मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — केदारखण्डः, अध्याय २४

3
माहेश्वरखण्डः · केदारखण्डः · 24

निवासस्थानकरणवर्णनम्

लोमश उवाच

तथैव सर्वं परया मुदान्वितश्चक्रे गिरींद्रः स्वसुतार्थमेव ॥

गर्गं पुरस्कृत्य महानुभावो मंगल्यभूमिं परया विभूत्या

॥१॥

आहूय विश्वकर्माणं कारयामास सादरम् ॥

मंडपं च सुविस्तीर्णं वेदिकाभिर्मनोरमम्

॥२॥

अयुतेनैव विस्तारं योजनानां द्विजोत्तमाः ॥

मंडपं च गुणोपेतं नानाश्चर्यसमन्विततम्

॥३॥

स्थावरं जंगमं चैव सदृशं च मनोहरम् ॥

जंगमं च जितं तत्र स्थावरेण तथैव च

॥४॥

जंगमेन च तत्रैव जितं स्थावरमेव च ॥

पयसा च जिता तत्र स्थलभूमिरभूत्तदा

॥५॥

जलं किं नु स्थलं तत्र न विदुस्तत्त्वतो जनाः ॥

क्वचित्सिंहाः क्वचिद्धंसाः सारसाश्च महाप्रभाः

॥६॥

क्वचिच्छिखंडिनस्तत्र कृत्रिमाः सुमनोहराः ॥

तथा नागाः कृत्रिमाश्च हयाश्चैव तथा मृगाः

॥७॥

के सत्याः के असत्याश्च संस्कृता विश्वकर्मणा ॥

तथैव चैवं विधिना द्वारपाः अद्भुताः कृताः

॥८॥

पुंसो धनूंषि चोत्कृष्य स्थावरा जंगमोपमाः ॥

तथाश्वाः सादिभिश्चैव गजाश्च गजसादिभिः

॥९॥

चामरैर्वीज्यमानाश्च केचित्पुष्पांकुरान्विताः ॥

केचिच्च पुरुषास्तत्र विरेजुः स्रग्विणस्तथा

॥१०॥

कृत्रिमाश्च तथा बह्व्यः पताकाः कल्पितास्तथा ॥

द्वारि स्थिता महालक्ष्मीः क्षीरोदधिसमुद्भवा

॥११॥

गजाः स्वलंकृता ह्यासन्कृत्रिमा ह्यकृतोपमाः ॥

तथाश्वाः सादिभिश्चैव गजाश्च गजसादिभिः

॥१२॥

रथा रथियुता ह्यासन्कृत्रिमा ह्यकृतोपमाः ॥

सर्वेषां मोहनार्थाय तथा च संसदः कृताः

॥१३॥

महाद्वारि स्थितो नंदी कृतस्तेन हि मंडपे ॥

शुद्धस्फटिकसंकाशो यथा नंदी तथैव सः

॥१४॥

तस्योपरि महद्दिव्यं पुष्पकं रत्नभूषितम् ॥

राजितं पल्लवाच्छत्रैश्चामरैश्च सुशोभितम्

॥१५॥

वामपार्श्वे गजौ द्वौ च शुद्धकाश्मीरसन्निभौ ॥

चतुर्दतौ षष्टिवर्षौ महात्मानौ महाप्रभौ

॥१६॥

तथैव दक्षिणे पार्श्वे द्वावश्वौ दंशितौ कृतौ ॥

रत्नालंकारसंयुक्ताँल्लोकपालांस्तथैव च

॥१७॥

षोडशप्रकृतीस्तेन याथातथ्येन धीमता ॥

सर्वे देवा यथार्थेन कृता वै विश्वकर्मणा

॥१८॥

तथैव ऋषयः सर्वे भृग्वाद्यश्च तपोधनाः ॥

विश्वे च पार्षदैः साकमिंद्रो हि परमार्थतः

॥१९॥

कृताः सर्वे महात्मानो याथातथ्येन धीमता ॥

एवंभूतः कृतस्तेन मंडपो दिव्यरूपवान्

॥२०॥

अनेकाश्चर्यसंभूतो दिव्यो दिव्यविमोहनः ॥

एतस्मिन्नंतरे तत्र आगतो नारदोग्रतः

॥२१॥

ब्रह्मणा नोदितस्तत्र हिमालयगृहं प्रति ॥

नारदोथ ददर्शाग्रे आत्मानं विनयान्वितम्

॥२२॥

भ्रांतो हि नारदस्तेन कृत्रिमेण महायशाः ॥

अवलोकपरस्तत्र चरितं विश्वकर्मणः

॥२३॥

प्रविष्टो मंडपं तस्य हिमाद्रे रत्नचित्रितम् ॥

सुवर्णकलशैर्जुष्टं रंभाद्यैरुपशोभितम्

॥२४॥

सहस्रस्तम्भसंयुक्तं ततोऽद्रिः स्वगणैर्वृतः ॥

तमृषिं पूजयामास किं कार्यमिति पृष्टवान्

॥२५॥

नारद उवाच

आगतास्ते महात्मानो देवा इन्द्रपुरोगमाः ॥

