मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — कौमारिकाखण्डः, अध्याय ४०

3
माहेश्वरखण्डः · कौमारिकाखण्डः · 40

चतुर्युगव्यवस्थावर्णनम्

अर्जुन उवाच

महाकालस्त्वसौ कश्च कथं सिद्धिमुपागतः ॥

अस्मिंस्तीर्थे मुनिश्रेष्ठ महदाश्चर्य मत्र मे

॥१॥

सर्वमेतत्समाख्याहि श्रद्दधानाय पृच्छते

॥२॥

नारद उवाच

नमस्कृत्य महाकालं वरदं स्थाणुमव्ययम् ॥

शक्तितश्चरितं तस्य वक्ष्ये पांडुकुलोद्वह

॥३॥

वाराणस्यां पुरि पुरा बभूव जपतां वरः ॥

रुद्रजापी महाभागो मांटिर्नाम महायशाः

॥४॥

तस्यापुत्रस्य पुत्रार्थे रुद्रान्संजपतः किल ॥

गतं वर्षशतं तुष्टस्ततस्तं प्राह शंकरः

॥५॥

मांटे तव सुतो धीमान्मत्प्रभावपराक्रमः ॥

वंशस्य तव सर्वस्य समुद्धर्ता भविष्यति

॥६॥

इति श्रुत्वा रुद्रवचो मांटिर्हर्षं परं गतः ॥

ततः काले कियन्मात्रे पत्नी मांटेर्महात्मनः

॥७॥

दधार गर्भं चटिका तपोमूर्तिधरा यथा ॥

तस्य गर्भस्य वर्षाणि चत्वारि किल संययुः

॥८॥

न पुनर्मातुरुदरंत्यक्त्वा निर्गच्छते बहिः ॥

ततो मांटिरुपामंत्र्य सामभिस्तमवोचत

॥९॥

वत्स सामान्यपुत्रोऽपि पित्रोः सुखकरः सदा ॥

शुद्धायां मातरि भवो मत्तः किं पीडयस्यलम्

॥१०॥

वत्स मानुष्यवासस्य स्पृहा तुभ्यं कथं न हि ॥

यत्र धर्मार्थकामानां मोक्षस्यापि च संततिः

॥११॥

कदा मनुष्या जायेम पूजा यत्र महाफला ॥

पितॄणां देवतानां च नानाधर्माश्च यत्र हि

॥१२॥

इति भूतानि शोचंति नानायोनिगतान्यपि ॥

तत्त्वं मानुष्यमतुलं स्पृहणीयं दिवौकसाम् ॥

अनादृत्य कथं ब्रूहि स्थितश्चोदर एव च

॥१३॥

गर्भ उवाच

तात जानाम्यहं सर्वमेतत्परम दुर्लभम् ॥

किं तु बिभेमि चातिमात्रं कालमार्गस्य नित्यशः

॥१४॥

द्वौ मार्गौ किल वेदेषु प्रोक्तौ कालोऽर्चिरेव च ॥

अर्चिषा मोक्षमायांति कालमार्गेण कर्मणि

॥१५॥

स्वर्गे वा नरके वापि कालमार्गगतो ह्ययम् ॥

न शर्म लभते क्वापि व्याधविद्धमृगो यथा

॥१६॥

तस्यैव हेतोः प्रयतेत्कोविदो यन्न दुःखवित् ॥

कालेन घोररूपेण गंभीरेण समाहितः

॥१७॥

तच्चेन्मम मनस्तात नानादोषैर्न मोह्यते ॥

ततोऽहं दुर्लभं जन्म मानुष्यं शीघ्रमाप्नुयाम्

॥१८॥

ततस्तस्य पिता पार्थ कांदिशीको महेश्वरम् ॥

जगाम शरणं देवं त्राहित्राहि महेश्वर

॥१९॥

त्वां विना कोऽपरो देव पुत्रस्याभीष्टदोऽस्ति मे ॥

त्वयैव दत्तस्त्वं चामुं जन्म प्रापय मे सुतम्

॥२०॥

ततस्तस्यातिभक्त्यासौ प्राह तुष्टो महेश्वरः ॥

