समुद्धरणम्
अथ श्रीस्कांदे महापुराणे प्रथमे माहेश्वरखण्डे कौमारिकाखण्डः प्रारभ्यते
श्रीगणेशाय नमः
ॐ नमो बृहस्पतये
नमतस्मै ब्रह्मणे ॥
विष्णवे नमः ॥
श्रीमुनय ऊचुः ॥
दक्षिणार्णवतीरेषु यानि तीर्थानि पंच च ॥
तानि ब्रूहि विशालाक्ष वर्णयंत्यति तानि च
॥१॥सर्वतीर्थफलं येषु नारदाद्य वदंति च ॥
तेषां चरितमाहात्म्यं श्रोतुमिच्छामहे वयम्
॥२॥उग्रश्रवा उवाच
श्रृणुध्वचत्यद्भुतपुण्यसत्कथं कुमारनाथस्य महाप्रभावम् ॥
द्वैपायनो यन्मम चाह पूर्वं हर्षाबुरोमोद्गमचर्चितांगः
॥३॥कुमारगीता गाथात्र श्रूयतां मुनिसत्तमाः ॥
या सर्वदेवैर्मुनिभिः पितृभिश्च प्रपूजिता
॥४॥मध्वाचारस्तं भतीर्थं यो निषेवेत मानवः ॥
नियतं तस्य वासः स्याद्ब्रह्मलोके यथा मम
॥५॥ब्रह्मलोकाद्विष्णुलोकस्तस्मादपि शिवस्य च ॥
पुत्राप्रियत्वात्तस्यापि गुहलोको महत्तमः
॥६॥अत्राश्चर्यकथा या च फाल्गुनस्य पुरेरिता ॥
नारदेन मुनिश्रेष्ठास्तां वो वक्ष्यामि विस्तरात्
॥७॥पुरा निमित्ते कस्मिंश्चित्करीटी मणिकूटतः ॥
समुद्रे दक्षिणेऽभ्यागात्स्नातुं तीर्थानि पंच च
॥८॥वर्जयंति सदा यानि भयात्तीर्थानि तापसाः ॥
कुमारेशस्य पूर्वं च तीर्थमस्ति मुनेः प्रियम्
॥९॥स्तंभेशस्य द्वितीयं च सौभद्रस्य मुनेः प्रियम् ॥
बर्करेश्वरमन्यच्च पौलोमीप्रियमुत्तमम्
॥१०॥चतुर्थं च महाकालं करंधम नृपप्रिययम् ॥
भरद्वाजस्य तीर्थं च सिद्धेशाख्यं हि पंचमम्
॥११॥एतानि पंच तीर्थानि ददर्श कुरुपुंगवः ॥
तपस्विभिर्वर्जितानि महापुण्यानि तानि च
॥१२॥दृष्ट्वा पार्श्वे नारदीयानपृच्छत महामुनीन् ॥
तीर्थानीमानि रम्याणि प्रभावाद्भुतवंति च
॥१३॥किमर्थं ब्रूत वर्ज्यंते सदैव ब्रह्मवादिभिः ॥
तापसा ऊचुः ॥
ग्राहः पंच वसंत्येषु हरंति च तपोधनान्
॥१४॥अत एतानि वर्ज्यंते तीर्थानि कुरुनंदन ॥
इति श्रुत्वा महाबाहुर्गमनाय मनो दधे
॥१५॥ततस्तं तापसाः प्रोचुत्हंतुं नार्हसि फाल्गुन ॥
बहवो भक्षिता ग्राहै राजानो मुनयस्तथा
॥१६॥तत्त्व द्वारशवर्षाणि तीर्थानामर्बुदेष्वपि ॥
स्नातः किमेतैस्तीर्थैस्ते मा पतंगव्रतो भव
॥१७॥अर्जुन उवाच
यदुक्तं करुणासारैः सारं किं तदिहोच्यताम् ॥
धर्मार्थी मनुजो यश्च न स वार्यो महात्मभिः
॥१८॥धर्मकामं हि मनुजं यो वारयति मंदधीः ॥
तदाश्रितस्य जगतो निःश्वासैर्भस्मसाद्भवेत्
॥१९॥यज्जीवितं चाचिरांशुसमानक्षणभंगुरम् ॥
