विष्णुमानय सत्वरम् ॥

ब्रह्माणं च महेन्द्रं च अन्यांश्चैव समानय

॥३०॥

शंभोर्वचनमादाय शिरसा लोकपावनः ॥

जगाम त्वरितो भूत्वा वैकुण्ठं विष्णुवल्लभः

॥३१॥

ददर्श देवं परमासने स्थितं श्रिया च देव्या परिसेव्यमानम् ॥

चतुर्भुजं देववरं महाप्रभं नीलोत्पलश्यामतनुं वरेण्यम्

॥३२॥

महार्हरत्नावृतचारुकुण्डलं महाकिरीटोत्तमरत्नभास्वतम् ॥

सुवैजयंत्या वनमालया वृतं स नारदस्तं भुवनैकसुन्दरम्

॥३३॥

उवाच नारदोऽभ्येत्य शंभोर्वाक्यमथादरात् ॥

ब्रह्मवीणां वाद्यवीणां वाद्यमानः सर्वज्ञ ऋषिसत्तमः

॥३४॥

एह्येहि त्वं महाविष्णो महादेवं त्वरान्वितः ॥

उद्वाहनार्थं शंभोश्च त्वमेकः कार्यसाधकः

॥३५॥

प्रहस्य भगवान्प्राह नारदं प्रति वै तदा ॥

कथमुद्वहने बुद्धिरुत्पन्ना तस्य शूलिनः ॥

विज्ञातार्थोऽपि भगवान्नारदं परिपृष्टवान्

॥३६॥

नारद उवाच

तपसा महता रुद्रः पार्वत्या परितोषितः ॥

स्वयमेवागतस्तत्र यत्रास्ते गिरिजा सती

॥३७॥

दासोऽहमवदच्छंभुः पार्वत्या परितोषितः ॥

पार्वतीं च समभ्यर्थ्य वरयस्व च भामिनि

॥३८॥

त्वरितेनावदच्छंभुस्त्वामाह्वयति संप्रति ॥

तस्य तद्वचनं श्रुत्वा देवदेवो जनार्दनः ॥

नारदेन समायुक्तः पार्षदैः परिवारितः

॥३९॥

सुपर्णमारुह्य तदा महात्मा योगीश्वराणां प्रभुरच्युतो महान् ॥

ययौ तदाऽऽकाशपथा हरिः स्वयं सनारदो देववरैः समेतः

॥४०॥

तं दृष्ट्वा त्वरितं देवो योगिध्येयांघ्रिपंकजः ॥

अभ्युत्थाय मुदा युक्तः परिष्वज्य च शार्ङ्गिणम्

॥४१॥

तदा हरिहरौ देवावैकपद्येन तिष्ठतः ॥

ऊचुतुः स्म तदान्योन्यं क्षेमं कुशलमेव च

॥४२॥

ईश्वर उवाच

गिरिजातपसा विष्णो जितोऽहं नात्र संशयः ॥

पाणिग्रहार्थमेवाद्य गंतुकामो हिमालयम्

॥४३॥

यथार्थेन च भो विष्णो कथयामि तवाग्रतः ॥

यदा दक्षेण भो विष्णो प्रदत्ता च पुरा सती

॥४४॥

न च संकल्पविधिना मया पाणिग्रहः कृतः ॥

अधुनैव मया कार्यं कर्मविस्तारणं बहु

॥४५॥

यत्कार्यं तन्न जानामि सर्वं पाणिग्रहोचितम् ॥

शंभोस्तद्वचनं श्रुत्वा प्रहस्य मधुसूदनः

॥४६॥

यावद्वक्तुं समारेभे तावद्ब्रह्मा समागतः ॥

इंद्रेण सह सर्वैश्च लोकपालैस्त्वरान्वितः

॥४७॥

तथैव देवासुरयक्षदानवा नागाः पतंगाप्सरसो महर्षयः ॥

समेत्य सर्वे परिवक्तुमीशमूचुस्तदानीं शिरसा प्रणम्य