विभूतीः स्वा धर्मज्ञानवैराग्यैश्वर्यमेव च

॥२१॥

विपरीतश्च शीघ्रं भो मांटिपुत्रः प्रबोध्यताम् ॥

ततस्ता द्योतयंत्यश्च विभूत्यो गर्भमूचिंरे

॥२२॥

महामते मांटिपुत्र न धार्यं ते भयं हृदि ॥

चत्वारस्त्वां हि धर्माद्या मनस्त्यक्ष्यामहे न ते

॥२३॥

ततोऽपरास्त्वधर्माद्याः प्रोचुर्नैव तथा वयम् ॥

भविष्यामो मनस्तुभ्यमस्मत्तव भयं न हि

॥२४॥

इत्युक्ते स विभूतीभिः शीघ्रमेव कुमारकः ॥

निःससार बहिर्जातश्चकंपेति रुरोद च

॥२५॥

ततो विभूतयः प्राहुर्मांटे तव सुतस्त्वसौ ॥

अद्यापि कालमार्गस्य भीतः कम्पति रोदिति

॥२६॥

कालभीतिरिति ख्यातस्तस्मादेष भविष्यति ॥

इति दत्त्वा वरं ताश्च महादेवांतिकं ययुः

॥२७॥

सोऽपि बालः प्रववृधे शुक्लपक्ष इवोडुपः ॥

संस्कृतः स च संस्कारैर्धीमान्पशुपतिव्रती

॥२८॥

पंचमंत्राञ्जपञ्छुद्धस्तीर्थयात्रापरोऽभवत् ॥

रुद्रक्षेत्रेषु सस्नौ स जपन्मन्त्रांश्च भारत

॥२९॥

कालभीतिगुप्तक्षेत्रगुणाञ्छ्रुत्वाभ्युपाययौ ॥

स्नात्वा ततो महीतोये जप्त्वा मन्त्रांश्च कोटिशः

॥३०॥

निवृत्तो नातिदूरेथ बिल्ववृक्षं ददर्श सः ॥

दृष्ट्वा तं तस्य चाधस्तल्लक्षमेकं जजाप सः

॥३१॥

जपतस्तस्य विप्रस्य इंद्रियाणि लयं ययुः ॥

केवलं परमानंदस्वरूपोऽसावभूत्क्षणात्

॥३२॥

तस्यानंदस्य नौपम्यं स्वर्गादीनां भवेत्क्वचित् ॥

गंगोदकस्येव मानं केवलं सोऽप्यसावपि

॥३३॥

तत्र लीनो मुहुर्तेन पुनश्चाभूद्यथा पुरा ॥

ततो विसिष्मिये पार्थ कालभीतिरुवाच ह

॥३४॥

नायं मम महानन्दो वाराणस्यां न नमिषे ॥

न प्रभासे न केदारे न चाप्यमरकण्टके

॥३५॥

श्रीपर्वते न चान्यत्र यादृशोद्यप्रवर्त्तते ॥

निर्विकाराणि स्वच्छानि गंगांबांसीवखानि मे

॥३६॥

भूतेषु परमा प्रीतिस्त्रिजगद्द्योतते स्फुटम् ॥

धर्ममेकं परं मह्यं चेतश्चाप्यवगच्छति

॥३७॥

अहो स्थानप्रभावोऽयं स्फुटं चाप्यत्र प्रोच्यते ॥

निर्दोषं यच्छुचि स्तान सर्वोपद्रववर्जितम्

॥३८॥

तत्र स्थितस्य धर्मार्थस्तद्वद्भूयात्सहस्रधा ॥

तदस्माच्च प्रभावाद्धि जानामीतः स्वचेतसि

॥३९॥

विशिष्टं काशिमुख्येभ्यस्तीर्थेभ्यः स्थानकं त्विदम् ॥

तस्मादत्रैव संस्थोहं तपस्तप्स्यामि पुष्कलम्

॥४०॥

इदं चेदं तीर्थमिति सदा यस्तृषितश्चरेत् ॥

न स सिद्धिमवाप्नोति क्लेशेनैव म्रियेत सः

॥४१॥

इति संचिंत्य बिल्वस्य वृक्षस्याधो व्यवस्थितः ॥

जजाप मन्त्रान्रुद्रस्य अंगुष्ठाग्रेण धिष्ठितः

॥४२॥

