धनाधिपस्य जंभेन सायकैर्मर्मभेदिभिः
नारद उवाच
धनाधिपस्य जंभेन सायकैर्मर्मभेदिभिः ॥
दिशोपरुद्धाः क्रुद्धेन सैन्यं चाभ्यर्दितं भृशम्
॥१॥तद्दृष्ट्वा कर्म दैत्यस्य धनाध्यक्षः प्रतापवान् ॥
आकर्णाकृष्टचापस्तु जंभमाजौ महाबलम्
॥२॥हृदि विव्याध बाणानां सहस्रेणाग्निवर्चसाम् ॥
स प्रहस्य ततो वीरो बाणानामयुतत्रयम्
॥३॥नियुतं च तथा कोटिमर्बुदं चाक्षिपत्क्षणात् ॥
तस्य तल्लाघ्रवं दृषट्वा क्रुद्धो गृह्य महागदाम्
॥४॥धनाध्यक्षः प्रचिक्षेप स्वर्गेप्सुः स्वधनं यथा ॥
मुक्तायां वै नादोऽभूत्प्रलये यथा
॥५॥भूतानां बहुधा रावा जज्ञिरे खे महाभयाः ॥
वायुश्च सुमहाञ्जज्ञे खमायान्मेघसंकुलम्
॥६॥सा हि वैश्रवणस्यास्ते त्रैलोक्याभ्यर्चिता गदा ॥
आयांतीं तां समालोक्य तडित्संघातदुर्द्दशाम्
॥७॥दैत्यो गदाविघातार्थं शस्त्रवृष्टिं मुमोच ह ॥
चक्राणि कुणपान्प्रासाञ्छतघ्नीः पट्टिशांस्तथा
॥८॥परिघान्मुशलान्वृक्षान्गिरींश्चातुलविक्रमः ॥
कदर्थीकृत्य शस्त्राणि तानि सर्वाणि सा गदा
॥९॥कल्पांतभास्करो यद्वन्न्यपतद्दैत्यवक्षसि ॥
स तया गाढभिन्नः सन्सफेनरुधिरं वमन्
॥१०॥निःपपात रथाज्जंभो वसुधां गतचेतनः ॥
जंभं निपतितं दृष्ट्वा कुजंभो घोरनिश्चयः
॥११॥धनाधिपस्य संक्रुद्धो नादेनापूरयन्दिशः ॥
चक्रे बाणमयं जालं शकुंतस्येव पंजरम्
॥१२॥विच्छिद्य बाणजालं च मायाजालमिवोत्कटम् ॥
मुमोच बाणानपरांस्तस्य यक्षाधिपो बली
॥१३॥चिच्छेद लीलया तांश्च दैत्यः क्रोधीव सद्वचः ॥
निष्फलांस्तांस्ततो दृष्ट्वा बाणान्क्रुद्धो धनाधिपः
॥१४॥शक्तिं जग्राह दुर्धर्षां शतघंटामहास्वनाम् ॥
प्रेषिता सा तदा शक्तिर्दारयामास तं हृति
॥१५॥यथाल्पबोधं पुरुषं दुःखं संसारसंभवम् ॥
तथास्य हृदयं भित्त्वा जगाम धरणीतलम्
॥१६॥निमेषात्सोभिसंस्तम्भ्य दानवो दारुणाकृतिः ॥
जग्राह पट्टिशं दैत्यो गिरीणामपि भेदनम्
॥१७॥स तेन पट्टिसेनाजौ धनदस्य स्तनांतरम् ॥
वाक्येन तीक्ष्णरूपेण मर्माक्षरविसर्पिणा
॥१८॥निर्बिभेदाभिजातस्य हृदयं दुर्जनो यथा ॥
तेन पट्टिश घातेन धनेशः।
परिमूर्छितः
॥१९॥निषसाद रथोपस्थे दुर्वाचा सुजनो यथा ॥
तथागतं तु तं दृष्ट्वा धनेशं वै मृतं यथा
॥२०॥राक्षसो निर्ऋतिर्देवो निशाचरबलानुगः ॥
अभिदुद्राव वेगेन कुजंभं भीमविक्रमम्
॥२१॥अथ दृष्ट्वातिदुर्धर्षं कुजंभो राक्षसेश्वरम् ॥
नोदयामास दैत्यान्स राक्षसेशरथं प्रति
॥२२॥स दृष्ट्वा नोदितां सेनां प्रबलास्त्रां सुभीषणाम् ॥
रथादाप्लुत्य वेगेन निर्ऋती राक्षसेश्वरम्
