तमालोक्य पलायंतं विध्वस्तध्वजकार्मुकम्
नारद उवाच
तमालोक्य पलायंतं विध्वस्तध्वजकार्मुकम् ॥
दैत्यांश्च मुदितानिंद्रः कर्तव्यं नाध्यगच्छत
॥१॥अथायान्निकटं विष्णोः सुरेशस्त्वरयान्वितः ॥
उवाच चैनं मधुरमुत्साहपरिबृंहितम्
॥२॥किमेभिः क्रीडसे देव दानवैर्दुष्टमानसैः ॥
दुर्जनैर्लब्धरंध्रस्य पुरुषस्य कुतः क्रियाः
॥३॥शक्तेनोपेक्षितो नीचो मन्यते बलमात्मनः ॥
तस्मान्न नीचं मतिमानुषेक्षेत कथंचन
॥४॥अथाग्रेसरसंपत्त्या रथिनो जयमाययुः ॥
कस्ते सखाभवत्पूर्वं हिरण्याक्षवधे विभो
॥५॥हिरण्यकशिपुर्दैत्यो वीर्यशाली मदोद्धतः ॥
प्राप्य त्वां तृमवन्नष्टस्तत्र कोऽग्रेसरस्तव
॥६॥पूर्वं प्रतिबला दैत्या मधुकैटभसन्निभाः ॥
निविष्टास्त्वां तु संप्राप्य शलभा इव पावकम्
॥७॥युगेयुगे च दैत्यानां त्वत्तो नाशोऽभवद्धरे ॥
तथैवाद्येह भीतानां त्वं हि विष्णो सुराश्रयः
॥८॥एवं संनोदितो विष्णुर्व्यवर्धत महाभुजः ॥
बलेन तेजसा ऋद्ध्या सर्वभूताश्रयोऽरिहा
॥९॥अथोवाच सहस्राक्षं केशवः प्रहसन्निव ॥
एवमेतद्यथा प्राह भवानस्मद्गतं वचः
॥१०॥त्रैलोक्यदानवान्सर्वान्दग्धुं शक्तः क्षणादहम् ॥
दुर्जस्तारकः किं तु मुक्त्वा सप्तदिनं शिशुम्
॥११॥महिषश्चैव शुंभश्च उभौ वध्यौ च योषिता ॥
जंभो दुर्वाससा शप्तः शक्रवध्यो भवानिति ॥
तस्मात्त्वं दिव्यवीर्येण जहि जंभं मदोत्कटम्
॥१२॥अवध्यः सर्वभूतानां त्वामृते स तु दानवः
॥१३॥मया गुप्तो रणे जंभो जगत्कंटकमुद्धर ॥
तद्वैकुंठवचः श्रुत्वा सहस्राक्षोमरारिहा
॥१४॥समादिशत्सुराध्यक्षान्सैन्यस्य रचनां प्रति ॥
ततश्चाभ्यर्थितो देवैर्विष्णुः सैन्यमकल्पयत्
॥१५॥यत्सारं सर्वलोकस्य वीर्यस्य तपसोऽपि च ॥
तदैकादश रुद्रांश्च चकाराग्रेसरान्हरिः
॥१६॥व्यालीढांगा महादेवा बलिनो नीलकंधराः ॥
चंद्रखंडत्रिपुंड्राश्च पिंगाक्षाः शूलपाणयः
॥१७॥पिंगोत्तुंगजटाजूटाः सिंहचर्मावसायिनः ॥
भस्मोद्धूलितगात्राश्च भुजमंडलभैरवाः
॥१८॥कपालीशादयो रुद्रा विद्रावितमहाऽसुराः ॥
कपाली पिंगलो भीमो विरुपाक्षो विलोहितः
॥१९॥अजकः शासनः शास्ता शंभुश्चंद्रो भवस्तथा ॥
एत एकादशनंतबला रुद्राः प्रभाविनः
॥२०॥अपालयंत त्रिदशान्विगर्जंत इवांबुदाः ॥
हिमाचलाभे महति कांचनांबुरुहस्रहि
॥२१॥प्रचंचलमहाहेमघंटासंहतिमंडिते ॥
ऐरावते चतुर्दंते मत्तमातंग आस्थितः
॥२२॥महामदजलस्रावे कामरूपे शतक्रतुः ॥
तस्थौ हिमगिरेः श्रृंगे भानुमानिव दीप्तिमान् ॥
तस्यारक्षत्पदं सव्यं मारुतोऽमितविक्रमः
॥२३॥जुगोपापरमग्निश्च ज्वालापूरितदिङ्मुखः ॥
पृष्ठरक्षोऽभव द्विष्णुः समरेशः शतक्रतोः
॥२४॥आदित्या वसवो विश्वे मरुतश्चाश्विनावपि ॥
गंधर्वा राक्षसा यक्षाः सकिंनरमहोरगाः
॥२५॥कोटिशःकोटिशः गृत्वा वृंदं चिह्नोपलक्षितम् ॥
विश्रावयंतः स्वां कीर्तिं बंदिवृन्दैः पुरः सरैः
॥२६॥चेलुर्दैत्यवधे दृप्ता नानावर्णायुधध्वजाः
॥२७॥शतक्रतोरमरनिकायपालिता पताकिनी याननिनादनादिता ॥
सितोन्नतध्वजपटकोटिमंडिता बभूव सा दितिसुतोकवर्धिनी
॥२८॥आयांतीं तां विलोक्याथ सुरसेनां गजासुरः ॥
गजरूपी महांश्चैव संहारांभोधिविक्रमः
॥२९॥परश्वधायुधो दैत्यो दशनौष्ठकसंपुटः ॥
ममर्द चरणे देवांश्चिक्षेपान्यान्करेण च
॥३०॥परान्परशुना जघ्ने दैत्येंद्रो रौद्रविक्रमः ॥
तस्यैवं निघ्नतः क्रुद्धा देवगन्धर्वकिंनराः
॥३१॥मुमुचुः संहताः सर्वे चित्रशस्त्रास्त्रसंहतिम् ॥
परश्वधांश्च चक्राणि भिण्डिपालान्समुद्गरान्
॥३२॥कुन्तान्प्रासाञ्छरांस्तीक्ष्णान्मुद्गरांश्चापि दुःसहान् ॥
तान्सर्वान्सोग्रसद्दैत्यो यूथपः कवलानिव
॥३३॥कोपस्फुरितदंष्ट्राग्रः करस्फोटेन नादयन् ॥
सुरान्नघ्नंश्चराराजौ दुष्प्रेक्ष्यः सोऽथ दानवः
॥३४॥यस्मिन्यस्मिन्निपतति सुर वृंदे गजासुरः ॥
तस्मिस्तीस्मिन्महाशब्दो हाहाकारो व्यजायत
॥३५॥अथ विद्रवमानं तब्लं प्रेक्ष्व समंततः ॥
रुद्राः परस्परं प्रोचुरहंकारोत्थितार्चिषः
॥३६॥भोभो गृह्णत दैत्येंद्रं भिंदतैनं महाबलाः ॥
कर्षतैनं शितैः शूलैर्भञ्जतैनं हि मर्मसु
॥३७॥कपाली वाक्यमाकर्ण्य शूलं सितशितंमुखे ॥
संमार्ज्य वामहस्तेन संरंभाद्विवृतेक्षणः
॥३८॥प्रोत्फुल्लारुणनीलाब्जसंहतिः सर्वतो दिशः ॥
