महीसागरमाहात्म्यमद्भुतं कीर्तितं त्वया
अर्जुन उवाच
महीसागरमाहात्म्यमद्भुतं कीर्तितं त्वया ॥
विस्मयः परमो मह्यं प्रहर्षश्चोपजायते
॥१॥तदहं विस्तराच्छ्रोतुमिदमिच्छामि नारद ॥
कस्य यज्ञे मही ग्लाना वह्नितापाभितापिता
॥२॥नारद उवाच
महादाख्यानमाख्यास्ये यथा जाता महीनदी ॥
श्रृण्वन्नेतां कथां पुण्यां पुण्यमाप्स्यसि पांडव
॥३॥पुराभूद्भूपतिर्भूमाविन्द्रद्युम्न इति श्रुतः ॥
वदान्यः सर्वधर्मज्ञो मान्यो मानयिता प्रभुः
॥४॥उचितज्ञो विवेकस्य निवासो गुणसागरः ॥
न तदस्ति धरापृष्ठे नगरं ग्रामपत्तनम्
॥५॥तदीयपूर्तधर्मस्य चिह्नेन न यदंकितम् ॥
कन्यादानानि बहुधा ब्राह्मेण विधिना व्यधात्
॥६॥भूपालोऽसौ ददौ दानमासहस्राद्धनार्थिनाम् ॥
दशमीदिवसे रात्रौ गजपृष्ठेन दुन्दुभिः
॥७॥ताड्यते तत्पुरे प्रातः कार्यमेकादशीव्रतम् ॥
यज्वना तेन भूपेन विच्छिन्नं सोमपायिनाम्
॥८॥स्वरणैरास्तृता दर्भैर्द्व्यंगुलोत्सेधिता मही ॥
गंगायां सिकता धारा वर्षतो दिवि तारकाः
॥९॥शक्या गणयितुं प्राज्ञैस्तदीयं सुकृतं न तु ॥
ईदृशैः सुकृतैरेष तेनैव वपुषा नृपः
॥१०॥धाम प्रजापतेः प्राप्तो विमानेन कुरूद्वह ॥
बुभुजे स तदा भोगान्दुर्लभानमरैरपि
॥११॥अथ कल्पशतस्यांते व्यतीते तं महीपतिम् ॥
प्राह प्रजापतिः सेवावसरायातमात्मनः
॥१२॥ब्रह्मोवाच
इंद्रद्युम्न द्रुतं गच्छ धरापृष्ठं नृपोत्तम ॥
न स्तातव्यं मदीयेद्य लोके क्षणमपि त्वया
॥१३॥इंद्रद्युम्न उवाच
कस्माद्ब्रह्मन्नितो भूमौ मां प्रेषयसि सम्प्रति ॥
सति पुण्ये मदीये तु बहुले वद कारणम्
॥१४॥ब्रह्मोवाच
न पुण्यं केवलं राजन्गुप्तं स्वर्गस्य साधकम् ॥
विना निष्कल्मषां कीर्ति त्रिलोकीतलविस्तृताम्
॥१५॥तव कीर्तिसमुच्छेदः सांप्रतं वसुधातले ॥
संजातश्चिरकालेन गत्वा तां कुरु नूतनाम्
॥१६॥यदि वांछा महीपाल मम धामनि संस्थितौ
॥१७॥इन्द्रद्युम्न उवाच
मदीयं सुकृतं ब्रह्मन्कथं भूमौ भवेदिति ॥
किं कर्तव्यं मया नैतन्मम चेतसि तिष्ठति
॥१८॥ब्रह्मोवाच
बलवानेष भूपाल कालः कलयति स्वयम्
॥१९॥ब्रह्मांडान्यपि मां चैव गणना का भवादृशाम् ॥
तदेतदेव मन्येऽहं तव भूपाल सांप्रतम्
॥२०॥यत्कीर्तिमात्मनो व्यक्तिं नीत्वाभ्येहि पुनर्दिवम् ॥
शुश्रुवानिति वाचं स ब्रह्मणः पृथिवीपतिः
॥२१॥पश्यतिस्म तथात्मानं महीतलमुपागतम् ॥
कांपिल्यनगरे भूयः पप्रच्छात्मानमात्मना
॥२२॥नगरं स तदा देशमप्राक्षीदिति विस्मितः ॥