तथा महर्षयः सर्वे गणैश्च परिवारिताः ॥

महादेवो वृषारूढो ह्यागतोद्वहनं प्रति

॥२६॥

ततस्तद्वचनं श्रुत्वा हिमवान्गिरिसत्तमः ॥

उवाच नारदं वाक्यं प्रशस्तमधुरं महत्

॥२७॥

पूजयित्वा यथान्यायं गच्छ त्वं शंकरं प्रति

॥२८॥

ततस्तद्वचनं श्रुत्वा मुनिर्हिमवतो गिरेः ॥

तथैव मत्वा वचनं शैलराजानब्रवीत् ॥

मेनाकेन च सह्येन मेरुणा गिरिणा सह

॥२९॥

एभिः समेतो ह्यधुनामहामते यतस्व शीघ्रं शिवमत्र चानय ॥

देवैः समेतं च महर्षिवर्यैः सुरासुरैर्चितपादपंकजम्

॥३०॥

तथेति मत्वा स जगाम तूर्णां सहै व तैः पर्वतराजभिश्च ॥

त्वरागतश्चैकपदेन शंभुं प्राप्नोदृषीणां प्रवरो महात्मा

॥३१॥

तावद्दृष्टो महादेवो देवैश्च परिवारितः ॥

तदा ब्रह्मा च विष्णुश्च रुद्रश्चैव सुरैः सह

॥३२॥

पप्रचछुर्नारदं सर्वे येऽन्ये रुद्रचरा भृशम् ॥

कथ्यतां पृच्छमानानामस्माकं कथ्यते न हि

॥३३॥

एकैकस्यात्मजाः स्वाः स्वाः सह्यमैनाकमेरवः ॥

कन्यां दास्यंति वा शंभोः किं त्विदानीं प्रवर्तते

॥३४॥

ततोऽवोचन्महातेजा नारदश्चर्षिसत्तमः ॥

ब्रह्माणं पुरतः कृत्वा विष्णुं प्रति सहेतुकम्

॥३५॥

एकांतमाश्रित्य तदा सुरेन्द्रं स नारदो वाक्यमिदं बभाषे ॥

त्वष्ट्रा कृतं वै भवनं महत्तरं येनैव सर्वे च विमोहिता वयम्

॥३६॥

पुरा कृतं तस्य महात्मनस्त्वया किं विस्मृतं तत्सकलं शचीपते ॥

तस्मादसौ त्वां विजिगीषुकामो गृहे वसंस्तस्यगिरेर्महात्मनः

॥३७॥

अहो विमोहितस्तेन प्रतिरूपेण भास्वता ॥

तथा विष्णुः कृतस्तेन शंखचक्रगदादिभृत्

॥३८॥

ब्रह्मा चैव तथाभूतस्तं चैव कृतवानसौ

॥३९॥

मायामयो वृषभस्तेन वेषात्कृतो हि नागोश्वतरस्तथैव ॥

तथा चान्यान्याप्यनेनामरेन्द्र सर्वाण्येवोल्लिखितान्यत्र विद्धि

॥४०॥

तच्छ्रुत्वा वचनं तस्य देवेंद्रो वाक्यमब्रवीत्

॥४१॥

विष्णुं प्रति तदा शीघ्रं दृष्ट्वा यामि वसात्र भोः ॥

पुत्रशोकेन तप्तोऽसौ व्याजेनान्येन वाऽकरोत्

॥४२॥

तस्य तद्वचनं श्रुत्वा देवदेवो जनार्द्दनः ॥

उवाच प्रहसन्वाक्यं शक्रमाप्तभयं तदा

॥४३॥

निवातकवचैः पूर्वं मोहितोऽसि शचीपते ॥

विद्याऽमृता तत्र मया समानीतोपसत्तये

॥४४॥

महाविद्याबलेनैव प्रविश्य मण्डपेऽधुना ॥

पर्वतो हिमवानेष तथान्ये पर्वतोत्तमाः

॥४५॥

विपक्षा हि कृताः सर्वे मम वाक्याच्च वासव ॥

हेतुं स्मृत्वाथ वै त्वष्टा मायया ह्यकरोदिदम्

॥४६॥

जयमिच्छंति वै मूढा न च भेतव्यमण्वपि

॥४७॥

एवं विवदमानांस्तान्देवाञ्छक्रपुरोगमान् ॥

सांत्वयामास वै विष्णुर्नारदं ते ततोऽब्रुवन्

॥४८॥

ददाति वा न ददाति कन्यां गिरीन्द्रः स्वां वै कथ्यतां शीघ्रमेव ॥

किं तेन दृष्टां किं कृतं चाद्य शंस तत्सर्वं भो नारद ते नमोऽस्तु

॥४९॥

तच्छ्रुत्वा प्रहसञ्छंभुरुवाच वचनं तदा ॥

कन्यां दास्यति चेन्मह्यं पर्वतो हि हिमालयः ॥

मायया मम किं कार्यं वद विष्णो यथातथम्

॥५०॥

केनाप्वुपायेन फलं हि साध्यमित्युच्यते पंडितैर्न्यायविद्भिः ॥

