यदेतत्परलोकस्य स्वरूपं व्याहृतं त्वया
अतिथिरुवाच
यदेतत्परलोकस्य स्वरूपं व्याहृतं त्वया ॥
आगमं समुपाश्रित्य तत्तथैव न संशयः
॥१॥किंत्वत्र नास्तिकाः पापाः सन्दिह्यन्तेऽल्पचेतनाः ॥
तेषां निःसंशयकृते वद कर्मफलं हि यत्
॥२॥इहैव कस्य कस्यैव कर्मणः पापकस्य च ॥
प्रभावात्कीदृशो जायेत्कमठैतद्वदास्ति चेत्
॥३॥कमठ उवाच
सर्वमेतत्प्रवक्ष्यामि स्थिरो भूत्वा शृणुष्व तत् ॥
यथा मम गुरुः प्राह यन्मे चेतसि संस्थितम्
॥४॥ब्रह्महा क्षयरोगी स्यात्सुरापः श्यावदंतकः ॥
सुवर्णचौरः कुनखी दुश्चर्मा गुरुतल्पगः
॥५॥संसर्गी सर्वरोगी स्यात्पंचपातकिनस्त्वमी ॥
निंदामाकर्ण्य साधूनां बधिरः संप्रजायते
॥६॥स्वयं प्रकीर्तयेच्चापि मूकः पापोऽभिजायते ॥
आज्ञालोपी गुरूणां च अपस्मारी भवेन्नरः
॥७॥अवज्ञाकारकस्तेषां कृमिरेवाभिजायते ॥
उपेक्षतः पूज्यकार्यं दुष्प्रज्ञत्वं च जायते
॥८॥चौर्याय साधुद्रव्याणां दद्याद्यावत्पदानि च ॥
तावद्वर्षाणि पंगुत्वं स प्राप्नोति नराधमः
॥९॥दत्त्वा हरति तद्भूयो जायते कृकलासकः ॥
कुपितानप्रसाद्यैव पूज्यान्स्याच्छीर्षरोगवान्
॥१०॥रजस्वलामभिगच्छंश्च चंडालः संप्रजायते ॥
वस्त्रापहारी चित्री स्यात्कृष्णकुष्ठी तथाग्निदः
॥११॥दर्दुरो रूप्यहारी स्यात्कूटसाक्षी मुखारुजः ॥
परदारांश्च कामेन द्रष्टा स्यादक्षिरोगवान्
॥१२॥प्रतिज्ञायाप्रयच्छन्यो ह्यल्पायुर्जायते नरः ॥
विप्रवृत्त्यपहारी स्यादजीर्णी सर्वदाऽधमः
॥१३॥नैष्ठिकान्नाशनाद्भूयो निवृत्तो रोगवान्सदा ॥
पत्नीबहुत्वे त्वेकस्यां रेतोमोक्षः क्षयी भवेत्
॥१४॥स्वामिना धर्मयुक्तो यस्त्वन्यायेन समाचरेत् ॥
स्वयं वा भक्षयेद्द्रव्यं स मूढः स्याज्जलोदरी
॥१५॥दुर्बलं पीड्यमानं यो बलवान्समुपेक्षते ॥
अंगहीनः स च भवेदन्नहृत्क्षुधितो भवेत्
॥१६॥व्यवहारे पक्षपाती जिह्वारोगी भवेन्नरः ॥
धर्मप्रवृत्तिं सञ्चार्य पत्न्यादीष्टवियोगकृत्
॥१७॥स्वयं पाकाग्रभोजी यो गलरोगमवाप्नुयात् ॥
पंचयज्ञानकृत्वैव भुञ्जानो ग्रामशूकरः
॥१८॥पर्वमैथुन कृन्मेही परित्यज्य स्वगेहिनीम् ॥
वेश्यादिरक्तो मूढात्मा खल्वाटो जायते नरः
॥१९॥परिक्षीणान्मित्रबन्धून्स्वामिनं दयितानुगान् ॥
अवमन्य निवृत्तात्मा क्लिष्टवृत्तिः सदा भवेत्
॥२०॥छद्मनोपचरेद्यस्तु पितरौ स्वामिनं गुरून् ॥
प्राप्तव्यार्थस्यातिकष्टात्परिभ्रंशोर्थजो भवेत्
॥२१॥विश्रब्धस्यापहारी तु दुःखानां भाजनं भवेत् ॥
धार्मिके क्षुद्रकारी यो नरः स वामनो भवेत्
॥२२॥दुर्बलवृषवाही यः कटिलूती भवेत्स च
॥२३॥जात्यंधश्चापि यो गोघ्नो निःपशुर्दुःखकृद्गवाम् ॥