अथागाद्भुकुटीवक्रो दैत्येंद्राभिमुखो रणे
॥३९॥दृढेन मुष्टिबन्धेन शूलं विषृभ्य निर्मलः ॥
जघान कुम्भदेशे तु कपाली गजदानवम्
॥४०॥ततो दशापि ते रुद्रा निर्मलायोमयै रणे ॥
जघ्नुः शूलैस्तु दैत्येंद्रं शैलवर्ष्माणमाहवे
॥४१॥सुस्राव शोणितं पश्चात्सर्वस्रोतस्सु तस्य वै ॥
शूलरक्तेन रुद्रस्य शुशुभे गजदानवः
॥४२॥प्रोत्फुल्लामलनीलाब्जं शरदीवामलं सरः ॥
भस्मशुभ्रतनुच्छायै रुद्र र्हंसैरिवावृतम्
॥४३॥क्रुद्धं कपालिनं दैत्यः प्रचलत्कर्णपल्लवः ॥
भवं च दन्तैर्बिभिदे नाभिदेशे जगासुरः
॥४४॥दृष्ट्वानुरक्तं रुद्राभ्यां नवरुद्रास्ततो द्रुतम् ॥
विव्यधुर्विशिखैः शूलैः शरीरममरद्विषः
॥४५॥ततः कपालिनं त्यक्त्वा भवं चासुरपुंगवः ॥
वेगेन कुपितो दैत्यो नव रुद्रानुपाद्रवत् ॥
ममर्द चरणाघातैर्दन्तैश्चापि करेण च
॥४६॥ततोऽसौ शूलयुद्धेन श्रममासादितो यदा ॥
तदा कपाली जग्राह करमस्यामरद्विषः
॥४७॥भ्रामयामास चातीव वेगेन च गजासुरम् ॥
दृष्ट्वाश्रमातुरं दैत्यं किंचिच्च्यावितजीवितम्
॥४८॥निरुत्साहं रणे तस्मिन्गतयुद्धोत्सवोऽभवत् ॥
ततो भ्रमत एवास्य चर्म उत्कृत्त्य भैरवम्
॥४९॥स्रवत्सर्वांगर क्तौघं चकारांबरमात्मनः ॥
तुष्टुवुस्तं तदा देवा बहुधा बहुभिः स्तवैः
॥५०॥ऊचुश्चैनं चयो हन्यात्स म्रियेत ततस्त्वसौ ॥
दृष्ट्वा कपालिनो रूपं गजचर्मांबरावृतम्
॥५१॥वित्रेसुर्दुद्रुवुर्जघ्नुर्निपेतुश्च सहस्रशः ॥
एवं विलुलिते तस्मिन्दानवेन्द्रे महाबले
॥५२॥गजं मत्तमथारुह्य शतदुन्दुभिनादितम् ॥
निमिरभ्यपतत्तूर्णं सुरसैन्यानि लोडयन्
॥५३॥यांयां निमिगजो याति दिशं तांतां सवाहनाः ॥
दुद्रुवुश्चुक्रुशुर्देवा भयेनाकंपिता मुहुः
॥५४॥गन्धेन सुरमातंगा दुद्रुवुस्तस्य हस्तिनः ॥
पलायितेषु सैन्येषु सुराणां पाकशासनः
॥५५॥तस्थौ दिक्पालकैः सार्धमष्टभिः केशवेन च ॥
संप्राप्तस्तस्य मातंगो यावच्छक्रगजं प्रति
॥५६॥तावच्छक्रगजो भीतो मुक्त्वा नादं सुभैरवम् ॥
ध्रियमाणोऽपि यत्नेन चकोर इव तिष्ठति
॥५७॥पलायति गजे तस्मिन्नारूढः पाकशासनः ॥
विपरीतमुखं युद्धं दानवेन्द्रेण सोऽकरोत्
॥५८॥शतक्र तुस्तु शूलेन निमिं वक्षस्यताडयत् ॥
गदया दंतिनं तस्य गल्लदेशेहनद्भृशम्
॥५९॥तं प्रहारचिंत्यैव निमिर्निर्भयपौरुषः ॥
ऐरावतं कटीदेशे मुद्गरेणाभ्यताडयत्
॥६०॥स हतो मुद्गरेणाथ शक्रकुञ्जर आहवे ॥
जगाम पश्चात्पद्भ्यां च पृथिवीं भूधराकृतिः
॥६१॥लाघवात्क्षिप्रमुत्थाय ततोऽमरमहागजः ॥
रणादपससर्पाथ भीषितो निमिहस्तिना
॥६२॥ततो वायुर्ववौ रूक्षो बहुशर्करपांशुलः ॥
सम्मुखो निमिमातंगोऽकंपनोऽचलकंपनः ॥
स्रुतरक्तो बभौ शैलो घनधातुह्रदो यता
॥६३॥धनेशोऽपि गदां गुर्वी तस्य दानवहस्तिनः ॥
मुमोच वेगान्न्यपतत्सा गदा तस्य मूर्धनि
॥६४॥गजो गदानिपातेन स तेन परिमूर्छितः ॥
दंतैर्भित्वा धरां वेगात्पपाताचलसन्निभः
॥६५॥पतिते च गजे तस्मिन्सिंहनादो महानभूत् ॥
सर्वतः सुरसैन्यानां गजबृंहितबृंहितः
॥६६॥हेषारवेण चाश्वानां राणास्फोटैश्च धन्विनाम् ॥
गजं तं निहतं दृष्ट्वा निमिं चापि पराङ्मुखम्
॥६७॥सुराणां सिंहनादं च सन्नादितदिगंतरम् ॥
जंभो जज्वाल कोपेन संदीप्त इव पावकः
॥६८॥ततः स कोपरक्ताक्षो ध्नुष्यारोप्य सायकम् ॥
तिष्ठेति चाब्रवीत्तारं सारथिं चाप्यनंदयत्
॥६९॥तमायांतमभिप्रेक्ष्य धनुष्याहितसा यकम् ॥
शतक्रतुरदीनात्मा दृढमादत्त कार्मुकम्
॥७०॥बाणं च तैलधौताग्रमर्धचंद्रमजिह्मगम्
॥७१॥तेनास्यट सशरं चापं चिच्छेद बलवृत्रहा ॥
अपास्य तद्धनुश्छिन्नं जंभो दानवनंदनः
॥७२॥अन्यत्कार्मुकादाय वेगवद्भारसाधनम् ॥
शरांश्चाशीविषाकारांस्तैलधौताजिह्मगान्
॥७३॥शक्रं विव्याध दशभिर्जत्रुदेशे च पत्रिबिः ॥
हृदये च त्रिभिश्चैव द्वाभ्यां च स्कन्धयोर्द्वयोः
॥७४॥शक्रोपि दानवेन्द्राय बाणजालम भीरयन् ॥
अप्राप्तान्दानवेन्द्रस्तु शराश्छक्रभुजेरितान्
॥७५॥चिच्छेद शतधाऽऽकाशे शरैरग्निशिखोपमैः ॥
ततश्च शरजालेन देवेन्द्रो दानवेश्वरम्
॥७६॥आच्छादयत यत्नेन वर्षास्विव घनैर्नभः ॥
दैत्योऽपि बाणजालेन विव्याध सायकैः शितैः
॥७७॥यथा वायुर्घनाटोपं यदवार्यं दिशां मुखे ॥
शक्रोऽथ क्रोधसंरंभान्न विशेषयते यदा
॥७८॥दानवेन्द्रं तदा चक्रे गंधर्वास्त्रं महाद्भुतम् ॥