गृहीत्वा नियमं तोयबिंदुं वर्षशतेऽग्निवत् ॥

ततो वर्षशते याते जपतस्तस्य भारत

॥४३॥

कश्चित्तोयभृतं कुम्भं गृहीत्वा नर आव्रजत् ॥

सतं प्रणम्य प्राहेदं कालभीतिं प्रहर्षतः

॥४४॥

अद्य ते नियमः पूर्णस्तोयमेतन्महामते ॥

गृहाण सफलं मह्यं श्रमं कर्तुमिहार्हसि

॥४५॥

कालभीतिरुवाच

को भवान्वर्णतो ब्रूहि किमाचारश्च तत्त्वतः ॥

जन्माचारौ विदित्वा ते ग्रहीष्याम्यन्यथा न हि

॥४६॥

नर उवाच

न जाने पितरौ स्वीयौ नष्टौ वा सर्वथा न हि ॥

एवमेवापि पश्यामि सर्वदाऽहं स एव च

॥४७॥

आचारैश्चापि धर्मैश्च न कार्यं मम किंचन ॥

तस्माद्वक्ष्यामि नाप्येतन्न चाप्यस्मि समाचरे

॥४८॥

कालभीतिरुवाच

यद्येवं नोदकं तुभ्यं ग्रहीष्याम्यस्मि कर्हिचित् ॥

श्रृणुष्वात्र वचो यन्मे गुरुराह श्रुतीरितम्

॥४९॥

न ज्ञायते कुलं यस्य बीजशुद्धिं विना ततः ॥

तस्य खादन्पिबन्वापि साधुः सीदति तत्क्षणात्

॥५०॥

यश्च रुद्रं न जानाति रुद्रभक्तश्च यो नहि ॥

अन्नोदकं तस्य भुञ्जन्पातकी स्यान्न संशयः

॥५१॥

अज्ञात्वा यः शिवं भुंक्ते कथ्यते सोऽत्र ब्रह्महा ॥

मार्ष्टि च ब्रह्महान्नादे तस्मात्तस्य न भक्षयेत्

॥५२॥

गंगोदकुम्भः स्याद्यद्वत्तन्मध्ये मद्यबिंदुना ॥

अशिवज्ञस्य यो भुंक्ते शिवज्ञोऽपि तथैव सः

॥५३॥

हीनवर्णश्च यः स्याद्धि शिवभक्तोऽपि नैव सः ॥

प्रतिगृह्यौ गुणौ तस्माद्विलोक्यौ द्वौ प्रतिग्रहे

॥५४॥

नर उवाच

एतेन तव वाक्येन हास्यं संजायते मम ॥

अहो मुग्धोऽसि मिथ्या त्वमपस्मारी जडोऽपि च

॥५५॥

सदा सर्वेषु भूतेषु शिवो वसति नित्यशः ॥

साध्वसाधु ततो वाक्यं नैव निन्दा शिवस्य सा

॥५६॥

आत्मनश्च परस्यापि यः करोत्यंतरो हरम् ॥

तस्य भिन्नदृशो मृत्युर्विदधे भयमुल्बणम्

॥५७॥

अथवा का हि पानीये भवेदशुचिता वद ॥

मृत्तिकोद्भवकुम्भोऽयं पावकेनापि पाचितः

॥५८॥

पूर्णश्च पयसा कस्मिन्नेषामशुचिता कुतः

॥५९॥

अथ चेन्मम संसर्गादशुचित्वं च मीयते ॥

तदस्यां संस्थितः पृथ्व्यामहंत्वं च कुतो वद

॥६०॥

कुतः पृथिव्यां चरसि खे त्वं नैव चरस्युत ॥

एवं विचार्यमाणे ते भाषितं मुग्धवद्भवेत्

॥६१॥

कालभीतिरुवाच

सर्वभूतेषु चेदेवं शिव एवेति चोच्यते ॥

नास्तिकां मृत्तिका कस्माद्भक्षयंति नभस्यके

॥६२॥

शुद्ध्यर्थं तेन विश्वस्य स्थापिता संस्थितिर्यथा ॥

फलेन पालिता सा च नान्यथा तां श्रृणुष्व च

॥६३॥

ससर्जेति पुरा धाता रूपात्मकमिदं जगत् ॥

तच्च नामप्रपञ्चेन बद्धं दाम्ना च गौर्यथा

