नंदभद्रवणिग्वृत्तान्तवर्णनम्
नारद उवाच
तथा बहूदकस्थाने कथामाकर्णयाद्भुताम् ॥
यस्माद्बहूदकं कुण्डं कामरूपे यदस्ति च
॥१॥तदस्ति चात्र संक्रांतं तस्मात्प्रोक्तं बहूदकम् ॥
कपिलेनात्र तप्त्वा च वर्षाणि सुबहून्यपि
॥२॥स्थापितं शोभनं लिंगं कपिलश्वरसंज्ञितम् ॥
तच्च लिगं सदा पार्थ नन्दभद्र इति समृतः
॥३॥वणिक्संपूजयामास त्रिकालं च कृतादरः ॥
सर्वधर्मविशेषज्ञः साक्षाद्धर्म इवापरः
॥४॥नाज्ञातं तस्य किंचिच्च यद्धर्मेषु प्रकीर्त्यते ॥
सर्वेषां च सुहृन्नित्यं सर्वेषां च हिते रतः
॥५॥कर्मणा मनसा वाचा धर्ममेनमुपाश्रितः ॥
न भूतो न भविष्यश्च न स धर्मोऽस्ति किंचन
॥६॥विदोषो यो हि सर्वत्र निश्चित्यैवं व्यवस्थितः ॥
अस्य धर्मसमुद्रस्य संप्रवृद्धस्य सर्वतः
॥७॥निर्मथ्य नन्दभद्रेण आहृतं तन्निशामय ॥
वाणिज्यं मन्यते श्रेष्ठं जीवनाय तदा स्थितः
॥८॥परिच्छिन्नैः काष्ठतृणैः शरणं तेन कारितम् ॥
मद्यवर्जं भेदवर्जं कूटवर्जं समं तथा
॥९॥सर्वभूतेषु वाणिज्यमल्पलाभेन सोऽचरत् ॥
अमायया परेभ्योऽसौ गृहीत्वैव क्रयाणकम्
॥१०॥अमाययैव भूतेभ्यो विक्रीणात्यस्य सद्व्रतम् ॥
केचिद्यज्ञं प्रशंसंति नन्दभद्रो न मन्यते
॥११॥दोषमेनं विनिश्चित्य श्रृणु तं पांडुनन्दन ॥
लुब्धोऽनृती दांभीकश्च स्वप्रशंसापरायणः
॥१२॥यजन्यज्ञैर्जगद्धंति स्वं चांधतमसं नयेत् ॥
अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते
॥१३॥आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥
यद्यदा यजमानस्य ऋत्विजो द्रव्यमेव च
॥१४॥चौरप्रायस्य कलुषाज्जन्म जायेज्जनस्य हि ॥
अदक्षिणे वृथा यज्ञे कृते चाप्यविधानतः
॥१५॥पशवो लकुटैर्हन्युर्यजमानं मृतं हताः ॥
तस्माच्छुद्धैर्यवद्रव्यैर्यजमानः शुभः स्मृतः
॥१६॥यज्ञ एवं विचार्यासौ यज्ञसारं समास्थितः ॥
श्रद्धया देवपूजा या नमस्कारः स्तुतिः शुभा
॥१७॥नैवेद्यं हविषश्चैव यज्ञोऽयं हि विकल्मषः ॥
स एव यज्ञः प्रोक्तो वै येन तुष्यन्ति देवताः
॥१८॥केचिच्छंसन्ति संन्यासं नन्दभद्रो न मन्यते ॥
यो हि संन्यस्य विषयान्मनसा गृह्यते पुनः
॥१९॥उभयभ्रष्ट एवासौ भिन्ना भूमिर्विनश्यति ॥
संन्यासस्य तु यत्सारं तत्तेनावृतमुत्तमम्
॥२०॥कस्यचिन्नैव कर्माणि शपते वा प्रशंसति ॥
नानामार्गस्थिताँल्लोकांश्चन्द्रवल्लीयते क्षितौ
॥२१॥न द्वेष्टि नो कामयते न विरुद्धोऽनुरुध्यते ॥
समाश्मकांचनो धीरस्तुल्यनिंदात्मसंस्तुतिः
॥२२॥अभयः सर्वभूतेभ्यो यथांधबधिराकृतिः ॥