ततोऽस्य तेजसा व्याप्तमभूद्गनगोचरम्
॥७९॥गन्धर्वनगरैश्चापि नानाप्राकारतोरणैः ॥
मुंचद्भिरद्भुताकारैरस्त्रवृष्टिं समंततः
॥८०॥तयास्त्रवृष्ट्या दैत्यानां हन्यमाना महाचमूः ॥
जंभं शरणमागच्छत्त्राहित्राहीति भारत
॥८१॥ततो जंभो महावीर्यो विनद्य प्रहसन्मुहुः ॥
स्मरन्साधुसमाचारं दैत्यानामभयं ददौ
॥८२॥ततोऽस्त्रं मौशलंनाम मुमोच सुमहाभयम् ॥
अथोग्रमुसलैः सर्वमभवत्पूरितं जगत्
॥८३॥तैश्च भग्नानि सर्वाणि गंधर्वनगराणि च ॥
अथोग्रैक प्रहारेण रथमश्वं गजं सुरम्
॥८४॥चूर्णयामास तत्क्षिप्रं शतशोऽथ सहस्रशः ॥
ततः सुराधिपः सक्रस्त्वाष्ट्रमस्त्रमुदैरयत्
॥८५॥संध्यमाने ततश्चास्त्रे निश्चेरुः पावकार्चिषः ॥
ततो यंत्रमया विद्याः प्रादुरासन्सहस्रशः
॥८६॥तैर्यंत्रैरभवद्युद्धमंतरिक्षं वितारकम् ॥
तैर्यंत्रैर्मौशलं भग्नं हन्यंते चासुरास्तदा
॥८७॥शैलास्त्रं मुमुचे जंभो यंत्रसंघातचूर्णनम् ॥
व्यामप्रमाणैरुपलैस्ततो वर्षः प्रवर्तत
॥८८॥त्वाष्ट्रोण निर्मितान्याशु यानि यंत्राणि भारत ॥
तेनोपल निपातेन गतानि तिलशस्ततः
॥८९॥ततः शिरस्सु देवानां शिलाः पेतुर्महाजवाः ॥
दारयंत्यश्च वसुधां चतुरंगबलं च तत्
॥९०॥ततो वज्रास्त्रमकरोत्सस्राक्षः पुरंदरः ॥
शिलामहार्षंव्यशीर्यत समंततः
॥९१॥ततः प्रशांतैः शैलास्त्रैर्जंभो भूधरसन्निभः ॥
ऐषीकमस्त्रमकरोच्चूर्णितान्यपराक्रमः
॥९२॥ऐषीकेणागमन्नाशं वज्रास्त्रं गिरिदारणम् ॥
विजृंभत्यथ चैषीके परमास्त्रेऽतिदारुणे
॥९३॥जज्वलुर्देवसैन्यानि सस्यंदनगजानि च ॥
दह्यमानेष्व नीकेषु तेजसास्त्रस्य सर्वतः
॥९४॥आग्नेयमस्त्रमकरोद्बलहा पाकशासनः ॥
तेनास्त्रेण च तन्नाशमैषीकमगमत्तदा
॥९५॥तस्मिन्प्रतिहते चास्त्रे पावकास्त्रं व्यजृंभत ॥
जज्वाल सेना जंभस्य रथः सारथिरेव च
॥९६॥तः प्रतिहतास्त्रोऽसौ दैत्येंद्रः प्रतिभानवान् ॥
वारुणास्त्रं मुमोचाथशमनं पावकार्चिषाम्
॥९७॥ततो जलधरैर्व्योम स्फुरद्विद्युल्लताकुलैः ॥
गंभीराक्षसमाधारैश्चाभ्यपूर्यत मोदिनी
॥९८॥करींद्रकरतुल्याभिर्धाराभिः पूरितं जगत् ॥
शांतमाग्नेयमस्त्रं च विलोक्येंद्रश्चकार ह
॥९९॥वायव्यमस्त्रमतुलं तेन मेघा ययुः क्षयम् ॥
वायव्यास्त्रबलेनाथ निर्धूते मेघमंडले
॥१००॥बभूवानाविलं व्योम नीलोत्पलदलप्रभम् ॥
वायुना चातिरूपेण कंपिताश्चैव दानवाः
॥१०१॥न शेकुस्तत्र ते स्थातुं रणेऽपि बलिनोऽपि ये ॥
जभस्ततोऽभवच्छौलो दशयोजनविस्तृतः
॥१०२॥मारुतप्रतिघातार्थं दानवानां बलाधिपः ॥
नानाश्चर्यसमायुक्तो नानाद्रुमलतावृतः
॥१०३॥ततः प्रशमिते वायौ दैत्येंद्र पर्वताकृतौ ॥
महाशनिं वज्रमयीं मुमोचाशु शतक्रतुः
॥१०४॥तयाशन्या पतितया दैत्यस्याच लरूपिणः ॥
कंदराणि व्यशीर्यंतं समंतान्निर्झराणि च
॥१०५॥ततः सा दानवेंद्रस्य शैलमाया न्यवर्तत ॥
निवृत्तशैलमायोऽथ दानवेंद्रो मदोत्कटः
॥१०६॥बभूव कुंजरो भीमो महाशैलमयाकृतिः ॥
ममर्द च सुरानीकं दंतैश्चाभ्यहनत्सुरान्
॥१०७॥बभंज पृष्ठतः कांश्चित्करेणाकृष्य दानवः ॥
ततः क्षपयतस्तस्य सुरसैन्यानि वृत्रहा
॥१०८॥अस्त्रं त्रैलोक्यदुर्धर्षं नारसिंहं मुमोच ह ॥
ततः सिंहसस्राणि निश्चेरुर्मंत्रतेजसा
॥१०९॥हृष्टदंष्ट्राट्टहासानि क्रकचाभनखानि च ॥
तैर्विपाटितगात्रोऽसौ गजमायां व्यपोहयत्
॥११०॥ततश्चाशीविषो घोरोऽभवत्फणसमाकुलः ॥
विषनिःश्वासनिर्दग्धसुरसैन्यमहारथः
॥१११॥ततोऽस्त्रं गारुडं चक्रे शक्रः संप्रहरन्रॅणे ॥
ततस्तस्माद्गरुत्मंतः सहस्राणि विनिर्ययुः
॥११२॥तैर्गरुत्मद्भिरासाद्य जंभं भुजगरूपिणम् ॥
कृतस्तु संढशो दैत्यः सास्य माया व्यनश्यत
॥११३॥मायायाम च प्रनष्टायां ततो जंभो महासुरः ॥
चकार रूपमतुलं चंद्रादित्यपदानुगम्
॥११४॥विवृत्तनयनो ग्रस्तुमियेष सुरपुंगवान् ॥
ततोऽस्य प्रविशद्वक्त्र समहारथकुंजरा
॥११५॥सुरसेनाऽभवद्भीमं पातालोत्तालतालुकम् ॥
सैन्येषु ग्रस्यमानेषु दानवेन बलीयसा
॥११६॥शक्रो दीनत्वमापन्नः श्रांतवाहनवाहनः ॥
कर्तव्यतां नाध्यगच्छत्प्रोवाचेदं जनार्दनम्
॥११७॥किमनंतरमेवास्ति कर्तव्यं नो विशेषतः ॥
तदादिश घटामोऽस्य दानवस्य युयुत्सतः
॥११८॥ततो हरिरुवाचेदं वज्रायुधमुदारधीः ॥
न सांप्रतं रणं त्याज्यं शत्रुकातरभैरवम्