निर्दयो गोषु घाताद्यैः सदा सोध्वसु कष्टगः
॥२४॥निस्तेजकः सभायां यो गलगण्डी स जायते ॥
सदा क्रोधी च चंडालः पूतिवक्त्रश्च सूचकः
॥२५॥अजविक्रयकृद्व्याधः कुण्डाशी भृतको भवेत् ॥
नास्तिकस्तिल पिंडी स्यादश्रद्धो गीतजीवनः
॥२६॥अभक्ष्यादो गण्डमाली स्त्रीखादी चाऽऽसुतस्य कृत् ॥
अन्यायतो ज्ञानग्राही मूर्खो भवति मानवः
॥२७॥शास्त्रचौरः केकराक्षः कथां पुण्यां च द्वेष्टि यः ॥
कृमिवक्त्रः स च भवेद्विभ्रष्टो नरकात्कुधीः
॥२८॥देवद्विजगवां वृत्तिहारको वांतभक्षकृत् ॥
तडागारामभेत्ता यो भवेद्विकलपाणिकः
॥२९॥व्यवहारे च्छलग्राही भृत्यग्रस्तो भवेन्नरः ॥
सदा पुरुषरोगी स्यात्परदाररतो नरः
॥३०॥वात रोगी कुवैद्यः स्याद्दुश्चर्मा गुरुतल्पगः ॥
मधुमेही खरीगामी गोत्रस्त्रीमैथुनोऽप्रसूः
॥३१॥स्वसारं मातरं पुत्रवधूं गच्छन्नबीजवान् ॥
कृतघ्नः सर्व कार्याणां वैफल्यं समुपाश्नुते
॥३२॥इत्येष लक्षणोद्देशः पापिनां परिकीर्तितः ॥
चित्रगुप्तोऽपि मुह्येत सकलस्यानुवर्णने
॥३३॥एते नरक विभ्रष्टा भुक्त्वा योनीः सहस्रशः ॥
एवंविधैश्चिह्निताश्च जायंते लक्षणैर्नराः
॥३४॥ये हि धर्मं न मन्यंते तथा ये व्यसनैर्जिताः ॥
अनुमानेन बोद्धव्यं यदेते शेषपापिनः
॥३५॥येषां त्वंतगतं पापं स्वर्गाद्वा ये समागताः ॥
सर्वव्यसननिर्मुक्ता धर्ममेकं भजन्ति ते
॥३६॥भवंति चात्र श्लोकाः ॥
धर्मादनवमं सौख्यमधर्माद्दुःखसम्भवः ॥
तस्माद्धर्मं सुखार्थाय कुर्यात्पापं विवर्जयेत्
॥३७॥लोकद्वयेऽपि यत्सौख्यं तद्धर्मात्प्रोच्यते यतः ॥
धर्ममेकमतः कुर्यात्सर्वकार्यार्थसिद्धये
॥३८॥मुहूर्तमपि जीवेत नरः शुक्लेन कर्मणा ॥
न कल्पमपि जीवेत लोकद्वयविरोधिना
॥३९॥इति पृष्टं त्वया विप्र यथाशक्त्या मयेरितम् ॥
असूक्तं सूक्तमथवा क्षंतव्यं किं वदामि च
॥४०॥नारद उवाच
कमठस्यैतदाकर्ण्य अष्टवर्षस्य भाषितम् ॥
भगवान्भास्करः प्रीतो बभूवातीव विस्मितः
॥४१॥प्रशशंस च तान्विप्रान्हारीतप्रमुखांस्तदा ॥
अहो वसुमती धन्या द्विजैरेवंविधोत्तमैः
॥४२॥अथ प्रजापतिर्धन्यो यन्मर्यादाभिपाल्यते ॥
अमीभिर्ब्राह्मणवरैर्धन्या वेदाश्च संप्रति
॥४३॥येषां मध्ये बालबुद्धिरियमेतादृशी स्फुटा ॥
हारीतप्रमुखानां हि का वै बुद्धिर्भविष्यति
॥४४॥असंशयं त्रिलोकस्थमेषामविदितं न हि ॥
यथैतान्नारदः प्राह भूयस्तस्मादमी बहु
॥४५॥इति प्रशस्य तान्विप्रान्प्रहृष्टो रविरव्रवीत् ॥
अहं सूर्यो विप्रमुख्या युष्माकं दर्शनात्कृते
॥४६॥समागतः सूर्यलोकात्प्राप्तं नेत्रफलं च मे ॥
भवद्विधैर्विप्रमुख्यैः संजल्पनसहासनात्