॥२३॥खड्गेन तीक्ष्णधारेण चर्मपाणिरधावत ॥
प्रविश्य दानवानीकं गजः पद्मसरो यथा
॥२४॥लोडयामास बहुधा विनिष्कृत्य सहस्रशः ॥
चिच्छेद कांश्चिच्छतशो बिभेदान्यान्वरासिना
॥२५॥संदष्टौष्ठमुखैः पृथ्वीं दैत्यानां सोऽभ्यपूरयत् ॥
ततो निःशेषितप्रायां विलोक्य स्वां चमूं तदा
॥२६॥मुक्त्वा धनपतिं दैत्यः कुजंभो निर्ऋतिं ययौ ॥
लब्धसंज्ञस्तु जंभोऽपि धनाध्यक्षपदानुगान्
॥२७॥जीवग्राहं स जग्राह बद्धा पाशैः सहस्रधा ॥
मूर्तिमंति च रत्ननि पद्मादींश्च निधींस्तथा
॥२८॥वाहनानि च दिव्यानि विमानानि च सर्वशः ॥
धनेशो लब्धसंज्ञस्तु तामवस्थां विलोक्य सः
॥२९॥निःश्वसन्दीर्घमुष्णं च रोषात्ताम्रविलोचनः ॥
ध्यात्वास्त्रं गारुडं दिव्यं बाणं संधाय कार्मुके
॥३०॥मुमोच दानवानीके तं बाणं शत्रुदारणम् ॥
प्रथमं कार्मुकं तस्य वह्निज्वालमदृश्यत
॥३१॥निश्चेरुर्विस्फुलिंगानां कोटयो धनुषस्तथा ॥
ततो ज्वालाकुलं व्योम चक्रे चास्त्रं समंततः
॥३२॥तदस्त्रं सहसा दृष्ट्वा जंभो भीमपराक्रमः ॥
संवर्तं मुमुचे तेन प्रशांतं गारुडं तदा
॥३३॥ततस्तं दानवो दृष्ट्वा कुबेरं रोषविह्वलः ॥
अभिदुद्राव वेगेन पदातिर्धनदं नदन्
॥३४॥अथाभिमुखमायांतं दैत्यं दृष्ट्वा धनाधिपः ॥
बभूव संभ्रमाविष्टः पलायनपरायणः
॥३५॥ततः पलायतस्तस्य मुकुटो रत्नमंडितः ॥
पपात भूतले दीप्तो रविबिंबमिवांबरात्
॥३६॥यक्षणामभिजातानां भग्नं प्रववृते रणात् ॥
मर्तुं संग्राम शिरसि युक्तं नो भूषणाय तत्
॥३७॥इति व्यवस्य दुर्धर्षा नानाशस्त्रास्त्रपाणयः ॥
युयुत्सवस्तथा यक्षा मुकुटं परिवार्य ते
॥३८॥अभिमान धना वीरा धनस्य पदानुगाः ॥
तानमर्षाच्च संप्रेक्ष्य दानवश्चंडपौरुषः
॥३९॥भुशुण्डीं भीषणाकारां गृहीत्वा शैलगौरवाम् ॥
रक्षिणो मुकुटस्याथ निष्पिपेष निशाचरान्
॥४०॥तान्प्रमथ्याथ नियुतं मुकुटं तं स्वके रथे ॥
समारोप्यामररिपुर्जित्वा धनदमाहवे
॥४१॥धनानि च निधीन्गृह्य स्वसैन्येन समावृतः ॥
नादेन महता देवान्द्रावयामास सर्वशः
॥४२॥धनदोऽपि धनं सर्वं गृहीतो मुक्तमूर्धजः ॥
पदातिरेकः सन्त्रस्तः प्राप्यैवं दीनवत्स्थितः
॥४३॥कुजंभेनाथ संसक्तो रजनीचरनंदनः ॥
मायाममोघामाश्रित्य तामसीं राक्षसेश्वरः
॥४४॥मोहयामास दैत्येन्द्रो जगत्कृत्वा तमोमयम् ॥
ततो विफलनेत्राणि दानवानां बलानि च
॥४५॥न शेकुश्चलितुं तत्र पदादपि पदं तदा ॥
ततो नानास्त्रवर्षेण दानवानां महाचमूः
॥४६॥जघान निर्ऋतिर्देवस्तमसा संवृता भृशम् ॥
हन्यमानेषु दैत्येषु कुजंभे मूढचेतसि