तच्चेद्धर्मकृते याति यातु दोषोऽस्ति को ननु
॥२०॥जीवितं च धनं दाराः पुत्राः क्षेत्रगृहाणि च ॥
यान्ति येषआं धर्मकृते त एव भुवि मानवाः
॥२१॥तापसा ऊचुः
एवं ते ब्रुवतः पार्थ दीर्घमायुः प्रवर्धताम् ॥
सदा धर्मे रतिर्भूयाद्याहि स्वं कुरु वांछितम्
॥२२॥एवमुक्तः प्रणम्यैतानाशीर्भिरभिसंस्तुतः ॥
जगाम तानि तीर्थानि द्रष्टुं भरतसत्तमः
॥२३॥ततः सौभद्रमासाद्य महर्षेस्तीर्थुमुत्तमम् ॥
विगाह्य तरसा वीरः स्नानं चक्रे परंतपः
॥२४॥अथ तं पुरुषव्याघ्रमंतर्जलचरो महान् ॥
निजग्राह जले ग्राहः कुंतीपुत्रं धनंजयम्
॥२५॥तमादायैव कौतेयो विस्फुरंतं जलेचरम् ॥
उदतिष्ठन्महाबाहुर्बलेन बलिनां वरः
॥२६॥उद्धृतश्चैव तु ग्राहः सोऽर्जुनेन यशस्विना ॥
बभूव नारी कल्याणी सर्वाभरणभूषिता
॥२७॥दीप्यमानशिखा विप्रा दिव्यरूपा मनोरमा ॥
तदद्भुतं महद्दृष्ट्वा कुंतीपुत्रो धनंजयः
॥२८॥तां स्त्रियं परमप्रीत इदं वचनमब्रवीत् ॥
का वै त्वमसि कल्याणि कुतो वा जलचारिणी
॥२९॥किमर्थं च महात्पापमिदं कृतवती ह्यसि ॥
नार्युवाच ॥
अप्सरा ह्यस्मि कौतेय देवारण्यनिवासिनी
॥३०॥इष्टा धनपतेर्नित्यं वर्चानाम महाबल ॥
मम सख्यश्चतस्रोऽन्याः सर्वाः कामगमाः शुभाः
॥३१॥ताभिः सार्धं प्रयातास्मि देवराजनिवेशनात् ॥
ततः पश्यामहे सर्वा ब्राह्मणं चानिकेतनम्
॥३२॥रूपवंतमधीयानमेकमेकांतचारिणम् ॥
तस्य वै तपसा वीर तद्वनं तेजसावृतम्
॥३३॥आदित्य इव तं देशं कृत्स्नमेवान्व भासयत् ॥
तस्य दृष्ट्वा तपस्तादृग्रूपं चाद्भुतदर्शनम्
॥३४॥अवतीर्णास्ति तं देशं तपोविघ्नचिकीर्षया ॥
अहं च सौरभेयी च सामेयी बुद्बुदालता
॥३५॥यौगपद्येन तं विप्रमभ्यगच्छाम भारत ॥
गायंत्यो ललमानाश्च लोभयंत्यश्च तं द्विजम्
॥३६॥स च नास्मासु कृतवान्मनोवीरः कथंचन ॥
नाकंपत महातेजाः स्थितस्तपसि निर्मले
॥३७॥सोऽशपत्कुपितोऽस्मासु ब्राह्मणः क्षत्रियर्षभ ॥
ग्राहभूता जले यूयं भविष्यथ शतं समाः
॥३८॥ततो वयं प्रव्यथिताः सर्वा भरतसत्तम ॥
आयाताः शरणं विप्रं तपोधनमकल्मषम्
॥३९॥रूपेण वयसा चैव कंदर्पेण च दर्पिताः ॥
अयुक्तं कृतवत्यः स्म क्षंतुमर्हसि नो द्विज
॥४०॥एष एव वधोऽस्माकं स पर्याप्तस्तपोधन ॥
यद्वयं शंसितात्मानं प्रलोब्धुं त्वामुपागताः
॥४१॥अवध्याश्च स्त्रियः सृष्टा मन्यंते धर्मचिंतकाः ॥
तस्माद्धर्मेण धर्मज्ञ एष वादो मनीषिणाम्