॥११९॥मा गच्छ मोहं मा गच्छ क्षिप्रमस्त्रं स्मर प्रभो ॥
नारायणास्त्रं प्रयतः श्रुत्वेति मुमुचे स च
॥१२०॥एतस्मिन्नंतरे दैत्यो विवृतास्योऽग्रसत्क्षणात् ॥
त्रीणित्रीणि च लक्षाणि किंनरोरगरक्षसाम्
॥१२१॥ततो नारायणास्त्रं च निपपातास्य वक्षसि ॥
महास्त्रभिन्नहृदयः सुस्राव रुधिरं च सः
॥१२२॥ततः स्वतेजसा रूपं तस्य दैत्यस्य नाशितंम् ॥
ततश्चां तर्दधे दैत्यः कृत्वा हासं महोत्कटम्
॥१२३॥गगनस्थः स दैत्येन्द्रः शस्त्राशनिमतींद्रियः ॥
मुमोच सुरसैन्यानां सहारकरणीं पराम्
॥१२४॥तथा परश्वधांश्चक्रवज्रबाणान्समुद्गरान् ॥
कुंतान्खड्गान्भिंडिपालानयोमुखगुडांस्तथा
॥१२५॥ववर्ष दानवो रोषादवध्यानक्षयानपि ॥
तैरस्त्रैर्दानवोन्मुक्तैर्देवानीकेषु भीषणैः
॥१२६॥बाहुभिर्धरणी पूर्णा शिरोभिश्च सकुंडलैः ॥
ऊरुभिर्गजहस्ताभैः करींद्रैश्चाचलोपमैः
॥१२७॥भग्नेषा दंडचक्राक्षै रथैभिः सह ॥
दुःसंचाराभवत्पृथ्वी मांसशोणितकर्दमा
॥१२८॥रुधिरौघह्रदावर्ता गजदेहशिलोच्चया ॥
कबंधनृत्यबहुला महा सुरप्रवाहिनी
॥१२९॥श्रृगालगृध्रध्वांक्षाणां परमानंदकारिणी ॥
पिशाचजातिभिः कीर्णं पीत्वाऽऽमिषं सशोणितम्
॥१३०॥असंभ्रमाभिर्भार्याभिः सह नृत्यद्भिरुद्धता ॥
काचित्पत्नी प्रकुपिता गजकुंभांतमौक्तिकैः
॥१३१॥पिशाचो यत्र चाश्वानां खुरानेकत्र चाकरोत् ॥
कर्णपूरेषु मोदंते पश्यंत्यन्याः सरोषतः
॥१३२॥प्रसादयंति बहुधा महाकर्णार्थकोविदाः ॥
केचिद्वदन्ति भो देवा भो दैत्याः प्रार्थयामहे
॥१३३॥आकल्पमेवं योद्धव्यमस्माकं तृप्तिहेतवे ॥
केचिदूचुरयं दैत्यो देवोयमतिमांसलः
॥१३४॥म्रियते यदि संग्रामे धातुर्दद्भोऽपयाचितम् ॥
केचिद्युध्यत्सु वीरेषु सृक्किणी संलिहंति च
॥१३५॥एतेन पयसा विद्मो दुर्जनः सुजनो यथा ॥
केचिद्रक्तनदीनां च तीरेष्वास्तिक्यबुद्धयः
॥१३६॥पितॄन्देवांस्तर्पयंति शोणितैश्चामिषैः शुभैः ॥
केचिदामिषराशिस्था दृष्ट्वान्यस्य करामिषम्
॥१३७॥देहिदेहीति वाशांतो धनिनः कृपणा यथा ॥
केचित्स्वयं प्रतृप्ताश्च दृष्ट्वा वै खादतः परान्
॥१३८॥सरोषमोष्ठौ निर्भुज्य पश्यंत्येवात्यसूयया ॥
केचित्स्वमुदरं क्रुद्धा निंदंति ताडयंति च
॥१३९॥सर्वभक्षमभीप्संतस्तृप्ताः परधनं यथा ॥
केचिदाहुरद्य एव श्लाघ्या सृष्टिस्तु वेधसः
॥१४०॥सुप्रभातं सुनक्षत्रं पूर्वमासीद्धृथैव तत् ॥
एवं बहुविधालापे पलादानां ततस्ततः
॥१४१॥अदृश्यः समरे जंभो देवाञ्ठस्त्रैरचूर्णयत् ॥
ततः शक्रोधनेशश्च वरुणः पवनोऽनलः
॥१४२॥यमोऽथ निर्ऋतिश्चापि दिव्यास्त्राणि महाबलाः ॥
आकाशे मुमुचुः सर्वे दानवायाभिसंध्य तु
॥१४३॥व्यर्थतां जग्मुरस्त्राणि देवानां दानवं प्रति ॥
यथातिक्रूरचित्तानामार्ये कृत्यशतान्यपि
॥१४४॥गतिं न विविदुश्चापि श्रांता दैत्याश्च देवताः ॥
दैत्यास्त्रभिन्नसर्वांगा गावः शीतार्दिता इव
॥१४५॥परस्परं व्यलीयंत हाहाकिंभाविवादिनः ॥
तामवस्थां हरिर्दृष्ट्वा देवाञ्छक्रमुवाच ह
॥१४६॥अघोरमंत्रं स्मर देवराज अस्त्रं हि यत्पाशुपतप्रभावम् ॥
रुद्रेण तुष्टेन तव प्रदत्तमव्याहतं वीरवराभिघाति
॥१४७॥एवं स शक्रो हरिबोधितस्तदा प्रणम्य देवं वृषकेतुमीश्वरम् ॥
समाददे बाणममित्रघातनं संपूजितं दैवरणेऽर्द्धचंद्रम्
॥१४८॥धनुष्यजय्ये विनियोज्य बुद्धिमान्न्ययोजयत्तत्र अघोरमंत्रम्
॥१४९॥ततो वधायाशु मुमोच तस्य वा आकृष्य कर्णांतमकुंठदीधितिम् ॥
अथासुरः प्रेक्ष्य महास्त्रमापतद्विसृज्य मायां सहसा व्यवस्थितः
॥१५०॥प्रवेपमानेन मुखेन युज्यताचलेन गात्रेण च संभ्रमाकुलः ॥
ततस्तु तस्यास्त्रवराभिमंत्रितः शरोर्धचंद्रः प्रसभं महारणे
॥१५१॥पुरंदरस्येष्वसनप्रमुक्तो मध्यार्कविंवं वपुषा विडंबयन्
॥१५२॥किरीटकूटस्फुरकांतिसंकुलं सुगंधिनानाकुसुमाधिवासितम् ॥
प्रकीर्णधूमज्वलनाभमूर्धजं न्यपातयज्जंभिशिरः सकुंडलम्
॥१५३॥तस्मिन्निंद्रहते जंभे प्रशशंसुः सुरा बहु ॥
वासुदेवोऽपि भगवान्साधु साध्विति चाब्रवीत्
॥१५४॥ततो जंभं हतं दृष्ट्वा दानवेन्द्राः पराङ्मुखाः ॥
सर्वे ते भग्नसंकल्पा दुद्रुवुस्तारकं प्रति
॥१५५॥तांश्च त्रस्तान्समालोक्य श्रुत्वा स चतुरो हतान् ॥
सारथिं प्रेरयामास याहींद्रं लघु संगरे
॥१५६॥तथेत्युक्त्वा स च प्रायात्तारके रथमास्थिते ॥