॥४७॥अंत्यजा अपि पूयन्ते किं पुनर्मादृशा द्विजाः ॥
सर्वथा नारदो धन्यो योऽसौ त्रैलोक्यतत्त्ववित्
॥४८॥युष्माभिर्बध्यते श्रेयो यस्य वै धूतकिल्विषैः ॥
प्रणमामि च वः सर्वान्मनोबुद्धिसमाधिभिः ॥
तपो विद्या च वृत्तं च यतो वार्द्धक्यकारणम्
॥४९॥वरं मत्तो वृणीध्वं च दुर्लभं यं हृदीच्छत ॥
यूयं स्वयं हि वरदा मत्संगो मास्तु निष्फलः
॥५०॥देवतानां हि संसर्गो निष्फलो नोपजायते ॥
तस्मान्मत्तो वरं किंचिद्वृणुध्वं प्रददामि वः
॥५१॥श्रीनारद उवाच
इति सूर्यवचः श्रुत्वा प्रहृष्टास्ते द्विजोत्तमाः
॥५२॥संपूज्य परया भक्त्या पाद्यार्घ्यस्तुतिवंदनैः ॥
मंडलादीन्महाजप्यान्गृणंतः प्रोचिरे रविम्
॥५३॥जयादित्य जय स्वामिञ्जय भानो जयामल ॥
जय वेदपते शश्वत्तारयास्मानहर्पते
॥५४॥विप्राणां त्वं परो देवो विप्रसर्गोऽपि त्वन्मयः ॥
नितरां पूतमेतन्नः स्थानं देव त्वयेक्षितम्
॥५५॥अद्य नः सफला वेदा अद्य नः सफलाः क्रियाः ॥
अद्य नः सफलं गेहं त्वया संगम्य गोपते
॥५६॥वरं यदि प्रदातासि तदेनं प्रवृणीमहे ॥
आस्माकीनमिदं स्थानं न हि त्याज्यं कथंचन
॥५७॥श्रीसूर्य उवाच
यस्माद्भवद्भिः पूर्वं हि जयादित्येति चोदितम् ॥
जयादित्य इति ख्यातस्तस्मात्स्थास्येऽत्र सर्वदा
॥५८॥यावन्मही समुद्राश्च पर्वता नगराणि च ॥
तावत्स्थानमिदं विप्रा न हि त्यक्ष्यामि कर्हिचित्
॥५९॥दारिद्र्यरोगसंघातान्दद्रवो मंडलानि च ॥
कुष्ठादीन्नाशयिष्यामि भजतामत्र संस्थितः
॥६०॥यो मामत्र स्थितं चापि पूजयिष्यति मानवः ॥
सूर्यलोकमिवागम्य पूजां तस्य भजाम्यहम्
॥६१॥श्रीनारद उवाच
एवमुक्ते भगवता हारीताद्या द्विजोत्तमाः ॥
मूर्तिं संस्थापयामासुर्वेदोदितविधानतः
॥६२॥ततो द्विजाः प्राहुरेवं कमठं त्वत्कृते रविः ॥
अत्र स्वामी स्थितस्तस्मात्प्रथमं स्तुहि त्वं रविम्
॥६३॥इत्युक्तो ब्राह्मणैः सर्वैः कमठो वाग्ग्मिनां वरः ।
प्रणिपत्य जयादित्यं महास्तोत्रमिदं जगौ
॥६४॥न त्वं कृतः केवलसंश्रुतश्च यजुष्येवं व्याहरत्यादिदेव ॥
चतुर्विधा भारती दूरदूरं धृष्टः स्तौमि स्वार्थकामः क्षमैतत्
॥६५॥मार्तंडसूर्यांशुरविस्तथेन्द्रो भानुर्भगश्चार्यमा स्वर्णरेताः
॥६६॥दिवाकरो मित्रविष्णुश्च देव ख्यातस्त्वं वै द्वादशात्मा नमस्ते ॥
लोकत्रयं वै तव गर्भगेहं जलाधारः प्रोच्यसे खं समग्रम्
॥६७॥नक्षत्रमाला कुसुमाभिमाला तस्मै नमो व्योमलिंगाय तुभ्यम्
॥६८॥त्वं देवदेवस्त्वमनाथनाथस्त्वं प्राप्यपालः कृपणे कृपालुः ॥
त्वं नेत्रनेत्रं जनबुद्धिबुद्धिराकाशकाशो जय जीवजीवः
॥६९॥दारिद्र्यदारिद्र्य निधे निधीनाममंगलामंगल शर्मशर्म ॥