॥४८॥

गच्छगच्छ महादेव अस्माभिः सहितः प्रभो ॥

ततो विष्णुरुवाचेदं प्रस्तावसदृशंवचः

॥४९॥

गृह्योक्तविधिना शंभो कर्म कर्तुमिहार्हसि

॥५०॥

नांदीमुखं मण्डपस्थापनं च तथा चैतत्कुरु धर्मेण युक्तम् ॥

महानदीसंगमं वर्जयित्वा कुर्वंति केचिद्वेदमनीषिणश्च

॥५१॥

मण्डपस्थापनं चैव क्रियतां ह्यधुना विभो ॥

तथोक्तो विष्णुना शंभुश्चकारात्महिताय वै

॥५२॥

ब्रह्मादिभिः कृतं तेन सर्वमभ्युदयोचितम् ॥

ग्रहाणां पूजनं चक्रे कश्यपो ब्रह्मणा युतः

॥५३॥

तथात्रिश्च वशिष्ठश्च गौतमोथ गुरुर्भृगुः ॥

कण्वो बृहस्पतिः शक्तिर्जमदग्निः पराशरः

॥५४॥

मार्कंडेयः शिलावाकः शून्यपालोऽक्षतश्रमः ॥

अगस्त्यश्च्यवनो गर्गः शिलादोऽथ महामुनिः

॥५५॥

एते चान्ये च बहवो ह्यागताः शिवसन्निधौ ॥

ब्रह्मणा नोदितास्तत्र चक्रुस्ते विधिवत्क्रियाम्

॥५६॥

वेदोक्तविधिना सर्वे वेदवेदांगपारगाः ॥

चक्रू रक्षां महेशस्य कृतकौतुकमंगलाम्

॥५७॥

ऋग्यजुःसामसहितैः सूक्तैर्नानाविधैस्तथा ॥

मंगलानि च भूरीणि ऋषयस्तत्त्ववेदिनः

॥५८॥

अभ्यंजनादिकं सर्वं चक्रुस्तस्य परात्मनः ॥

ख्यातः कपर्द्दस्तस्यैव शिवस्य परमात्मनः

॥५९॥

अनेकैर्मौक्तिकैर्युक्ता मुण्डमालाऽभवत्तदा ॥

ये सर्पा ह्यंगभूताश्च ते सर्वे तत्क्षणादिव ॥

बभूवुर्मडनान्येव जातरूपमयानि च

॥६०॥

सर्वभूषणसंपन्नो देवदेवो महेश्वरः ॥

ययौ देवैः परिवृतः शैलराजपुरं प्रति

॥६१॥

चंडिका वरभगिनी तदा जाता भयावहा ॥

प्रेतासना गता चण्डी सर्पाभरणभूषिता

॥६२॥

हैमं कलशमादाय पूर्णं मूर्ध्ना महाप्रभा ॥

परिवारैर्महाचंडी दीप्तास्या ह्युग्रलोचना

॥६३॥

तत्र भूतान्यनेकानि विरूपाणि सहस्रशः ॥

तैः समेताग्रतश्चंडी जगाम विकृतानना

॥६४॥

तस्याः सर्वे पृष्ठतश्च गणाः परमदारुणाः ॥

कोट्येकादशसंख्याका रौद्रा रुद्र प्रियाश्च ये

॥६५॥

तदा डमरुनिर्घोषव्याप्तमासीज्जगत्त्रयम् ॥

भेरीभांकारशब्देन शंखानां निनदेन च

॥६६॥

तथा दुंदुभिनिर्घोषैः शब्दः कोलाहलोऽभवत् ॥

गणानां पृष्ठतो भूत्वा सर्वे देवाः समुत्सुकाः ॥

अन्वयुः सर्वसिद्धाश्च लोकपालैः समन्विताः

॥६७॥

मध्ये व्रजन्महेंद्रोऽथ ऐरावतमुपास्थितः ॥

शुभ्रेणो च्छ्रियमाणेन छत्रेण परमेण हि

॥६८॥

चामरैर्वीज्यमानोऽसौ सुरैर्बहुभिरावृतः ॥