न कर्मणां फलाकांक्षा शिवस्याराधनं हि तत्
॥२३॥कारणाद्धर्ममन्विच्छन्न लोभं च ततश्चरन्
॥२४॥विविच्य नंदभद्रस्तत्सारं मोक्षेषु जगृहे ॥
कृषिं केचित्प्रशंसंति नंदभद्रो न मन्यते
॥२५॥यस्यां छिंदंति वृषणा वृषाणां चैव नासिकाम् ॥
कर्षयंति महाभारान्बध्नंति दमयंति च
॥२६॥बहुदंशमयान्देशान्नयंति बहुकर्दमान् ॥
वाहसंपीडिता धुर्याः सीदंत्यविधिना परे
॥२७॥मन्यंते भ्रूणहत्यापि विशिष्टा नास्य कर्मणः ॥
अघ्न्या इति गवां नाम श्रुतौ ताः पीडयेत्कथम्
॥२८॥भूमिं भूमिशयांश्चैव हंति काष्ठमयोमुखम् ॥
पंचेंद्रियेषु जीवेषु सर्वं वसति दैवतम्
॥२९॥आदित्यश्चंद्रमा वायुः प्रभूत्यैव च तांस्तु यः ॥
विक्रीणाति सुमूढस्य तस्य का नु विचारणा
॥३०॥अजोऽग्निर्वरुणो मेषः सूर्यश्च पृथिवी विराट् ॥
धेनुर्वत्सश्च सोमो वै विक्रीयैतान्न सिध्यति
॥३१॥एवंविधसहस्रैश्च युता दोषैः कृषिः सदा ॥
अष्टागवं स्याद्धि हलं त्रिंशद्भागं त्यजेत्कृषेः
॥३२॥धर्मे दद्यात्पशून्वृद्धान्पुष्यादेषा कृषिः कुतः ॥
सारमेतत्कृषेस्तेन नंदभद्रेण चादृतम्
॥३३॥विसाधितव्यान्यन्नानि स्वशक्त्या देवपितृषु ॥
मनुष्य द्विजभूतेषु नियुज्याश्नीत सर्वदा
॥३४॥केचिच्छंसंति चैश्वर्यं नंदभद्रो न मन्यते ॥
मानुषा मानुषानेव दासभावेन भुंजते
॥३५॥वधबंधनिरोधेन पीडयंति दिवानिशम् ॥
देहं किमेतद्धातुः स्वं मातुर्वा जनकस्य वा
॥३६॥मातुः पितुर्वा बलिनः क्रेतुरग्नेः शुनोऽपि वा ॥
इति संचिंत्य व्यहरन्नमरा इव ईश्वराः
॥३७॥ऐश्वर्यमदपापिष्ठा महामद्यमदादयः ॥
ऐश्वर्यमदमत्तो हि ना पतित्वा हि माद्यति
॥३८॥आत्मवत्सर्वभृत्येषु श्रिया नैव च माद्यति
॥३९॥आत्मप्रत्ययवान्देही क्वेश्वरश्चेदृशोऽस्ति हि ॥
ऐश्वर्यस्यापि सारं स जग्राहैतन्निशामय
॥४०॥स्वशक्त्या सर्व भूतेषु यदसौ न पराङ्मुखः ॥
तीर्थायेके प्रशंसंति नंदभद्रो न मन्यते
॥४१॥श्रमेण संकरात्तापशीतवातक्षुधा तृषा ॥
क्रोधेन धर्मगेहस्य नापि नाशमवाप्नुयात्
॥४२॥सौख्येन वा धनस्यापि श्रद्धया स्वल्पगोर्थवान् ॥
समर्थो हि महत्पुण्यं शक्त आप्तुं क्व वास्ति सः
॥४३॥सदा शुचिर्देवयाजी तीर्थसारं गृहेगृह ॥
नापः पुनंति पापानि न शैला न महाश्रमाः
॥४४॥आत्मा पुनाति पापानि यदि पापान्निवर्तते ॥
एवमेव समाचारं प्रादुर्भूतं ततस्ततः
॥४५॥एकीकृत्य सदा धीमान्नंदभद्रः समास्थितः ॥
तस्यैवं वर्ततः साधोः स्पृहयंत्यपि देवताः
॥४६॥वासवप्रमुखाः सर्वे विस्मयं च परं ययुः ॥
अत्रैव स्थानके चापि शूद्रोऽभूत्प्रतिवेश्मकः