॥४७॥महिषो दानवेन्द्रस्तु कल्पांतां भोदसन्निभः ॥
अस्त्रं चकार सावित्रमुल्कासंघातमंडितम्
॥४८॥विजृंभत्यथ सावित्रे परमास्त्रे प्रातपिनि ॥
प्रणासमगमत्तीव्रं तमो घोरमनंतरम्
॥४९॥ततोऽस्त्रविस्फुलिंगांकं तमः शुक्लं व्यजायत ॥
प्रोत्फुल्लारुणपद्मौघं शरदीवामलं सरः
॥५०॥ततस्तमसि संशांते दैत्येन्द्राः प्राप्तचक्षुषः ॥
चक्रुः क्रुरेण तमसा देवानीकं महाद्भुतम्
॥५१॥अथादाय धनुर्घोरमिषुं चाशीविषोपमम् ॥
कुजंभोऽधावत क्षिप्रं रक्षोदेवबलं प्रति
॥५२॥राक्षसेन्द्रस्तथायांतं दृषट्वा तं स पदानुगः ॥
विव्याध निशितैर्बाणैः कालाशनिसमस्वनैः
॥५३॥नादानं न च सन्धानं न मोक्षो वास्य लक्ष्यते ॥
चिच्छेदोग्रैः शरव्रातैस्ताञ्छरानतिलाघवात्
॥५४॥ध्वजं शरेण तीक्ष्णेन निचकर्तामरद्विषः ॥
सारथिं चास्य भल्लेन रथनीडादपाहरत्
॥५५॥कालकल्पेन बाणेन तं च वक्षस्याताडयत् ॥
स तु तेन प्रहारेण चकम्पे पीडितो भृशम्
॥५६॥दैत्येंद्रो राक्षसेन्द्रेण क्षितिकंपेनगो यथा ॥
स सुहूर्तात्समाश्वास्य मत्वा तं दुर्जयं रणे
॥५७॥पदातिरासाद्य रथं रक्षो वामकरेण च ॥
केशेषु निर्ऋतिं गृह्य जानुनाक्रम्य च स्थितः
॥५८॥ततः खड्गेन च शिरश्छेत्तुमैच्छदमर्षणः ॥
ततः कलकलो जज्ञे देवानां सुमहांस्तदा ॥
कुजंभस्य वशं प्राप्तं दृष्ट्वा निर्ऋतिमाहवे
॥५९॥एतस्मिन्नन्तरे देवो वरुणः पाशभृद्धृतः ॥
पाशेन दानवेंद्रस्य बबन्धाशु भुजद्वयम्
॥६०॥ततो बद्धभुजं दैत्यं विफलीकृतपौरुषम् ॥
ताडयामास गदया दयामुत्सृज्य पाशभृत्
॥६१॥स तु तेन प्रहारेण स्रोतोभिः क्षतजं स्रवन् ॥
दधार कालमेघस्य रूपं विद्युल्लताभृतम्
॥६२॥तदवस्थागतं दृष्ट्वा कुजंभं महिषासुरः ॥
व्यावृत्तवदनारावो भोक्तुमैच्छत्सुरावुभौ
॥६३॥निर्ऋति वरुणं चैव तीक्ष्णदंष्ट्रोत्कटाननः ॥
तावभिप्रायमा लोक्य तस्य दैत्यस्य दूषितम्
॥६४॥त्यक्त्वा रथावुभौ भीतौ पदाती प्रद्रुतौ द्रुतम् ॥
जग्मतुर्महिषाद्भीतौ शरणं पाकशासनम्
॥६५॥क्रुद्धोऽथ महिषो दैत्यो वरुणं समुपाद्रवत् ॥
तमंतकमुखासन्नमालोक्य हिमदीधितिः
॥६६॥चक्रे शस्त्रं विसृष्टं हि हिमसंघातमुल्बणम् ॥
वायव्यं चास्त्र मतुलं चंद्रश्चक्रे द्वितीयकम्
॥६७॥वायुना तेन चंडंन संशुष्केण हिमेन च ॥
महाहिमनिपातेन शस्त्रैश्चंद्रप्रणोदितैः
॥६८॥गात्राण्यसुरसैन्यानामदह्यंत समंततः ॥
व्यथिता दानवाः सर्वे सीतच्छादितपौरुषाः
॥६९॥न शेकुश्चलिंतुं तत्र नास्त्राण्यादातुमेव च ॥
महिषो निष्प्रयत्नश्च शीतेनाकंपिताननः
॥७०॥अंसमालिंग्य पाणिभ्यामुपविष्टो ह्यधोमुखः ॥
