मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — कौमारिकाखण्डः, अध्याय १७

3
माहेश्वरखण्डः · कौमारिकाखण्डः · 17

यमग्रसनयोर्युद्धवर्णनम्

नारद उवाच

ततस्तयोः समायोगः सेनयोरुभयोरभूत् ॥

युगांते समनुप्राप्ते यथा क्षुब्धसमुद्रयोः

॥१॥

सुरासुराणां संमर्दे तस्मिन्परमदारुणे ॥

तुमुलं सुमहत्क्रांते सेनयोरुभयोरपि

॥२॥

गर्जतां देवदैत्यानां शंखभेरीरवेण च ॥

तूर्याणां चैव निर्घोषैर्मातंगानां च बृंहितैः

॥३॥

हेषितैर्हयवृंदानां रथनेमिस्वनेन च ॥

घोषेण चैव तूर्याणां युगांत इव चाभवत्

॥४॥

रोषेणाबिपरीतांगास्त्यक्तजीवितचेतसः ॥

समसज्जन्त तेन्योन्यं प्रक्रमेणातिलोहिताः

॥५॥

रथा रथैः समासक्ता गजाश्चापि महागजैः ॥

पत्तयः पत्तिभिश्चैव हयाश्चापि महाहयैः

॥६॥

ततः प्रासाशनिगदाभिंडिपालपरश्वधैः ॥

शक्तिभिः पट्टिशैः शूलैर्मुद्गरैः कणयैर्गुडैः

॥७॥

चक्रैश्च शक्तिभिश्चैव तोमरैरंकुशैरपि ॥

कर्णिनालीकनाराचवत्सदंतार्द्धचंद्रकैः

॥८॥

भल्लैर्वेतसपत्रैश्च शुकतुंडैश्च निर्मलैः ॥

वृष्टिभिश्चाद्भुताकारैर्गगनं समपद्यत

॥९॥

संप्रच्छाद्य दिशः सर्वास्तमोमयमिवाभवत् ॥

प्राज्ञायंत न तेऽन्योन्यं तस्मिंस्तमसि संकुले

॥१०॥

अदृश्यभूतास्तमसि न्यकृंतंत परस्परम् ॥

ततो भुजैर्ध्वजैश्छत्रैः शिरोभिश्च सकुंडलैः

॥११॥

गजैस्तुरंगैः पादातैः पतद्भिः पतितैरपि ॥

आकाशशिरसो भ्रष्टैः पंकजैरिव भूश्चिता

॥१२॥

भग्नदंता भिन्नकुंभाश्छिन्नदीर्घमहाकराः ॥

गजाः शैलनिभाः पेतुर्धरण्यां रुधिरस्रवाः

॥१३॥

भग्नैषाश्च रथाः पेतुर्भग्नाक्षाः शकलीकृताः ॥

पत्तयः कोटिशः पेतुस्तुरंगाश्च सहस्रशः

॥१४॥

ततः शोणितनद्यश्च हर्षदाः पिशिताशिनाम् ॥

वैतालानंददायिन्यो व्यजायंत सहस्रशः

॥१५॥

तस्मिंस्तथाविधे युद्धे सेनानीर्ग्रसनोऽरिहा ॥

बाणवर्षेण महता देवसैन्यमकंपयत्

॥१६॥

ततो ग्रसनमालोक्य यमः क्रोधविमूर्छितः ॥

ववर्ष शरवर्षेण विशेषादग्निवर्चसा

॥१७॥

स विद्धो बहुभिर्षाणैर्ग्रसनोऽतिपराक्रमः ॥

कृतप्रतिकृताकांक्षी धनुरानम्य भैरवम्

॥१८॥

शरैः सहस्रैश्च पञ्चलक्षैश्चैव व्यताडयत् ॥

ग्रसनेन विमुक्तांस्ताञ्छरान्सोपि निवार्य च

॥१९॥

बाणवृष्टिभिरुग्राभिर्यमो ग्रसनमर्दयत् ॥

कृतांतशरवृष्टीनां संततीः प्रतिसर्पतीः ॥

चिच्छेद शरवर्षेण ग्रसनो दानवेश्वरः

॥२०॥

विफलां तां समालोक्य यमः स्वशरसंततिम्

॥२१॥

प्राहिणोन्मुद्गरं दीप्तं ग्रसनस्य रथं प्रति ॥

स तं मुद्गरमायांतमुत्पत्य रथसत्तमात्

॥२२॥

जग्राह वामहस्तेन लीलया ग्रसनोऽरिहा ॥

