मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — केदारखण्डः, अध्याय ३५

3
माहेश्वरखण्डः · केदारखण्डः · 35

वनं गते महादेवे गिरिजा विरहातुरा

लोमश उवाच

वनं गते महादेवे गिरिजा विरहातुरा ॥

सुखं न लेभे तन्वंगी हर्म्येष्वायतनेषु वा

॥१॥

चिंतयंती शिवंतन्वी सर्वभावेन शोभना ॥

चिंतमानां शिवां ज्ञात्वा ह्युवाच विजया सखी

॥२॥

विजयोवाच

तपसा महता चैव शिवं प्राप्तासि शोभने ॥

मृषशा द्यूतं कृतं तेन शंकरेण तपस्विना

॥३॥

द्यूते हि वहवो दोषा न श्रुताः किं त्वयाऽनघे ॥

क्षमा पय शिवं तन्वि त्वरेणैव विचक्षणे

॥४॥

अस्माभिः सहिता देवि गच्छगच्छ वरानने

॥५॥

यावच्छंभुर्दूरतो नाभिगच्छेत्तावद्गत्वा शंकरं क्षामयस्व ॥

नो चेतन्वि क्षामयेथाः शिवं त्वं दुःखं पश्चात्ते भविष्यत्यवश्यम्

॥६॥

निशम्य वाक्य विजयाप्रयुक्तं प्रहस्यामाना समधीरचेताः ॥

उवाच वाक्यं विजयां सखीं च आश्चर्यभूतं परमार्थयुक्तम्

॥७॥

मया जितोऽसौ निरपत्रपश्च पुरा वृतो वै परया विभूत्या ॥

किंचिच्च कृत्यं मम नास्ति सद्यो मया विनासौ च विरूप आस्थितः

॥८॥

रूपीकृतो मया देवो महेशो नान्यथा वद ॥

मया तेन वियोगश्च संयोगो नैव जायते

॥९॥

साकारो हि निराकारो महेशो हि मया कृतः

॥१०॥

कृतं मया विश्वमिदं समग्रं चराचरं देववरैः समेतम् ॥

क्रीडार्थमस्योद्भववृत्तिहेतुभिश्चिक्रीडितं मे विजये प्रपश्य

॥११॥

एवमुक्त्वा तदा देवी गिरिजा सर्वमंगला ॥

शबरीरूपमास्थाय गंतुकामा महेश्वरम्

॥१२॥

श्यामा तन्वी शिखरदशना बिंबबिंबाधरोष्ठी सुग्रीवाढ्या कुचभरनता गिरिजा स्निग्धकेशी ॥