तदा तु व्रजमानास्त ऋषयो बहवो ह्यमी

॥६९॥

भरद्वाजादयो विप्राः शिवस्योद्वहनं प्रति ॥

शाकिन्यो यातुधानाश्च वेताला ब्रह्मराक्षसाः

॥७०॥

भूतप्रेतपिशाचाश्च तथान्ये प्रमथादयः ॥

पृच्छमानास्तदा चंडीं पृष्ठतोऽन्वगमंस्तदा

॥७१॥

क्व गता साऽधुना चंडी धावमानास्तदा भृशम् ॥

प्राप्ता गता व्रजंतीं तां प्रणिपत्य महाप्रभाम्

॥७२॥

अथ प्रोचुस्तदा सर्वे चंडीं भैरवसंयुताम् ॥

विनास्माभिः कुतो यासि वद चंडि यथा तथा

॥७३॥

प्रहस्योवाच सा चंडी भूतानां तत्र श्रृण्वताम् ॥

शंभोरुद्वहनार्थाय प्रेतारूढा व्रजाम्यहम्

॥७४॥

हैमं कलशमादाय शिरसा बिभ्रती स्वयम् ॥

करवालीस्वरूपेण चंडी जाता ततः स्वयम्

॥७५॥

भूतैः परिवृता सर्वैः सर्वेषामग्रतोऽव्रजत् ॥

गणास्तामनुजग्मुस्ते गणानां पृष्ठतः सुराः

॥७६॥

इंद्रादयो लोकपाला ऋषयस्तेऽग्रपृष्ठतः ॥

ऋषीणां पृष्ठतो भूत्वा पार्षदाश्च महाप्रभाः

॥७७॥

विष्णोरमितभावज्ञा मुकुंदाच्च मनोरमाः ॥

सर्वे पयोदसंकाशाः स्रग्विणो वनमालिनः ॥

श्रीवत्सांकधराः सर्वे पीतवासोन्विताश्च ते

॥७८॥

चतुर्भुजाः कुंडलिनः किरीटकटकांगदैः ॥

हारनूपुरसूत्रैश्च कटिसूत्राङ्गुलीयकैः ॥

शोभिताः सर्व एवैते महापुरुषलक्षणाः

॥७९॥

तेषां मध्ये गतो विष्णुः श्रियोपेतः सुरारिहा

॥८०॥

बभौ त्रिलोकीकृतविश्वमंगलो महानुभावैर्हृदि कृत्य धिष्ठितः ॥

शिवेन साकं परमार्थदस्तदा हरिः परात्मा जगदेकबंधुः

॥८१॥

स तार्क्ष्यपुत्रोपरि संस्थितो महाँल्लक्ष्म्या समेतो भुवनैकभर्ता ॥

स चामरैर्वीज्यमानो मुनींद्रैः सर्वैः समेतो हरिरीश्वरो महान्

॥८२॥

तथा विरिंचिर्निजवाहनस्थो वेदैः समेतः सह षड्भिरंगैः ॥

तथागमैः सेतिहासैः पुराणैः स संवृतो हेमगर्भो बभूव

॥८३॥

वेधोहरिभ्यां च तदा सुरेद्रैः समावृतश्चर्षिभिः संपरीतः ॥

वृषारूढो वृषकेतुर्दुरापोयोगीश्वरैरपि सर्वैरगम्यः

॥८४॥

शुद्धस्फटिकसंकाशं वृषभं धर्मवत्सलम् ॥

समेतो मातृभिश्चैव गोभिश्च कृतलक्षणम्

॥८५॥

एभिस्समेतोऽसुरदानवैः सह ययौ महेशो विबुदैरलंकृतः ॥

हिमालयं गिरिवर्यं तदानीं पाणिग्रहार्थं प्रमदोत्तमायाः

॥८६॥

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखंडे श्रीशिवस्य विवाहवर्णनंनाम त्रयोविंशोऽध्यायः ॥ २३ ॥