तेनैव मुद्गरेणाथ यमस्य महिषं रुषा

॥२३॥

ताडयामास वेगेन स पपात महीतले ॥

उत्पत्याथ यमस्तस्मान्महिषान्निपतिष्यतः

॥२४॥

प्रासेन ताडयामास ग्रसनं वदने दृढम् ॥

स तु प्राप्तप्रहारेण मूर्छितो न्यपतद्भुवि

॥२५॥

ग्रसनं पतित दृष्ट्वा जंभो भीमपराक्रमः ॥

यमस्य भिंडिपालेन प्रहारमकरोद्धृदि

॥२६॥

यमस्तेन प्रहारेण सुस्राव रुधिरं मुखात् ॥

अतिगाढ प्रहारार्त्तः कृतांतोमूर्छितोऽभवत्

॥२७॥

कृतांतमर्दितं दृष्ट्वा गदापाणिर्धनादिपः ॥

वृतो यक्षायुतगणैर्जंभं प्रत्युद्ययौ रुषआ

॥२८॥

जंभो रुषा तमायांतं दानवा नीकसंवृतः ॥

जग्राह वाक्यं राज्ञस्तु यता स्निग्धेन भाषितम्

॥२९॥

ग्रसनो लब्धसंज्ञोऽथ यमस्य प्राहिणोद्गदाम् ॥

मणिहेमपरिष्कारां गुर्वी परिघमर्दिनीम्

॥३०॥

तामापतंतीं संप्रेक्ष्य गदां महिषवाहनः ॥

गदायाः प्रतिघातार्थं जगज्ज्वलनभैरवम्

॥३१॥

दंडं मुमोच कोपेन ज्वालामालासमाकुलम् ॥

स गदां वियति प्राप्य ररासांबुधरोद्धतम्

॥३२॥

संवट्टश्चाभवत्ताभ्यां शैलाभ्यामिव दुःसहः ॥

ताभ्यां निष्पेषनिर्ह्राद जडीकृतदिगंतरम्

॥३३॥

जगद्व्याकुलतां यातं प्रलयागमशंकया ॥

क्षणात्प्रशांतनिर्ह्रादं ज्वलदुल्कासमाचितम्

॥३४॥

निष्पेषणं तयोर्भीमम भूद्गनगोचरम् ॥

निहत्याथ गदां दण्डस्ततो ग्रसनमूर्धनि

॥३५॥

पपात पौरुषं हत्वा यथा दैवं पुरार्जितम् ॥

सतु तेन प्रहारेण दृष्ट्वा सतिमिरादिशः

॥३६॥

पपात भूमौ निःसंज्ञो भूमिरेणुविभूषितः ॥

ततो हाहारवो घोरः सेनयोरुभयोरभूत्

॥३७॥

ततो महूर्तमात्रेण ग्रसनः प्राप्य चेतनाम् ॥

अपश्यत्स्वां तनुं ध्वस्तां विलोलाभरणांबराम्

॥३८॥

स चापि चिंतयामास कृतप्रतिकृतक्रियाम् ॥

धिगस्तु पौरुषं मह्यं प्रभोरग्रेसरः कथम्

॥३९॥

मय्याश्रितानि सैन्यानि जिते मयि जितानि च ॥

असंभावितरूपो हि सज्जनो मोदते सुखम्

॥४०॥

संभावितस्त्वशक्तश्चेत्तस्य नायं परोऽपि वा ॥

एवं संचिंत्य वेगेन समुत्तस्थौ महाबलः

॥४१॥

मुद्गरं कालदण्डाभं गृहीत्वा गिरिसंनिभम् ॥

ग्रसनो घोरसंकल्पः संदष्टौष्ठपुटच्छदः

॥४२॥

रथेन त्वरितोऽगच्छदाससादांतकं रणे ॥

समासाद्य यमं युद्धे ग्रसनो भ्राम्य मुद्गरम्

॥४३॥

वेगेन महता रौद्रं चिक्षेप यममूर्धनि ॥

विलोक्य मुद्गरं दीप्तं यमः संभ्रांतलोचनः

॥४४॥

वंचयामास दुर्द्धर्षं मुद्गरं तं महाबलः ॥

तस्मिन्नपसृते दूरं चंडानां भीमकर्मणाम्

॥४५॥

याम्यानां किंकराणां च अयुतं निष्पिपेष ह ॥

ततस्तदयुतं दृष्ट्वा हतं किंकरवाहिनी

॥४६॥

दशार्बुदमिता क्रुद्धा ग्रसनायान्वधावत ॥

