मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — केदारखण्डः, अध्याय ६

3
माहेश्वरखण्डः · केदारखण्डः · 6

ब्रह्मादिशापवृत्तान्तवर्णनम्

ऋषय ऊचुः

लिंगे प्रतिष्ठा च कथं शिवं हित्वा प्रवर्तिता ॥

तत्कथ्यतां महाभाग परं शुश्रुषतां हि नः

॥१॥

लोमश उवाच

यदा दारुवने शंभुर्भिक्षार्थं प्राचरत्प्रभुः

॥२॥

दिगंबरो मुक्तजटाकलापो वेदांतवेद्यो भुवनैकभर्ता ॥

स ईश्वरो ब्रह्मकलापधारो योगीश्वराणां परमः परश्च

॥३॥

अणोरणीयान्महतो मही यान्महानुभावो भुवनाधिपो महान् ॥

स ईश्वरो भिक्षुरूपी महात्मा भिक्षाटनं दारुवने चकार

॥४॥

मध्याह्न ऋषयो विप्रास्तीर्थं जग्मुः स्वकाश्रमात् ॥

तदानीमेव सर्वास्ता ऋषीभार्याः समागताः

॥५॥

विलोकयंत्यः शंभुं तमाचख्युश्च परस्परम् ॥

कोऽसौ भिक्षुकरूपोयमागतोऽपूर्वदर्शनः

॥६॥

अस्मै भिक्षां प्रयच्छामो वयं च सखिभिः सह ॥

तथेति गत्वा सर्वास्ता गृहेभ्य आनयन्मुदा

॥७॥

भिक्षान्नं विविधं श्लक्ष्णं सोपचारं च शक्तितः ॥

प्रदत्तं भिक्षितं तेन देवदेवेन शूलिना

॥८॥

काचित्प्रियतमं शंभुं बभाषे विस्मयान्विता ॥

कोसि त्वं भिक्षुको भूत्वा आगतोत्र महामते

॥९॥

ऋषीणामाश्रमं शुद्धं किमर्थं नो निषीदसि ॥

तयोक्तोऽपि तदा शंभुर्बभाषे प्रहसन्निव

॥१०॥

ईश्वरोहं सुकेशांते पावनं प्राप्तवानिमम् ॥

ईश्वरस्य वचः श्रुत्वा ऋषिभार्या उवाच तम्

॥११॥

ईश्वरोऽसि महाभाग कैलासपतिरेव च ॥

एकाकिनः कथं देव भिक्षार्थमटनं तव

॥१२॥

एवमुक्तस्तया शंभुः पुनस्तामब्रवीद्वचः ॥

दाक्षायण्या विरहितो विचरामि दिगंबरः

॥१३॥

भिक्षाटनार्थं सुश्रोणि संकल्परहितः सदा ॥

तया सत्या विना किंचित्स्त्रीमात्रं मम भामिनि ॥

न रोचते विशालाक्षि सत्यं प्रतिवदामि ते

॥१४॥

तस्योक्तं वचनं श्रुत्वा उवाच कमलेक्षणा ॥

स्त्रियो हि सुखसंस्पर्शाः पुरुषस्य न संशयः

॥१५॥

तास्स्त्रियो वर्जिताः शंभो त्वादृशेन विपश्चिता

॥१६॥

इति च प्रमदाः सर्वा मिलिता यत्र शंकरः ॥

भिक्षापात्रं च तच्छंभोः पूरितं च महागुणैः

॥१७॥

अन्नैश्चतुर्विधैः षड्भी रसैश्च परिपूरितम् ॥

यदा संभुर्गंतुकामः कैलासं पर्वतं प्रति ॥

तदा सर्वा विप्रपत्न्यो ह्यन्गच्छन्मुदान्विताः

॥१८॥

गृहकार्यं परित्यज्य चेरुस्तद्गतमानसाः ॥

गतासु तासु सर्वासु पत्नीषु ऋषिसत्तमाः

॥१९॥

यावदाश्रममभ्येत्य तावच्छून्यं व्यलोकयन् ॥

परस्परमथोचुस्ते पत्न्यः सर्वाः कुतो गताः

॥२०॥

न विदामोऽथ वै सर्वाः केन नष्टेन चाहृताः ॥

एवं विमृश्यमानास्ते विचिन्वंतस्ततस्ततः

॥२१॥

समपश्यंस्ततः सर्वे शिवस्यानुगताश्च ताः ॥

शिवं दृष्ट्वा तु संप्राप्ता ऋषयस्ते रुषान्विताः

॥२२॥

