शिवभक्तिमाहात्म्यवर्णनम्
लोमश उवाच
विष्णौ गते तदा सर्वे देवाश्च ऋषिभिः सह ॥
विनिर्जिता गणैः सर्वे ये च यज्ञोपजीविनः
॥१॥भृगुं च पातयामास स्मश्रूणां लुंचनं कृतम् ॥
द्विजांश्चोत्पाटयामास पूष्णो विकृतविक्रियान्
॥२॥विडंबिता स्वधा तत्र ऋषयश्च विडंबिताः ॥
ववृषुस्ते पुरीषेण वितानाग्नौ रुपान्विताः
॥३॥अनिर्वाच्यं तदा चक्रुर्गणाः क्रोधसमन्विताः ॥
अंतर्वेद्यंतरगतो दक्षो वै महतो भयात्
॥४॥तं निलीनं समाज्ञाय आनिनायरुषान्वितः ॥
कपोलेषु गृहीत्वा तं खड्गेनोपहतं शिरः
॥५॥अभेद्यं तच्छिरो मत्वा वीरभद्रः प्रतापवान् ॥
स्कंधं पद्भ्यां समाक्रम्य कधरेऽपीडयत्तदा
॥६॥गंधरात्पाट्यमानाच्च शिरश्छिन्नं दुरात्मनः ॥
दक्षस्य च तदा तेन वीरभद्रेण धीमता ॥
तच्छिरः सुहुतं कुंडे ज्वलिxxxxxxx
॥७॥ये चान्य ऋषयो देवाः पितरो यक्षराक्षसाः ॥
गणैरुपद्रुताः सर्वे पलायनपरा ययुः
॥८॥चंद्रादित्यगणाः सर्वे ग्रहनक्षत्रतारकाः ॥
सर्वे विचलिता ह्यासन्गणैस्तेपि ह्युपद्रुताः
॥९॥सत्यलोकं गतो ब्रह्मा पुत्रशोकेन पीडितः ॥
चिंतयामास चाव्यग्रः किं कार्यं कार्यमद्य वै
॥१०॥मनसा दूयमानेन शंन लेभे पितामहः ॥
ज्ञात्वा सर्वं प्रयत्नेन दुष्कृतं तस्य पापिनः
॥११॥गमनाय मतिं चक्रे कैलासं पर्वतं प्रति ॥
हंसारूढो महातेजाः सर्वदेवैः समन्वितः
॥१२॥प्रविष्टः पर्वतश्रेष्ठं स ददर्श सदाशिवम् ॥
एकांतवासिनं रुद्रं शैलादेन समन्वितम्
॥१३॥कपर्द्दिनं श्रिया युक्तं वेदांगानां च दुर्गमम् ॥
तथाविधं समालोक्य ब्रह्म क्षोभपरोऽभवत्
॥१४॥दंडवत्पतितो भूमौक्षमापयितुमुद्यतः ॥
संस्पृशं स्तत्पदाब्जं च चतुर्मुकुटकोटिभिः ॥
स्तुतिं कर्तुं समारेभे शिवस्य परमात्मनः
॥१५॥ब्रह्मोवाच
नमो रुद्राय शांताय ब्रह्मणे परमात्मने ॥
त्वं हि विश्वसृजां स्रष्टा धाता त्वं प्रपितामहः
॥१६॥नमो रुद्राय महते नीलकंठाय वेधसे ॥
विश्वाय विश्वबीजाय जगदानंदहेतवे
॥१७॥ओंकारस्त्वं वषट्कारः सर्वारंभप्रवर्तकः ॥
यज्ञोसि यज्ञकर्मासि यज्ञानां च प्रवर्तकः
॥१८॥सर्वेषां यज्ञकर्तॄणां त्वमेव प्रतिपालकः ॥
शरण्योसि महादेव सर्वेषां प्राणिनां प्रभो ॥
रक्ष रक्ष महादेव पुत्रशोकेन पीडितम्
॥१९॥महादेव उवाच
श्रृणुष्वावहितो भूत्वा मम वाक्यं पितामह ॥
दक्षस्य यज्ञभंगोयं न कृतश्च मया क्वचित्
॥२०॥स्वीयेन कर्मणा दक्षो हतो ब्रह्मन्न संशयः
॥२१॥परेषां क्लेशदं कर्म न कार्यं तत्कदाचन ॥
परमेष्ठिन्परेषां यदात्मनस्तद्भविष्यति
॥२२॥एवमुक्त्वा तदा रुद्रो ब्रह्मणा सहितः सुरैः ॥
ययौ कनखलं तीर्थं यज्ञवाटं प्रजापतेः
॥२३॥रुद्रस्तदा ददर्शाय वीरभद्रेण यत्कृतम् ॥
स्वाहा स्वधा तथा पूषा भृगुर्मतिमतां वरः
