मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — कौमारिकाखण्डः, अध्याय २२

3
माहेश्वरखण्डः · कौमारिकाखण्डः · 22

पार्वतीजन्मवर्णनम्

नारद उवाच

एवं विप्रकृता देवा महेंद्रसहितास्तदा ॥

ययुः स्वायंभुवं दाम मर्करूपमुपाश्रिताः

॥१॥

ततश्च विस्मितो ब्रह्मा प्राह तान्सुरपुंगवान् ॥

स्वरूपेणेह तिष्ठध्वं नात्र वस्तारकाद्भयम्

॥२॥

ततो देवाः स्वरूपस्थाः प्रम्लानवदनांबुजाः ॥

तुष्टुवुः प्रणताः सर्वे पितरं पुत्रका यथा

॥३॥

नमो जगत्प्रसूत्यै ते हेतवे पालकाय च ॥

संहर्त्रे च नमस्तुभ्यं तिस्रोऽवस्थास्तव प्रभो

॥४॥

त्वमपः प्रथमं सृष्ट्वा तासु वीर्यमवासृजः ॥

तदण्डमभवद्धैमं यस्मिल्लोकाश्चराचराः

॥५॥

वेदेष्वाहुर्विराड्‌रूपं त्वामेकरूपमीदृशम् ॥

पातालं पादमूलं च पार्ष्णिपादे रसातलम्

॥६॥

महातलं चास्य गुल्फौ जंघे चापि तलातलम् ॥

सुतलं जानुनी चास्य ऊरू च वितलातले

॥७॥

महीतलं च जघनं नाभिश्चास्य नभस्तलम् ॥

ज्योतिः पदमुरः स्थानं स्वर्लोको बाहुरुच्यते

॥८॥

ग्रीवा महश्चवदनं जनलोकः प्रकीर्त्यते ॥

ललाटं च तपोलोकः शीर्ष सत्यमुदाहृतम्

॥९॥

चन्द्रसूर्यौ च नयने दिशः श्रोत्रे नासिकाश्विनौ ॥

आत्मानं ब्रह्मरंध्रस्थमाहुस्त्वां वेदवादिनः

॥१०॥

एवं ये ते विराड्‌रूपं संस्मरंत उपासते ॥

जन्मबन्धविनिर्मुक्ता यांति त्वां परमं पदम्

॥११॥

एवं स्थूलं प्राणिमध्यं च शूक्ष्मं भावेभावे भावितं त्वां गृणंति ॥

सर्वत्रस्थं त्वामतः प्राहुर्वेदास्तस्मै तुभ्यं पदम्ज इद्विधेम

॥१२॥

एवं स्तुतो विरंचिस्तु कृपयाभिपरिप्लुतः ॥

जानन्नपि तदा प्राह तेषामाश्वासहेतवे

॥१३॥

सर्वे भवन्तो दुःखार्ताः परिम्लानमुखांबुजाः ॥

भ्रष्टायुदास्तथाऽकस्माद्भ्रष्टा भरणवाससः

॥१४॥

ममैवयं कृतिर्देवा भवतां यद्वडम्बना ॥

यद्वैराजशरीरे मे भवन्तो बाहुसंज्ञकाः

॥१५॥

यद्यद्विभूतिमत्सत्त्वं धार्मिकं चोर्जितं महत् ॥

तत्रासीद्बाहुनाशो मे बाहुस्थाने च ते मम

॥१६॥

तन्नूनं मम भग्नौ च बाहू तेन दुरात्मना ॥

येन चोपहृतं देवास्तन्ममाख्यातु मर्हथ

॥१७॥

देवा ऊचुः

योऽसौ वज्रांगतनयस्त्वया दत्तवरः प्रभो ॥

भृशं विप्रकृतास्तेन तत्त्वं जानासि तत्त्वतः

॥१८॥

यत्तन्महीसमुद्रस्य तटं शार्विकतीर्थकम् ॥

तदाक्रम्य कृतं तेन मरुभूमिसमं प्रभोः

॥१९॥

ऋद्धयः सर्वदेवानां गृहीतास्तेन सर्वतः ॥

महाभूतस्वरूपेण स एव च जगत्पतिः

॥२०॥

चंद्रसूर्यौ ग्रहास्तारा यच्चान्यद्देवपक्षतः ॥