शिवस्याथाग्रतो भूत्वा ऊचुः सर्वे त्वरान्विताः ॥

किं कृतं हि त्वया शंभो विरक्तेन महात्मना ॥

परदारापहर्त्तासि त्वमृषीणां न संशयः

॥२३॥

एवं क्षिप्तः शिवो मौनी गच्छमानोऽपि पर्वतम् ॥

तदा स ऋषिभिः प्राप्तो महादेवोऽव्ययस्तथा ॥

यस्मात्कलत्रहर्ता त्वं तस्मात्षंढो भव त्वरम्

॥२४॥

एवं शप्तः स मुनिभिर्लिंगं तस्यापतद्भुवि ॥

भूमिप्राप्तं च तल्लिंगं ववृधे तरसा महत्

॥२५॥

आवृत्य सप्त पातालान्क्षणाल्लिंगमदोर्ध्वतः ॥

व्याप्य पृथ्वीं समग्रां च अंतरिक्षं समावृणोत्

॥२६॥

स्वर्गाः समावृताः सर्वे स्वर्गातीतमथाभवत् ॥

न मही न च दिक्चक्रं न तोयं न च पावकः

॥२७॥

न च वायुर्न वाकाशं नाहंकारो न वा महत् ॥

न चाव्यक्तं न कालश्च न महाप्रकृतिस्तथा

॥२८॥

नासीद्द्ववैतविभागं च सर्वं लीनं च तत्क्षणात् ॥

यस्माल्लीनं जगत्सर्वं तस्मिँल्लिगे महात्मनः

॥२९॥

लयनाल्लिंगमित्येवं प्रवदंति मनीषिणः ॥

तथाभूतं वर्द्धमानं दृष्ट्वा तेऽपि सुरर्षयः

॥३०॥

ब्रह्मेंद्रविष्णुवाय्यग्निलोकपालाः सपन्नगाः ॥

विस्मयाविष्टमनसः परस्परमथाब्रुवन्

॥३१॥

किमायामं च विस्तारं क्व चांतः क्व च पीठिका ॥

इति चिंतान्विता विष्णुमूचुः सर्वे सुरास्तदा

॥३२॥

देवा ऊचुः

अस्य मूलं त्वया विष्णो पद्मोद्भव च मस्तकम् ॥

युवाभ्यां च विलोक्यं स्यात्स्थाने स्यात्परिपालकौ

॥३३॥

श्रुत्वा तु तौ महाभागौ वैकुंठकमलोद्भवौ ॥

विष्णुर्गतो हि पातालं ब्रह्मा सर्वर्गं जगाम ह

॥३४॥

स्वर्गं गतस्तदा ब्रह्मा अवलोकनतत्परः ॥

नापस्यत्तत्र लिंगस्य मस्तकं च विचक्षमः

॥३५॥

तथा गतेन मार्गेण प्रत्यावृत्त्याब्जसंभवः ॥

मेरुपृष्ठमनुप्राप्तः सुरभ्या लक्षितस्ततः

॥३६॥

स्थिता या केतकीच्छायामुवाच मधुरं वचः ॥

तस्या वचनमाकर्ण्य सर्वलोकपितामहः ॥

उवाच प्रहसन्वाक्यं छलोक्त्या सुरभिं प्रति

॥३७॥

लिंगं महाद्भुतं दृष्टं येनव्याप्तं जगत्त्रयम् ॥

दर्शनार्थं च तस्यांतं देवैः संप्रेषितोस्मयहम्

॥३८॥

न दृष्टं मस्तकं तस्य व्यापकस्य महात्मनः ॥

किं वक्ष्येऽहं च देवाग्रे चिंता मे चाति वर्तते

॥३९॥

लिंगस्य मस्तकं दृष्टं देवानां च मृषा वदेः ॥

ते सर्वे यदि वक्ष्यंति इंद्राद्या देवतागणाः

॥४०॥

ते संति साक्षिमो देवा अस्मिन्नर्थे वदत्वरम् ॥

अर्थेऽस्मिन्भव साक्षी त्वं केतक्या सह सुव्रते

॥४१॥

तद्वचः शिरसा गृह्य ब्रह्मणः परमेष्ठिनः ॥

केतकीसहिता तत्र सुरभी तदमानयत्

॥४२॥

एवं समागतो ब्रह्म देवाग्रे समुवाच ह

॥४३॥

ब्रह्मोवाच

लिंगस्य मस्तकं देवा दृष्टवानहमद्भुतम् ॥

समीचीनं चार्तितं च केतकीदल संयुतम्

॥४४॥

विशालं विमलं श्लक्ष्णं प्रसन्नतरमद्भुतम् ॥

रम्यं च रमणीयं च दर्शनीयं महाप्रभम्

॥४५॥