॥२४॥तदान्य ऋषयः सर्वे पितरश्च तथाविधाः ॥
येऽन्ये च बहवस्तत्र यक्षगंधर्वकिन्नराः
॥२५॥त्रोटिता लुंचिताश्चैव मृताः केचिद्रणाजिरे
॥२६॥शंभुं समागतं दृष्ट्वा वीरभद्रो गणैः सह ॥
दंडप्रणामसंयुक्तस्तस्थावग्रे सदाशिवम्
॥२७॥दृष्ट्वा पुरः स्थितं रुद्रो वीरभद्रं महाबलम् ॥
उपाच प्रहसन्वाक्यं किं कृतं वीर नन्विदम्
॥२८॥दक्षमानय शीघ्रं भो येनेदं कृतमीदृशम् ॥
यज्ञे विलक्षणं तात यस्येदं फलमीदृशम्
॥२९॥एवमुक्तः शंकरेण वीरभद्रस्त्वरान्वितः ॥
कबंधमानयित्वाथ शंभोरग्रे तदाक्षिपत्
॥३०॥तदोक्तः शंकरेणैव वीरभद्रो महामनाः ॥
शिरः केना पनीतं च दक्षस्यास्य दुरात्मनः
॥३१॥दास्यामि जीवनं वीर कुटिलस्यापि चाधुना ॥
एवमुक्तः शंकरेण वीरभद्रोऽब्रवीत्पुनः
॥३२॥मया शिरो हुतं चाग्नौ तदानीमेव शंकर ॥
अवशिष्टं शिरःशंभो पशोश्च विकृताननम्
॥३३॥इति ज्ञात्वा ततो रुद्रः कबंधोपरि चाक्षिपत् ॥
शिरः पशोश्च विकृतं कूर्चयुक्तं भयावहम्
॥३४॥स दक्षो जीवितं लेभे प्रसादाच्छंकरस्य च ॥
स दृष्ट्वाग्रे तदा रुद्रं दक्षो लज्जासमन्वितः ॥
तुष्टाव प्रणतो भूत्वा शंकरं लोकशंकरम्
॥३५॥दक्ष उवाच
नमामि देवं वरदं वरेण्यं नमामि देवेश्वरं सनातनम् ॥
नमामि देवाधिपमीश्वरं हरं नमामि शंभुं जगदेकबंधुम्
॥३६॥नमामि विश्वेश्वरविश्वरूपं सनातनं ब्रह्म निजात्मरूपम् ॥
नमामि सर्वं निजभावभावं वरं वरेण्यं नतोऽस्मि
॥३७॥लोमश उवाच
दक्षेण संस्तुतो रुद्रो बभाषे प्रहसन्रहः
॥३८॥हर उवाच
चतुर्विधा भजंते मां जनाः सुकृतिनः सदा ॥
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च द्विजसत्तम
॥३९॥तस्मान्मे ज्ञानिनः सर्वे प्रियाः स्युर्नात्र संशयः ॥
विना ज्ञानेन मां प्राप्तुं यतंते ते हि बालिशः
॥४०॥केवलं कर्मणा त्वं हि संसारात्तर्तुमिच्छसि
॥४१॥न वेदैश्च न दानैश्च न यज्ञैस्तपसा क्वचित् ॥
न शक्नुवंति मां प्राप्तुं मूढाः कर्म्मवशानराः
॥४२॥तस्माज्ज्ञानपरो भूत्वा कुरु कर्म्म समाहितः ॥
सुखदुःखसमो भूत्वा सुखी भव निरंतरम्
॥४३॥लोमश उवाच
उपदिष्टस्तदा तेन शंभुना परमेष्ठिना ॥
दक्षं तत्रैव संस्थापाय ययो रुद्रः स्वपर्वतम्
॥४४॥ब्रह्मणापि तथा सर्वे भृग्वाद्याश्च महर्षयः ॥
आश्वासिता बोधिताश्च ज्ञानिनश्चाभवन्क्षणात्
॥४५॥गतः पितामहो ब्रह्मा ततश्च सदनं स्वकम्
॥४६॥दक्षोपि च स्वयं वाक्यात्परं बोधमुपागतः।
शिवध्यानपरो भूत्वा तपस्तेपे महामनाः
॥४७॥तस्मात्सर्वप्रयत्नेन संक्षेव्यो भगवाञ्छिवः
॥४८॥संमार्जनं च कुर्वंति नरा ये च शिवांगणे ॥
ते वै शिवपुरं प्राप्य जगद्वंद्या भग्सि च
॥४९॥ये शिवस्य प्रयच्छति दर्प्पणं सुमहाप्रभम् ॥
