बर्बरीकोत्पत्तिवर्णनम्
सूत उवाच
सोऽथ प्राग्ज्योतिषाद्बाह्ये महोपवनसंस्थितम् ॥
सहस्रभूमिकं गेहमपश्यत हिरण्मयम्
॥१॥वेणुवीणामृदंगानां निःस्वनैः परिपूरितम् ॥
दशसाहस्रसंख्याभिश्चेटीभिः परिपूरितम्
॥२॥आयाद्भिः प्रतियाद्भिश्च भगदत्तस्य किंकरैः ॥
किमिच्छन्तीति भगिनी पृच्छकैरभिपूरितम्
॥३॥तदासाद्य स हैडंबिर्मेरोः शिखरवद्ग्रहम् ॥
द्वारि स्थितां संददर्श कर्णप्रावरणां सखीम्
॥४॥तामाह ललितं वीरो भद्रे सा क्व मुरोः सुता ॥
कामुको द्रष्टुमिच्छामि दूरदेशागतोऽतिथिः
॥५॥कर्णप्रावरणोवाच
किं तवास्ति महाबाहो तया मौर्व्या प्रयोजनम् ॥
कोटिशो निहताः पूर्वं तया कामुक कामुकाः
॥६॥तव रूपमहं दृष्ट्वा घटहासं सदोत्कचम् ॥
प्रणम्य पादयोर्वीर स्थिता ते वचनंकरी
॥७॥तन्मया सह मोदस्व भुंक्ष्व भोगांश्च कामुक ॥
दास्याम्यनुचराणां ते त्रयाणां च प्रियात्रयम्
॥८॥घटोत्कच उवाच
कल्याणि किंवदंती ते प्रमुक्ता स्वोचिता शुभे ॥
पुनर्नैतद्वचस्तुभ्यं विशते मम चेतसि
॥९॥वामः कामो यतो भद्रे यस्मिन्नुपनिबद्ध्यते ॥
स चात्र नैव बध्नाति तद्वयं कि प्रकुर्महे
॥१०॥अद्य ते स्वामिनी दृष्टा जिता वा क्रीडते मया ॥
तया वा विजितो यास्ये पूर्वेषां कामिनां गतिम्
॥११॥कर्णप्रावरणे तस्माच्छीघ्रमेव निवेद्यताम् ॥
यथा दर्शनमात्रेण पूजयंत्यतिथिं खलु
॥१२॥इति भैमेर्वचः श्रुत्वा प्रस्खलंती निशाचरी ॥
प्रासादशिखरस्थां तां मौर्वीमेवं वचोवदत्
॥१३॥देवि कोऽपि युवा श्रीमांस्त्रैलोक्येष्वमितप्रभः ॥
कामातिथिस्तव द्वारि वर्तते दिश तत्परम्
॥१४॥कामकटंकटोवाच
मुच्यतां शीघ्रमेवासौ किमर्थं वा विलंबसे ॥
कदाचिद्देवसंगत्या समयो मेऽभिपूर्यते
॥१५॥इत्युक्तवचनाच्चेटी प्राप्यावोचद्घटोत्कचम् ॥
व्रज शीघ्रं कामुक त्वं तस्या मृत्योश्च सन्निधौ
॥१६॥इत्युक्तः स प्रहस्यैव तत्रोत्सृज्य स्वकानुगान् ॥
प्रविवेश गृहं भैमिः सिंहो मेरुगुहामिव
॥१७॥स पश्यञ्छुकसंघातान्पारावतगणांस्तथा ॥
सारिकाश्च मदोन्मत्ताश्चेटीस्तां चाप्यपश्यत
॥१८॥रूपेण वयसः चैव रतेरपि रतिंकरीम् ॥
आंदोलकसुखासीनां सर्वाभरणभूषिताम्
॥१९॥तां विद्युतमिवोन्नद्धां दृष्ट्वा भैमिरचिंतयत ॥
अहो कृष्णेन पित्रा मे निर्दिष्टेयं ममोचिता
॥२०॥न्याय्यमेतत्कृते पूर्वं नष्टा यत्कामिनां गणाः ॥
शरीरक्षयपर्याप्तं क्षीयते यदि कामिनाम्
॥२१॥कामिनीनां कृते येषां क्षीयते गणनात्र का ॥
एवं बहुविधं कामी चिंतयन्नाह भीमभूः
॥२२॥निष्ठुरे वज्रहृदये प्राप्तोऽहमतिथिस्तव ॥
उचितां तत्सतां पूजां कुरु या ते हृदि स्थिता