एतादृशं मया दृष्टं न दृष्टं तद्विनाक्वचित् ॥

ब्रह्मणो हि वचः श्रुत्वा सुरा विस्मयमाययुः

॥४६॥

एवं विस्मयपूर्णास्ते इंद्राद्या देवतागणाः ॥

तिष्ठंति तावत्सर्वेशो विष्णुरध्यात्मदीपकः

॥४७॥

पातालादागतः सद्यः सर्वेषामवदत्त्वरम् ॥

तस्याप्यंतो न दृष्टो मे ह्यवलोकनतत्परः

॥४८॥

विस्मयो मे महाञ्जातः पातालात्परतश्चरन् ॥

अतलं सुतलं चापि नितलं च रसातलम्

॥४९॥

तथा गतस्तलं चैव पातालं च तथातलम् ॥

तलातलानि तान्येनं शून्यवद्यद्विभाव्यते

॥५०॥

शून्यादपि च शून्यं च तत्सर्वं सुनिरीक्षितम् ॥

न मूलं च न मध्यं च न चांतो ह्यस्य विद्यते

॥५१॥

लिंगरूपी महादेवो येनेदं धार्यते जगत् ॥

यस्य प्रसादादुत्पन्ना यूयं च ऋषयस्तथा

॥५२॥

श्रुत्वा सुराश्च ऋषयस्तस्य वाक्यमपूजयन् ॥

तदा विष्णुरुवाचेदं ब्रह्माणं प्रहसन्निव

॥५३॥

दृष्टं हि चेत्त्वया ब्रह्मन्मस्तकं परमार्थतः ॥

साक्षिणः के त्वया तत्र अस्मिन्नर्थे प्रकल्पिताः

॥५४॥

आकर्ण्य वचनं विष्णोर्ब्रह्मा लोकपितामहः ॥

उवाच त्वरितेनैव केतकी सुरभीति च

॥५५॥

ते देवा मम साक्षित्वे जानीहि परमार्थतः ॥

ब्रह्मणो हि वचः श्रुत्वा सर्वे देवास्त्वरान्विताः

॥५६॥

आह्वानं चक्रिरे तस्याः सुरभ्याश्च तया सह ॥

आगते तत्क्षमादेव कार्यार्थं ब्रह्मणस्तदा

॥५७॥

इंद्राद्यैश्च तदा देवैरुक्ता च सुरभी ततः ॥

उवाच केतकीसार्द्धं दृष्टो वै ब्रह्मणा सुराः

॥५८॥

लिंगस्य मस्तको देवाः केतकीदलपूजितः ॥

तदा नभोगता वाणी सर्वेषां श्रृण्वतामभूत्

॥५९॥

सुरभ्या चैव यत्प्रोक्तं केतक्या च तथा सुराः ॥

तन्मृषोक्तं च जानीध्वं न दृष्टो ह्यस्य मस्तकः

॥६०॥

तदा सर्वेऽथ विबुधाः सेंद्रा वै विष्णुना सह ॥

शेपुश्च सुरभीं रोषान्मृषावादनतत्पराम्

॥६१॥

मुखेनोक्तं त्वयाद्यैवमनृतं च तथा शुभे ॥

अपवित्रं मुखं तेऽस्तु सर्वधर्मबहिष्कृतम्

॥६२॥

सुगंधकेतकी चापि अयोग्या त्वं शिवार्चने ॥

भविष्यसि न संदेहो अनृता चैव भामिनि

॥६३॥

तदा नभो गता वाणी ब्रह्मणं च शशाप वै ॥

मृषोक्तं च त्वया मंद किमर्थं बालिशेन हि

॥६४॥

भृगुणा ऋषिभिः साकं तथैव च पुरोधसा ॥

तस्माद्युयं न पूज्याश्च भवेयुः क्लेशभागिनः

॥६५॥

ऋषयोऽपि च धर्मिष्ठास्तत्त्ववाक्यबहिष्कृताः ॥

विवादनिरता मूढा अतत्त्वज्ञाः समत्सराः

॥६६॥

याचकाश्चावदान्याश्च नित्यं स्वज्ञानघातकाः ॥

आत्मसंभाविताः स्तब्धाः परस्परविनिंदकाः

॥६७॥

एवं शप्ताश्च मुनयो ब्रह्माद्या देवतास्तथा ॥

शिवेन शप्तास्ते सर्वे लिंगं शरणमाययुः

॥६८॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखण्डे श्रीशिवलिङ्गमाहात्म्ये ब्रह्मादिशापवृत्तान्तवर्णनं नाम षष्ठोऽध्यायः ॥ ६ ॥