भविष्यंति शिवस्याग्रे पार्षदत्वेन ते नराः
॥५०॥चामराणि प्रयच्छंति देवदेवस्य शूलिनः ॥
चामरैर्वीज्यपानास्ते भविष्यंति जगत्त्रय
॥५१॥दीपदानं प्रयच्छंति महादेवालये नराः ॥
तेजस्विनो भविष्यंति ते त्रैलोक्यप्रदीपका
॥५२॥धूपं ये वै प्रयच्छन्ति शिवाय परमात्मने ॥
यशस्विनो भविष्यंति उद्धरन्ति कुलद्वयम्
॥५३॥नैवेद्यं ये प्रयच्छंति भकया हरिहराग्रतः ॥
सिक्थेसिक्थे क्रतुफलं प्राप्नुवंति हि ते नराः
॥५४॥भग्नं शिवालयं ये च प्रकुर्वंति नरोत्तमाः ॥
प्राप्नुवति फल ते वै द्विगुणं नात्र संशयः
॥५५॥नूतनं ये प्रकृर्वंति इष्टकैरश्मनापि वा ॥
स्वर्गे हि ते प्रमोदंते यावत्तिष्ठति निर्मलम् ॥
यशो भूमौ द्विजश्रेष्ठा कार्या विचारणा
॥५६॥कारयंति च ये विप्राः प्रासादं बहुभूमिकम् ॥
शिवस्याथ महाप्राज्ञाः प्राप्नुवंति परां गतिम्
॥५७॥शुद्धं धवलितं ये च कुर्वन्ति हरमंदिरम् ॥
स्वीयं परकृतं चापि तेऽपि यांति परां गतिम्
॥५८॥वितानं ये प्रयच्छति नराः सुकृतिनोपि हि ॥
तारयति कुलं कृत्स्नं शिवलोकं गताः पुनः
॥५९॥ये च नादमयीं घंटां निबध्नंति शिवालये ॥
तेजस्विनः कीर्तिमंतो भविष्यंति जगत्त्रये
॥६०॥एककालं द्विकालं वा त्रिकालं चानुपश्यति ॥
आढ्यो वापि दरिद्रो वा सुखं दुःखात्प्रचुच्यते
॥६१॥श्रद्धावान्भजते यो वा शिवाय परमात्मने ॥
कुलकोटिं समुद्धृत्य शिवेन सह मोदते
॥६२॥अत्रैवोदाहरंतीम मितिहासं पुरातनम् ॥
ऐंद्रद्युम्नेश्च संवादं यमस्य च महात्मनः
॥६३॥पुरा कृतयुगे ह्यसीदिन्द्रसेनो नराधिपः ॥
प्रतिष्ठानाधिपो वीरो मृगयारसिकः सदा
॥६४॥अब्रह्मण्यः सदा क्रूरः केवलासुतृपः सदा ॥
परप्राणौर्निजप्राणान्पुष्णाति स खलः सदा
॥६५॥परस्त्रीलं पटोऽत्यंतं परद्रव्येषु लोलुपः ॥
ब्राह्मणा घातितास्तेन सुरापश्च निरंतरम्
॥६६॥गुरुलत्पगतोत्यर्थं सदा सौवर्णतस्करः ॥
तथाभूतानुगाः सर्वे राज्ञस्तस्य दुरात्मनः
॥६७॥एवं बहुविधं राज्यं चकार स दुरात्मवान् ॥
ततः कालेन महता पंचत्वं प्राप दुर्मतिः
॥६८॥तदा याम्यैश्च नीतोऽसाविंद्रसेनो दुरात्मवान् ॥
यमान्तिकमनुप्राप्तस्तदा राजा सकल्मषः
॥६९॥यमेन दृष्टस्तत्रासाविंद्रसेनोग्रतः स्थितः ॥
अभ्युत्थानपरो भूत्वा ननाम शिरसा शिवम्
॥७०॥दूतान्संभर्त्सयामास यमो धर्मभृतां वरः ॥
पाशैर्बद्धं चंद्रसेनं मुक्त्वा प्रोवाच धर्मराट्
॥७१॥गच्छ पुण्यतमाँल्लोकान्भुंक्ष्व राजन्यसत्तम ॥
यावदिंद्रश्च नाकेऽस्ति यावत्सूर्यो नभस्तले
॥७२॥पंचभूतानि यावच्च तावत्त्वं च सुखी भव ॥
सुकृती त्वं महाराज शिवभक्तोऽसि नित्यदा
॥७३॥यमस्य वचनं श्रुत्वा इंद्रसेनोभ्यभाषत ॥
अहं शिवं न जानामि मृगयारसिको ह्यहम्