॥४२॥शरणं च प्रपन्नानां शिष्टाः कुर्वंति पालनम् ॥
शरण्यं त्वां प्रपन्नाः स्मस्तस्मात्त्वं क्षंतुमर्हसि
॥४३॥एवमुक्तस्तु धर्मात्मा ब्राह्मणः शुभकर्मकृत् ॥
प्रसादं कृतवाञ्छूररविसोमसमप्रभः
॥४४॥ब्राह्मण उवाच
भवतीनां चरित्रेण परिमुह्यामि चेतसि ॥
अहो धार्ष्ट्यमहो मोहो यत्पापाय प्रवर्तनम्
॥४५॥मस्त कस्थायिनं मृत्युं यदि पश्येदयं जनः ॥
आहारोऽपि न रोचेत किमुताकार्यकारिता
॥४६॥आहो मानुष्यकं जन्म सर्वजन्मसु दुर्लभम् ॥
तृणवत्क्रियते कैश्चिद्योषिन्मूढैर्दुराधरैः
॥४७॥तान्वयं समपृच्छामो जनिर्वः किंनिमित्ततः ॥
को वा लाभो विचार्यैतन्मनासा सह प्रोच्यताम्
॥४८॥न चैताः परिनिन्दामो जनिर्यार्भ्यः प्रवर्तते ॥
केवलं तान्विनिंदामो ये च तासु निरर्गलाः
॥४९॥यतः पद्मभुवा सृष्टं मिथुनं विश्ववृद्धये ॥
तत्तथा परिपाल्यं वै नात्र दोषोऽस्ति कश्चन
॥५०॥या बांधवैः प्रदत्ता स्याद्वह्निद्विजसमागमे ॥
गार्हस्थ्यपालनं धन्यं तया साकं हि सर्वदम्
॥५१॥यथाप्रकृति पुंयोमो यत्नेनापि परस्परम् ॥
साध्यामानो गुणाय स्यादगुणायाप्यसाधितः
॥५२॥एवं यत्नात्साध्यमानं स्वकं गार्हस्थ्यमुत्तमम् ॥
गुणाय महते भूयादगुणायाप्यसाधितम्
॥५३॥पुरे पंचमुखे द्वाःस्थ एकादशभटैर्युतः ॥
साकं नार्या बह्वपत्यः स कथं स्यादचेतनः
॥५४॥यश्चस्त्रिया समायोगः पंचयज्ञादिकर्मभिः ॥
विश्वोपकृतये सृष्टा मूढैर्हा साध्यतेऽन्यथा
॥५५॥अहो श्रृणुध्वं नो चेद्वः शुश्रूषा जायते शुभा ॥
तथापि बाहुमुद्धृत्य रोरूयामः श्रृणोति कः
॥५६॥षड्धातुसारं तद्वीर्यं समानं परिहाय च ॥
विनिक्षेपे कुयोनौ तु तस्येदं प्रोक्तवान्यमः
॥५७॥प्रथमं चौषधीद्रोग्धा आत्मद्रोग्धा ततः पुनः ॥
पितृद्रोग्धा विश्वद्रोग्धा यात्यंधं शाश्वतीः समाः
॥५८॥मनुष्यं पितरो देवा मुनयो मानवास्तथा ॥
भृतानि चोपजीवंति तदर्थं नियतो भवेत्
॥५९॥वचसा मनसा चैव जिह्वया करश्रोत्रकैः ॥
दांतमाहुर्हि सत्तीर्थं काकतीर्थमतः परम्
॥६०॥काकप्राये नरे यस्मिन्रमंते तामसा जनाः ॥
हंसोऽयमिति देवानां कोऽर्थस्तेन विचिंत्यताम्
॥६१॥एवंविधं हि विश्वस्य निर्माणं स्मरतोहृदि ॥
अपि कृते त्रिलोक्याश्च कथं पापे रमेन्मनः
॥६२॥तदिदं चान्यमर्त्यानां शास्त्रदृष्टमहो स्त्रियः ॥
यमलोके मया दृष्टं मुह्ये प्रत्यक्षतः कथम्