॥२३॥इति हैडंबिवचनं श्रुत्वा कामकटंकटा ॥
विस्मिताभूत्तस्य रूपात्स्वं निनिंद च बालिशम्
॥२४॥धिगहं यन्मया पूर्वं समयः स कृतोऽभवत् ॥
न कृतोऽभूद्यदि पुरा अभविष्यदसौ पतिः
॥२५॥इति संचिन्तयन्ती सा भैमिं वचनमब्रवीत् ॥
वृथा त्वमागतो भद्र जीवन्याहि पुनः सुखी
॥२६॥अथ कामयसे मां त्वं तत्कथां शीघ्रमुच्चर ॥
कथामाभाष्य यदि मां सन्देहे पातयिष्यसि ॥
ततोऽहं वशगा जाता हतो वा स्वप्स्यसे मया
॥२७॥सूत उवाच
इत्युक्तवचनामेतां नेत्रोपांतेन वीक्ष्य सः
॥२८॥स्मृत्वा चराचरगुरुं कृष्णमारब्धवान्कथाम् ॥
कस्यांचिदभवत्पत्न्यां युवा कोऽप्यजितेद्रियः
॥२९॥तस्य चैका सुता जज्ञे भार्या तस्य मृताऽभवत् ॥
ततो बालकिकां पुत्रीं ररक्ष च पुपोष च
॥३०॥सा यदाभूद्यौवनगा व्यंजितावयवा शुभा ॥
प्रोल्लसत्कुचमध्यांगी प्रोल्लसन्मुखपंकजा
॥३१॥तदास्य कामलुलितमालानं प्रजहौ मनः ॥
प्रोवाच तां च तनयां समालिंग्य दुराशयः
॥३२॥प्रातिवेश्मकपुत्री त्वं मयानीयात्र पोषिता ॥
भार्यार्थं सुचिरं कालं तत्कार्यं साधय प्रिये
॥३३॥इत्युक्ता सा च मेने च तत्तथैव वचस्तदा ॥
पतित्वेन च भेजे तं भार्यात्वेन स तां तथा
॥३४॥ततस्तस्यां सुता जज्ञे तस्मान्मदनरासभात् ॥
वद सा तस्य भवति किं दौहित्री सुताऽथवा ॥
एनं प्रश्नं मम ब्रूहि शीघ्रं चेच्छक्तिरस्ति ते
॥३५॥सूत उवाच
इति प्रश्नं सा च श्रुत्वा चिंतयद्बहुधा हृदि
॥३६॥न च पश्यति निर्द्धारं प्रश्नस्यास्य कथंचन ॥
ततः प्रश्नेन विजिता स्वां शक्तिं समुपाददे
॥३७॥अताडयद्रुक्मरज्जुं कराभ्यां दोलकस्य च ॥
ततो रक्षांसि निष्पेतुः कोटिशो भीषणान्यति
॥३८॥सिंहव्याघ्रवराहाश्च महिषाश्चित्रका मृगाः ॥
समीक्ष्य तानसंख्येयान्खादितुं धावतो रुषा
॥३९॥अवादयन्नखौ भैमिः कनिष्ठांगुष्ठजौ हसन् ॥
ततो विनिःसृतास्तत्र द्विगुणा राक्षसादयः
॥४०॥तैर्मौर्वीनिर्मिताः सर्वे क्षणादेव स्म भक्षिताः ॥
विजितायां स्वशक्तौ च बलशक्तिमथाददे
॥४१॥उत्थाय सहसा दोलात्खड्गमादातुमैच्छत ॥
उत्तिष्ठंतीं च तां भैमिरनुसृत्य जवादिव
॥४२॥केशेष्वादाय सव्येन पाणिनाऽपातयद्भुवि ॥
ततः कंठे सव्यपादं दत्त्वादाय च कर्तिकाम्
॥४३॥दक्षिणेन करेणास्याश्छेत्तुमैच्छत नासिकाम् ॥
विस्फुरंती ततो मौर्वी मंदमाह घटोत्कचम्
॥४४॥प्रश्नेन शक्त्या च बलेन नाथ त्रिधा त्वयाहं विजिता नमस्ते ॥
तन्मुंच मां कर्मकरी तवास्मि समादिश त्वं प्रकरोमि तच्च
॥४५॥घटोत्कच उवाच
यद्येवं तर्हि मुक्तासि भूयो दर्शय यद्बलम् ॥
एवमुक्त्वा मुमोचैनां मुक्ता चाह प्रणम्य सा