जना ऊचुः ॥
न जानीमो वयं भूपमिंद्रद्युम्नं न तत्पुरम्
॥२३॥यत्त्वं पृच्छसि भो भद्र कञ्चित्पृच्छ चिरायुषम् ॥
इन्द्रद्युम्न उवाच ॥
कः संप्रति धरापृष्ठे चिरायुः प्रथितो जनाः
॥२४॥पृथिवीजयराज्येस्मिन्यत्र प्रबूत मा चिरम् ॥
जना ऊचुः ॥
श्रूयते नैमिषारण्ये सप्तकल्पस्मरो मुनिः
॥२५॥मार्कंडेय इति ख्यातस्तं गत्वा पृच्छ संशयम् ॥
तथोपदिष्टस्तैर्गत्वा तत्र तं मुनिपुंगवम्
॥२६॥निशम्य प्रणिपत्याह नृपः स्वहृदयस्थितम् ॥
इंद्रद्युम्न उवाच ॥
चिरायुर्भगवान्भूमौ विश्रुतः सांप्रतं ततः
॥२७॥पृच्छाम्यहं भवान्वेत्ति इंद्रद्युम्नं नृपं न वा
॥२८॥श्रीमार्कंडेय उवाच
सप्तकल्पान्तरे नाभूत्कोपींद्रद्युम्नसंज्ञितः ॥
भूपाल किमहं वच्मि तवान्यत्पृच्छ संशयम्
॥२९॥स निराशस्तदाकर्ण्य वचो भूपोग्निसाधने ॥
समुद्योगं तदा चक्रे तं दृष्ट्वाह तदा मुनिः
॥३०॥मार्कंडेय उवाच
मा साहसमिदं कार्षीर्भद्र वाचं श्रृणुष्व मे ॥
एति जीवंतमानंदो नरं वर्षशतादपि
॥३१॥तत्करोमि प्रतीकारं तव दुःखोपशांतये ॥
श्रृणु भद्र ममास्तीह बको मित्रं चिरंतनः
॥३२॥नाडीजंघ इति ख्यातः स त्वा ज्ञास्यत्यसंशयम् ॥
तस्मादेहि द्रुतं यावदावां तत्र व्रजावहे
॥३३॥परोपकारैकफलं जीवितं हि महात्मनाम् ॥
यदि ज्ञास्यत्यसंदिग्धमिंद्रद्युम्नं स वक्ष्यति
॥३४॥तौ प्रस्थिताविति तदा विप्रेंद्रनृपपुंगवौ ॥
हिमाचलं प्रति प्रीतौ नाडीजंघालयं प्रति
॥३५॥बकोऽथ मित्रं स्वं वीक्ष्य चिरकालादुपागतम् ॥
मार्कंडेयं ययौ प्रीत्युत्कंठितः सम्मुखं द्विजैः
॥३६॥कृतसंविदभूत्पूर्वं कुशलस्वागतादिना ॥
पप्रच्छानंतरं कार्यं वदागमनकारणम्
॥३७॥मार्कंडेयोथ तं प्राह बकं प्रस्तुतमीप्सितम् ॥
इंद्रद्युम्नं भवान्वेत्ति भूपालं पृथिवीतले
॥३८॥एतस्य मम मित्रस्य तेन ज्ञातेन कारणम् ॥
नो वायं त्यजति प्राणान्पुरा वह्निप्रवेशनात्
॥३९॥एतस्य प्राणरक्षार्थं ब्रूहि जानासि चेन्नृपम्
॥४०॥नडीजंघ उवाच
चतुर्दश स्मराम्यस्मि कल्पान्विप्रेंद्र सांप्रतम् ॥
आस्तां तद्दर्शनं वार्तामपि वा न स्मराम्यहम्
॥४१॥इंद्रद्युम्नो महीपालः कोऽपि नासीन्महीतले ॥
एतावन्मात्रमेवाहं जानामि द्विजपुंगव
॥४२॥नारद उवाच
ततः स विस्मयाविष्टस्तस्यायुरिति शुश्रुवान् ॥
पप्रच्छ राजा को हेतुर्दानस्य तपसोऽथ वा ॥
यदायुरीदृशं दीर्घं संजातमिति विस्मितः
॥४३॥नाडीजंघ उवाच
घृतकंबलमाहात्म्यान्मम देवस्य शूलिनः ॥