तच्च सर्वं निराकृत्य स्थापितो दैत्यपक्षकः

॥२१॥

वयं च विधृता स्तेन बहूपहसितास्तथा ॥

प्रसादान्मुक्ताश्च कथंचिदिव कष्टतः

॥२२॥

तद्वयं शरणं प्राप्ताः पीडिताः क्षुत्तृषार्दिताः ॥

धर्मरक्षा कराश्चेति संचिंत्य त्रातुमर्हसि

॥२३॥

इत्युक्तः स्वात्मभूर्देवः सुरैर्दैत्यविचेष्टितम् ॥

सुरानुवाच भगवानतः संचिंत्य तत्त्वतः

॥२४॥

अवध्यस्तारको दैत्यः सर्वैरपि सुरासुरैः ॥

यस्य वध्यश्च नाद्यापि स जातो भगवान्पुनः

॥२५॥

मया च वरदानेन च्छन्दयित्वा निवारितः

॥२६॥

तपसा स हिदीप्तोऽभूत्त्रैलोक्यदहनात्मकः ॥

स च वव्रे वधं दैत्यः शिशतः सप्तवासरात्

॥२७॥

स च सप्तदिनो बालः शंकराद्यो भविष्यति ॥

तारकस्य च वीरस्य वधकर्ता भविष्यति

॥२८॥

सतीनामा तु या देवी विनष्टा दक्षहेलया ॥

सा भविष्यति कल्याणी हिमाचलशरीरजा

॥२९॥

शंकरस्य च तस्याश्च यत्नः कार्यः समागमे ॥

अहमप्यस्य कार्यस्य शेषं कर्ता न संशयः

॥३०॥

इत्युक्तास्त्रिदशास्तेन साक्षात्कलयोनिना ॥

जग्मुर्मेरुं प्रणम्येशं मर्करूपेण संवृताः

॥३१॥

ततो गतेषु देवेषु ब्रह्मा लोकपितामहः ॥

निशां सस्मार भगवान्स्वां तनुं पूर्वसंभवाम्

॥३२॥

ततो भगवती रात्रिरुपतस्थे पितामहम् ॥

तां विविक्ते समालोक्य तथोवाच विभावरीम्

॥३३॥

विभावरि महाकार्यं विबुधानामुपस्थितम् ॥

तत्कर्तव्यं त्वया देवि श्रृणु कार्यस्य निश्चयम्

॥३४॥

तारकोनाम दैत्येंद्रः सुरकेतुरनिर्ज्जितः ॥

तस्याभावाय भगवाञ्जनयिष्यति यं शिवः

॥३५॥

सुतः स भविता तस्य तारकस्यांतकारकः ॥

अहं त्वादौ यदा जातस्तदापश्यं पुरःस्थितम्

॥३६॥

अर्धनारीश्वरं देवं व्याप्य विश्वमवस्थितम् ॥

दृष्ट्वा तमब्रुवं देवं भजस्वेति च भक्तितः

॥३७॥

ततो नारी पृथग्जाता पुरुषश्च तथा पृथक् ॥

तस्याश्चैवांशजाः सर्वाः स्त्रियस्त्रिभुवने स्मृताः

॥३८॥

एकादश च रुद्राश्च पुरुषास्तस्य चांशजाः ॥

तां नारीमहामालोक्य पुत्रं दक्षमथा ब्रवम्

॥३९॥

भजस्व पुत्रीं जगती ममापि च तवापि च ॥

पुंदुःखनकात्त्रात्री पुत्री ते भाविनी त्वियम्

॥४०॥

एवमुक्तो मया दक्षः पुत्रीत्वे परि कल्पिताम् ॥

रुद्राय दत्तवान्भक्त्या नाम दत्त्वा सतीति यत्

॥४१॥

ततः काले चँ कस्मिंश्चिदवमेने च तां पिता ॥

मुमूर्षुः पापसंकल्पो दुरात्मा कुलकज्जलः

॥४२॥

ये रुद्रं नैव मन्यंते ते स्फुटं कुलकज्जलाः ॥

पिशाचास्ते दुरात्मानो भवंति ब्रह्मराक्षसाः

॥४३॥

अवमानेन तस्यापि यथा देवी जहौ तनुम् ॥

यथा यज्ञः स च ध्वस्तो भवेन विदितं हि ते'