॥४६॥जानामि त्वां महाबाहो वीरं शक्तिमतां वरम् ॥
सर्वराक्षसभर्तारं त्रैलोक्येऽमितविक्रमम्
॥४७॥गुह्यकाधिपतिस्त्वं हि कालनाभ इति स्मृतः ॥
षष्टिकोटिपतिर्जातो यक्षरक्षाकृते भुवि
॥४८॥इति मां प्राह कामाख्या सर्वं तत्संस्मराम्यहम् ॥
इदं गेहं सानुगं मे दत्तं मयात्मना तव
॥४९॥समादिश प्राणनाथ कमादेशं करोमि ते ॥
घटोत्कच उवाच ॥
प्रच्छन्नस्तस्य घटते न विवाहः कथंचन
॥५०॥मोर्वि यस्य हि वर्तंते पितरौ बांधवास्तथा ॥
तन्मां शीघ्रं वह शुभे शक्रप्रस्थाय संप्रति
॥५१॥अयं कुलक्रमोऽस्माकं यद्भार्या पतिमुद्वहेत् ॥
तत्रानुज्ञां समासाद्य परिणेष्यामि त्वामहम्
॥५२॥भगदत्तमथो नाथं ततो मौर्वी न्यवेदयत् ॥
समादाय बहुद्रव्यं विससर्जाथ भ्रातरम्
॥५३॥ततः पृष्ठिं समारोप्य घटोत्कचमनिंदिता ॥
नानाद्रव्यपरीवारा शक्रप्रस्थं समाव्रजत्
॥५४॥ततोऽसौ वासुदेवेन पांडवैश्चाभिनंदितः ॥
शुभे लग्ने पाणिमस्या जगृहे भीमनंदनः
॥५५॥कुरूणां राक्षसानां च प्रोक्तोत्तमविधानतः ॥
उद्वाह्य तां तद्धनैश्च तर्पयामास पांडवान्
॥५६॥कुंती च द्रौपदी चोभे मुमुदाते नितांततः ॥
मंगलान्यस्य चक्राते मौर्व्याश्च धन तर्पिते
॥५७॥ततो विवाहे निर्वृत्ते प्रतिपूज्य घटोत्कचम् ॥
भार्यया सहितं राजा स्वराज्याय समादिशत्
॥५८॥मौर्व्याऽऽज्ञां शिरसा गृह्य हैडंबिर्भार्ययान्वितः ॥
शुभं हिडम्बस्य वने स्वराज्यं समुपाव्रजत्
॥५९॥ततो राक्षसयोषाभिर्वीरकांस्यैः प्रवर्धितः ॥
महोत्सवेन महता स्वराज्ये प्रमुमोद सः
॥६०॥ततो वनेषु चित्रेषु निम्नगापुलिनेषु च ॥
रेमे सह तया भैमिर्मंदोदर्येव रावणः
॥६१॥एवं विक्रीडतस्तस्य गर्भो जज्ञे महाद्युतेः ॥
हेडंबै राक्षसव्याघ्राद्बालसूर्यसमप्रभः
॥६२॥स जातमात्रो ववृधे क्षणाद्यौवनगोऽभवत् ॥
नीलमेघचयप्रख्यो घटास्यो दीर्घलोचनः
॥६३॥ऊर्ध्वकेशश्चोर्ध्वरोमा पितरौ प्रणतोऽब्रवीत् ॥
प्रणमामि युवां चोभौ जातस्य पितरौ गुरू
॥६४॥भवतोर्हि प्रियं कृत्वा अनृणः स्यां सदा ह्यहम् ॥
भवद्भ्यां दत्तमिच्छामि अभिधानं यथात्मनः
॥६५॥अतः परं तु यच्छ्रेयं कर्तव्यं प्रोन्नतिप्रदम् ॥
ततो भेमिस्तमालिंग्य पुत्रं वचनमब्रवीत्
॥६६॥बर्बराकारकेशत्वाद्बर्बरीकाभिधो भवान् ॥
भविष्यति महाबाहो कुलस्यानन्दवर्धनः
॥६७॥श्रेयश्च ते यत्परमं दृढं च तत्कीर्त्यते बहुधा विप्र मुख्यैः ॥
प्रक्ष्यावहे तद्यदुवंशनाथं गत्वा पुरीं द्वारकां वासुदेवम्
॥६८॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखंडे बर्बरीकोत्पत्तिवर्णनंनाम षष्टितमोऽध्यायः ॥ ६० ॥