दीर्घमायुरिदं विप्र शापाद्बकवपुः श्रृणु
॥४४॥पुरा जन्मन्यहं बालो ब्राह्मणस्याभवं भुवि ॥
पाराशर्यसगोत्रस्य विश्वरूपस्य सन्मुनेः
॥४५॥बालको बक इत्येवं प्रतीतोऽतिप्रियः पितुः ॥
चपलोऽतीव बालत्वे निसर्गादेव भद्रक
॥४६॥अथ मारकतं लिंगं देवतावसरात्पितुः ॥
चापल्याद्वालभावाच्चापहृत्य निहितं मया
॥४७॥घृतस्य कुंभे संक्रांतौ मकरस्योत्तरायणे ॥
अथ प्रातर्व्यतीतायां निशि यावत्पिता मम
॥४८॥निर्माल्यापनयं चक्रे तावच्छून्यं शिवालयम् ॥
निशम्य कांदिशीको मां पप्रच्छ मधुरस्वरम्
॥४९॥वत्स क्व नु त्वया लिंगं नूनं विनिहितं वद ॥
दास्यामि वांछितं यत्ते भक्ष्यमन्यत्तवेप्सितम्
॥५०॥ततो मया बालभावाद्भक्ष्यलुब्धेन तत्पितुः ॥
घृतकुंभांतराकृष्य भद्रलिंगं समर्पितम्
॥५१॥अथ काले तु संप्राप्ते प्रमीतोऽहं नृपालये ॥
जातो जातिस्मारस्तावदानर्ताधिपतेः सुतः
॥५२॥घृतकंबलमाहात्म्यान्मकरस्थे दिवाकरे ॥
अपि बाल्यादवज्ञानात्संयोगाद्घृतलिंगयोः
॥५३॥ततः संस्थापितं लिंगं प्राग्जन्म स्मरता मया ॥
ततः प्रभृति लिंगानि घृतेनाच्छादयाम्यहम्
॥५४॥पितृपैतामहं प्राप्य राज्यं शक्त्यनुरूपतः ॥
ततः प्रसन्नो भगवान्पार्वतीपतिराह माम्
॥५५॥पूर्वजन्मनि तुष्टोऽहं घृतकंबलपूजया ॥
प्रयच्छाम्यस्मि त राज्यमधुनाभिमतं वृणु
॥५६॥ततो मया वृतः प्रादाद्गाणपत्यं मदीप्सितम् ॥
कैलासे मां शिवो नित्यं संतुष्टः प्राह चेति च
॥५७॥तेनैव हि शरिरेण प्रणतं पुरतः स्थितम् ॥
अद्यप्रभृति संक्रांतौ मकरस्यापरोपि यः
॥५८॥घृतेन पूजां कर्तासौ भावी मम गणः स्फुटम् ॥
इत्युक्त्वा मां शिवो भद्र गणकोटीश्वरं व्यधात्
॥५९॥प्रतीपपालकंनाम संस्थितं शिवशासनम् ॥
ततः कामादिभिः षड्भिः पदैश्चंक्रमणात्मिकाम्
॥६०॥निसर्गचपलां प्राप्य भ्रमरीमिव तां श्रियम् ॥
नैवालमभवं तस्या धारणे दैवयोगतः
॥६१॥विचचार तदा मत्तः किलाहं वारणो यथा ॥
कृत्याकृत्यविचारेण विमुक्तोऽतीव गर्वितः
॥६२॥विद्यामभिजनं लक्ष्मीं प्राप्य नीचनरो यथा ॥
आपदां पात्रतामेति सिंधूनामिव सागरः
॥६३॥अथ काले व्यतिक्रांते कियन्मात्रे यदृच्छया ॥
विचरन्नगमं शैलं हिमानीरुद्धकंदरम्
॥६४॥तपस्यति मुनिस्तत्र गालवो भार्यया सह ॥
सदैव तीव्रतपसा कृशो धमनिसंततः
॥६५॥ब्राह्मणस्य हि देहोयं नैवैहिकफलप्रियः ॥
कृच्छ्राय तपसे चेह प्रेत्यानंतसुखाय च
॥६६॥तस्य भार्याऽतिरूपेण विजिग्ये विश्ववर्णिनी ॥
तन्वी श्यामा मृगाक्षी सा पीनोन्नतपयोधरा