ग्रसनस्तु समालोक्य तां किंकरमयां शुभाम्

॥४७॥

मेने यमसहस्राणि तादृग्रूपबला हि सा ॥

विगाह्य ग्रसनं सेना ववर्ष शरवृष्टिभिः

॥४८॥

कल्पांतघोरसंकाशो बभूव स महारणः ॥

केचिच्छैलेन बिभिदुः केचिद्बाणैरजिह्यगैः

॥४९॥

पिपिषुर्गदया केचित्कोचिन्मुद्गरवृष्टिभिः ॥

केचित्प्रासप्रहारैश्च ताडयामासुरुद्धताः

॥५०॥

अपरे किंकरास्तस्य ललंबुर्बाहुमंडले ॥

शिलाभिरपरे जघ्नुर्द्रुमैरन्ये महोच्छ्रयैः

॥५१॥

तस्यापरे च गात्रेषु दशनांश्चन्यपातयन् ॥

अपरे मुष्टिभिः पृष्ठं किंकरास्ताडयंति च

॥५२॥

एवं चाभिद्रुतस्तैः स ग्रसनः क्रोधमूर्छितः ॥

उत्साद्य गात्रं भूपृष्ठे निष्पिपेष सहस्रशः

॥५३॥

कांश्चिदुत्थाय जघ्नेऽसौ मुष्टिभिः किंकरान्रणे ॥

कांश्चित्पादप्रहारेण धावन्नन्यानचूर्णयत्

॥५४॥

क्षणैकेन स तान्निन्ये यमलोकायभारत ॥

स च किंकरयुद्धेन ववृधेऽग्निरिवैधसा

॥५५॥

तमालोक्य यमोऽश्रांतं श्रांतंस्तांश्च हतान्स्वकान् ॥

आजगाम समुद्यम्य दंडं महिषवाहनः

॥५६॥

ग्रसनस्तु तमायांतमाजघ्ने गदयोरसि ॥

अचिंतयित्वा तत्कर्म ग्रसनस्यांतकोऽरिहा

॥५७॥

व्याघ्रान्दंडेन संजघ्ने स रथान्न्य पतद्भुवि ॥

ततः क्षणेन चोत्थाय संचिंत्यात्मानमुद्धतः

॥५८॥

वायुवेगेन सहसा ययौ यमरथं प्रति ॥

पदातिः स रथं तं च समारुह्य यमं तदा

॥५९॥

योधयामास बाहुभ्यामाकृष्य बलिनां वरः ॥

यमोऽपि शस्त्राण्युत्सृज्च बाहुयुद्धे प्रवर्तते

॥६०॥

ग्रसनं कटिवस्त्रे तु यमं गृह्य बलोत्कटः ॥

भ्रामयामास वेगेन संभ्रमाविष्टचेतसम्

॥६१॥

विमोच्याथ यमः कष्टात्कंठेऽवष्टभ्य चासुरम् ॥

बाहुभ्यां भ्रामयामास सोऽप्यात्मानममोचयत्

॥६२॥

ततो जघ्नतुरन्योन्यं मुष्टिभिर्निर्दयौ च तौ ॥

दैत्येंद्रस्यातिवीर्यत्वात्परिश्रांततरो यमः

॥६३॥

स्कंधे निधाय दैत्यस्य मुखं विश्रांतिमैच्छत ॥

तमा लक्ष्य ततो दैत्यः श्रांतमुत्पाट्य चौजसा

॥६४॥

निष्पिपेष महीपृष्ठे विनिघ्नन्पार्ष्णिपाणिभिः ॥

ततो यमस्य वदनात्सुस्राव रुधिरं बहु

॥६५॥

निर्जीवमिति तं दृष्ट्वा ततः संत्यज्य दानवः ॥

जयं प्राप्योद्धतं नादं मुक्त्वा संत्रास्य देवताः

॥६६॥

स्वकं सैन्यं समासाद्य तस्थौ गिरिरिवाचलः

॥६७॥

नादेन तस्य ग्रसनस्य संख्ये महायुधैश्चार्दितसर्वगात्राः ॥

गते कृथांते वसुधां च निष्प्रभे चकंपिरे कांदिशिकाः सुरास्ते

॥६८॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्त्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे तारकसैन्यदेवसैन्ययोर्मध्ये यमग्रसनयोर्युद्धवर्णनं नाम सप्तदशोऽध्यायः ॥ १७ ॥