॥७४॥तच्छ्रुत्वा वचनं तस्य यमो भाष्यमभाषत ॥
आहर प्रहरस्वेति उक्तं चेदं सदा त्वया
॥७५॥तेन कर्मविपाकेन सदा पूतोसि मानद ॥
तस्मात्त्वं गच्छ कैलासं पर्वतं शंकरं प्रति
॥७६॥एवं संभाषमाणस्य यमस्य च महात्मनः ॥
आगताः शिवद्वतास्ते वृषारूढा महाप्रभाः
॥७७॥नीलकंठा दशभुजाः पंचवक्त्रास्त्रिलोचनाः ॥
कपर्द्दिनः कुंडलिनः शशंकांकितमौलयः
॥७८॥तान्दृष्ट्वा सहसोत्थाय यमो धर्मभृतां वरः ॥
पूजयामास तान्सर्वान्महेंद्रप्रतिमांस्तदा
॥७९॥त्वरीरेनैव ते सर्वे ऊचुर्वैवस्वतं यमम् ॥
अत्रागतो महाभाग इंद्रसेनोऽमितद्युतिः ॥
नाम्नाः प्रवर्त्तको नित्यं रुद्रस्य च महात्मनः
॥८०॥श्रुत्वा च वचनं तेषां यमेन च पुरस्कृतः ॥
इंद्रसेनो विमानस्थः प्रेषितो हि शिवालयम्
॥८१॥आनीतोयं तदा तैश्च पार्षदप्रवरोत्तमैः ॥
शंभुना हि तदा दृष्ट इंद्रसेनोऽमितद्युतिः
॥८२॥अभ्युत्थायागतो रुद्रः परिष्वज्य तदा नृपम् ॥
अर्द्धासनगतं कृत्वा इंद्रसेनं ततोऽब्रवीत्
॥८३॥किं दातव्यं नृपश्रेष्ठ प्रयच्छामि तवेप्सितम् ॥
इति श्रुत्वा वचस्तस्य महेशस्य तदा नृपः ॥
आनंदाश्रुकणान्मुंचन्प्रेम्णा नोवाच किंचन
॥८४॥तदा कृतो महेशेन पार्षदो हि महात्मना ॥
चंडो नाम्नाच विख्यातोमुण्डस्य च सखा प्रियः
॥८५॥नामोच्चारणमात्रेण रुद्रस्य परमात्मनः ॥
सिद्धिं प्राप्तो हि पापिष्ठ इद्रसेनो नराधिपः
॥८६॥रहेहरेति वै नाम्ना शंभोश्चक्रधरस्य च ॥
रक्षिता बहवो मर्त्याः शिवेन परमात्मना
॥८७॥महेशान्नापरो देवो दृश्यतेभुवनत्रये ॥
तस्मात्सर्वप्रयत्नेन पूजनीयः सदाशिवः
॥८८॥पत्रैःपुष्पैः फलैर्वापि जलैर्वा विमलैः सदा ॥
करवीरैः पूज्यमानः शंकरो वरदो भवेत्
॥८९॥करवीराद्दशगुणमर्कपुष्पं विशिष्यते ॥
विभूत्यादिकृतं सर्वं जगदेतच्चराचरम्
॥९०॥शिवस्यांगणलग्ना या तस्मात्तां धारयेत्सदा ॥
ततस्त्रिपुंड्रे यत्पुम्यं तच्छृणुध्वं द्विजोत्तमाः
॥९१॥सर्वपापहरं पुण्यं तच्छृणुध्वं द्विजोत्तमाः ॥
स्तेनः कोऽपि महापापो घातितो राजदूतकैः
॥९२॥तं खादितुं समायातः श्वाशिरस्युपरिस्थितः ॥
नखांतरालसंलग्ना रक्षा तस्यैव पापिनः
॥९३॥ललाटे पतिता तस्य त्रिपुंड्रांकिंतमुद्रया ॥
चैतन्येन विना तस्य देहमात्रैकलग्नया
॥९४॥कैलासं तस्करो नीतो रुद्रदूतैस्ततस्तदा ॥
विभूतेर्महिमानं तु को विशेषितुर्महति
॥९५॥विभूत्वा मंडितांगानां नराणां पुण्यकर्मणाम् ॥
मुखे पंचाक्षरो येषां रुद्रास्ते नात्र संशयः
॥९६॥जटाकलापिनो ये च ये रुद्राक्षविभूषणाः ॥
ते वै मनुष्यरूपेण रुद्रा नास्त्यत्र संशयः
॥९७॥तस्मात्सदाशिवः पुंभिः पूजनीयो हि नित्यशः ॥
प्रातर्मध्याह्नकाले च सायं संध्या विशिष्यते