सावलेपं च सक्रोधं सगर्वं सपराक्रमम्
॥१५७॥साविष्कारं सधिक्कारं प्रयातो दानवेश्वरः ॥
स युक्तं रथमास्थाय सहस्रेण गरुत्मताम्
॥१५८॥सर्वायुधपरिष्कारं सर्वास्त्रपरिरक्षितम् ॥
त्रैलोक्यऋद्धिसंपन्नं कल्पांतांतकनादितम्
॥१५९॥सैन्येन महता युक्तो नादयन्विदिशो दिशः ॥
सहस्राक्षश्च तं दृष्ट्वा त्यक्त्वा वाहनदंतिनम्
॥१६०॥रथं मातलिना युक्तं तप्तहेमपरिष्कृतम् ॥
चतुर्योजनविस्तीर्णं सिद्धसंघपरिष्कृतम्
॥१६१॥गंधर्वकिंनरोद्गीतमप्सरोनृत्यसंकुलम्
॥१६२॥सर्वायुधमहाबाधं महारत्नसमाचितम् ॥
अध्यतिष्ठत्तं रथं च परिवार्य समंततः
॥१६३॥दांशिता लोकपालाश्च तसथुः सगरुडध्वजाः ॥
ततश्चचाल वसुधा ववौ रूक्षो मरुद्गणैः
॥१६४॥चेलुश्च सागराः सप्त तथाऽनश्यद्रवेः प्रभा ॥
ततो जज्वलुरस्त्राणि ततोऽकंपंत वाहनाः
॥१६५॥ततः समस्तमुद्वृत्तं ततोदृस्यत तारकः ॥
एकतस्तारको दैत्यः सुरसंघास्तथैकतः
॥१६६॥लोकावसाद मेकत्र लोकोद्धरणमेकतः ॥
चराचराणि भूतानि भयविस्मयवंति च
॥१६७॥प्रशशंसुः सुराः पार्थ तदा तस्मिन्समागमे
॥१६८॥अस्त्राणि तेजांसि धनानि योधा यशो बलं वीरपराक्रमाश्च ॥
सत्त्वौजसान्यंग बभूवुरेषां देवासुराणां तपसः परं तु नः
॥१६९॥अथाभिमुखमायांतं देवा विनतर्पवभिः ॥
बाणैरनलकल्पाग्रार्विव्यधुस्तारकं प्रति
॥१७०॥स तानचिंत्य दैत्येंद्रो देवबाणक्षतान्हृदि ॥
बाणैर्व्योम दिशः पृथ्वीं पूरयामास दानवः
॥१७१॥नारायणं च सप्तत्या नवत्या च हुताशनम् ॥
दशभिर्मारुतं मूर्ध्नि यमं दशभिरेव च
॥१७२॥धनदं चैव सप्त्या वरुणं च तथाष्टभिः ॥
विंशत्या निर्ऋतिं दैत्यः पुनश्चाष्टभिरेव च
॥१७३॥विव्याध पुनरेकैकं दशभिर्मर्मभेदिभिः ॥
तथा च मातलिं दैत्यो विव्याध त्रिभिराशुगैः
॥१७४॥गरुडं दशभिश्चैव महिषं नवभिस्तथा ॥
पुनर्दैर्त्योऽथ देवानां तिलशो नतपर्वभिः
॥१७५॥चकार वर्मजालानि चिच्छेद च धनूंषि च ॥
ततो विकवचा देवा विधनुष्काः प्रपीडिताः
॥१७६॥चापान्यन्यानि संगृह्य यावन्मुंचंति सायकान् ॥
तावद्बाणं समाधाय कालानलसमप्रभम्
॥१७७॥ताडयामास शक्रं स हृदि सोपि मुमोचह ॥
ततोंऽतरिक्षमालोक्य दृष्ट्वा सूर्यशताकृती
॥१७८॥तार्क्ष्यविष्णू समाजघ्ने शराभ्यां तावमुह्यताम् ॥
प्रेतनाथस्य वह्नेश्च वरुणस्य शितैः शरैः
॥१७९॥निर्ऋतेश्चाकरोत्कार्यं भीतबीतं विमोहयन् ॥
निरुच्छ्वासं समाहृत्य चक्रे बाणैः समीरणम्
॥१८०॥ततः प्राप्य हरिः संज्ञां प्रोत्साह्य च दिशां पतीन् ॥
बाणेन सारथेः कायाच्छिरोऽहार्षीत्सकुण्डलम्
॥१८१॥धूमकेतोर्ज्वलात्क्रुद्धस्तस्य च्छित्त्वा न्यपातयत् ॥
दैत्यराजकिरीटयं च चिच्छेद वासवस्ततः
॥१८२॥धनेशश्च धनुः क्रुद्धो बिभेदबहुधा शरैः ॥
वायुश्चक्रे च तिलशो रथं वा क्षोणिकूबरम्
॥१८३॥निर्ऋतिस्तिलशो वर्ण चक्रे बाणैस्ततो रणे ॥
कृत्वैतदतुलं कर्मतिष्ठतिष्ठेति चाब्रुवन्
॥१८४॥लिहंतः सृक्किणीं देवा वासुदेवादयस्तदा ॥
दृष्ट्वा तत्कर्म देवानां तारकोऽतुलविक्रमः
॥१८५॥मुमोच मुद्गरं भीमं सहस्राक्षाय संगरे ॥
दृष्ट्वा मुद्गरमायांतमनिवार्यं रणाजिरे
॥१८६॥रथादाप्लुत्य धरणीमगमत्पाकशासनः ॥
मुद्गरोऽपि रथोपस्थे पपात परुषस्वनः
॥१८७॥स रथं चूर्णयामास न ममार च मातलिः ॥
गृहीत्वा पट्टिशं दैत्यो जधानोरसि केशवम्
॥१८८॥स्कन्धे गरुत्मतः सोऽपि निषसाद विचेतनः ॥
खड्गेन राक्षसेन्द्रं च भित्त्वा भूमावपातयत्
॥१८९॥यमं च पातयामास भूमौ दैत्यो मुखे हतम् ॥
वह्निं च भिंडिपालेन चक्रे हत्वा विचेतनम्
॥१९०॥वायुं पदा तदाक्षिप्य पातयामास भूतले ॥
धनेशं तद्धनुष्कोट्या कुट्टयामास कोपनः
॥१९१॥ततो देवनिकायानामेकैकं क्षणमात्रतः ॥
तेषामेव जघानासौ शस्त्रैर्बालान्यथा गुरुः
॥१९२॥लब्धसंज्ञस्ततो विष्णुश्चक्रं जग्राह दुर्धरम् ॥
रानवेंद्रवसामेदोरुधिरेणाभिरंजितम्
॥१९३॥मुमोच दानवेंद्रस्य दृढं वक्षसि केशवः ॥
पपात चक्रं दैत्यस्य पतितं भास्करद्युति
॥१९४॥व्यशीर्यताथ कायेऽस्य नीलोत्पलमिवाश्मनि ॥
ततो वज्रं महेन्द्रोऽपि प्रमुमोचार्चितं चिरम्
॥१९५॥तस्मिञ्जयाशा शक्रस्य दानवेन्द्राय संयुगे ॥
तारकस्य च संप्राप्य शरीरं शौर्यशालिनः
॥१९६॥विशीर्यत विकीर्णार्चिः शतधा खण्डशो गतम् ॥
ततो वायुरदीनात्मा वेगेन महता नदन्
