अथातः संप्रवक्ष्यामि सोमनाथमहिं स्फुटम्
नारद उवाच
अथातः संप्रवक्ष्यामि सोमनाथमहिं स्फुटम् ॥
शृण्वन्यां कीर्त यिष्यामि पापमोक्षमवाप्नुयात्
॥१॥पुरा त्रेतायुगे पार्थ चौडदेशसमुद्भवौ ॥
ऊर्जयंतश्च प्रालेयो विप्रावास्तां महाद्युती
॥२॥तावेकदा पुराणार्थे श्लोकमेकमपश्यताम् ॥
तं दृष्ट्वा सर्वशास्त्रज्ञावास्तां कंटकितत्वचौ
॥३॥प्रभासाद्यानि तीर्थानि पुलस्त्यायाह पद्मभूः ।
न यैस्तत्राप्लुतं चैव किं तैस्तीर्थमुपासितम्
॥४॥इति श्लोकं पठित्वा तौ पुनःपुनरभिष्टुतम् ॥
तर्ह्येव च प्रभासाय निःसृतौ स्नातुमुत्तमौ
॥५॥तौ वनानि नदीश्चैव व्यतिक्रम्य शनैःशनैः ॥
महर्षिगणसंकीर्णामुत्तीणौ नर्मदां शिवाम्
॥६॥गुप्तक्षेत्रस्य माहात्म्यं महीसागरसंगमम् ॥
तत्र स्नात्वा प्रभासाय तन्मध्येन प्रतस्थतुः
॥७॥ततो मार्गस्य शून्यत्वात्तृट्क्षुधापीडितौ भृशम् ॥
आस्तां विचेतनौ विप्रौ सिद्धलिंगसमीपतः
॥८॥सिद्धनाथं नमस्कृत्य संप्रयातौ सुधैर्यतः ॥
क्षुधावेगेन तीव्रेण तृषा मध्यार्कतापितौ
॥९॥सहसा पतितौ भूमौ स्थूणपादौ विमूर्छितौ ॥
ततो मुहूर्तात्प्रालेय ऊर्जयंतमभाषत
॥१०॥किंचिद्विश्वस्य धैर्याच्च सखे किं न श्रुतं त्वया ॥
यथा यथा विवर्णांगो जायते तीर्थयात्रया
॥११॥तथातथा भवेद्दानैर्दीनः सोमेश्वरो हरः ॥
तथाऽऽस्तां लुंठमानौ तावेवमुक्ते श्रुतेऽपि च
॥१२॥लुंठमानो जगामैव प्रालेयः किंचिदंतरे ॥
उत्थितं सहसा लिंगं भूमिं भित्त्वा सुदुर्दृशम्
॥१३॥खे वाणी चाभवत्तत्र पुष्पवर्षपुरःसरा ॥
प्रालेय तव हेतोस्तु सोमनाथसमं फलम् ॥
उत्थितं सागरतटे लिंगं तिष्ठात्र सुव्रत
॥१४॥प्रालेय उवाच
यद्येवं सत्यमेतच्च तथाप्यात्मा प्रकल्पितः
॥१५॥प्रभासाय प्रयातव्यं यदाऽऽ मृत्योर्मया स्फुटम् ॥
ततश्चैवोर्ज्जयंतोऽपि मूर्छाभावाल्लुठन्पुरः
॥१६॥अपश्यदुत्थितं लिंगं स चैवं प्रत्यपद्यत ॥
ततः प्रत्यक्षतां प्राप्तो भवश्चक्रे तयोर्दृढे
॥१७॥दृष्ट्या तनू ततो यातौ प्रभासं शिवसद्म च ॥
तावेतौ सोमनाथौ द्वौ सिद्धेश्वरसमीपतः
॥१८॥ऊर्जयंतः प्रतीच्यां च प्रालेयस्येश्वरोऽपरः ॥
सोमकुडांभसि शनैः स्नात्वार्णवमहीजले
॥१९॥सोमनाथद्वयं पश्येज्जन्मपापात्प्रमुच्यते ॥
ब्रह्मात्र स्थापयित्वा तु हाटकेश्वर संज्ञितम्
॥२०॥महीनगरके लिंगं पातालात्सुमनोहरम् ॥
तुष्टाव देवं प्रयतः स्तुतिं तां शृणु पांडव
॥२१॥नमस्ते भगवन्रुद्र भास्करामिततेजसे ॥
नमो भवाय रुद्राय रसायांबुमयाय ते
॥२२॥शर्वाय क्षितिरूपाय सदा सुरभिणे नमः ॥
ईशाय वायवे तुभ्यं संस्पर्शाय नमोनमः
॥२३॥पशूनां पतये चापि पावकायातितेजसे ॥
भीमाय व्योमरूपाय शब्दमात्राय ते नमः
॥२४॥महादेवाय सोमाय अमृताय नमोऽस्तु ते ॥
उग्राय यजमानाय नमस्ते कर्मयोगिने
॥२५॥इत्येवं नामभिर्दिव्यैः स्तव एष उदीरितः ॥
यः पठेच्छृणुयाद्वापि पितामहकृतं स्तवम्
॥२६॥हाटकेश्वरलिंगस्य नित्यं च प्रयतो नरः ॥
अष्टमूर्तेः स सायुज्यं लभते नात्र संशयः
॥२७॥हाटकेश्वरलिंगं च प्रयतो यः स्मरेदपि ॥
तस्य स्याद्वरदो ब्रह्मा तेनेदं स्थापितं जय
॥२८॥एवंविधानि तीर्थानि महीसागरसंगमे ॥
बहूनि संति पुण्यानि संक्षेपाद्वर्णितानि मे
॥२९॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे स्तम्भतीर्थमाहात्म्ये सोमनाथवृत्तांतवर्णनंनामाष्टचत्वारिंशोऽध्यायः ॥ ४८ ॥