मध्ये क्षामा पृथुकटितटा हेमरंभोरुगौरी पल्लीयुक्ता वरवलयिनी बर्हिबर्हावतंसा

॥१३॥

पाणौ मृणालसदृशं दधती च चापं पृष्ठे लसत्कृतककेतकिबाणकोशम् ॥

सा तं निरीशमलोकयति स्म तत्र संसेविता सुवदना बहुभिः सखीभिः

॥१४॥

भृंगीनादेन महता नादयंती जगत्त्रयम् ॥

गिरिजा मन्मथं सद्यो जीवयंती पुनःपुनः

॥१५॥

सकामना राजहंसा बभूवुस्तत्क्षणादपि ॥

द्विरेफा बर्हिणश्चैव सर्वे ते हृच्छयान्विताः ॥

एकाकी संस्थितो यत्र यमाधिस्थो महेश्वरः ॥

दृष्टस्ततस्तया देव्या भृंगीनादेन मोहितः

॥१७॥

प्रबद्धो हि महादेवो निरीक्ष्य शबरीं तदा ॥

समाधेरुत्थितः सद्यो महेशो मदनान्वितः

॥१८॥

यावत्करे गृह्यमाणो गिरिजां स समीपगः ॥

तावत्तस्य पुरः सद्यस्तिरोधानं गता सती

॥१९॥

तद्दृष्ट्वा तत्क्षणादेव देवो भ्रांतिविनाशनः ॥

भ्रममाणस्तदा शंभुर्नापश्यदसितेक्षणाम्

॥२०॥

विरहेण समायुक्तो हृच्छयेन समन्वितः ॥

मदनारिस्तदा शंभुर्ज्ञानरूपो निरंतरम्

॥२१॥

निर्मोहो मोहमापन्नो ददर्श गिरिजां पुनः ॥

उवाच वाक्यं शबरीं प्रस्ताव सदृशं महत्

॥२२॥

शिव उवाच

वाक्यं मे श्रृणु तन्वंगि श्रुत्वा तत्कर्तुमर्हसि ॥

कासि कस्यासि तन्वंगि किमर्थमटनं वने ॥

तत्कथ्यतां महाभागे याथातथ्यं सुमध्यमे

॥२३॥

शिवोवाच

पतिमन्वेषयिष्यामि सर्वज्ञं सकलार्थदम् ॥

स्वतंत्रं निर्विकारं च जगतामीश्वरं वरम्

॥२४॥

इत्युक्तः प्रत्युवाचेदं गिरिजां वृषभध्वजः ॥

अहं तवोचितो भद्रे पतिर्नान्यो हि भामिनि

॥२५॥

विमृश्यतां वरारोहे तत्त्वतो हि वरानने ॥

वचो निशम्य रुद्रस्य स्मितपूर्वमभाषत

॥२६॥

मयार्थितो महाभाग पतिस्त्वं नान्यथा वद ॥

किं तु वक्ष्यामि भद्रं ते निर्गुणोऽसि परंतपः

॥२७॥

यया पुरा वृतोऽसि त्वं तपसा च परेण हि ॥

परित्यक्ता त्वयारण्ये क्षणमात्रेण भामिनी

॥२८॥

दुराराध्योऽसि सततं सर्वेषां प्राणिनामपि ॥

तस्मान्न वाच्यं हि पुनर्यदुक्तं ते ममाग्रतः

॥२९॥

शबर्या वचनं श्रुत्वा प्रत्युवाच वृषध्वजः ॥

मैवं वद विशालाक्षि न त्यक्ता सा तपस्विनी ॥

यदि त्यक्ता मया तन्वि किं वक्तुमिह पार्यते

॥३०॥

एवं ज्ञात्वा विशालाक्षि कृपणं कृपणप्रियम् ॥

तस्मात्त्वया हि कर्तव्यं वचनं मे सुमध्यमे

॥३१॥

एवमभ्यर्थिता तेन बहुधा शूलपाणिना ॥

प्रहस्य गिरिजा प्राह उपहासपरं वच

॥३२॥

तपोधनोऽसि योगीश विरक्तोऽसि निरंजनः ॥

आत्मारामो हि निर्द्वंद्वो मदनो येन घातितः

॥३३॥

स त्वं साक्षाद्विरूपाक्षो मया दृष्टोसि चाद्य वै ॥

अशक्यो हि मया प्राप्तुं सर्वेषां दुरतिक्रमः ॥

तस्मात्त्वया न वक्तव्यं यदुक्तं च पुरा मम

॥३४॥

तस्यास्तद्वचनं श्रुत्वा प्रोवाच मदनांतकः ॥

मम भार्या भव त्वं हि नान्यथा कर्तुमर्हसि

॥३५॥

इत्युक्त्वा तां करेऽगृह्णाच्छबरीं मदनातुरः ॥

उवाच तं स्मयंती सा मुंचमुंचेति सादरम्

॥३६॥

नोचितं भगवान्कर्तुं तापसेन बलादिदम् ॥

याचयस्व पितुर्मे त्वं नान्यथाभिभविष्यसि

॥३७॥

महादेव उवाच

पितरं कथयाशु त्वं स्थितः कुत्र शुभानने ॥

द्रक्ष्यामि तं विशालाक्षि प्रणिपातपुरःसरम्

॥३८॥

एतदुक्तं तदा तेन निशम्यासितनेत्रया ॥

आनीतो हि तया तन्व्या पितरं वृषभध्वजः

॥३९॥

स्थितं कैलासशिखरे हिमवंतं नगोत्तमम् ॥

अहिभिर्बहुभिश्चैव संवृतं च महाप्रभम्

॥४०॥