रोगप्ररोगः प्रथितः पृथिव्यां चिरं जयादित्य जयाप्रमेय
॥७०॥व्याधिग्रस्तं कुष्ठरोगाभिभूतं भग्न प्राणं शीर्णदेहं विसंज्ञम् ॥
माता पिता बांधवाः संत्यजंति सर्वैस्त्यक्तं पासि कोस्ति त्वदन्यः
॥७१॥त्वं मे पिता त्वं जननी त्वमेव त्वं मे गुरुर्बान्धवाश्च त्वमेव ॥
त्वं मे धर्मस्त्वं च मे मोक्षमार्गो दासस्तुभ्यं त्यज वा रक्ष देव
॥७२॥पापोऽस्मि मूढोऽस्मि महोग्रकर्मा रौद्रोऽस्मि नाचारनिधानमस्मि ॥
तथापि तुभ्यं प्रणिपत्य पादयोर्जयं भक्तानामर्पय श्रीजयार्क
॥७३॥नारद उवाच
एवं स्तुतो जयादित्यः कमठेन महात्मना ॥
स्निग्धगंभीरया वाचा प्राह तं प्रहसन्निव
॥७४॥जयादित्याष्टकमिदं यत्त्वया परिकीर्तितम् ॥
अनेन स्तोष्यते यो मां भुवि तस्य न दुर्लभम्
॥७५॥रविवारे विशेषेण मां समभ्यर्च्य यः पठेत् ॥
तस्य रोगा न शिष्यंति दारिद्र्यं च न संशयः
॥७६॥त्वया च तोषितो वत्स तव दद्मि वरंत्वमुम् ॥
सर्वज्ञो भुवि भूत्वा त्वं ततो मुक्तिमवाप्स्यसि
॥७७॥त्वत्पिता स्मृतिकारश्च भविष्यति द्विजार्चितः ॥
स्थानस्यास्य न नाशश्च कदाचित्प्रभविष्यति
॥७८॥न चैतत्स्थानकं वत्स परित्यक्ष्यामि कर्हिचित् ॥
एवमुक्ता स भगवान्ब्राह्मणैरर्चितः स्तुतः
॥७९॥अनुज्ञाप्य द्विजेद्रांस्तांस्तत्रैवांतर्दधे प्रभुः ॥
एवं पार्थ समुत्पन्नो जयादित्योऽत्र भूतले
॥८०॥आश्विने मासि संप्राप्ते रविवारे च सुव्रत ॥
आश्विने भानुवारेण यो जयादित्यमर्चयेत्
॥८१॥कोटितीर्थे नरः स्नात्वा ब्रह्महत्यां व्यपोहति ॥
पूजनाद्रक्तमाल्यैश्च रक्तचंदनकुंकुमैः
॥८२॥लेपनाद्गंधधूपाद्यै नैवेद्येर्घृतपायसैः ॥
ब्रह्मघ्नश्च सुरापश्च स्तेयी च गुरुतल्पगः
॥८३॥मुच्यते सर्वपापेभ्यः सूर्यलोकं च गच्छति ॥
पुत्रदारधनान्यायुः प्राप्य सां सारिकं सुखम्
॥८४॥इष्टकामैः समायुक्तः सूर्यलोके चिरं वसेत्
॥८५॥सर्वेषु रविवारेषु जयादित्यस्य दर्शनम् ॥
कीर्तनं स्मरणं वापि सर्व रोगोपशांतिदम्
॥८६॥अनादिनिधनं देवमव्यक्तं तेजसां निधिम् ॥
ये भक्तास्ते च लीयंते सौरस्थाने निरामये
॥८७॥सूर्योपरागे संप्राप्ते रविकूपे समाहितः ॥
स्नानं यः कुरुते पार्थ होमं कुर्यात्प्रयत्नतः
॥८८॥दानं चैव यथाशक्त्या जयादित्याग्रतः स्थितः ॥
तस्य पुण्यस्य माहात्म्यं शृणुष्वैकमना जय
॥८९॥कुरुक्षेत्रेषु यत्पुण्यं प्रभासे पुष्करेषु च ॥
वाराणस्यां च यत्पुण्यं प्रयागे नैमिषेऽपि वा ॥
तत्पुण्यं लभते मर्त्यो जयादित्यप्रसादतः
॥९०॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे जयादित्य माहात्म्यवर्णनंनामैकपंचाशत्तमोऽध्यायः ॥ ५१ ॥