॥४७॥स नंदभद्रं धर्मिष्ठं पुनः पुनरसूयत ॥
नास्तिकः स दुराचारः सत्यव्रत इति श्रुतः
॥४८॥स सदा नंदभद्रस्य विलोकयति चांतरम् ॥
छिद्रं चेदस्य पश्यामि ततो धर्मान्निवर्तये
॥४९॥स्वभाव एव क्रूराणां नास्तिकानां दुरात्मनाम् ॥
आत्मानं पातयंत्येव पातयंत्यपरं च यत्
॥५०॥ततस्त्वेवं वर्ततोऽस्य नंदभद्रस्य धीमतः ॥
एकोऽभूत्तनयः कष्टाद्वार्धिके सोऽप्यनश्यत
॥५१॥तच्च दैवकृतं मत्वा न शुशोच महामतिः ॥
देवो वा मानवो वापि को हि देवाद्विमुच्यते
॥५२॥ततोऽस्य सुप्रिया भार्या सर्वैः साध्वीगुणैर्युता ॥
गृहधर्मस्य मूर्तिर्या साक्षादिव अरुंधती
॥५३॥विनाशमागता पार्थ कनकानाम नामतः ॥
ततो यतेंद्रियोऽप्येष गृहधर्मविनाशतः
॥५४॥शुशोच हा कष्टमिति पापोहमिति चासकृत् ॥
तत्तस्य चांतरं दृष्ट्वाऽहृष्यत्यव्रतश्चिरात्
॥५५॥उपाव्रज्य च हा कष्टं ब्रुवंस्तं नंदभद्रकम् ॥
दधिकर्ण इवासाद्य नंदभद्रमुवाच सः
॥५६॥हा नंदभद्र यद्येवं तवाप्येवंविधं फलम् ॥
एतेन मन्ये मनसि धर्मोप्येष वृथैव यत्
॥५७॥इत्यादि बहुधा प्रोच्य तत्तद्वाक्यं ततस्ततः ॥
सत्यव्रतस्ततः प्राह नंदभद्रं कृपान्वितः
॥५८॥नंदभद्र सदा तुभ्यं वक्तुकामोस्मि किंचन ॥
प्रस्तावस्याप्यभावाच्च नोदितं च मया क्वचित्
॥५९॥अप्रस्तावं ब्रुवन्वाक्यं बृहस्पतिरपिध्रुवम् ॥
लभते बुद्ध्यवज्ञानमवमानं च हीनवत्
॥६०॥नन्दभद्र उवाच
ब्रूहिब्रूहि न मे किंचित्साधु गोप्यं प्रियं परम् ॥
वचोभिः शुद्धसत्त्वानां न मोक्षोऽप्युपमीयते
॥६१॥सत्यव्रत उवाच
नवभिर्नवभिश्चैव विमुक्तं वाग्विदूषणैः ॥
नवभिर्बुद्धिदोषैश्च वाक्यं वक्ष्याम्यदोषवत्
॥६२॥सौक्ष्म्यं संख्याक्रमश्चापि निर्णयः सप्रयोजनः ॥
पंचैतान्यर्थजातानि यत्र तद्वाक्यमुच्यते
॥६३॥धर्ममर्थं च कामं च मोक्षं चोद्दिश्य चोच्यते ॥
प्रयोजनमिति प्रोक्तं प्रथमं वाक्यलक्षणम्
॥६४॥धर्मार्थकाममोक्षेषु प्रतिज्ञाय विशेषतः ॥
इदं तदिति वाक्यांते प्रोच्यते स विनिर्णयः
॥६५॥इदं पूर्वमिदं पश्चाद्वक्तव्यं यत्क्रमेण हि ॥
क्रमयोगं तमप्याहुर्वाक्यतत्तविदो बुधाः
॥६६॥दोषाणां च गुणानां च प्रमाणं प्रविभागतः ॥
उभयार्थमपि प्रेक्ष्य सा संख्येत्युपधार्यताम्
॥६७॥वाक्यज्ञेयेषु भिन्नेषु यत्राभेदः प्रदृश्यते ॥
तत्रातिशयहेतुत्वं तत्सौक्ष्म्यमिति निर्दिशेत्
॥६८॥इति वाक्यगुणानां च वाग्दोषान्द्विनव श्रृणु ॥
अपेतार्थमभिन्नार्थमपवृत्तं तथाधिकम्
॥६९॥अश्लक्ष्णं चापि संदिग्धं पदांते गुरु चाक्षरम् ॥