॥६४॥

स च नामप्रपञ्चस्तु चतुर्द्धा भिद्यते किल ॥

ध्वनिर्वर्णाः पदं वाक्यमित्यास्पदचतुष्टयम्

॥६५॥

तत्र ध्वनिर्नादमयो वर्णाश्चाकारपूर्वकाः ॥

पदं `श वमि' ति प्रोक्तं वाक्यं चेति शिवं' भजेत्

॥६६॥

तच्चापि वाक्यं त्रिविधं भवेदिति श्रुतेर्मतम् ॥

प्रभुसम्मतमेकं च सुहृत्संमतमेव च

॥६७॥

कांतासंमतमेवापि वाक्यं हि त्रिविधं विदुः ॥

प्रभुः स्वामी यथा भृत्यमादिशत्येतदाचर

॥६८॥

तथा श्रुतिस्मृती चोभे प्राहतुः प्रभुसंमतम् ॥

इतिहासपुराणादि सुहृत्संमतमुच्यते

॥६९॥

सुहृद्वत्प्रतिबोध्यैनं प्रवर्तयति तत्त्वतः ॥

काव्यालापादिकं यच्च कांतासंमतमुच्यते

॥७०॥

प्रभुवाक्यं स्मृतं यच्च सबाह्याभ्यंतरं शुचि ॥

सुहृद्वाक्यं तथा शौचं पालयेत्स्वर्गकांक्षया

॥७१॥

तदेतत्पालनीयं स्याद्भूमिजानां श्रुतिर्वदेत् ॥

त्वया नास्तिक्यवाक्येन चेदेतदभिधीयते

॥७२॥

एतेन श्रुतिशास्त्राणि पुराणं च वृतैव किम् ॥

अग्रे सप्तर्षिपूर्वा ये ब्राह्मणाः क्षत्रिया भवन्

॥७३॥

मुग्धाः सर्वेऽभवन्दक्षा ये हि वेदं गता ह्यनु ॥

तथा वेदांतवचनं सत्त्वस्था ह्यूर्ध्वगामिनः

॥७४॥

तिष्ठंति राजसा मध्ये ह्यधो गच्छंति तामसाः ॥

सत्त्वाहारैः सत्त्ववृत्त्या स्वर्गगामी भवेत्ततः

॥७५॥

न चैतदप्य सूयामो यद्भूतेषु शिवो न हि ॥

अस्त्येव सर्वभूतेषु श्रृण्वत्राप्युपमानकम्

॥७६॥

यथा सुवर्णजातानि भूषणानि बहूनि च ॥

कानिचिच्छुद्धरूपाणि हीनरूपाणि कानिचित्

॥७७॥

स्वर्णं सर्वेषु चास्त्येव तथैव स सदाशिवः ॥

हीनरूपं शोधितं सच्छुद्धिमेति न चैकताम्

॥७८॥

तथेदं शोधितं देहं शुद्धं दिवि व्रजेत्स्फुटम् ॥

तस्मात्सर्वात्मना हीनान्न ग्राह्यं बत धीमता

॥७९॥

चेदिदं शोधयेद्देहं नैव ग्राह्यं समंततः ॥

सर्वतो यः प्रतिग्राही निहाराहारयोर्न च

॥८०॥

शुचिः स्यादल्पदिवसात्पाषाणोऽसौ भवेत्स्फुटम् ॥

तस्मात्सर्वात्मना नैव ग्रहीष्येहं जलं स्फुटम्

॥८१॥

साधुवाप्यथवाऽसाधु प्रमाणं नः श्रुतिः परा ॥

एवमुक्ते स च नरः प्रहसन्दक्षिणेन च

॥८२॥

अंगुष्ठेन लिखन्भूमिं चक्रे गर्तं महोत्तमम् ॥

तत्र चिक्षेप तत्तोयं तेन गर्तः स्म पूरितः

॥८३॥

अत्यरिच्यत तोयं च चक्रे पादेन संलिखन् ॥

चक्रे सरः पूरितं चाप्यतिरिक्तजलेन तत्

॥८४॥

तदद्भुतं महद्दृष्ट्वा नैव विप्रो विसिष्मिये ॥

यतो बहुविधं चित्रं भवेद्भूताद्युपासिषु

॥८५॥

तच्चित्रेण न जह्याच्च श्रुतिमार्गं सनातनम्

