मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — कौमारिकाखण्डः, अध्याय ४९

3
माहेश्वरखण्डः · कौमारिकाखण्डः · 49

अत्यद्भुतानि तीर्थानि लिंगानि च महामुने

अर्जुन उवाच

अत्यद्भुतानि तीर्थानि लिंगानि च महामुने ॥

श्रुत्वा तव मुखांभोजाद्भृशं मे हृष्यते मनः

॥१॥

महीनगरकस्यापि स्थापितस्य त्वया मुने ॥

यानि तीर्थानि मुख्यानि तानि वर्णय मे प्रभो

॥२॥

नारद उवाच

श्रीमन्महीनगरके यानि तीर्थानि फाल्गुन ॥

तानि वक्ष्यामि यत्रास्ते जया दित्यो रविः प्रभुः

॥३॥

जयादित्यस्य यो नाम कीर्तयेदिह मानवः ॥

सर्वरोगविनिर्मुक्तो लभेत्सोऽपि हृदीप्सितम्

॥४॥

यस्य संदर्शनादेव कल्याणैरपि पूर्यते ॥

मुच्यते चाप्यकल्याणैः श्रद्धावान्पार्थ मानवः

॥५॥

तस्य देवस्य चोत्पत्तिं शृणु पार्थ वदामि ते ॥

शृण्वन्वा कीर्तयन्वापि प्रसादं भास्कराल्लभेत्

॥६॥

अहं संस्थाप्य संस्थानमेतत्कालेन केनचित् ॥

प्रयातो भास्करं लोकं दर्शनार्थी यदृच्छया

॥७॥

स मां प्रणतमासीनमभ्यर्च्यार्घेण भास्करः ॥

प्रहसन्निव प्राहेदं देवो मधुरया गिरा

॥८॥

कुत आगम्यते विप्र क्व च वा प्रतिगम्यते ॥

क्व चायं नारदमुने कालस्ते विहृतोऽभवत्

॥९॥

नारद उवाच

एवमुक्तो भास्करेण तं तदा प्राब्रवं वचः ॥

भारते विहृतः खण्डे महीनगरकादपि ॥

दर्शनार्थं तव विभो समायातोऽस्मि भास्कर

॥१०॥

रविरुवाच

यत्त्वया स्थापितं स्थानं तत्र ये संति ब्राह्मणाः ॥

तेषां गुणान्मम ब्रूहि किंगुणा ननु ते द्विजाः

॥११॥

नारद उवाच

एवं पृष्टो भगवता पुनरेवाब्रवं वचः

॥१२॥

यदि तान्भोः प्रशंसामि स्वीयान्स्तौतीति वाच्यता ॥

निंदाम्यनर्हान्कस्माद्वा कष्टमेवोभयत्र च

॥१३॥

अथवा पारमाहात्म्ये सति तेषां महात्मनाम् ॥

अल्पे कृते वर्णने स्याद्दोष एव महान्मम

॥१४॥

मदर्चितद्विजेंद्राणां यदि स्याच्छ्रवणेप्सुता ॥

ततः स्वयं विलोक्यास्ते गत्वेदं मे मतं रवे

॥१५॥

इति श्रुत्वा मम वचो रविरासीत्सुविस्मितः ॥

स्वयं द्रक्ष्यामि चोवाच पुनःपुनरहर्पतिः

॥१६॥

सोऽथ विप्रतनुं कृत्वा मां विसर्ज्यैव भास्करः ॥

प्रतपन्दिवि योगाच्च प्रयातोर्णवरोधसि

॥१७॥

जटां त्रिषवणस्नानपिंगलां धारयन्नथ ॥

वृद्धद्विजो महातेजा ददृशे ब्राह्मणैर्मम

॥१८॥

ततो हारीतप्रमुखाः प्रहर्षोत्फुल्ललोचनाः ॥

उत्थाय ब्रह्मशालायास्ते द्विजा द्विजमाद्रवन्

॥१९॥

नमस्कृत्य द्विजाग्र्यं ते प्रहर्षादिदमब्रुवन्

॥२०॥

अद्य नो दिवसः पुण्यः स्थानमद्योत्तमं त्विदम् ॥

यत्त्वया विप्रप्रवर स्वयमागमनं कृतम्

॥२१॥

धन्यस्य हि गृहस्थस्य कृपयैव द्विजोत्तमाः ॥

आतिथ्यवेषेणायांति पावनार्थं न संशयः