पराङ्मुखमुखं यच्च अनृतं चाप्यसंस्कृतम्
॥७०॥विरुद्धं यत्त्रिवर्गेण न्यूनं कष्टातिशब्दकम् ॥
व्युत्क्रमाभिहृतं यच् सशेषं चाप्यहेतुकम्
॥७१॥निष्कारणं च वाग्दोषान्बुद्धिजाञ्छृणु त्वं च यान् ॥
कामात्क्रोधाद्भयाच्चैव लोभाद्दैन्यादनार्यकात्
॥७२॥हीनानुक्रोशतो मानान्न च वक्ष्यामि किंचन ॥
वक्ता श्रोता च वाक्यं च यदा त्वविकलं भवेत्
॥७३॥सममेति विवक्षायां तदा सोऽर्थः प्रकाशते ॥
वक्तव्ये तु यदा वक्ता श्रोतारमवमन्यते
॥७४॥श्रोता चाप्यथ वक्तारं तदा वाक्यं न रोहति ॥
अथ यः स्वप्रियं ब्रूयाच्छ्रोतुर्वोत्सृज्ययदृतम्
॥७५॥विशंका जायते तस्मिन्वाक्यं तदपि दोषवत् ॥
तस्माद्यः स्वप्रियं त्यक्त्वा श्रोतुश्चाप्यथ यत्प्रियम्
॥७६॥सत्यमेव प्रभाषेत स वक्ता नेतरो भुवि ॥
मिथ्यावादाञ्छास्त्रजालसंभवान्यद्विहाय च
॥७७॥सत्यमेव व्रतं यस्मात्तस्मात्सत्यव्रतस्त्वहम् ॥
सत्यं ते संप्रवक्ष्यामि मंतुमर्हसि तत्तथा
॥७८॥यदाप्रभृति भद्र त्वं पाषाणस्यार्चने रतः ॥
तदाप्रभृति किंचिच्च न हि पश्यामि शोभनम्
॥७९॥एकः सोऽपि सुतो नष्टो भार्या चार्याऽप्यनश्यत ॥
कूटानां कर्मणां साधो फलमेवंविधं भवेत्
॥८०॥क्व देवाः संति मिथ्यैतद्दृश्यंते चेद्भवंत्यपि ॥
सर्वा च कूटविप्राणां द्रव्यायैषा विकल्पना
॥८१॥पितॄनुद्दिश्य यच्छंति मम हासः प्रजायते ॥
अन्नस्योपद्रवं यच्च मृतो हि किमशिष्यत
॥८२॥यत्त्विदं बहुधा मूढा वर्णयंति द्विजाधमाः ॥
विश्वनिर्माणमखिलं तथापि श्रृणु सत्यतः
॥८३॥उत्पत्तिश्चापि भंगश्च विश्वस्यैतद्द्वयं मृषा ॥
एवमेव हि सर्वं च सदिदं वर्तते जगत्
॥८४॥स्वभावतो विश्वमिदं हि वर्तते स्वभावतः सूर्यमुखा भ्रमंत्यमी ॥
स्वभावतो वायवो वांति नित्यं स्वभावतो वर्षति चांबुदोऽयम्
॥८५॥स्वभावतो रोहति धान्यजातं स्वभावतो वर्षशीतातपत्वम् ॥
स्वभावतः संस्थिता मेदिनी च स्वभावतः सरितः संस्रवंति
॥८६॥स्वभावतः पर्वता भांति नित्यं स्वभावतो वारिधिरेष संस्थितः ॥
स्वभावतो गर्भिणी संप्रसूते स्वभावतोऽमी बहवश्च जीवाः
॥८७॥यथा स्वभावेन भवंति वक्रा ऋतुस्वबावाद्बदरीषु कण्टकाः ॥
तथा स्वभावेन हि सर्वमेतत्प्रकाशते कोऽपि कर्ता न दृश्यः
॥८८॥तदेवं संस्थिते लोके मूढो मुह्यति मत्तवत् ॥
मानुष्यमपि यद्धूर्ता वदंत्यग्र्यं श्रृणुष्वतत्
॥८९॥मानुष्यान्न परं कष्टं वैरिणां नो भवेद्धि तत् ॥
शोकस्थानसहस्राणि मनुष्यस्य क्षणेक्षणे
॥९०॥मानुष्यं हि स्मृताकारं सभाग्योऽस्माद्विमुच्यते ॥
पशवः पक्षिणः कीटाः कृमयश्च यथासुखम्