॥९८॥प्रातस्तु दर्शनाच्छंभोर्नैशमेनो व्यपोहति ॥
मध्याह्ने दर्शनाच्छंभोः सप्तजन्मार्जितं नृणाम् ॥
पापं प्रणाशमायाति निशायां नैव गण्यते
॥९९॥शिवेति द्व्यक्षरं नाम महा पापप्रणाशनम् ॥
येषां मुखोद्गतं नॄणां तैरिदं धार्यते जगत्
॥१००॥शिवांगणे तु या भेरी स्थापिता पुण्यकर्मभिः ॥
तस्या नादेन पूता वै ये च पापरता जनाः ॥
पाषंडिनोऽप्यसद्वादास्तेऽपि यांति परां गतिम्
॥१०१॥पशोर्यस्य च संबद्धा चर्मणा च शिवालये ॥
नृभिर्या स्थापिता भेरी मृदंगमुरजादि च ॥
स पशुः शिवसान्निध्यमाप्नोत्यत्र न संशयः
॥१०२॥तस्मात्ततं च विततं घनं सुषिरमेव च ॥
चामराणि महार्हाणि मंचकाः शयनानि च
॥१०३॥गाथाश्च इतिहासाश्च गायनं च यथाविधि ॥
बहुरूपादिकं शंभोः प्रियान्येतानि कल्पयेत्
॥१०४॥कल्पयित्वा च गच्छंति शिवलोकं हि पापिनः ॥
सुधर्माणो महात्मानः शिवपूजाविशारदाः
॥१०५॥गुरोर्मुखाच्च संप्राप्तशिवपूजारताश्च ये ॥
शिवरूपेण ये विश्वं पश्यंति कृतनिश्चयाः
॥१०६॥सम्यग्बुद्ध्या समाचारा वर्णाश्रमयुता नराः ॥
ब्राह्मणाः क्षत्रिया वैश्वयाः शूद्राश्चान्ये तथा नराः
॥१०७॥श्वपचोऽपि वरिष्ठः स शंभोः प्रियतरो भवेत् ॥
शंभुनाधिष्ठितं सर्वं जगदेतच्चराचरम्
॥१०८॥तस्मात्सर्वं शिवमयं ज्ञातव्यं सुविशेषतः ॥
वेदैः पुराणैः शास्त्रैश्च तथौपनिपदैरपि
॥१०९॥आगमैर्विविधैः शंभुर्ज्ञातव्यो नात्र संशयः ॥
निष्कामैश्च सकामैश्च पूजनीयः सदा शिवः
॥११०॥लोमश उवाच
कथयामि पुरावृत्तमितिहासं पुरातनम् ॥
नंदी नाम पुरा वैश्यो ह्यवंतीपुरमावसत्
॥१११॥शिवध्यानपरो भूत्वा शिवपूजां चकार सः ॥
नित्यं तपोवनस्थं हि लिंगमेकं समर्चयत्
॥११२॥उषस्युषसि चोत्थाय प्रत्यहं शिववल्लभः ॥
नंदीलिंगार्च्चनरतो बभूवातिशयेन हि
॥११३॥लिंगं पंचामृतेनैव यथोक्तेनाभ्यषेचयत् ॥
विप्रैः समावृतो नित्यं वेदवेदांगपारगैः
॥११४॥यथाशास्त्रेण विधिना लिंगार्चनपरोऽभवत् ॥
स्नापयित्वा ततः पुष्पैर्नानश्चर्यसमन्वितैः
॥११५॥मुक्ताफलैरिंद्रनीलैर्गोमेदैश्च निरंतरम् ॥
वैडूर्यैश्चैव नीलैश्च माणिक्यैश्च तथार्चयत्
॥११६॥एवं नंदी महाभागो बहून्यब्दानि चार्च्चयत् ॥
विजनस्थं तदा लिंगं नानाभोगसमन्वितम्
॥११७॥एकदा मृगयासक्तः किरातो भूतहिंसकः ॥
अविवेकपरो भूत्वा मृगयारसिकः सदा
॥११८॥पापी पापसमाचारो विचरन्गिरिकंदरे ॥
अनेकश्वापदाकीर्णे हन्यमान इतस्ततः
॥११९॥एवं विचरमाणोऽसौ किरातो भूतहिंसकः ॥
यदृच्छयागतस्तत्र यत्र लिंगं सुपूजितम्
॥१२०॥उदकं वीक्षमाणोऽसौ तृषया पीडितो भृशम् ॥
ततो वने सरः शीघ्रं दृष्ट्वा तोये समाविशत्
॥१२१॥तीरे संस्थाप्य दुष्टात्मा तत्सर्वं मृगयादिकम् ॥
गंडूषोत्सर्जनं कृत्वा पीत्वा तोयं च निर्गतः