॥६७॥हंसगद्गदसंभाषा मत्तमातंगगामिनी ॥
विस्तीर्णजघना मध्ये क्षामा दीर्घशिरोरुहा
॥६८॥निम्ननाभिर्विधात्रैषा निर्मिता संदिदृक्षुणा ॥
विकीर्णमिव सौंदर्यमेकपात्रमिव स्थितम्
॥६९॥ततोऽविनीतस्तां वीक्ष्य भद्र गालववल्लभाम् ॥
अहमासं शरव्रातैस्ताडितः पुष्पधन्विना ॥
विवेकिनोऽपि मुनयस्तावदेव विवेकिनः
॥७०॥यावन्न हरिणाक्षीणामपांगविवरेक्षिताः ॥
मया व्यवसितं चित्ते तदानीं तां जिहीर्षुणा
॥७१॥इति चेति हरिष्यामि तपसा रक्षितां मुनेः ॥
अस्याः कृते यदि शपेन्मुनिस्तत्र पराभवः
॥७२॥मम भावी भवेदेषा भार्या मृत्युरुतापि मे ॥
तस्माच्छिष्यो भवाम्यस्य शुश्रूषानिरतो मुनेः
॥७३॥प्राप्यांतरं हरिष्यामि नास्य योग्येयमंगना ॥
इति व्यवस्य विद्यार्थिमूर्तिमास्थाय गालवम्
॥७४॥नमस्कृत्य वचोऽवोचमिति भाव्यर्थनोदितः ॥
तथा मतिस्तथा मित्रं व्यवसायस्तथा नृणाम्
॥७५॥भवेदवश्यं तद्भावि यथा पुंभिः पुरा कृतम् ॥
विवेकवैराग्ययुतो भगवंस्त्वासमुपस्थितः
॥७६॥शिष्योऽहं भवता पाठ्यं कर्णधारं महामुनिम् ॥
अपारपारदं विष्णुं विप्रमूर्तिमुपाश्रितम्
॥७७॥नमस्ये चेतनं ब्रह्मा प्रत्यक्षं गालवाख्यया ॥
अविद्याकृष्णसर्पेण दष्टं तद्विषपीडितम्
॥७८॥उपदेशमहामंत्रैर्मां जांगुलिक जीवय ॥
महामोहमहा वृक्षो हृद्यावापसमुत्थितः
॥७९॥त्वद्वाक्यतीक्ष्णधारेण कुठारेण क्षयं व्रजेत् ॥
अपवर्गपथव्यापी मूढसंसर्गसेचनः
॥८०॥छिद्यतां सूत्रधारेण विद्यापरशुनाधुना ॥
भजामि तव शिष्योऽहं वरिवस्यापरश्चिरम्
॥८१॥समिद्दर्भान्मूलफलं दारूणि जलमेव च ॥
आहरिष्येऽनुगृह्णीष्व विनीतं मामुपस्थितम्
॥८२॥इत्थं पुरा बकाभिख्यं बकवृत्तिमुपाश्रितम् ॥
तदाऽऽर्जवे कृतमतिरनुजग्राह मां मुनिः
॥८३॥ततोऽतीव विनीतोऽहं भूत्वा तं ब्राह्मणीयुतम् ॥
विश्वासनाय सुदृढं तोषयामि दिनेदिने
॥८४॥स च जानन्मुनिः पत्नीं पात्रभूतामविश्वसन् ॥
स्त्रीचरित्रविदंके तां विधाय स्वपिति द्विजः
॥८५॥अथान्यस्मिन्दिने साभूद्ब्राह्मण्यथ रजस्वला ॥
तद्दूरशायिनी रात्रौ विश्वासान्मे तपस्विनी
॥८६॥इदमन्तरमित्यंतर्विचिंत्याहं प्रहर्षितः ॥
मलिम्लुचाकृतिर्भूत्वा निशीथे तामथाहरम्
॥८७॥विललाप तदा बाला ह्रियमाणा मयोच्चकैः ॥
मैवं मैवमिति ज्ञात्वा मां स्वरेणाब्रवीन्मुनिम्
॥८८॥बकवृत्तिरयं दुष्टो धर्मकंचुकमाश्रितः ॥
हरते मां दुराचारस्तस्मात्त्वं त्राहि गालव
॥८९॥तव शिष्यः पुरा भूत्वा कोप्वेषोद्य मलिम्लुचः ॥
