मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — केदारखण्डः, अध्याय २

3
माहेश्वरखण्डः · केदारखण्डः · 2

सतीदेव्यागमनवर्णनम्

लोमश उवाच

एकदा तु तदा तेन यज्ञः प्रारंभितो महान् ॥

तत्राहूतास्तदा सर्वे दीक्षितेन तपस्विना

॥१॥

ऋषयो विविधास्तत्र वशिष्ठाद्याः समागताः ॥

अगस्त्यः कश्यपोऽत्रिश्च वामदेवस्तथा भृगुः

॥२॥

दधीचो भगवान्व्यासो भरद्वाजोऽथ गौतमः ॥

एते चान्ये च बहवः समाजग्मुर्महर्षयः

॥३॥

तथा सर्वे सुरगणा लोकपालस्तथाऽपरे विद्याधराश्च गंधर्वाः किंनराप्सरसां गणाः

॥४॥

सप्तलोकात्समानीतो ब्रह्मा लोकपितामहः ॥

वैकुंठाच्च तथा विष्णुः समानीतो मरवं प्रति

॥५॥

देवेन्द्रो हि समानीत इंद्राण्या सह सुप्रभः ॥

तथा चंद्रो हि रोहिण्या वरुणः प्रिययया सह

॥६॥

कुबेरः पुष्पकारूढो मृगाऽऽरूढोऽथ मारुतः ॥

बस्ताऽऽरूढः पावकश्च प्रेताऽऽरूढोऽथ निर्ऋति

॥७॥

एते सर्वे समायाता यज्ञवाटे द्विजन्मनः ॥

ते सर्वे सत्कृतास्तेन दक्षेण च दुरात्मना

॥८॥

भवनानि महार्हाणि सुप्रभाणि महांति च ॥

त्वष्ट्रा कृतानि दिव्यानि कौशल्येन महात्मना

॥९॥

तेषु सर्वेषु धिष्ण्येषु यथाजोषं समास्थिताः

॥१०॥

वर्त्तमाने महायज्ञे तीर्थे कनखले तथा ॥

ऋत्विजश्च कृतास्तेन भृग्वाद्याश्च तपोधनाः

॥११॥

दीक्षायुक्तस्तदा दक्षः कृतकौतुकमंगलः ॥

भार्यया सहितो विप्रैः कृतस्वत्ययनो भृशम्

॥१२॥

रेजे महत्त्वेन तदा सुहृद्भिः परितः सदा ॥

एतस्मिन्नंतरे तत्र दधीचिर्वाक्यमब्रवीत्

॥१३॥

दधीचिरुवाच

एते सुरेशा ऋषयो महत्तराः सलोकपालाश्च समागतास्तव ॥

तथाऽपि यज्ञस्तु न शोभते भृशंपिनाकिना तेन महात्मना विना

॥१४॥

येनैव सर्वाण्यपि मंगलानि जातानि शंसंति महाविपश्चितः ॥

सोऽसौ न दृष्टोऽत्र पुमान्पुराणो वृषध्वजो नीलकण्ठः कपर्दी

॥१५॥

अमंगलान्येव च मंगलानि भवंति येनाधिकृतानि दक्ष ॥

त्रियंबकेनाथ सुमंगलानि भवंति सद्योह्यपमंगलानि

॥१६॥

तस्मात्त्वयैव कर्तव्यमाह्वानं परमेष्ठिना ॥

त्वरितं चैव शक्रेण विष्णुना प्रभविष्णुना

॥१७॥

सर्वैरेव हि गंतव्यं यत्र देवो महेश्वरः

॥१८॥

दाक्षायण्या समेतं तमानयध्वं त्वरान्विताः ॥

तेन सर्वं पवित्रं स्याच्छंभुना योगिना भृशम्

॥१९॥

यस्य स्मृत्या च नामोक्त्या समग्रं सुकृतं भवेत् ॥

तस्मात्सर्वप्रयत्नेन समानेयो वृषध्वजः

॥२०॥

तस्य तद्वचनं श्रुत्वा प्रहसन्नाह दुष्टधीः ॥

मूलं विष्णुर्हि देवानां यत्र धर्मः सनातनः

॥२१॥

यस्मिन्वेदाश्च यज्ञाश्च कर्माणिविविधानि च ॥

प्रतिष्ठितानि सर्वाणि सोऽसौ विष्णुरिहागतः

॥२२॥