॥१९७॥ज्वलितज्वलनाभासमंकुशं प्रमुमोच ह ॥
विशीर्णं तस्य तच्चांगे दृष्ट्वा वायुर्महारुषा
॥१९८॥ततः शैलेन्द्रमुत्पाट्य पुष्पितद्रुमकंदरम् ॥
चिक्षेप दानवेन्द्राय दशयोजनविस्तृतम्
॥१९९॥महीधरं तमायांतं सस्मितं दैत्यपुंगवः ॥
जग्राह वामहस्तेन बालः कन्दुकलीलया
॥२००॥ततस्तेनैव चाहत्य पातयामास चांतकम् ॥
दण्डं ततः समुद्यम्य कृतांतः क्रोधमूर्छितः
॥२०१॥दैत्येन्द्रमूर्ध्नि चिक्षेप भ्राम्य वेगेन दुर्जयम् ॥
सोऽसुरस्यापतन्मूर्ध्नि दैत्यस्तं जगृहे स्मयन्
॥२०२॥कल्पांतलोकदहनो ज्वलनो रोषसंज्वलन् ॥
शक्तिं चिक्षेपदुर्धर्षां दानवेन्द्राय संयुगे
॥२०३॥ततः शिरीषमालेव सास्य वक्षस्यराजत ॥
ततः खड्गं समाकृष्य कोशादाकाशनिर्मलम्
॥२०४॥द्युति भासितत्रैलोक्यं लोकपालोऽपि निर्ऋतिः ॥
चिक्षेप दानवेन्द्राय तस्य मूर्ध्नि पपात ह
॥२०५॥पतितश्चागमत्खड्गः स शीघ्रं शतखण्डताम् ॥
जलेशश्च ततः क्रुद्धो महाभैरवरूपिणम्
॥२०६॥मुमोच पाशं दैत्येन्द्रभुजबन्धाबिलाषुकः ॥
स दैत्यभुजमासाद्य पाशः सद्यो व्यपद्यत
॥२०७॥स्फुटितः क्रकचक्रूरदशनालिरहीश्वरः ॥
ततोऽश्विनौ सचंद्रार्कौ साध्याश्च वसवश्च ये
॥२०८॥यक्षराक्षसगनधर्वाः सर्पाश्चास्त्रैः पृथग्विधैः ॥
जघ्नुर्दैत्येश्वरं सर्वे भूयशस्ते महाबलाः
॥२०९॥न चास्त्राण्यस्यासज्जन्त गात्रे वज्राचलोपमे ॥
ततो देवनवप्लुत्य तारको दानवादिपः
॥२१०॥जघान कोटिशः क्रुद्धो मुष्टिपार्ष्णिभिरेव च ॥
तथाविधं तस्य वीर्यमालोक्य भगवान्हरिः
॥२११॥पलायध्वमहो देवा वदन्नन्तर्हितोऽभवत् ॥
शक्रादयस्ततो देवाः पलायनकृतादराः
॥२१२॥कालनेमिमुखैर्दैत्येरुपरुद्धा मदोत्कटैः ॥
मुष्टिभिः पादघातैश्च केशष्वाकृष्य तैर्मुदा
॥२१३॥तारिताः शुष्कसरितं देवमार्गाश्च दंशिताः ॥
बहुधा चाप्यकृष्यंत लोकपाला महासुरैः
॥२१४॥ततो निनादः संजज्ञे दैत्यानां बलशालिनाम् ॥
कम्पयन्पृथिवीं द्यां च पातालानि च भारत
॥२१५॥जयेति मुदिता दैत्यास्तुष्टुवुस्तारकं तदा ॥
शंखांश्च पूरयामासुः कुन्देन्दुसदृशप्रभान्
॥२१६॥धनुर्बाणरवांश्चोग्रान्कराघातांश्च चक्रिरे ॥
भृशं हर्षान्विता दैत्या नेदुश्च ननृतुर्मुहुः
॥२१७॥ततो देवान्पुरस्कृत्य पशुपालः पशूनिव ॥
दैत्येन्द्रो रथमास्थाय जगाम सहितोऽसुरैः
॥२१८॥महीसागरकूलस्थं तारकः स पुरं बली ॥
योजनद्वादशायामं ताम्रप्राकारशोभितम्
॥२१९॥प्रासादर्बहुभिः कीर्णं दिव्याश्चर्योपशोभितम् ॥
यत्र शब्दास्त्रयो नैव जीर्यंते चानिशंपुरे
॥२२०॥गीतघोषश्च व्याघोषो भुज्यंतां विषयास्त्विति ॥
तत्प्रविश्य पुरं राजा जगाम स्वकमालयम्
॥२२१॥महोत्सवेन महता पुत्रस्त्रीप्रतिनंदितः ॥
तत्र दिव्यां सभां राजा प्राप्य सिंहासनस्थितः
॥२२२॥स्तूयमानो दितिसुतैरप्सरोभिर्विनोदितः ॥
दिव्यासनस्थैर्दैत्येंद्रैर्वृतः सिंहैरिव प्रभुः
॥२२३॥एतस्मिन्नंतरे काचि द्दिव्यस्त्री तत्पुरेऽभवत् ॥
विस्मितस्तैर्वृतो दैत्यैः प्रोवाचेदं स्मयन्निव
॥२२४॥रूपेणानुपमा पार्थ नानाभरणभूषिता ॥
तां दृष्टवा तारको राजा भृशं वै विस्मितोऽभवत्
॥२२५॥कासि देवी मम ब्रूहि किं मया रूपसुंदरि ॥
त्वत्समां योषितं नैव दृष्टवंतः पुरा वयम्
॥२२६॥स्त्र्युवाच
अहं त्रैलोक्यलक्ष्मीति विद्धि मां दैत्यसत्तम ॥
अर्जिता तपसा चास्मि त्वया वीर्येण वा विभो
॥२२७॥वीर्यवंतं त्वनलसं तपस्विनमकातरम् ॥
दातारं चापि भोक्तारं युक्त्या सेवामि तं नरम्
॥२२८॥भीरुं निर्विण्ण्मत्यर्थं साध्वीपीडाकरं नरम् ॥
सर्वातिशंकिनं सद्यस्त्यजामि दितिनंदन
॥२२९॥महेंद्रण च माता ते यदा सा व्यपमानिता ॥
तदैव त्यक्तप्रायोऽसाविदानीं तव संवशे
॥२३०॥तारकश्च ततः प्राह परमं चेति तां तदा ॥
सा चाविवेश तं देवी त्रिजगत्पूजिता रमा
॥२३१॥ततो दैत्याधिपं नार्यो दानवानां विभूषिताः ॥
वीरकांस्यमुपादाय वर्धयांचक्रिरे मुदा
॥२३२॥देवाश्च द्वारि तिष्ठंति बद्धा दैत्यैर्भृशातुराः ॥
उपहस्यमाना नारीभिर्दैत्यैरन्यैश्च नागरैः
॥२३३॥एतस्मिन्नंतरे विष्णुर्दैत्यरूपं समास्थितः ॥
उपहासकमध्यस्थो गाथे द्वे प्राह बुद्धिमान्
॥२३४॥इदमल्पतरंनाम यदमीषां च दृश्यते ॥
मातृक्रोधं स्मरन्राजा किंकिं यन्न करिष्यति
॥२३५॥बलीयांसं समासाद्य न नमेद्यो न चास्ति सः ॥