द्वारि स्थितं तया देव्या दर्शितं शंकरस्य च ॥

असौ मम पिता देव याचस्व विगतत्रपः ॥

ददाति मां न संदेहस्तपस्विन्मा विलंबितम्

॥४१॥

तथेति मत्वा सहसा प्रणम्य हिमालयं वाक्यमिदं बभाषे ॥

प्रयच्छ तां चाद्य गिरीशवर्य ह्यार्ताय कन्यां सुभगां महामते

॥४२॥

कृपणं वाक्यमाकर्ण्य समुत्थाय हिमालयः ॥

महेशं च समादाय ह्युवाच गिरिराट् स्वयम्

॥४३॥

किं जल्पसि हि भो देव तावयुक्तं च सांप्रतम् ॥

त्वं दाता त्रिषु लोकेषु त्वं स्वामी जगतां विभो

॥४४॥

त्वया ततमिदं विश्वं जगदेतच्चराचरम् ॥

एवं स्तुतिपरोऽभूच्च हिमालयागिरिर्महान् ॥

आगतो नारदस्तत्र ऋषिभिः परिवारितः

॥४५॥

उवाच प्रहसन्वाक्यं शूलपाणे नमः प्रभो ॥

हे शंभो श्रृणु मे वाक्यं तत्त्वसारमयं परम्

॥४६॥

योषिद्भिः संगति पुंसां विडंबायोपकल्पते ॥

त्वं स्वामी जगतां नाथः पराणां परमः परः ॥

विमृश्य सर्वं देवेश यथावद्वक्तुमर्हसि

॥४७॥

एवं प्रबोधितस्तेन नारदेन महात्मना ॥

प्रबोधमगमच्छंभुर्जहास परमेश्वरः

॥४८॥

शिव उवाच

सत्यमुक्तं त्वया चात्र नान्यथा नारदक्वचित् ॥

योषित्संगतिमात्रेण नृणां पतनमेव च

॥४९॥

भविष्यति न संदेहो नान्यथा वचनं तव ॥

अनया मोहितोऽद्याहमानीतो गंधमादनम्

॥५०॥

पिशाचवत्कृतमिदं चरितं परमाद्भुतम्

॥५१॥

तस्मान्न तिष्ठामि गिरेः समीपे व्रजामि चाद्यैव वनांतरं पुनः ॥

इत्येवमुक्त्वा स जगाम मार्गं दुरत्ययं योगेनामप्यगम्यम्

॥५२॥

निरालंबं स विज्ञाय नारदो वाक्यमब्रवीत् ॥

गिरिजां च गिरींद्रं च पार्षदान्प्रति सत्वरम्

॥५३॥

वंदनीयश्च स्तुत्यश्च क्षाम्यतां परमार्थतः ॥

महेशोऽयं जगन्नाथस्त्रिपुरारिर्महायशाः

॥५४॥

एतच्छ्रुत्वा तु वचनं नारदस्य मुखोद्गतम् ॥

गिरिजां पुरतः कृत्वा गिरयो हि महाप्रभाः

॥५५॥

दण्डवत्पतिताः सर्वे शंकरं लोकशंकरम् ॥

तुष्टुवुः प्रणताः सर्वे प्रमथा गुह्यकादयः

॥५६॥

स्तूयमानो हि भगवानागतो गंधमादनम् ॥

अंगिरसा हि सर्वेशो ह्यभिषिक्तो महात्मभिः

॥५७॥

तदा दुन्दुभयो नेदुर्वादित्राणि बहूनि च ॥

इन्द्रादयः सुराः सर्वे पुष्पवर्षं ववर्षिरे

॥५८॥

ब्रह्मादिभिः सुरगणैर्बहुभिः परीतो योगीश्वरो गिरिजया सह विश्ववंद्यः ॥

अभ्यर्थितः परममंगल मंगलैश्च दिव्यासनोपरि रराज महाविभूत्या

॥५९॥

एवंविधान्यनेकानि चरितानि महात्मनः ॥

महेशस्य च भो विप्राः पापहारीणि श्रृण्वताम्

॥६०॥

यानियानीह रुद्रस्य चरितानि महांत्यपि ॥

श्रुतानि परमाण्येव भूयः किं कथयामि वः

॥६१॥

ऋषय ऊचुः

एव मुक्तं त्वया सूत चरितं शंकरस्य च ॥

अनेन चरितेनैव संतृप्ताः स्मो न संशयः

॥६२॥

सूत उवाच

व्यासप्रसादाच्छ्रुतमस्ति सर्वं मया ततं शंकररूपमद्भुतम् ॥

सुविस्तृतं चाद्भुतवेदगर्भं ज्ञानात्मकं परमं चेदमुक्तम्

॥६३॥

श्रद्धया परयोपेताः श्रावयंति शिवप्रियम् ॥

श्रृण्वंति चैव ये भक्त्या शंभेर्माहात्म्यमद्भुतम् ॥

शिवशास्त्रमिदं प्रीत्या ते यांति मरमां गतिम्

॥६४॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखण्डे शिवशास्त्रे पार्वत्या शबरीरूपेण शिवस्य गन्धमादनपर्वतं प्रत्यानयनपूर्वकं बृहस्पतिकृतशिवराज्याभिषेकवर्णनं नाम पञ्चत्रिंशोऽध्यायः ॥ ३५ ॥

छ ॥

इति श्रीस्कान्दमहापुराणे प्रथमे माहेश्वरखण्डे प्रथमः केदारखण्डः समाप्तः

॥१॥