सर्वे ते निष्प्रतीकारा दैत्याश्चंद्रमसा जिताः
॥७१॥रणेच्छां दूरतस्त्यक्त्वा तस्थुस्ते जीवितार्थिनः ॥
तत्राब्रवीत्कालनेमिर्दैत्यान्क्रोधविदीपितः
॥७२॥भोभोः श्रृंगारिणः क्रूराः सर्वशस्त्रास्त्रपारगाः ॥
एकैकोऽपि जगत्कृस्नं शक्तस्तुलयितुं भुजैः
॥७३॥एकैकोऽपि क्षमो ग्रस्तुं जगत्सर्वं चराचरम् ॥
एकैकस्यापि पर्याप्ता न सर्वेऽपि दिवौकसः
॥७४॥किं त्रस्तनयनाश्चैव समरे परिनिर्जिताः ॥
न युक्तमेतच्छूराणां विशेषाद्दैत्यजन्मनाम्
॥७५॥राज्ञश्च तारकस्यापि दर्शयिष्यथ किं मुखम् ॥
विरतानां रणाच्चासौ क्रुद्धः प्राणान्हरिष्यति
॥७६॥इति ते प्रोच्यमानापि नोचुः किंचिन्महासुराः ॥
शीतेन नष्टश्रुतयो भ्रष्टवाक्याश्च ते तथा
॥७७॥मूकास्तथाभवन्दैत्या मृतकल्पा महारणे ॥
तान्दृष्ट्वा नष्टचेतस्कान्दैत्याञ्छीतेन पीडितान्
॥७८॥मत्वा कालक्षमं कार्यं कालनेमिर्महासुरः ॥
आश्रित्य मानवीं मायां वितत्य च महावपुः
॥७९॥पूरयामास गगनं विदिश एव च ॥
निर्ममे दानवेन्द्रोऽसौ शरीरेभास्करायुतम्
॥८०॥दिशश्च विदिशश्चैव पूरयामास पावकैः ॥
ततो ज्वालाकुलं सर्वं त्रैलोक्यमभवत्क्षणात्
॥८१॥तेन ज्वालासमूहेन हिमां शुरगमद्द्रुतम् ॥
ततः क्रमेण विभ्रष्टं शीतदुर्दिनमाबभौ
॥८२॥तद्बलं दानवेंद्राणां मायया कालनेमिनः ॥
तद्दृष्ट्वा दानवानीकं लब्धसंज्ञं दिवाकरः ॥
उवाचारुणमत्यर्थं कोपरक्तांतलोचनः
॥८३॥दिवाकर उवाच
नयारुण रथं शीघ्रं कालनेमिरथो यतः
॥८४॥विमर्दे तत्र विषमे भविता भूतसंक्षयः ॥
जित एषशशांकोऽथ वयं यद्बलमाश्रिताः
॥८५॥इत्युक्तश्चोदयामास रथं गरुडपूर्वजः ॥
रथे स्थितोऽपि तैरश्वैः सितचामरधारिभिः
॥८६॥जगद्दीपोऽथ भगवाञ्जग्राह विततं धनुः ॥
शरौघो वै पांडुपुत्र क्षिप्रमासीद्विषद्युतिः
॥८७॥शंबरास्त्रेण संधाय बाणमेकं ससर्ज ह ॥
द्वितीयं चेन्द्रजालेनायोजितं प्रमुमोच ह
॥८८॥शंबरास्त्रं क्षणाच्चक्रे तेषांरूपविपर्ययम् ॥
देवानां दानवं रूपं दानवानां च दैविकम्
॥८९॥मत्वा सुरान्स्वकानेव जघ्ने घोरास्त्रलाघवात् ॥
कालनेमी रुषाविष्टः कृतांत इव संक्षये
॥९०॥कांश्चित्खड्गेन तीक्ष्णेन कांश्चिन्नाराचवृष्टिभिः ॥
कांश्चिद्गदाभिर्घोराभिः कांश्चिद्धोरैः परश्वधैः
॥९१॥शिरांसि केषाचिदपातयद्रथाद्भुजांस्तथा सारथींस्चोग्रवेगान् ॥
कांश्चित्पिपेषाथरथस्य वेगात्कांश्चित्तथात्यद्भुतमुष्टिपातैः
॥९२॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिका खण्डे तारकसैन्यदेवसैन्ययोर्युद्धवर्णनंनामाष्टादशोऽध्यायः ॥ १८ ॥