मर्कवच्छ्वेतबाकीयैरुपायैः स्थीयतां सुराः
॥२३६॥उपहासमुखेनामी उपदेशं हरेर्मुखात् ॥
समाकर्ण्य ततो देवा मर्क्करूपेण संस्थिताः
॥२३७॥नृत्यंतस्ते च बहुधा दैत्याश्चासुरयोषितः ॥
भृशं च नोदयामासुर्मुदा भोज्यानि ते ददुः
॥२३८॥विष्णुर्दैत्यप्रतीहारं ततः प्रोवाच बुद्धिमान् ॥
विनोदाय महाराज्ञो मर्कानेतान्प्रकीर्तय
॥२३९॥प्रतीहारस्ततो हृष्टः सभामध्ये विवेश सः ॥
जानुभ्यां धरणीं गत्वा बद्धा च करसंपुटम्
॥२४०॥उवाचानाविलं वाक्यमल्पाक्षरपरिस्फुटम् ॥
दैत्येंद्र मर्कवृंदानि द्वारि तिष्ठंति ते प्रभो
॥२४१॥भृशं विनोदकारिणि स्पृहा चेद्द्रष्टुमर्हसि ॥
तन्निशम्याब्रवीद्राजा किं चिरं क्रियते त्वया
॥२४२॥क्षत्ता चेति वचः श्रुत्वा कालनेमिं तदाब्रवीत् ॥
मर्कानेतान्महाराजो द्रष्टुमिच्छति शीघ्रतः
॥२४३॥रक्षपाल सहैभिस्त्वं राजानमनुकूलय ॥
कालनेमिरुपादाय मर्कान्यातो नृपं ततः
॥२४४॥मर्कमध्ये विष्णुमर्को यातस्त्यक्त्वा च दैत्यताम् ॥
ततस्तारकदैत्यस्य पुरतो ननृतुर्भृशम्
॥२४५॥मर्का दैत्यकरोत्तालैर्हर्षनादविनोदितैः ॥
ततोऽतिमुदितो राजा तेषां नृत्येन सोऽब्रवीत्
॥२४६॥अभयं वो मर्कदेवास्तुष्टो यच्छाम्यहं त्विदम् ॥
मद्गृहे स्थीयतामेव न च कार्यं भयं हृदि
॥२४७॥इति श्रुत्वा विष्णुमर्कः प्रनृत्यन्नि दमब्रवीत् ॥
राजन्विज्ञातुमिच्छामस्तव गेहावधिं वयम्
॥२४८॥एवमुक्ते प्रहस्याह तारको दैत्यसत्तमः ॥
त्रिभूमिकं हि मे गेहमिदं यद्भुवनत्रयम्
॥२४९॥हरिमर्कस्ततः प्राह यद्येवं स्वं वचः स्मर ॥
त्रैलोक्ये विचरंत्वेते मर्का राजन्सुनिर्भयाः
॥२५०॥अश्वमेधशतस्यापि सत्यं राजन्विशिष्यते ॥
धर्ममेनं स्मरन्सत्यं वचनं कुरु दैत्यप
॥२५१॥ततः सुविस्मितो दैत्यः प्राहेदं वचनं तदा ॥
मर्कटाहो प्रबुद्धोऽसि सत्यं ब्रूहि च को भवान्
॥२५२॥श्रीभगवानुवाच
अहं नारायणोनाम यदि श्रोत्रमुपागतः ॥
देवानां रक्षणार्थाय मर्करूपमुपाश्रितः
॥२५३॥तच्चेन्मान्यतमो धर्मस्तव तद्वचनं स्वकम् ॥
परिपालय ते गेहं विचरंतु सुरास्त्वमी
॥२५४॥अवलोपश्च राजेंद्र न कर्तव्यस्त्वया हृदी ॥
वीरोऽहमिति संचिन्त्य पश्यता कालजं बलम्
॥२५५॥पर्यायैर्हन्यमानानामभिहंता न विद्यते ॥
मौढ्यमेतत्तु यद्द्वेष्टा कर्ताहमिति मन्यते
॥२५६॥ऋषींश्च देवांश्च महासुरांश्च त्रैविद्यवृद्धांश्च वने मुनींश्च ॥
कं वापदो नोपनमंति काले कालस्य वीर्यं न तु कर्तुरेतत्
॥२५७॥न मंत्रबलवीर्येण प्रज्ञया पौरुषेण वा ॥
अलभ्यं लभ्यते काले काले सुप्तोपि विंदति
॥२५८॥न मातृपितृशुश्रूषा न च दैवतपूजनम् ॥
नान्यो गुणसमाचारः पुरषस्य सुखावहः
॥२५९॥न विद्या न तपो दानं न मित्राणि न वांधवाः ॥
शक्नुवंति परित्रातुं नरं कालेन पीडितम्
॥२६०॥नागामिगमनार्थं हि प्रतिघातशतैरपि ॥
शक्नुवंति प्रतिव्योढुमृते कालबलं नराः
॥२६१॥देहवत्पुण्यकर्माणि जीववत्काल उच्यते ॥
द्वयोः समागमे दैत्य कार्याणां सिद्धिरिष्यते
॥२६२॥अहो दैत्य त्वद्विशिष्टा दैत्यानां कोटयः पुरा ॥
शाल्मलेस्तूलवत्क्षिप्ताः कालवातेन दुर्दशाः
॥२६३॥इदं तु लब्ध्वा त्वं स्थानमात्मानं बहु मन्यसे ॥
सर्वभूतभवं देवं ब्रह्माणमिव शाश्वतम्
॥२६४॥न चेदमचलं स्थानमनंतं चापि कस्यचित् ॥
त्वं तु बालिशया बुद्ध्या ममेदमिति मन्यसे
॥२६५॥अविश्वास्ये विश्वसिषि मन्यसे चाऽध्रुवं ध्रुवम् ॥
ममेदमिति मोहात्त्वं त्रिलोकीश्रियमीप्ससि
॥२६६॥नेयं तव न चास्माकं न चान्येषां स्थिरा मता ॥
अतिक्रम्य बहून्यांस्त्वयि तावदियं स्थिता
॥२६७॥कंचित्कालमियं स्थित्वा त्वयि तारक चंचला ॥
पुंश्चलीवातिचपला पुनरन्यं गमिष्यति
॥२६८॥सरत्नौषदिसंपन्नं ससरित्पर्वताकरम् ॥
तानिदानीं न पश्यामि यैर्भुक्तं भुवनत्रयम्
॥२६९॥हिरण्यकशिपुर्वीरो हिरण्याक्षश्च दुर्जयः ॥
प्रह्रादो नमुचिर्वीरो विप्रचित्तिर्विरोचनः
॥२७०॥कीर्तिः शूरश्च वीरश्च वातापिरिल्वलस्तथा ॥
अश्वग्रीवः शंबरश्च पुलोमा मधुकैटभौ
॥२७१॥विश्वजित्प्रमुखाश्चान्ये दानवेंद्रा महाबलाः ॥
कालेन निहताः सर्वे कालो हि बलवत्तरः
॥२७२॥सर्वैर्वर्षायुतं तप्तं न त्वमेको महातपाः ॥
सर्वे सत्यव्रतपराः सर्वे चासन्बहुश्रुताः
॥२७३॥सर्वे यथार्हदातारः सर्वे दाक्षायणीसुताः ॥