तस्मात्सर्वैर्गम्यतां शीघ्रमेव कार्यार्थोभिश्चेन्द्रपुरोगमैश्च

॥५१॥

तदा शिवोऽपि विश्वात्मा पंचबाणेन मोहितः ॥

महाभूतेन भूतेशस्त्वन्येषां चैव का कथा

॥५२॥

एवं च विद्यमानेऽसौ शंभुः परमशोभनः ॥

कृतो ह्यनंगेन वशे यथान्यः प्राकृतो जनः

॥५३॥

मदनो हि बली लोके येन सर्वमिदं जगत् ॥

जितमस्ति निजप्रौढ्या सदेवर्षिसमन्वितम्

॥५४॥

सर्वेषामेव भूतानां देवानां च विशेषतः ॥

राजा ह्यनंगो बलवान्यस्य चाज्ञा बलीयसी

॥५५॥

पार्वतीस्त्रीस्वरूपेण अजेयो भुवनत्रये ॥

तां दृष्ट्वा हि स्त्रियं सर्वे ऋषयोऽपि विचक्षणाः

॥५६॥

देवा मनुष्या गन्धर्वाः पिशाचोरगराक्षसाः ॥

आज्ञानुल्लंघिनः सर्वे मदनस्य महात्मनः

॥५७॥

तपोबलेन महता तथा दानबलेन च ॥

वेत्तुं न शक्यो मदंनो विनयेन विना द्विजाः

॥५८॥

तस्मादनंगस्य महान्क्रोधो हि बलवत्तरः ॥

ईश्वरं मदनेनैवं मोहितं वीक्ष्य माधवः

॥५९॥

उवाच वाक्यं वाक्यज्ञो मा चिंतां कुरु वै प्रभो ॥

यदुक्तं नारदेनैव मंडपं प्रति सर्वशः

॥६०॥

त्वष्ट्रा कृतं विचित्रं च तत्सर्वं मदनात्प्रभोः ॥

तदानीं शंकरो वाक्यमुवाच मधुसूदनम्

॥६१॥

अविद्यया वृतं तेन कृतं त्वष्ट्रा हि मण्डपम् ॥

किं तु वक्ष्यामहे विष्णो मण्डपः केवलेन हि

॥६२॥

विवाहो हि महाभाग अविद्यामूल एव च ॥

तस्मात्सर्वे वयं याम उद्वाहार्थं च संप्रति

॥६३॥

नारदं च पुरस्कृत्य सर्वे देवाः सवासवाः ॥

हिमाद्रिसहिता जग्मुर्मन्दिरं परमाद्भुतम् ॥

अनेकाश्चर्यसंयुक्तं विचित्रं विश्वकर्मणा

॥६४॥

कृतं च तेनाद्य पवित्रमुत्तमं तं यज्ञवाटं बहुभिः पुरस्कृतम् ॥

विचित्रचित्रं मनसो हरं च तं यज्ञवाटं स चकार बुद्धिमान्

॥६५॥

प्रवेक्ष्यमाणास्ते सर्वे सुरेन्द्रा ऋषिभिः सह ॥

दृष्टा हिमाद्रिणा तत्र अभ्युत्थानगतोऽभवत्

॥६६॥

तथैव तेषां च मनोहराणि हर्म्याणि तेन प्रतिकल्पितानि ॥

गन्धर्वयक्षाः प्रमथाश्च सिद्धा देवाश्च नागाप्सरसां गणाश्च ॥

वसंति यत्रैव सुखेन तेभ्यः स तत्रतत्रोपवनं चकार

॥६७॥

तेषामर्थे महार्हाणि धाराजिरगृहाणि च ॥

अत्यद्भुतानि शोभंते कृतान्येव महात्मना

॥६८॥

निवासार्थे कल्पितानि सावकाशानि तत्र वै ॥

देवानां चैव सर्वेषामृषीणां भावितात्मनाम्

॥६९॥

एवं विस्तारयामास विश्वकर्मा बहून्यपि ॥

मन्दिराणि यथायोग्यं यत्र तत्रैव तिष्ठताम्

॥७०॥

भैरवाः क्षेत्रपालाश्च येऽन्ये च क्षेत्रवासिनः ॥

श्मशानवासिनश्चान्ये येऽन्ये न्यग्रोधवासिनः

॥७१॥

अश्वत्थसेविनश्चान्ये खेचराश्च तथा परे ॥

येये यत्रोपविष्टाश्च तत्रतत्रैव तेन वै

॥७२॥

कृतानि च मनोज्ञानि भवनानि महांतिवै ॥

तेषामेवानुकूलानि भूतानां विश्वकर्मणा

॥७३॥

तत्रैव ते सर्वगणैः समेता निवासितास्तेन हिमाद्रिणा स्वयम् ॥

सेंद्राः सुरा यक्षपिशाचरक्षसां गन्धर्वविद्याप्सरसां समूहाः

॥७४॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखंडे पार्वतीपरिणयने हिमाद्रिणा देवानां निवासस्थानकरणवर्णनंनाम चतुर्विंशोऽध्यायः ॥ २४ ॥