॥१२२॥शिवालयं ददर्शाग्रे अनेकाश्चर्यमंडितम् ॥
दृष्टं सुपूजितं लिंगं नानारत्नैः पृथक्पृथक्
॥१२३॥तथा लिंगं समालक्ष्य यदा पूजां समाहरत् ॥
रत्नानि सर्वभूतानि विधूतानि इतस्ततः
॥१२४॥स्नपनं तस्य लिंगस्य कृतं गंडूषवारिणा ॥
करेणैकेन पूजार्थं बिल्वपत्राणि सोऽर्पयत्
॥१२५॥द्वितीयेन करेँणैव मृगमांसं समर्पयत् ॥
दण्डप्रणामसंयुक्तः संकल्पं मनसाऽकरोत्
॥१२६॥अद्यप्रभृति पूजां वै करिष्यामि प्रयत्नतः ॥
त्वं मे स्वामी च भक्तोहमद्यप्रभृति शंकर
॥१२७॥एवं नैयमिको भूत्वा किरातो गृहमागतः ॥
नन्दी ददर्श तत्सर्वं किरातेन इतस्ततः
॥१२८॥चिंतायुक्तोऽभवन्नंदी जातं किं छिद्रमद्य मे ॥
कथितानि च विघ्नानि शिवपूजारतस्य च ॥
उपस्थितानि तान्येव मम भाग्यविपर्ययात्
॥१२९॥एवं विमृश्य सुचिरं प्रक्षाल्य शिवमंदिरम् ॥
यथागतेन मार्गेण नंदी स्वगृहमागतः
॥१३०॥ततो नंदिनमागत्य पुरोधा गतमानसम् ॥
अब्रवोद्वचनं तं तु कस्मात्त्वं गतमानसः
॥१३१॥पुरोहितं प्रति तदा नन्दी वचनमब्रवीत्
॥१३२॥अद्य दृष्टं मया विप्र अमेध्यं शिवसंनिधौ ॥
केनेदं कारितं तत्र न जानामि कथंचन
॥१३३॥ततः पुरोधा वचनं नन्दिनं चाब्रवीत्तदा ॥
येन विस्खलितं तत्र रत्नादीनां प्रपूजनम् ॥
सोऽपि मूढो न संदेहः कार्याकार्येषु मंदधीः
॥१३४॥तस्माच्चिंता न कर्तव्या त्वया अणुरपि प्रभो ॥
प्रभाते च मया सार्द्धं गम्यतां तच्छिवालयम्
॥१३५॥निरीक्षणार्थं दुष्टस्य तत्कार्यं विदधाम्यहम् ॥
एतच्छ्रुत्वा तु वचनं नन्दी तस्य पुरोधसः
॥१३६॥आस्थितः स्वगृहे नक्तं दूयमानेन चेतसा ॥
तस्यां रात्र्यां व्यतीतायामाहूय च पुरोधसम्
॥१३७॥गतः शिवालयं नन्दी समं तेन महात्मना ॥
ततो दृष्टं पूर्वदिने कृतंतेन दुरात्मना
॥१३८॥सम्यक्प्रपूजनं कृत्वा नानारत्नपरिच्छदम् ॥
पञ्चोपचारसंयुक्तं चैकादस्यन्वितं तथा
॥१३९॥अनेकस्तुतिभिः स्तुत्वा गिरीशं ब्राह्मणैः सह ॥
तदा यामद्वयं जातं स्तूयमानस्य नंदिनः
॥१४०॥आयातो हि महाकालस्तथारूपो महाबलः ॥
कालरूपो महारौद्रो धनुष्पाणिः प्रतापवान्
॥१४१॥तं दृष्ट्वा भयवित्रस्तो नन्दी स विललाप ह ॥
पुरोधाश्चैव सहसा भयभीतस्तदाभवत्
॥१४२॥किरातेन कृतं तत्र यथापूर्वमविस्खलम् ॥
तां पूजां प्रपदाहत्य बिल्वपत्रं समर्पयत्
॥१४३॥स्नपनं तस्य कृत्वा च ततो गंडूषवारिणा ॥
नैवेद्यं तत्पलं चैव किरातः शिवमर्पयत्
॥१४४॥दण्डवत्पतितो भूमावुत्थाय स्वगृहं गतः ॥
तद्दृष्ट्वा महदाश्चर्यं चिंतयामास वै चिरम्
॥१४५॥पुरोधसा सह तदा नंदीव्याकुलचेतसा ॥
तेन चाकारिता विप्रा बहवो वेदवादिनः
॥१४६॥निवेद्य तेषु तत्सर्वं किरातेन च यत्कृतम् ॥
किं कार्यमथ भो विप्राः कथ्यतां च यथातथम्