॥८६॥

नर उवाच

अतिमूर्खोसि विप्र त्वं प्रज्ञावादांश्च भाषसे ॥

किं न श्रुतस्त्वया श्लोकः पुराविद्भिरुदीरितः ॥

कूपोन्यस्य घटोऽन्यस्य रज्जुरन्यस्य भारत

॥८७॥

पायंत्यन्ये पिबंत्यन्ये सर्वे ते समभागिनः ॥

तज्जलं मम कस्मात्त्वं धर्मज्ञो न पिबस्यसि

॥८८॥

नारद उवाच

ततो विममृशे श्लोको बहुधा समभागिनाम् ॥

अनिश्चयाद्विचार्यासौ घटाद्यैः समभागिता

॥८९॥

बहुपोतद्रव्यक्षेपः सर्वैः सा समभागिता ॥

एवं कर्तुः फलैः सर्वैः समं स्याच्च पुनःपुनः

॥९०॥

यः शुचिश्च शिवं ध्यायन्प्रासादकूपकर्तरि ॥

जलप्रतिग्रहाभावात्पिबतोऽस्य समं फलम्

॥९१॥

इति निश्चित्य प्रोवाच कालभीतिर्नरं च तम् ॥

सत्यमेत्किं तु कुंभपयसा गर्तपूरणे

॥९२॥

दृष्ट्वा प्रत्यक्षतो मादृक्कथं पिबति भो वद ॥

साधु वाप्यथवाऽसाधु न पिबेयं कथंचन

॥९३॥

एवं विनिश्चयं दृष्ट्वास्य स्थिरं कुरुनंदन ॥

पुरुषोऽसौ प्रहस्यैव क्षणादंतर्दधे ततः

॥९४॥

कालभीतिश्च परमं विस्मयं समुपागतः ॥

वृत्तांतः कोयमित्येव चिंतयामास भूयसा

॥९५॥

ततश्चिंतयतस्तस्य बिल्वाधस्तात्सुशोभनम् ॥

उच्छ्रितं सुमहालिंगं पृथिव्या द्योतयद्दिशः

॥९६॥

प्रादुर्भावे ततस्तस्य महालिंगस्य भारत ॥

ननर्त खेप्सरोवृंदं गधर्वा ललितं जगुः

॥९७॥

पारिजातमयीं पुष्पवृष्टिमिंद्रो मुमोच ह ॥

जयेति देवा मुनयस्तुष्टुवुर्विविधैः स्तवैः

॥९८॥

तस्मिन्महति कौरव्य वर्तमाने महोत्सवे ॥

कालभीतिः प्रमुदितः प्रणम्य स्तोत्रमैरयत्

॥९९॥

पापस्य कालं भवपंककालं कलाकलं कालमार्गस्य कालम् ॥

देवं महाकालमहं प्रपद्ये श्रीकालकंठं भवकालरूपम्

॥१००॥

ईशानवक्त्रं प्रणमामि त्वाहं स्तौति श्रुतिः सर्वविद्येश्वरस्त्वम् ॥

भूतेश्वरस्त्वं प्रपितामहस्त्वं तस्मै नमस्तेस्तु महेश्वराय

॥१०१॥

यं स्तौति वेदस्तमहं प्रपद्ये तत्पुरुषसंज्ञं शरणं द्वितीयम् ॥

त्वां विद्महे तच् नस्त्वं प्रदेहि श्रीरुद्र देवेश नमोनमस्ते

॥१०२॥

अघोरवक्त्रं त्रितयं प्रपद्ये अथर्वजुष्टं तव रूपकाणि ॥

अघोरघोराणि च घोरघोराण्यहं सदानौमि भूतानि तुभ्यम्

॥१०३॥

चतुर्थवक्त्रं च सदा प्रपद्ये सद्योभिजाताय नमोनमस्ते ॥

भवेभवेनादिभवो भवस्व भवोद्भवो मां शिव तत्रतत्र

॥१०४॥

नमोस्तु ते वामदेवाय ज्येष्ठरुद्राय कालाय कलाविकारिणे ॥

बलंकरायापि बलप्रमाथिने भूतानि हंत्रे च मनोन्मनाय

॥१०५॥

त्रियंबकं त्वां च यजामहे वयं सुपुण्यगंधैः शिवपुष्टिवर्धनम् ॥