॥४४॥

अधुना हिमशैलस्य भवित्री दुहिता च सा ॥

महेश्वरं पतिं सा च पुनः प्राप्स्यति निश्चितम्

॥४५॥

तदिदं च त्वया कार्यं मेनागर्भे प्रविश्य च ॥

तस्याश्छविं कुरु कृष्णां यथा काली भवेत्तु सा

॥४६॥

यदा रुद्रोपहसिता तपस्तप्स्यति सा महत् ॥

समाप्तनियमा देवी यदा चोग्रा भविष्यति

॥४७॥

स्वयमेव यदा रूपं सुगौरं प्रतिपत्स्यते ॥

विरहेण हरश्चास्या मत्वा शून्यं जगत्त्रयम्

॥४८॥

तस्यैव हिमशैलस्य कंदरे सिद्धसेविते ॥

प्रतीक्षमाणस्तां देवीमुग्रं संतप्स्यते तपः

॥४९॥

तयोः सुतप्ततपसोर्भविता यो महान्सुतः ॥

भविष्यति स दैत्यस्य तारकस्य निवारकः

॥५०॥

तपसो हि विना नास्ति सिद्धिः कुत्रापि शोभने ॥

सर्वासां कर्मसिद्धीनां मूलं हि तप उच्यते

॥५१॥

त्वयापि दानवो देवि देहनिर्गतया तदा ॥

चंडमुंडपुरोगाश्च हंतव्या लोकदुर्जयाः

॥५२॥

यस्माच्चंडं च मुंडं च त्वं देवि निहनिष्यसि ॥

चामुंडेति ततो लोके ख्याता देवि भविष्यसि

॥५३॥

ततस्त्वां वरदे देवी लोकः संपूजयिष्यति ॥

भेदेर्बहुविधाकारैः सर्वगां कामसाधनीम्

॥५४॥

ॐकारवक्त्रां गायत्रीं त्वामर्चंति द्विजोत्तमाः ॥

ऊर्जितां बलदां पापि राजानः सुमहाबलाः

॥५५॥

वैश्याश्च भूतिमित्येव शिवां शूद्रास्तथा शुभे ॥

क्षांतिर्मुनीनामक्षोभ्या दया नियमिनामपि

॥५६॥

त्वं महोपाय सन्दोहा नीतिर्नयविसर्पिणाम् ॥

परिस्थितिस्त्वमर्थानां त्वमहो प्राणिका मता

॥५७॥

त्वं युक्तिः सर्वभूतानां त्वं गतिः सर्वदेहिनाम् ॥

रतिस्त्वं रतिचित्तानां प्रीतिस्त्वं हृद्यदर्शिनाम्

॥५८॥

त्वं कांतिः शुभरूपाणां त्वं शांति शुभकर्मिणाम् ॥

त्वं भ्रांतिर्मूढचित्तानां त्वं फलं क्रतुयाजिनाम्

॥५९॥

जलधीनां महावेला त्वं च लीला विलासिनाम् ॥

संभूतिस्त्वं पदार्थानां स्थितिस्त्वं लोकपालिनी

॥६०॥

त्वं कालरात्रिर्निःशेष भुवनावलिनाशिनी ॥

प्रियकंठग्रहानन्ददायिनी त्वं विभावरी

॥६१॥

प्रसीद प्रणतानस्मान्सौम्यदृष्ट्या विलोकय

॥६२॥

इति स्तुवंतो ये देवि पूजयिष्यंति त्वां शुभे ॥

ते सर्वकामानाप्स्यंति नियता नात्र संशयः

॥६३॥

इत्युक्ता तु निशादेवी तथेत्युक्त्वा कृताञ्जलिः ॥

जगाम त्वरिता पूर्वं गृहं हिमगिरेर्महत्

॥६४॥

तत्राऽऽसीनां महाहर्म्ये रत्नभित्तिसमाश्रये ॥

ददर्श मेनामापांडुच्छविवक्त्रसरोरुहाम्

॥६५॥

किंचिच्छयाममुखोदग्रस्तनभागावनामिताम् ॥

महौषधिगणबद्धमंत्रराजनिषेविताम्

॥६६॥

ततः किंचित्प्रमिलिते मेनानेत्रांबुजद्वये ॥

आविवेशमुखं रात्रिर्ब्रह्मणो वचनात्तदा

॥६७॥

जन्मदाया जगन्मातुः क्रमेण जठरांतरम् ॥

अरंजयच्छविं देव्या गुहमातुर्विभावरी

॥६८॥

ततो जगन्मं गलदा मेना हिमगिरेः प्रिया ॥

ब्राह्मे मुहूर्ते सुभगे प्रासूयत शुभाननाम्

॥६९॥

तस्यां तु जायमानायां जंतवः स्थाणुजंगमाः ॥

अभवन्सुखिनः सर्वे सर्वलोकनिवासिनः

॥७०॥

अभवत्क्रूरसत्त्वानां चेतः शांतं च देहिनाम् ॥

ज्योतिषामपि तेजस्त्वमभवत्सुतरां तदा

॥७१॥

वनाश्रिताश्चौषधयः स्वादवंति फलानि च ॥

गंधवंति च माल्यानि विमलं च नभोऽभवत्

॥७२॥

मारुतश्च सुखस्पर्शो दिशश्च सुमनोहराः ॥

विस्मृता नि च शास्त्राणि प्रादुर्भावं प्रपेदिरे

॥७३॥

प्रभावस्तीर्थमुख्यानां तदा पुण्यतमोऽभवत् ॥

सत्ये धर्मे चाध्ययने यज्ञे दाने तपस्यपि

॥७४॥

सर्वेषामभवच्छ्रद्धा जन्मकाले गुहारणेः ॥

अंतरिक्षेमराश्चापि प्रहर्षोत्फुल्ललोचनाः

॥७५॥

हरिब्रह्ममहेंद्रार्कवायुवह्निपुरोगमाः ॥

पुष्पवृष्टिं प्रमुमुचुस्तस्मिन्मेनागृहे शुभे

॥७६॥

मेरुप्रभृतयश्चापि मूर्तिमंतो महानगाः ॥

तस्मिन्महोत्सवे प्राप्ता वीरकांस्योपशोभिताः

॥७७॥

सागराः सरितश्चैव समाजग्मुश्च सर्वशः

॥७८॥

हिमशैलोऽभवल्लोके तदा सर्वैश्चराचरैः ॥

सेव्यश्चाप्यभिगम्यश्च पूजनीयश्च भारत

॥७९॥

अनुभूयोत्सवं ते च जग्मुः स्वानालयांस्तदा

॥८०॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखंडे कुमारेश माहात्म्ये पार्वतीजन्मवर्णनंनाम द्वाविंशोऽध्यायः ॥ २२ ॥