॥१४७॥संप्रधार्य ततः सर्वे मिलित्वा धर्मशास्त्रतः ॥
ऊचुः सर्वे तदा विप्रा नंदिनं चातिशंकिनम्
॥१४८॥इदं विघ्नं समुत्पन्नं दुर्निवार्यं सुरैरपि ॥
तस्मादानय लिंगं त्वं स्वगृहं वैश्यसत्तम
॥१४९॥तथेति मत्वासौ नंदी शिवस्योत्पाटनं तदा ॥
कृत्वा स्वगृहमानीय प्रतिष्ठाप्य यताविधि
॥१५०॥सुवर्णपीठिकां कृत्वा नवरत्नसुशोभिताम् ॥
उपचारैरनेकैश्च पूजयामास वै तदा
॥१५१॥अथापरे द्युरायातः किरातः शिवमंदिरम् ॥
यावद्विलोक्यामास लिंगमैशं न दृष्टवान्
॥१५२॥मौनं विहाय सहसा ह्याक्रोशन्निदमब्रवीत् ॥
हे शंभो क्व गतोसि त्वं दर्शयात्मानमद्य वै
॥१५३॥न दृष्टोसि मया त्वं हि त्यजाम्यद्य कलेवरम् ॥
हे शंभो हे जगन्नाथ त्रिपुरांतकर प्रभो
॥१५४॥हे रुद्र हे महादेव दर्शयात्मानमात्मना
॥१५५॥एवं साक्षेपमधुरैर्वाक्यैः क्षिप्तः सदाशिवः ॥
किरातेन ततो रंगैर्वीरोसौ जठरं स्वकम्
॥१५६॥विभेदाशु ततो बाहूनास्फोट्यैव रुषाब्रवीत् ॥
हे शंभो दर्शयात्मानं कुतो मां त्यज्य यास्यसि
॥१५७॥इति क्षिप्त्वा ततोंत्राणि मांसमुत्कृत्य सर्वतः ॥
तस्मिन्गर्ते करेणैव किरातः सहसाक्षिपत्
॥१५८॥स्वस्थं च हृदयं कृत्वा सस्नौ तत्सरसि ध्रुवम् ॥
तथैव जलमानीय बिल्वपत्त्रं त्वरान्वितः
॥१५९॥पूजयित्वा यथान्यायं दंडवत्पतितो भुवि
॥१६०॥ध्यानस्थितस्ततस्तत्र किरातः शिवसंनिधौ ॥
प्रादुर्भूतस्तदा रुद्रः प्रमथैः परिवारितः
॥१६१॥कर्पूरगौरो द्युतिमान्कपर्दी चंद्रशेखरः ॥
तं गृहीत्वा करे रुद्र उवाच परिसांत्वयन्
॥१६२॥भोभो वीर महाप्राज्ञ मद्भक्तोसि महामते ॥
वरं वृणीष्वात्महितं यत्तेऽभिलषितं महत्
॥१६३॥एवमुक्तः स रुद्रेण महाकालो मुदान्वितः ॥
पपात दंडवद्भूमौ भक्त्या परमया युतः
॥१६४॥ततो रुद्रं बभाषे स वरं सम्प्रार्थयाम्यहम् ॥
अहं दासोस्मि ते रुद्र त्वं मे स्वामी न संशयः
॥१६५॥एतद्बुद्धात्मनो भक्तिं देहि जन्मनिजन्मनि ॥
त्वं माता च पिता त्वं च त्वं बंधुश्च सखा हि मे
॥१६६॥त्वं गुरुस्त्वं महामंत्रो मंत्रवेद्योऽसि सर्वदा ॥
तस्मात्त्वदपरं नान्यत्त्रिषु लोकेषु किंचन
॥१६७॥निष्कामं वाक्यमाकर्ण्य किरातस्य तदा भवः ॥
ददौ पार्षदमुख्यत्वं द्वारपालत्वमेव च
॥१६८॥तदा डमरुनादेन नादितं भुवनत्रयम् ॥
भेरीभांकारशब्देन शंखानां निनदेन च
॥१६९॥तदा दुंदुभयो नेदुः पटहाश्च सहस्रशः ॥
नंदी तं नादमाकर्ण्य विस्मयात्त्वरितो ययौ
॥१७०॥तपोवनं यत्र शिवः स्थितः प्रमथसंवृतः ॥
किरातो हि तथा दृष्टो नंदिना च तदा भृशम्
॥१७१॥उवाच प्रश्रितो वाक्यं स नंदी विस्मयान्वितः ॥
किरातं स्तोतुकामऽसौ परमेण समाधिना
॥१७२॥इहानीतस्त्वया शंभुस्त्वं भक्तोसि परंतप ॥