॥९१॥अबद्धा विहरंत्येते योनिरेषां सुदुर्लभा ॥
निश्चिंताः स्थावरा ह्येते सौख्यमेषां महद्भुवि
॥९२॥बहुना किं मनुष्येभ्यः सर्वो धन्योऽन्ययोनिजः ॥
स्वभावमेव जानीहि पुण्यापुण्यादिकल्पना
॥९३॥यदेके स्थावराः कीटाः पतंगा मानुषादिकाः ॥
तस्मान्मित्या परित्यज्य नंदभद्र यथासुखम् ॥
पिब क्रीडनकैः सार्धं भोगान्सत्यमिदं भुवि
॥९४॥नारद उवाच
इत्येतैरमुखैर्वाक्यैरयुक्तैरसमंजसैः
॥९५॥सत्यव्रतस्य नाकम्पन्नंदभद्रो महामनाः ॥
प्रहसन्निव तं प्राह स्वक्षोभ्यः सागरो यथा
॥९६॥यद्भवानाह धर्मिष्ठाः सदा दुःखस्य भागिनः ॥
तन्मिथ्या दुःखजालानि पश्यामः पापिनामपि
॥९७॥वधबंधपरिक्लेशाः पुत्रदारादि पंचता ॥
पापिनामपि दृश्यंते तस्माद्धर्मो गुरुर्मतः
॥९८॥अयं साधुरहो कष्टं कष्टमस्य महाजनाः ॥
साधोर्वदंत्येतदपि पापिनां दुर्लभं त्विदम्
॥९९॥दारादिद्रव्यलोभार्यं विशतः पापिनो गृहे ॥
भवानपि बिभेत्यस्माद्द्वेष्टि कुप्यति तद्वृथा
॥१००॥यथास्य जगतो ब्रूषे नास्ति हेतुर्महेश्वरः ॥
तद्बालभाषितं तुभ्यं किं राजानं विना प्रजाः
॥१०१॥यच्च ब्रवीषि पाषाणं मिथ्या लिंगं समर्चसि ॥
तद्भवाँल्लिंगमाहात्म्यं वेत्ति नांधो यथा रविम्
॥१०२॥ब्रह्मादायः सुरा सर्वे राजानश्च महर्द्धिकाः ॥
मानवा मुनयश्चैव सर्वे लिंगं यजंति च
॥१०३॥स्वनामकानि चिह्नानि तेषां लिंगानि संति च ॥
एते किं त्वभवत्मूर्खास्त्वं तु सत्यव्रतः सुधीः
॥१०४॥प्रतिष्ठाप्य पुरा ब्रह्मा पुष्करे नीललोहितम् ॥
प्राप्तवान्परमां सिद्धिं ससर्जेमाः प्रजाः प्रभुः
॥१०५॥विष्णुनापि निहत्याजौ रावणं पयसांनिधेः ॥
तीरे रामेश्वरं लिंगं स्थापितं चास्ति किं मुधा
॥१०६॥वृत्रं हत्वा पुरा शक्रो महेंद्रे स्थाप्य शंकरम् ॥
लिंगं विमुक्तपापोऽथ त्रिदिवेद्यापि मोदते
॥१०७॥स्थापयित्वा शिवं सूर्यो गंगासागरसंगमे ॥
निरामयोऽभूत्सोमश्च प्रभासे पश्चिमोदधौ
॥१०८॥काश्यां यमश्च धनदः सह्ये गरुडकश्यपौ ॥
नैमिषे वायुवरुणौ स्थाप्य लिंगं प्रमोदिताः
॥१०९॥अस्मिन्नेव स्तंभतीर्थे कुमारेणं गुहो विभुः ॥
लिंगं संस्थापयामास सर्वपापहरं न किम्
॥११०॥एवमन्यैः सुरैर्यानि पार्थिवैर्मुनिभिस्तथा ॥
संस्तापितानि लिंगानि तन्न संख्यातुमुत्सहे
॥१११॥पृथिवीवासिनः सर्वे ये च स्वर्गनिवासिनः ॥
पातालवासिनस्तृप्ता जायंते लिंगपूजया
॥११२॥यच्च ब्रवीषि गीर्वाणा न संति सन्ति चेत्कुतः ॥
कुत्रापि नैव दृश्यंते तेन मे विस्मयो महान्