॥२२॥

तत्त्वं गेहानि चास्माकं पादचंक्रमणेन च ॥

दर्शनाद्भोजनात्स्थानादस्माभिः सह पावय

॥२३॥

अतिथिरुवाच

भोजनं द्विविधं विप्रा प्राकृतं परमं तथा ॥

तदहं सम्यगिच्छामि दत्तं परमभोजनम्

॥२४॥

इत्येतदतिथेः श्रुत्वा हारीतः पुत्रमब्रवीत् ॥

अष्टवर्षं तु कमठं वेत्सि पुत्र द्विजोदितम्

॥२५॥

कमठ उवात्र ॥

तात प्रणम्य त्वां वक्ष्ये तादृक्परमभोजनम् ॥

द्विजं च तर्पयिष्यामि दत्त्वा परमभोजनम्

॥२६॥

सुतेन किल जातेन जायते चानृणः पिता ॥

सत्यं करिष्ये तद्वाक्यं संतर्प्यातिथिमुत्तमम्

॥२७॥

भोजनं द्विप्रकारं च प्रविभागस्तयोरयम् ॥

प्राकृतं प्रोच्यते त्वेवमन्यत्परमभोजनम्

॥२८॥

तत्र यत्प्राकृतं नाम प्रकृतिप्रमुखस्य तत् ॥

चतुर्विंशतितत्त्वानां गणस्योक्तं हि तर्पणम्

॥२९॥

षड्रसं भोजनं तच्च पंचभेदं वदंति च ॥

येन भुक्तेन तृप्तं स्यात्क्षेत्रं यद्देहलक्षणम्

॥३०॥

यथापरं परंनाम प्रोक्तं परमभोजनम् ॥

परमः प्रोच्यते चात्मा तस्य तद्भोजनं भवेत्

॥३१॥

ततो नानाप्रकारस्य धर्मस्य श्रवणं हि यत् ॥

तदन्नं प्रोच्यते भोक्ता क्षेत्रज्ञः श्रवणौ मुखम्

॥३२॥

तद्दास्यामि द्विजाग्र्याय पृच्छ विप्र यदिच्छसि ॥

शक्तितस्तर्पयिष्यामि त्वामहं विप्रसंसदि

॥३३॥

नारद उवाच

कमठस्यैतदाकर्ण्य सोऽतिथिर्वचनं महत् ॥

मनसैव प्रशस्यामुं प्रश्नमेनमथाकरोत्

॥३४॥

कथं संजायते जंतुः कथं चापि प्रलीयते ॥

भस्मतामथ संप्राप्य क्व चायं प्रति पद्यते

॥३५॥

कमठ उवाच

गुरवे प्राङ्नमस्कृत्य धर्माय तदनंतरम् ॥

छंदोगीतममुं प्रश्नं शक्त्या वक्ष्यामि ते द्विज

॥३६॥

जनने त्रिविधं कर्म हेतुर्जंतोर्भवेत्किल ॥

पुण्यं पापं च मिश्रं च सत्त्वराजसतामसम्

॥३७॥

तत्र यः सात्त्विको नाम स स्वर्गं प्रतिपद्यते ॥

स्वर्गात्कालपरिभ्रष्टो धनी धर्मी सुखी भवेत्

॥३८॥

तथा यस्तामसो नाम नरकं प्रतिपद्यते ॥

भुक्त्वा बह्वीर्यातनाश्च स्थावरत्वं प्रपद्यते

॥३९॥

महतां दर्शनस्पर्शैरुपभोगसहासनैः ॥

महता कालयोगेन संसरन्मानवो भवेत्

॥४०॥

सोऽपि दुःखदरिद्राद्यैर्वेष्टितो विकलेंद्रियः ॥

प्रत्यक्षः सर्व लोकानां पापस्यैतद्धि लक्षणम्

॥४१॥

अथ यो मिश्रकर्मा स्यात्तिर्यक्त्वं प्रतिपद्यते ॥

महतामेव संसर्गात्संसरन्मानवो भवेत्

॥४२॥

यस्य पुण्यं पृथुतरं पापमल्पं हि जायते ॥

स पूर्वं दुःखितो भूत्वा पश्चात्सौख्यान्वितो भवेत्

॥४३॥

पापं पृथुतरं यस्य पुण्यमल्पतरं भवेत् ॥

पूर्वं सुखी ततो दुःखी मिश्रस्यैतद्धि लक्षणम्

॥४४॥

तत्र मानुषसंभूतिं शृणु यादृगसौ भवेत् ॥

पुरुषस्य स्त्रियाश्चैव शुक्रशोणितसंगमे

॥४५॥

सर्वदोषविनिर्मुक्तो जीवः संसरते स्फुटम् ॥