सत्यलोकात्समायातो ब्रह्मा लोकपितामहः ॥

वेदैश्चोपनिषद्भिश्च आगमैर्विविधैः सह

॥२३॥

तथा सुरगणैः साकमागतः सुरराट्‌ स्वयम् ॥

तथा यूयं समायाता ऋषयो वीतकल्मषाः

॥२४॥

येये यज्ञोचिताः शांतास्तेते सर्वे समागताः ॥

वेदवेदार्थतत्त्वज्ञाः सर्वे यूयं दृढव्रताः

॥२५॥

अत्रैव च किमस्माकं रुद्रेणापि प्रयोजनम्. ॥

कन्या दत्ता मया विप्रा ब्रह्मणा नोदितेन हि

॥२६॥

अकुलीनो ह्यसौ विप्रा नष्टो नष्टप्रियः सदा ॥

भूतप्रेतपिशाचानां पतिरेको दुरत्ययः

॥२७॥

आत्मसंभावितो मूढःस्तब्धो मौनी समत्सरः ॥

कर्मण्यस्मिन्नयोग्योऽसौ नानीतो हि मयाऽधुना

॥२८॥

तस्मात्त्वया न वक्तव्यं पुनरेवं वचोद्विज ॥

सर्वैर्भवद्भिः कर्तव्यो यज्ञो मे सफलो महान्

॥२९॥

एतच्छ्रुत्वा वचस्तस्य दधीचिर्वाक्यमब्रवीत्

॥३०॥

दधीचिरुवाच

सर्वेषामृषिवर्याणां सुराणां भावितात्मनाम् ॥

अनयोऽयं महाञ्जातो विना तेन महात्मना

॥३१॥

विनाशोऽपि महान्सद्योह्यत्रत्यानां भविष्यति ॥

एवमुक्त्वा दधीचोऽसावेक एव विनिर्गतः

॥३२॥

यज्ञवाटाच्च दक्षस्य त्वरितः स्वाश्रमं ययौ ॥

मुनौ विनिर्गते दक्षः प्रहसन्निदमब्रवीत्

॥३३॥

गतः शिवप्रियो वीरो दधीचिर्नाम नामतः ॥

आविष्टचित्ता मंदाश्च मिथ्यावादरताः खलाः

॥३४॥

वेदबाह्य दुराचारास्त्याज्यास्ते ह्यत्र कर्मणि ॥

वेदवादरता यूयं सर्वे विष्णुपुरोगमाः

॥३५॥

यज्ञं मे सफलं विप्राः कुर्वंतु ह्यचिरादिव ॥

तदा ते देवयजनं चक्रुः सर्वे सहर्षयः

॥३६॥

एतस्मिन्नंतरे तत्र पर्वते गंधमादने ॥

धारागृहे विमानेन सखीभिः परिवारिता

॥३७॥

दाक्षायणी महादेवी चकार विविधास्तदा ॥

क्रीडा विमानमध्यस्ता कन्दुकाद्याः सहस्रशः

॥३८॥

क्रीडासक्ता तदा देवी ददर्शाथ महासती ॥

यज्ञं प्रयांतं सोमं च रोहिण्या सहितं प्रभुम्

॥३९॥

क्व गमिष्यति चंद्रोऽयं विजये पृच्छ सत्वरम् ॥

तयोक्ता विजया देवी तं पप्रच्छ यथोचितम्

॥४०॥

कथितं तेन तत्सर्वं दक्षस्यैव मखादिकम् ॥

तच्छ्रुत्वा त्वरिता देवी विजया जातसंभ्रमा ॥

कथयामास तत्सर्वं यदुक्तं शशिना भृशम्

॥४१॥

विमृश्य कारणं देवी किमाह्वानं करोति न ॥

दक्षः पिता मे माता च विस्मृता मां कुतोऽधुना

॥४२॥

पृच्छामि शंकरं चाद्य कारणं कृतनिश्चया ॥

स्थापयित्वा सखीस्तत्र आगता शंकरं प्रति

॥४३॥

ददर्शतं सभामध्ये त्रिलोचनमवस्थितम् ॥

गणैः परिवृतं सर्वैश्चंडमुंडादिभिस्तदा

॥४४॥

बाणो भृंगिस्तथा नंदी शैलादो हि महातपाः ॥

महाकालो महाचंडो महामुंडो महाशिराः

॥४५॥

धूम्राक्षो धूम्रकेतुश्च धूम्रपादस्तथैव च ॥

एते चान्ये च बहवो गणा रुद्रानुवर्तिनः

॥४६॥

