मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — कौमारिकाखण्डः, अध्याय ५३

3
माहेश्वरखण्डः · कौमारिकाखण्डः · 53

कोटितीर्थादिमाहात्म्यवर्णनम्

नारद उवाच

अथान्यत्संप्रवक्ष्यामि शालामाहात्म्य मुत्तमम् ॥

संस्थापिते पुरा स्थाने प्रोक्तोहं द्विजपुंगवैः

॥१॥

स्थानस्य रक्षणार्थाय उपायं कुरु सुव्रत ॥

ततो मया प्रतिज्ञातं करिष्ये स्थान रक्षणम्

॥२॥

आराधिता मया पश्चाद्ब्रह्मविष्णुमहेश्वराः ॥

त्रयस्त्वेकाग्रचित्तेन ततस्तुष्टाः सुरोत्तमाः

॥३॥

समागम्याथ मां प्रोचुर्नारद व्रियतां वरः ॥

प्रोक्तं तानार्च्य च मया क्रियतां स्थानरक्षणम्

॥४॥

अयमेव वरो मह्यं देयो देवैः सुतोषितैः ॥

स्थानलोपो यथा न स्याद्यथा कीर्तिर्भवेन्मम

॥५॥

एवमस्त्विति देवेशैः प्रतिज्ञातं तदा मुने ॥

स्वांशेन प्रकरिप्याम द्विजानां तव रक्षणम्

॥६॥

एवमुक्त्वा कला मुक्ता देवैस्त्रिपुरुषैः स्वयम् ॥

अंतर्धानं ततः प्राप्ताः सर्वेऽपि सुरसत्तमाः

॥७॥

ततो मया द्विजैः सार्धं शालाग्रे स्थानरक्षणम् ॥

स्थापिताश्च पृथग्देवास्त्रयस्त्रिभुवनेश्वराः

॥८॥

पीड्यमाना यदा विप्राः केनापि च भवंति हि ॥

पूर्वाह्ने चापि ऋग्वेदं मध्याह्ने च यजूं ष्यथ

॥९॥

यामे तृतीये सामानि तारस्वरमधीत्य च ॥

शापं यस्य प्रदास्यंति शालाग्रे भृशरोषिताः

॥१०॥

सप्ताहाद्वर्षमध्याद्वा त्रिवर्षाद्भस्मतां व्रजेत् ॥

प्रतिज्ञाता स्थानरक्षा यदि वो नारदाग्रतः

॥११॥

सत्येन तेन नो वैरी भस्मीभवतु ह क्षणात् ॥

अनेन शाप मंत्रेण भस्मीभवति निश्चितम्

॥१२॥

शालां त्रिपुरुषां तत्र यः पश्यति दिनेदिने ॥

अर्चयेत्तोषयेच्चासौ स्वर्गलोके महीयते

॥१३॥

इति त्रिपुरुषशालामाहात्म्यम् ॥

नारद उवाच ॥

अथान्यत्संप्रवक्ष्यामि मदीयसरसो महत्

॥१४॥

माहात्म्यमतुलं पार्थ देवानामपि दुर्लभम् ॥

मया पूर्वं सरः खातं दर्भांकुरशलाकया

॥१५॥

मृत्तिका ताम्रपात्रेण त्यक्ता बाह्ये ततः स्वयम् ॥

सर्वेषामेव तीर्थानामाहृत्योदक मुत्तमम्

॥१६॥

तत्तत्र सरसि क्षिप्तं तेन संपूरितं सरः ॥

आश्विने मासि संप्राप्ते भानुवारे नरः शुचिः

॥१७॥

श्राद्धं यः कुरुते तत्र स्नात्वा दानं विशेषतः ॥

पितरस्तस्य तृप्यंति यावदाभूतसंप्लवम्

॥१८॥

नारदीयं सरो ह्येतद्विख्यात जगतीतले ॥

महता पुण्ययोगेन देवैरपि हि लभ्यते

॥१९॥

यदत्र दीयते दानं हूयते यच्च पावके ॥

सर्वं तदक्षयं विद्याज्जपानशनसाधनात्

॥२०॥

नारदीये सरःश्रेष्ठे स्नात्वा यो नारदेश्व रम् ॥

पूजयेच्छ्रद्धया मर्त्यः सर्वपापैः प्रमुच्यते

॥२१॥

अत्र तीर्थे पुरा पार्थ सर्वनागैस्तपः कृतम् ॥

कद्रूशापस्य मोक्षार्थमात्मनो हितका म्यया

॥२२॥

ततः सिद्धिं परां प्राप्ता एतर्त्तार्थप्रभावतः ॥

ततो नागेश्वरं लिंगं स्थापयामासुरूर्जितम्

॥२३॥

नारदादुत्तरे भागे सर्वे नागाः प्रहर्षिताः ॥

नारदीये सरःश्रेष्ठे यः स्नात्वा पूजयेद्धरम्

॥२४॥

नागेश्वरं महाभक्त्या तस्य पुण्यमनन्तकम् ॥

तेषां सर्पभयं नास्ति नागानां वचनं यथा

॥२५॥

इति नारदीयसरोमाहात्म्यम् ॥

नारद उवाच ॥

अपरद्वारकानाम देवी चात्रास्ति पांडव

॥२६॥

सा च ब्रह्मांडद्वारे वै सदैव विहितालया ॥

चतुर्विंशतिकोटीभिर्देवीभिः परिरक्षिता

॥२७॥

ततो दीर्घं तपस्तप्त्वा मयानीतात्र तोषिता ॥

अपरस्मिंस्ततो द्वारे स्था पिता परमेश्वरी

॥२८॥

पूर्वस्मिन्नगरद्वारे स्थापिता द्वारवासिनी ॥

नवमी चैत्रमासस्य कृष्णपक्षे भवेत्तु या

॥२९॥

कुण्डे स्नानं नरः कृत्वा तां च देवीं प्रपूजयेत् ॥

बलिबाकुलनैवेद्यैर्गन्धधूपादिपूजनैः

॥३०॥

सप्तजन्मकृतं पापं नाशमायाति तत्क्षणात् ॥

यान्यान्प्रार्थयते कामांस्तांस्ताना प्नोति मानवः

॥३१॥

वन्ध्या च लभते पुत्रं स्नानमात्रेण तत्र वै ॥

नवम्यां चैत्रमासस्य पुष्पधूपार्घ्यपूजया

॥३२॥

विघ्नानि नाशयेद्देवी सर्व सिद्धिं प्रयच्छति ॥

भक्तानां तत्क्षणादेव सत्यमेतन्न संशयः

॥३३॥

उत्तरद्वारकां चापि पूज्यैवं विधिवन्नरः ॥

एतदेव फलं सोपि प्राप्नुयान्मान वोत्तमः

॥३४॥

पूर्वद्वारे तु वै देवी या स्थिता द्वारवासिनी ॥

तस्याः पूजनमात्रेण प्राप्नुयाद्वांछितं फलम्

॥३५॥

आश्विने मासि संप्राप्ते नव रात्रे विशेषतः ॥

उपोष्य नवरात्रं च स्नात्वा कुण्डे समाहितः

॥३६॥

पूजयेद्देवतां भक्त्या पुष्पधूपान्नतर्पणैः ॥

अपुत्रो लभते पुत्रान्निर्धनो लभते धनम्

॥३७॥

वन्ध्या प्रसूयते पार्थ नात्र कार्या विचारणा

॥३८॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वर खण्डे कौमारिकाखंडे कोटितीर्थादिमाहात्म्यवर्णनंनाम त्रिपंचाशत्तमोऽध्यायः ॥ ५३ ॥