कोटितीर्थमाहात्म्यवर्णनम्
अर्जुन उवाच
कोटितीर्थं कथं जातं केन वा निर्मितं मुने ॥
कस्माद्वा कोटितीर्थानां फलमत्रोच्यते मुने
॥१॥नारद उवाच
यदा मे स्थापितं स्थानं प्रसाद्याथ मया प्रभुः ॥
ब्रह्मलोकात्समानीतः साक्षाद्ब्रह्मा पितामहः
॥२॥ततो मध्याह्नसमये स्नानार्थे भगवान्विधिः ॥
सस्मार कोटितीर्थानां स्मृतान्यत्रागतानि च
॥३॥स्वर्गात्त्रिदशलक्षाणि सप्ततिश्च महीतलात् ॥
पातालाद्विंशलक्षाणि स्मृतान्यभ्यागतानि च
॥४॥अनेन प्रविभागेन लिंगान्यपि कुरूद्वह ॥
आयातानि यथा पूजां विदधाति पितामहः
॥५॥ततोऽभिषेचनं कृत्वा लिंगान्यभ्यर्च्य पद्मभूः ॥
मध्याह्नकृत्यं संसाध्य मम प्रेम्णा वरं ददौ
॥६॥ततो भगवता ह्यत्र मनसा निर्मितं सरः ॥
भगवानर्चितस्तीर्थैरिदमूचे प्रजापतिः
॥७॥किं कुर्म भगवन्धातरादेशं देहि नः प्रभो ॥
तेषां तद्वचनं श्रुत्वा ब्रह्मा प्राह प्रजापतिः
॥८॥एतस्मिन्सरसि स्थेयं तीर्थैः सर्वैरथात्र च ॥
एकस्मिंश्च तथा लिंगे सर्वलिंगैर्ममार्चनात्
॥९॥कोटीनामेव तीर्थानां लिंगानां स्नानपूजया ॥
दानेन च फलं त्वत्र यदि सत्यं वचो मम
॥१०॥यः श्राद्धं कुरुते चात्र पिंडदानं यथाविधि ॥
पितॄणामक्षया तृप्तिर्जायते नात्र संशयः
॥११॥स्नात्वा योऽभ्यर्चयेद्देवं कोटीश्वरमनन्यधीः ॥
कोटिलिंगार्चनफलं व्यक्तं तस्योपजायते
॥१२॥त्रैलोक्ये यानि तीर्थानि गंगाद्याः सरितस्तथा ॥
तेषां स फलमाप्नोति कोटितीर्थावगाहनात्
॥१३॥एवं दत्त्वा वरं ब्रह्मा ब्रह्मलोकं ययौ प्रभुः ॥
कोटितीर्थं च संजातं ततः प्रभृति विश्रुतम्
॥१४॥अस्य तीरे पुरा पार्थ ब्रह्माद्यैर्देवसत्तमैः ॥
यज्ञान्बहुविधान्कृत्वा ततः सिद्धिं परां ययुः
॥१५॥वसिष्ठाद्यैर्मुनिवरैस्तपश्चीर्णं पुरानघ ॥
मनसोऽभीप्सितान्कामान्प्रापुरन्ये तपोधनाः
॥१६॥अत्र तीर्थे पुरा पार्थ अत्रिणा विहितं तपः ॥
कोटितीर्थाद्दक्षिणतः स्थापितं लिंगमुत्तमम्
॥१७॥अत्रीश्वराभिसंज्ञं तु महापापहरं परम् ॥
स्थापयित्वा च तल्लिंगमग्रे चक्रे सरोवरम्
॥१८॥तत्र स्नात्वा च यो मर्त्यः श्राद्धं कुर्यात्प्रयत्नतः ॥
अत्रीश्वरं समभ्यर्च्य रुद्रलोके वसेच्चिरम्
॥१९॥भरद्वाजेन मुनिना कोटितीर्थे सरोवरे ॥
तपश्चीर्णं महाबाहो यज्ञाश्च विहिताः किल
॥२०॥भरद्वाजेश्वरं लिंगं स्थापितं सुमनोहरम् ॥
तत्र कृत्वा सरो रम्यं परां मुदमवाप्तवान्
॥२१॥तत्र स्नात्वा नरो भक्त्या श्राद्धं कुर्याद्विधानतः ॥
भरद्वाजेश्वरं पूज्य शिवलोके महीयते
॥२२॥ततश्च कोटितीर्थेऽस्मिन्गौतमो भगवानृषिः ॥
अतप्यत तपो घोरमहल्यासंगमाशया
॥२३॥तं कामं प्राप्तवान्धीमान्परां मुदमुपागतः ॥
अहल्यया समायोगमेतत्तीर्थप्रभावतः