केचिद्भयानका रौद्राः कबंधाश्च तथा परे ॥

विलोचनाश्च केचिच्च वक्षोहीनास्तथा परे

॥४७॥

एवंभूताश्च शतशः सर्वे ते कृत्तिवाससः ॥

जटाकलापसंभूषाः सर्वे रुद्राक्षभूषणाः

॥४८॥

जितेंद्रिया वीतरागाः सर्वे विषयवैरिणः ॥

एभिः सर्वैः परिवृतः शंकरो लोकशंकरः ॥

दृष्टस्तया उपाविष्ट आसने परामाद्भुते

॥४९॥

आक्षिप्तचित्ता सहसा जगाम शिवसंनिधिम् ॥

शिवेन स्थापिता स्वांके प्रीतियुक्तेन वल्लभा

॥५०॥

प्रेम्णोदिता वचोभिः सा बहुमानपुरःसरम् ॥

किमागमनकार्यंमे वद शीघ्रं सुमध्यमे

॥५१॥

एवमुक्ता तदा तेन उवाचासितलोचना

॥५२॥

सत्युवाच

पितुर्मम महायज्ञे कस्मात्तव न रोचते ॥

गमनं देवदेवश तत्सर्वं कथय प्रभो

॥५३॥

सुहृदामेष वै धर्मः सुहृद्भिः सह संगतिम् ॥

कुर्वंति यन्महादेव सुहृदां प्रीतिवर्धिनीम्

॥५४॥

तसमात्सर्वप्रयत्नेन अनाहूतोऽपि गच्छ भोः ॥

यज्ञवाटं पितुर्मेऽद्य वचनान्मे सदाशिव

॥५५॥

तस्यास्तद्वचनं श्रुत्वा ब भाषे सूनृतं वचः ॥

त्वया भद्रे न गंतव्यं दक्षस्य यजनं प्रति

॥५६॥

तस्य ये मानिनः सर्वे ससुरासुकिंनराः ॥

ते स्रेव यजनं प्राप्ताः पितुस्तव न संशयः

॥५७॥

अनाहूताश्च ये सुभ्रु गच्छंति परमन्दिरम् ॥

अपमानं प्राप्नुवन्ति मरणादधिकं ततः

॥५८॥

परेषां मंदिरं प्राप्त इंद्रोपि लघुतां व्रजेत् ॥

तस्मात्त्वाया न गंतव्यं दक्षस्य यजनं शुभे

॥५९॥

एवमुक्ता सती तेन महेशेन महात्मना ॥

उवाच रोषसंयुक्तं वाक्यं वाक्यविदां वरा

॥६०॥

यज्ञो हि सत्यं लोके त्वं स त्वं देववरेश्वर ॥

अनाहूतोऽसि तेनाद्य पित्रा मे दृष्टचारिणा ॥

तत्सर्वं ज्ञातुमिच्छामि तस्य भावं दुरात्मनः

॥६१॥

तस्माच्चाद्यैव गच्छामि यज्ञवाडं पितुर्म्मम ॥

अनुज्ञां देहि मे नाथ देवदेव जगत्पते

॥६२॥

इत्युक्तो भगवान्रुद्रस्तया देव्या शिवः स्वयम् ॥

विज्ञाताखिलदृग्द्रष्टा भगवान्भूतभावनः

॥६३॥

स तामुवाच देवेशो महेशः सर्वसिद्धिदः ॥

गच्छ देवि त्वरायुक्ता वचनान्मम सुव्रते

॥६४॥

एतं नंदिनमारुह्य नानाविधगणान्विता ॥

गणाः षष्टिसहस्राणि जग्मूरौद्राः शिवज्ञया

॥६५॥

तैर्गणैः संवृता देवी जगाम पितृमंदिरम् ॥

निरीक्ष्य तद्बलं सर्वं महादेवोतिविस्मितः

॥६६॥

भूषणानि महार्हाणि तेभ्यो देव्यै परंतपः ॥

प्रेषयामास चाव्यग्रो महादेवोऽनु पृष्ठतः

॥६७॥

देव्या गतं वै स्वपितुर्गृहं तदा विमृश्य सर्वं भगवान्महेशः ॥

दाक्षायणी पित्रवमानिता सती न यास्यतीति स्वपुरं पुनर्जगौ

॥६८॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखंडे दक्षयज्ञं प्रति सतीदेव्यागमनवर्णनंनाम द्वितीयोऽध्यायः ॥ २ ॥