मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — कौमारिकाखण्डः, अध्याय २८

3
माहेश्वरखण्डः · कौमारिकाखण्डः · 28

व्रजंती गिरिजाऽपश्यत्सखीं मातुर्महाप्रभाम्

नारद उवाच

व्रजंती गिरिजाऽपश्यत्सखीं मातुर्महाप्रभाम् ॥

कुसुमामोदिनींनाम तस्य शैलस्य देवताम्

॥१॥

सापि दृष्ट्वा गिरिसुतां स्नेहविक्लवमानसा ॥

क्वपुनर्गच्छसीत्युच्चैरालिंग्योवाच देवता

॥२॥

सा चास्यै सर्वमाचख्यौ शंकरात्कोपकारणम् ॥

पुनश्चोवाच गिरिजा देवतां मातृसंमताम्

॥३॥

नित्यं शैलाधिराजस्य देवता त्वमनिंदिते ॥

सर्वं च सन्निधानं च मयि चातीव वत्सला

॥४॥

तदहं संप्रवक्ष्यामि यद्विधेयं तवाधुना ॥

अथान्य स्त्रीप्रवेशे तु समीपे तु पिनाकिनः

॥५॥

त्वयाख्येयं मम शुबे युक्तं पश्चात्करोम्यहम् ॥

तथेत्युक्ते तया देव्या ययौ देवी गिरिं प्रति

॥६॥

रम्ये तत्र महाशृंगे नानाश्चर्योपशोभिते ॥

विभूषणादि सन्यस्य वृक्षवल्कलधारिणी

॥७॥

तपस्तेपे गिरिसुता पुत्रेण परिपालिता ॥

ग्रीष्मे पंचाग्निसंतप्ता वर्षासु च जलोषिता

॥८॥

यथा न काचित्प्रविशेद्योषिदत्र हरांतिके ॥

दृष्ट्वा परां स्त्रियं चात्र वदेथा मम पुत्रक

॥९॥

शीघ्रमेव करिष्यामि ततो युक्तमनंतरम् ॥

एवमस्त्विति तां देवीं वीरकः प्राह सांप्रतम्

॥१०॥

मातुराज्ञा सुतो ह्लाद प्लावितांगो गतज्वरः ॥

जगाम त्र्यक्षं संद्रष्टुं प्रणिपत्य च मातरम्

॥११॥

गजवक्त्रं ततः प्राह प्रणम्य समवस्थितम् ॥

साश्रुकंठं प्रयाचंतं नय मामपि पार्वति

॥१२॥

गजवक्त्रं हि त्वां बाल मामिवोपहसिष्यति ॥

तदागच्छ मया सार्धं या गतिर्मे तवापि सा

॥१३॥

पराभवाद्धि धूर्तानां मरणं साधु पुत्रक ॥

एवमुक्त्वा समादाय हिमाद्रिं प्रति सा ययौ

॥१४॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे कुमारेश्वरमाहात्म्ये पार्वत्यस्तपोर्थं गमनवर्णनंनामाष्टाविंशोऽध्यायः ॥ २८ ॥