उर्वारुकं पक्वमिवोग्रबंधनाद्रक्षस्व मां त्र्यंबक मृत्युमार्गात्

॥१०६॥

षडक्षरं मंत्रवरं तवेश जपंति ये मुनयो वीतरागाः ॥

तेषां प्रसन्नोऽसि जपामहेतं त्वोंकारपूर्वं च नमः शिवाय

॥१०७॥

एवं स्तुतो महादेवो लिंगान्निःसृत्य भारत ॥

त्रिजगद्द्योतयन्मभासा प्रत्यक्षः प्राह च द्विजम्

॥१०८॥

यत्त्वयात्र महातीर्थे भृशमाराधितो द्विज ॥

तेनाति तुष्टस्ते वत्स नेशः कालः कथंचन

॥१०९॥

अहं च नररूपी यो दृष्ट्वा ते धर्मसंस्थितिम् ॥

धन्यस्तद्धर्ममार्गोऽयं पाल्यते यद्भवद्विधैः

॥११०॥

सर्वतीर्थोदकैर्गरतः पूरितो मे सरस्तथा ॥

जलमेतन्महापुण्यं त्वदर्थं मे समाहृतम्

॥१११॥

सप्तमंत्ररहस्यं च यत्कृतं स्तवनं मम ॥

अनेन पठ्यमानेन सप्तमंत्रफलं भवेत्

॥११२॥

अभीष्टं च वरं मत्तो वृणीष्व मनसेप्सितम् ॥

त्वयातितोषितो ह्यस्मिनादेयं विद्यते तव

॥११३॥

कालभीतिरुवाच

धन्योऽस्म्यनुगृहीतोऽस्मि यत्त्वं तुष्टोऽसि शंकर ॥

त्वत्तोषात्सफला धर्माः श्रमायैवान्यतामताः

॥११४॥

यदि तुष्टोऽसि सांनिद्यं लिंगेऽत्र क्रियतां सदा ॥

अक्षयं तत्कृतं चास्तु यल्लिंगे क्रियतेऽत्र च

॥११५॥

जपतो यत्फलं देवपंचमंत्रायुतेन च ॥

तत्फलं जायतां नणामस्य लिंगस्य दर्शने

॥११६॥

कालमार्गादहं यस्मान्मोचितोऽहं महेश्वर ॥

महाकालमिति ख्यातं लिंगं तस्माद्भवत्विदम्

॥११७॥

अस्मिंश्च कूपे यो मर्त्यः स्नात्वा तर्पयते पितॄन् ॥

सर्वतीर्थफलं चास्तु पितॄणामक्षया गतिः

॥११८॥

इति तस्यवचः श्रुत्वा प्रीतस्तं शंकरोऽब्रवीत् ॥

स्वायंभुवं यत्र लिंगं तत्र नित्यं वसाम्यहम्

॥११९॥

स्वयंभुबाणरत्नोत्थदातुपाषाणलोहजम् ॥

लिंगं क्रमेण फलदमंत्यात्पूर्वं दशोत्तरम्

॥१२०॥

आकाशे तारकालिंगं पाताले हाटकेश्वरम् ॥

स्वायंभुवं धारपृष्ठे तदेतत्त्रितयं समम्

॥१२१॥

विशेषात्प्रार्थितं यच्च तच्च भविष्यति ॥

अत्र पुष्पं फलं पूजा नैवेद्यं स्तवनक्रिया

॥१२२॥

दानं वान्यश्च यत्किंचिदक्षयं तद्भविष्यति ॥

माघासितचतुर्दश्यां शिवयोगे च पुत्रक

॥१२३॥

लिंगाच्च पूर्वतः कूपेस्नात्वा यस्तर्पयेत्पितॄन् ॥

सर्वतीर्थफलावाप्तिः पितॄणां चाक्षया गतिः

॥१२४॥

तस्यां रात्रौ महाकालं यामेयामे प्रपूजयेत् ॥

यः क्षिपेत्सर्वलिंगेषु स जागरफलं लभेत्

॥१२५॥

जितेंद्रियश्च यो नित्यं मां लिंगेत्र प्रपूजयेत् ॥

भुक्तिमुक्ती न दूरस्थे तस्य नित्यं द्विजोत्तम

॥१२६॥

माघे चतुर्दश्यष्टम्यां सोमवारे च पर्वणि ॥