त्वं भक्तोऽहमिह प्राप्तो मां निवेदय शंकरे
॥१७३॥तच्छ्रुत्वा वचनं तस्य किरातस्त्वरयान्वितः ॥
नंदिनं च करे गृह्य शंकरं समुपागतः
॥१७४॥प्रहस्य भगवान्रुद्रः किरातं वाक्यमब्रवीत् ॥
कोऽयं त्वया समानीतो गणानामिह सन्निधौ
॥१७५॥किरात उवाच
विज्ञप्तोऽसौ किरातेन शंकरो लोकशंकरः ॥
तव भक्तः सदा देव तव पूजारतो ह्यसौ
॥१७६॥प्रत्यहं रत्नमाणिक्यैः पुष्पैश्चोच्चावचैरपि ॥
जीवितेन धनेनापि पूजितोऽसि न संशयः
॥१७७॥तस्माज्जानीहि मन्मित्रं नंदिनं भक्तवत्सल
॥१७८॥महादेव उवाच
न जानामि महाभाग नंदिनं वैश्यचर्चितम् ॥
त्वं मे भक्तः सखा चेति महाकाल महामते
॥१७९॥उपाधिरहिता ये च येऽपि चैव मनस्विनः ॥
तेऽतीव मे प्रिया भक्तास्ते विशिष्टा नरोत्तमाः
॥१८०॥तव भक्तो ह्यहं तात स च मे प्रियकृत्तरः ॥
तावुभौ स्वीकृतौ तेन पार्षदत्वेन शंभुना
॥१८१॥ततो विमानानि बहूनि तत्र समागतान्येव महाप्रभाणि ॥
किरातवर्येण स वैश्यवर्य उद्धारितस्तेन महाप्रभेण
॥१८२॥कैलासं पर्वतं प्राप्तौ विमानैर्वेगवत्तरैः ॥
सारूप्यमेव संप्राप्तावीश्वरेण महात्मना
॥१८३॥नीराजितौ गिरिजया शिवेन सहितौ तदा ॥
उवाचेदं ततो देवी प्रहस्य गजगामिनी
॥१८४॥यथा त्वं हि महादेव तथा चैतौ न संशयः ॥
स्वरूपेण च गत्या च हास्यभावैः सुपूजितौ
॥१८५॥मया त्वमेक एवासीः सेवितो वै न संशयः ॥
देव्यास्तद्वचनं श्रुत्वा किरातो वैश्य एव च
॥१८६॥सद्यः पराङ्मुखौ भूत्वा शंकरस्य च पश्यतः ॥
भवावस्त्वनुकंप्यौ च भवता हि त्रिलोचन
॥१८७॥तव द्वारि स्थितौ नित्यं भाववस्ते नमोनमः
॥१८८॥तयोर्भावं स भगवान्विदित्वा प्रहसन्भवः ॥
उवाच परया भक्त्या भवतोरस्तु वांछितम्
॥१८९॥तदा प्रभृति तावेतौ द्वारपालौ बभूवतुः ॥
शिवद्वारि स्थितौ विप्रा मध्याह्ने शिवदर्शिनौ
॥१९०॥एको नंदी महाकालो द्वावेतौ शिववल्लभौ ॥
ऊचतुस्तौ मुदायुक्तावेक एव सदाशिवः
॥१९१॥एकांगुलिं समुद्धृत्य महादेवोभ्यभाषत ॥
तथा नंदी उवाचेदमुद्धृत्य स्वांगुलिद्वयम्
॥१९२॥एवं संज्ञान्वितौ द्वारि तिष्ठतस्तौ महात्मनः ॥
शंकरस्य महाभागाः श्रृण्वंतु ऋषयो ह्यमी
॥१९३॥शैलादेन पुरा प्रोक्तं शिवधर्ममनंतकम् ॥
प्राणिनां कृपया विप्राः सर्वेषां दुष्कृतात्मनाम्
॥१९४॥ये पापिनोऽप्यधर्मिष्ठा अंधा मूकाश्च पंगवः ॥
कुलहीना दुरात्मानः श्वपचा अपि मानवाः
॥१९५॥यादृशास्तादृशाश्चान्ये शिवभक्तिपुरस्कृताः ॥
तेऽपि गच्छंति सांनिध्यं देवदेवस्य शूलिनः
॥१९६॥लिंगं सिकतामयं ये पूजयंति विपश्चितः ॥
ते रुद्रलोकं गच्छंति नात्र कार्या विचारणा
॥१९७॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखंडे शिवशास्त्रे शिवभक्तिमाहात्म्यवर्णनंनाम पंचमोऽध्यायः ॥ ५ ॥