॥२४॥अस्मिन्क्षेत्रे महालिंगं गौतमेश्वरसंज्ञितम् ॥
स्थापयामास भगवानहल्यासरसस्तटे
॥२५॥अर्जुन उवाच
अहल्यया कदा ब्रह्मन्खानितं वै महत्सरः ॥
तन्मम ब्रूहि सकलमहल्यासरःकारणम्
॥२६॥नारद उवाच
अहल्या शापमापन्ना गौतमात्किल फाल्गुन ॥
पुरा चेंद्रसमायोगे परं दुःखमुपागता
॥२७॥ततो दुःखार्तः स मुनिः कोटितीर्थेऽकरोत्तपः ॥
तपसा तेन वै पार्थाहल्यया सह संगतः
॥२८॥ततः साध्वी परं हृष्टा अत्र क्षेत्रे सरोवरम् ॥
चकार सुमहत्पुण्यं तीर्थोदैः परिपूरितम्
॥२९॥अहल्यासरसि स्नानं पिंडदानं समाचरेत् ॥
गौतमेशं च संपूज्य ब्रह्मलोकं स गच्छति
॥३०॥कोटितीर्थे नरश्रेष्ठ अनेके मुनयोऽमलाः ॥
तपस्तप्त्वा सुघोरं च परां सिद्धिमपागताः
॥३१॥राजभिर्बहुभिः पूर्वं तपो दानं तथाध्वराः ॥
अस्मिंस्तीर्थे सुविहिताः परां सिद्धिमुपागताः
॥३२॥अस्य तीरे द्विजं चैकं मृष्टान्नैर्यश्च तर्पयेत् ॥
तेन श्रद्धासहायेन कोटिर्भवति तर्पिता
॥३३॥अस्य तीरे नरः पार्थ रत्नानि विविधानि च ॥
गोभूमितिलधान्यानि वासांसि विविधानि च
॥३४॥श्रद्धया परया पार्थ द्विजेभ्यः संप्रयच्छति ॥
शतकोटिगुणं पुण्यं कोटितीर्थप्रभावतः ॥
कोटितीर्थे प्रतिश्रुत्य द्विजेभ्यो न प्रयच्छति
॥३५॥नरके पातयित्वा च कुलमेकोत्तरं शतम् ॥
आत्मानं पातयेत्पश्चाद्दारुणं रौरवं महत्
॥३६॥माघमासे तु संप्राप्ते प्रातःकाले तथाऽमले ॥
यः स्नाति मकरादित्ये तस्य पुण्यं शृणुष्व मे
॥३७॥सर्वतीर्थेषु यत्पुण्यं सर्वयज्ञेषु यत्फलम् ॥
सर्वदानव्रतैर्यच्च कोटि तीर्थे दिनेदिने
॥३८॥तत्पुण्यं लभते मर्त्यो नात्र कार्या विचारणा ॥
कन्यागते सवितरि यः श्राद्धं कुरुते नरः
॥३९॥पितरस्तस्य तुष्यंति गयाश्राद्धशतैर्न तु ॥
कार्तिके मासि संप्राप्ते स्नानादि कुरुते यदि
॥४०॥तदक्षयफलं सर्वं ब्रह्मणो वचनं यथा ॥
इष्ट्वात्र यज्ञमेकं तु कोटियज्ञफलं लभेत्
॥४१॥कन्यां ब्राह्मेण विधिना दत्त्वा कोटिगुणं फलम् ॥
सर्वदानं कोटिगुणं कोटितीर्थे भवेद्यतः
॥४२॥कोटि तीर्थे त्यजेत्प्राणान्हृदि कृत्वा तु माधवम् ॥
तस्य पार्थ चिरं स्वर्गे ह्यक्षया शाश्वती गतिः
॥४३॥कोटितीर्थे तीर्थवरे देहत्यागं करोति यः ॥
तस्य पूजां प्रकुर्वंति ब्रह्माद्या देवतागणाः
॥४४॥अस्य तीरे देहदाहो यस्य कस्य प्रजायते ॥
अस्थिक्षेपो यस्य भवेन्महीसागरसंगमे
॥४५॥तत्फलं गदितुं पार्थ वागीशोऽपि न वै क्षमः ॥
एतज्ज्ञात्वा परं पार्थ कोटितीर्थं प्रसेवते
॥४६॥दिनेदिने फलं तस्य कापिलं गोसहस्रकम् ॥
स्वर्गे मर्त्ये च पाताले तस्मादेतत्सुदुर्लभम्
॥४७॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे कोटितीर्थमाहात्म्यवर्णनंनाम द्विपञ्चाशत्तमोऽध्यायः ॥ ५२ ॥