ज्वलंतः प्रजयंतश्च कालेन प्रतिसंहताः
॥२७४॥मुंचेच्छां कामभोगेषु मुंचेमं श्रीभवं मदम् ॥
एतदैश्वर्यनाशे त्वां शोकः संपीडयिष्यति
॥२७५॥शोककाले शुचो मात्वं हर्षकाले च मा हृषः ॥
अतीतानागते हि त्वा प्रत्युत्पन्नेन वर्तय
॥२७६॥इंद्रं चेदागतः कालः सदा युक्त मतंद्रितम् ॥
क्षमस्व न चिराद्दैत्य त्वामप्युपगमिष्यति
॥२७७॥को हि स्थातुमलं लोके मम क्रुद्धस्य संयुगे ॥
कालस्तु बलवान्प्राप्तस्तेन तिष्ठामि तारक
॥२७८॥त्वमेव वेत्सि मां दैत्य योहं यादृक्पराक्रमः ॥
कल्पेकल्पे महादैत्याः कोटिशोऽर्बुदशोहताः
॥२७९॥येषां त्वं कोटिभागेऽपि परिपूर्णो न तारक ॥
कल्पेकल्पे सृजामीदं ब्रह्मादि सकलं जगत्
॥२८०॥इच्छन्संजीवयाम्येतदनिच्छन्नाशये क्षणात् ॥
न हि त्वां नोत्सहे हंतुं सर्वदैत्यसमायुतम्
॥२८१॥अंगुल्यग्रेण दैत्येंद्र पुनर्धर्मं नलोपये ॥
यद्यहं प्रवरो भूत्वा धर्मं ब्रह्मवरात्मकम्
॥२८२॥लोपयामि ततः कं च धर्मोऽयं शरणं व्रजेत् ॥
अहं कर्तेति मा मंस्थाः कर्तायस्तु सदा प्रभुः
॥२८३॥सोऽयं कालः पचेद्विश्वं वृक्षे फलमिवागतम् ॥
यैरेव कर्मभिः सौख्यं दुःखं तैरेवकर्मभिः
॥२८४॥प्राप्नोति पुरुषो दैत्य पश्य कालस्य चित्रताम् ॥
सर्वं कालवशादेव बोद्वव्यं धीर्युतेर्नरैः
॥२८५॥स्वकर्मपरिपाकस्य फलदं वै विदुर्बुधाः ॥
तस्मात्कर्म शुभं कार्यं पुण्यात्पुण्यात्मकं च यत्
॥२८६॥पुण्येन तत्र सोख्यं स्याद्दृःखं पापेन निश्चितम् ॥
इति संचिंत्य दैत्येंद्र स्वं वचः परिपालय ॥
मदुक्तं वचनं सर्वं यदि मंतुमिहार्हसि
॥२८७॥तारक उवाच
मामत्र संस्थितं दृष्ट्वा कालनेमिमुखैर्युतम्
॥२८८॥कस्येह न व्यथेद्बुर्मृत्योरपि जिवांसतः ॥
सा ते न व्यथते बुद्धिरचला तत्त्वदर्शिनी
॥२८९॥ब्रवीषि यद्यत्त्वं वाक्यं ततथैव न संशयः ॥
को हि विश्वासमर्थेषु शरीरे वा शरीरभृत्
॥२९०॥कर्तुमुत्सहते लोके दृष्ट्वा संप्रस्थितं जगत् ॥
अहमप्येवमेवैनं लोकं जानाम्यशाश्वतम्
॥२९१॥कालाग्नावाहितं घोरे गुह्ये सततगत्वरे ॥
इदमद्य करिष्यामि श्वःकर्तास्मीतिवादिनः
॥२९२॥कालो हरति संप्राप्ते नदीवेग इवोन्मुखान् ॥
इदानीं तावदेवासौ मया दृष्टो न विस्मृतः
॥२९३॥कालेन ह्रियमाणानां प्रलापः श्रूयते नृणाम् ॥
ईर्ष्याभिमानलोभेषु कामक्रो धभयेषु च
॥२९४॥स्पृहामोहातिवादेषु लोकः सक्तो न बुध्यते ॥
गुरुं वाप्यगुरुं वापि कृत्याकृत्यं च केशव
॥२९५॥जानामि त्वामहं विष्णो सर्वभूतवरं प्रभुम् ॥
किं कुर्मः स्वस्वभावेन बलिना त्वां न मन्महे
॥२९६॥केचिद्भजंति त्वां भक्त्या वैरेण हेलया परे ॥
सर्वेनुकंप्यास्ते तुभ्यमतरात्मासि देहिनाम्
॥२९७॥पुराणः शाश्वतो धर्मः सर्वप्राणभृतां समः ॥
मामालंब्य मया मुक्ता यांतु सर्वे दिवौकसः
॥२९८॥पुनर्मर्कस्वरूपेण भ्रांतव्यं भुवनत्रयम् ॥
स्पृहापि यज्ञभागानां न कार्या समयस्त्वयम्
॥२९९॥एवमुक्ते तारकेण देवा हर्षं प्रपेदिरे ॥
मुच्यते हृतलोमापि मेषो लाभो हि सौनिकात्
॥३००॥श्रीभगवानुवाच
दैत्येंद्र भव तत्त्वज्ञो विद्याज्ञानतपोन्वितः ॥
कालं पश्यसि सुव्यक्तं पाणावामलकं यथा
॥३०१॥कालचारित्रतत्त्वज्ञ शिवभक्त महामते ॥
वज्रांगसुत धन्योऽसि स्पृहणीयोऽसि धीमताम्
॥३०२॥यावत्ते तपसो वीर्यं तावद्भुंक्ष्वजगत्त्रयम् ॥
एतेन समयेनैते चरिष्यंति सुरा जगत्
॥३०३॥इत्युक्त्वा मर्कयूथेन वृतो नारायणः प्रभुः ॥
स्थानादस्मादपाक्रम्य मेरुं प्रति ययौ तदा
॥३०४॥ततो मेरुं समागम्य प्रोवाच वचनं हरिः ॥
भवंतो यांतु ब्रह्मणं स धास्यति च वो हितम्
॥३०५॥अप्रमत्तैः सदा भाव्यं पाल्यश्च समयस्तथा ॥
इत्युक्त्वा भगवान्विष्णुस्तत्रैवांतरधीयत
॥३०६॥प्रणतः संस्तुतो देवैर्ब्रह्माणं च सुरा ययुः
॥३०७॥दिव्योत्तमैस्तत्र गतैरभिष्टुतो विदीप्ततेजा भुवनत्रयेऽपि ॥
वज्रांगपुत्रोऽपि मुमोद वीरः शिवप्रसादेन महर्द्धिमाप्य
॥३०८॥स्वयमिन्द्रो निमिर्वह्निः कालनेमिर्यमोऽपि च ॥
स्तम्भश्च निर्ऋतिस्थाने महिषो वरुणास्तथा
॥३०९॥मेषो वाताधिकारि च कुजंभो धनदोऽभवत् ॥
अन्येषां चाधिकारांश्च दैत्यानां तारको ददौ
॥३१०॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे देवासुरसंग्रामे तारकविजयवर्णननामैकविंशतितमोऽध्यायः ॥ २१ ॥