॥११३॥रंकवत्किं स्म ते देवा याचंतां त्वां कुलत्थवत् ॥
यमिच्छिसि महाप्राज्ञ साधको हि गुरुस्तव
॥११४॥स्वबावान्नैव सर्वार्थाः संसिद्धा यदि ते मते ॥
भोजनादि कथं सिध्येद्वद कर्तारमंतरा
॥११५॥बदरीमंतरेणापि दृश्यंते कण्टका न हि ॥
तस्मात्कस्यास्ति निर्माणं यस्य यावत्तथैव तत्
॥११६॥यच्च ब्रवीषि पश्वाद्याः सुखिनो धन्यकास्त्वमी ॥
त्वदृते नेदमुक्तं च केनापि श्रुतमेव वा
॥११७॥तामसा विकला ये च कष्टं तेषां च श्लाघ्यताम् ॥
सर्वेंद्रिययुताः श्रेष्ठाः कुतो धन्या न मानुषाः
॥११८॥सत्यं तव व्रतं मन्ये नरकाय त्वयाऽऽदृतम् ॥
अत्यनर्थे न भीः कार्या कामोयं भविताचिरात्
॥११९॥आदावाडंबरेणैव ध्रुवतोऽज्ञानमेव मे ॥
इत्थं निःसारता व्यक्तमादावाडंबारात्तु यत्
॥१२०॥मायाविनां हि ब्रुवतां वाक्यं चांडबरावृतम् ॥
कुनाणकमिवोद्दीप्तं परीक्षेयं सदा सताम्
॥१२१॥आदौ मध्ये तथा चांते येषां वाक्यमदोषवत् ॥
कषदाहैः स्वर्णमिव च्छेदेऽपि स्याच्छुभं शुभम्
॥१२२॥त्वयान्यथा प्रतिज्ञातमुक्तं चैवान्यथा पुनः ॥
त्वद्दोषो नायमस्माकं तद्वचः श्रृणुमो हि ये
॥१२३॥नास्तिकानां च सर्पाणां विषस्य च गुणस्त्वयम् ॥
मोहयंति परं यच्च दोषो नैषपरस्य तु
॥१२४॥आपो वस्त्रं तिलास्तैलं गंधो वा स यथा तथा ॥
पुष्पाणामधिवासेन तथा संसर्गजा गुणाः
॥१२५॥मोहजालस्य यो योनिर्मूढैरिह समागमः ॥
अहन्यहनि धर्मस्य योनिः साधुसमागमः
॥१२६॥तस्मात्प्राज्ञैश्च वृद्धैश्च शुद्धभावैस्तपस्विभिः ॥
सद्भिश्च सह संसर्गः कार्यः शमपरायणैः
॥१२७॥न नीचैर्नाप्यविद्वद्भिर्नानात्मज्ञैर्विशेषतः ॥
येषां त्रीण्यवदातानि योनिर्विद्या च कर्म च
॥१२८॥तांश्च सेवेद्विशेषेण शास्त्रं येषां हि विद्यते ॥
असतां दर्शनस्पर्शसंजल्पासनभोजनैः
॥१२९॥धर्माचारात्प्रहीयंते न च सिध्यंति मानवाः ॥
बुद्धिश्च हीयते पुंसां नीचैः सह समागमात्
॥१३०॥मध्यैश्च मध्यतां याति श्रेष्ठतां याति चोत्तमैः ॥
इति धर्मं स्मरन्नाहं संगमार्थी पुनस्तव ॥
यन्निन्दसि द्विजानेव यैरपेयोऽर्णवः कृतः
॥१३१॥वेदाः प्रमाणं स्मृतयः प्रमाणं धर्मार्थयुक्तं वचनं प्रमाणम् ॥
नैतत्त्रयं यस्य भवेत्प्रमाणं कस्तस्य कुर्याद्वचनं प्रमाणम्
॥१३२॥इतीरयित्वा वचनं महात्मा स नंदभद्रः सहसा तदैव ॥
गृहाद्विनिःसृत्य जगाम पुण्यं बहूदकं भट्टरवेस्तु कुंडम्
॥१३३॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखंडे कपिलेश्वरतीर्थमाहात्म्ये नंदभद्रवणिग्वृत्तान्तवर्णनं नाम पञ्चचत्वारिंशत्तमोऽध्यायः ॥ ४५ ॥