गुणान्वितमनोबुद्धिशुभाशुभसमन्वितः

॥४६॥

जीवः प्रविष्टो गर्भं तु कलले प्रतितिष्ठति ॥

मूढश्च कलले तत्र मासमात्रं च तिष्ठति

॥४७॥

द्वितीयं तु तथा मासं घनीभूतः स तिष्ठति ॥

तस्यावयवनिर्माणं तृतीये मासि जायते

॥४८॥

अस्थीनि च तथा मासि जायंते च चतुर्थके ॥

त्वग्जन्म पंचमे मासि पष्ठे रोम्णां समुद्भवः

॥४९॥

सप्तमे च तथा मासि प्रबोधश्चास्य जायते ॥

मातुराहारपीतं च सप्तमे मास्युपाश्नुते

॥५०॥

अष्टमे नवमे मासि भृशमुद्विजते ततः ॥

जरायुणा वेष्टितांगो मुखे बद्धकरांगुलिः

॥५१॥

मध्ये क्लीबस्तु वामे स्त्री दक्षिणे पुरुषस्तथा ॥

तिष्ठत्युदरभागे च पृष्ठेरग्निमुखः किल

॥५२॥

यस्यां तिष्ठत्यसौ योनौ तां च वेत्ति न संशयः ॥

सर्वं स्मरति वृत्तांतं बहूनां जन्मनामपि

॥५३॥

अंधे तमसि किं दृश्यो गंधान्मोहं दृढं लभेत् ॥

शीते मात्रा जले पीते शीतमुष्णं तथोष्णके

॥५४॥

व्यायामे लभते मातुः क्लेशं व्याधेश्च वेदनाम् ॥

अलक्ष्याः पितृमातृभ्यां जायंते व्याधयः पराः

॥५५॥

सौकुमार्याद्रुजं तीव्रां जनयंति च तस्य ते ॥

स्वल्पमप्यथ तं कालं वेत्ति वर्षशतोपमम्

॥५६॥

संतप्यते भृशं गर्भे कर्मभिश्च पुरातनैः ॥

मनोरथांश्च कुरुते सुकृतार्थं पुनःपुनः

॥५७॥

जन्म चेदहमाप्स्यामि मानुष्ये जीवितं तथा ॥

ततस्तत्प्रकरिष्यामि येन मोक्षो भवेत्स्फुटम्

॥५८॥

एवं तु चिंतयानस्य सीमंतोन्नयनादनु ॥

मासद्वयं तद्व्रजति पीडतस्त्रियुगाकृति

॥५९॥

ततः स्वकाले संपूर्णे सूतिमारुतचालितः ॥

भवत्यवाङ्मुखो जंतुः पीडामनुभवन्पराम्

॥६०॥

अधोमुखः संकटेन योनिद्वारेण निःसरेत् ॥

पीडया पीडमानोऽपि चर्मोत्कर्तनतुल्यया

॥६१॥

करपत्रसमस्पर्शं करसंस्पर्शनादिकम् ॥

असौ जातो विजानाति मासमात्रं विमोहितः

॥६२॥

प्राक्कर्मवशगस्यास्य गर्भज्ञानं च नश्यति ॥

ततः करोति कर्माणि श्वेतरक्तासितानि च

॥६३॥

अस्थिपट्टतुलास्तंभस्नायुबंधेन यंत्रितम् ॥

रक्तमांसमृदालिप्तं विण्मूत्रद्रव्यभाजनम्

॥६४॥

सप्तभित्तिसुसंबद्धं छन्नं रोम तृणैरपि ॥

वदनैकमहाद्वारं गवाक्षाष्टविभूषितम्

॥६५॥

ओष्ठद्वयकपाटं च दंतार्गलविमुद्रितम् ॥

नाडीस्वेदप्रवाहं च कफपित्तपरिप्लुतम्

॥६६॥

जराशोकसमाविष्टं कालवक्त्रानलस्थितम् ॥

रागद्वेषादिभिर्ध्वस्तं षट्कौशिकसमुद्भवम्

॥६७॥

एवं संजायते पुंसो देहगेहमिदं द्विज ॥

यस्मिन्वसति क्षेत्रज्ञो गृहस्थो बुद्धिगेहिनी

॥६८॥

मोक्षं स्वर्गं च नरकमास्ते संसाधयन्नपि

॥६९॥

इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखंडे कमठसूर्यसंवादे जीवस्य देहोत्पत्तिवर्णनंनामैकोनपञ्चाशत्तमोऽध्यायः ॥ ४९ ॥