मां जिहीर्षति तद्रक्ष शरण्य शरणं भव
॥९०॥तद्वाक्यसमकालं स प्रबुद्धो गालवो मुनिः ॥
तिष्ठतिष्ठेति मामुक्त्वा गतिस्तम्भं व्यधान्मम
॥९१॥ततश्चित्राकृतिरहं स्तम्भितो मुनिनाऽभवम् ॥
व्रीडितं प्रविशामीव स्वांगानि किल लज्जया
॥९२॥ततः प्रकुपितः प्राह मामभ्येत्याथ गालवः ॥
तद्वज्रदुःसहं वाक्यं येनाहमभवं बकः
॥९३॥गालव उवाच
बकवृत्तिमुपाश्रित्य वंचितोऽहं यतस्त्वया ॥
तस्माद्बकस्त्वं भविता चिरकालं नराधम
॥९४॥इति शप्तोऽहमभवं मुनिनाऽधर्ममाश्रितः ॥
परदारोपसेवार्थमनर्थमिममागतः
॥९५॥न हीदृशमनायुष्यं लोके किंचन विद्यते ॥
यादृशं पुरुषस्येह परदारोपसेवनम्
॥९६॥ततः सती सा मत्स्पर्शदूषितांगी तपस्विनी ॥
मया विमुक्ता स्नात्वा मां तथैवानुशशाप ह
॥९७॥एवं ताभ्यामहं शप्तो ह्यश्वत्थपर्णवद्भयात् ॥
कंपमानः प्रणम्योभाववोचं तत्र दम्पती
॥९८॥गणोऽहमीश्वरस्यैव दुर्विनीततरो युवाम् ॥
निरोधमेवं कुरुतं भगवंतावनुग्रहम्
॥९९॥वाचि क्षुरो नावनीतं हृदयं हि द्विजन्मनाम् ॥
प्रकुप्यंति प्रसीदंति क्षणेनापि प्रसादिताः
॥१००॥त्वयि विप्रतिपन्नस्य त्वमेव शरणं मम ॥
भूमौ स्खलितपादानां भूमिरेवावलंबनम्
॥१०१॥गणाधिपत्यमपि मे जातं परिभवास्पदम् ॥
विषदंता हि जायन्ते दुर्विनीतस्य सम्पदः
॥१०२॥विदुरेष्यद्धियाऽपायं परतोऽन्ये विवेकिनः ॥
नैवोभयं विदुर्नीचा विनाऽनुभवमात्मनः
॥१०३॥दुर्वीनीतः श्रियं प्राप्य विद्यामैश्वर्यमेव वा ॥
न तिष्ठति चिरं स्थाने यथाहं मदगर्वितः
॥१०४॥विद्यामदो धनमदस्तृतीयोऽभिजनो मदः ॥
एते मदा मदांधानामेत एव सतां दमाः
॥१०५॥नोदर्कशालिनी बुद्धिर्येषामविजितात्मनाम् ॥
तैः श्रियश्चपला वाच्यं नीयंते मादृशैर्जनैः
॥१०६॥तत्प्रसीद मुनिश्रेष्ठ शापांतं मेऽधुना कुरु ॥
दुर्विनीतेष्वपि सदा क्षमाचारा हि साधवः
॥१०७॥इत्थं वचसि विज्ञप्ते विनीतेनापि वै मया ॥
प्रसादप्रवणो भूत्वा शापांतं मे तदा व्यधात्
॥१०८॥गालव उवाच
छन्नकीर्तिसमुद्धारसहायस्त्वं भविष्यसि ॥
यदेन्द्रद्युम्नभूपस्य तदा मोक्षमवाप्स्यसि
॥१०९॥इत्यहं मुनिशापेन तदाप्रभृति पर्वते ॥
हिमाचले बको भूत्वा काश्यपेयो वसामि च
॥११०॥राज्यं चिरायुरिति मे घृतकम्बलस्य जातिस्मरत्वमधुनापि तथानु भावान् ॥
शापाद्बकत्वमभवन्मुनिगालवस्य तद्भद्र सर्वमुदितं भवताद्य पृष्टम्
॥१११॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखंडे महीप्रादुर्भावे सप्तमोऽध्यायः ॥ ७ ॥