॥६३॥भवतीषु च कः कोपो ये यदर्थे हि निर्मिताः ॥
ते तमर्थं प्रकुर्वंति सत्यमस्तुभमेव च
॥६४॥शतं सहस्रं विश्वं च सर्वमक्षय वाचकम् ॥
परिमाणं शतं त्वेव नैतदक्षय्यवाचकम्
॥६५॥यदा च वो ग्राहभूता गृह्णतीः पुरुषाञ्जले ॥
उत्कर्षति जलात्कश्चित्स्थले पुरुषसत्तमः
॥६६॥तदा यूयं पुनः सर्वाः स्वं रूपं प्रतिपत्स्यथ ॥
अनृतं नोक्तपूर्वं मे हसतापि कदाचन ॥
कल्याणस्य सुपृक्तस्य शुद्धिस्तद्वद्वरा हि वः
॥६७॥नार्युवाच
ततोभिवाद्य तं विप्रं कृत्वा चैव प्रदक्षिणम्
॥६८॥अचिंतयामापसृत्य तस्माद्देशात्सुदुःखिताः ॥
क्व नु नाम वयं सर्वाः कालेनाल्पेन तं नरम्
॥६९॥समागच्छेम यो नः स्वं रूपमापादयेत्पुनः ॥
ता वयं चिंतयित्वेह मुहूर्तादिव भारत
॥७०॥दृष्टवत्यो महाभागं देवर्षिमथ नारदम् ॥
सर्वा दृष्टाः स्म तं दृष्ट्वा देवर्षिममितद्युतिम्
॥७१॥अभिवाद्य च तं पार्थ स्थिताः स्मो व्यथिताननाः ॥
स नोऽपृच्छद्दृःखमूलमुक्तवत्यो वयं च तम्
॥७२॥श्रुत्वा तच्च यथातत्त्वमिदं वचनमब्रवीत् ॥
दक्षिणे सागरेऽनूपे पंच तीर्थानि संतिवै
॥७३॥पुण्यानि रमणीयानि तानि गच्छत मा चिरम् ॥
तत्रस्थाः पुरुषव्याघ्रः पांडवो वो धनंजयः
॥७४॥मोक्षयिष्यति शुद्धात्मा दुःखा दस्मान्न संशयः ॥
तस्य सर्वा वयं वीर श्रुत्वा वाक्यमिहागताः
॥७५॥त्वमिदं सत्यवचनं कर्तुमर्हसि पांडव ॥
त्वद्विधानां हि साधूनां जन्म दीनोपकारकम्
॥७६॥श्रुत्वेति वचनं तस्याः सस्नौ तीर्थेष्वनुक्रमात् ॥
ग्राहभूताश्चोज्जहार यथापूर्वाः स पांडवः
॥७७॥ततः प्रणम्य ता वीरं प्रोच्यमाना जयाशिषः ॥
गंतुं कृताभिलाषाश्च प्राह पार्थो धनंजयः
॥७८॥एष मे हृदि संदेहः सुदृढः परिवर्तते ॥
कस्माद्वोनारदमुनिरनुजज्ञे प्रवासितुम्
॥७९॥सर्वः कोऽप्यतिहीनोऽपि स्वपूज्यस्यार्थसाधकः ॥
स्वपूज्यतीर्थेष्वावासं प्रोक्तवान्नारदः कथम्
॥८०॥तथैव नवदुर्गासु सतीष्वतिबलासु च ॥
सिद्धेशे सिद्धगणपे चापि वोऽत्र स्थितिः कथम्
॥८१॥एकैक एषां शक्तो हि अपि देवान्निवारितुम् ॥
तीर्थसंरोधकारिण्यः सर्वा नावारयत्कथम्
॥८२॥इति चिंतयते मह्यं भृशं दोलायते मनः ॥
महन्मे कौतुकं जातं सत्यं वा वक्तुमर्हथ
॥८३॥अप्सरस ऊचुः
योग्यं पृच्छसि कौन्तेय पुनः पश्योत्तरां दिशम्
॥८४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखंडे पार्थेन पञ्चाप्सरः समुद्धरणंनाम प्रथमोऽध्यायः ॥ १ ॥