स्नात्वा सरसि योऽभ्यर्च्य लिंगमेतच्छिवं व्रजेत्

॥१२७॥

दानं तपो रुद्रजापः सर्वमक्षयमेव च ॥

त्वं च नन्दी द्वितीयो मे प्रतीहारो भविष्यसि

॥१२८॥

कालमार्गजयाद्वत्स महाकाला भिधश्चिरम् ॥

करंधमोऽत्र राजर्षिरचिरादागमिष्यति

॥१२९॥

तस्य प्रोच्य भवान्धर्मांस्ततो मल्लोकमाव्रज ॥

इत्युक्त्वा भगवान्रुद्रो लिंगमध्ये न्यलीयत

॥१३०॥

महाकालोऽपि मुदितस्तत्र तेपे महत्तपः

॥१३१॥

इति महाकालप्रादुर्भावः ॥

नारद उवाच ॥

अथ केनापि कालेन पार्थ राजा करंधमः ॥

विशेषमिच्छुर्धर्मेषु श्रुत्वा तीर्थमहागुणान्

॥१३२॥

महाकालचरित्रं च तत्रैव समुपाययौ ॥

महीसागर तोयेऽसौ स्नात्वा लिंगान्यथार्चयत्

॥१३३॥

महाकालमनुप्राप्य परमां प्रीतिमागतः ॥

स पश्यन्सुमहालिंगं नातृप्यत जनेश्वरः

॥१३४॥

यथा दरिद्रः कृपणो निधिकुम्भमवाप्य च ॥

सफलं जीवितं मेने महाकालं निरीक्ष्य सः

॥१३५॥

पंचमंत्रायुतजपफलं यस्येह दर्शनात् ॥

ततः सपर्ययाक्ष्यर्च्य महत्यासौ प्रणम्य च

॥१३६॥

श्रुत्वा च लिंगप्रवरं महाकालमुपासदत् ॥

ततो रुद्रवचः स्मृत्वा महाकालः स्मयन्निव

॥१३७॥

प्रत्युद्गम्य नृपं पूजामर्घं च प्रत्यपादयत् ॥

ततः कुशलप्रश्नादि कृत्वा शांतमुखं नृपः

॥१३८॥

महाकालमुपामंत्र्य कथांते वाक्यमब्रवीत् ॥

भगवन्संशयो मह्यं सदाऽयं परिवर्तते

॥१३९॥

यदिदं तर्पणंनाम पितॄणां क्रियते नृभिः ॥

जलमध्ये जलं याति कथं तृप्यंति पूर्वजाः

॥१४०॥

एवं पिंडादिपूजा च सर्वमत्रैव दृश्यते ॥

कथमेवं स्म मन्यामः पित्राद्यैरुपभुज्यते

॥१४१॥

न चैतदस्ति यत्तेषां नोपतिष्ठति किंचन ॥

स्वप्ने यथाक्रम्य नरं दृश्यंते याचकाश्च ते

॥१४२॥

देवानां चापि दृश्यंते प्रत्यक्षाः प्रत्ययाः सदा ॥

तत्कथं प्रतिगृह्णन्ति मनो मेऽत्र प्रमुह्यति

॥१४३॥

महाकाल उवाच

योनिरेवंविदा तेषां पितॄणां च दिवौकसाम् ॥

दूरोक्तं दूरपूजा च दूरस्तुतिरथापि यत्

॥१४४॥

भव्यं भूतं भविष्यच्च सर्वं जानंति यांति च ॥

पंचतन्मात्ररूपं च मनोबुद्धिरहंजडाः

॥१४५॥

नवतत्त्वमयं देहं दशमः पुरुषो मतः ॥

तस्माद्गंधेन तृप्यंति रसतत्त्वेन ते तथा

॥१४६॥

शब्दतत्त्वेन तुष्यंति स्पर्शतत्त्वं च गृह्णते ॥

शुचि दृष्ट्वा त तुष्यंति नात्र राजन्भवेन्मृषा

॥१४७॥

यथा तृणं पशूनां च नराणामन्नमुच्यते ॥

एवं दैवतयोनीनामन्नसारस्य भोजनम्

॥१४८॥

शक्तयः सर्वभावानामचिंत्या ज्ञानगोचराः ॥

तस्मात्तत्त्वं प्रगृह्णन्ति शेषमत्रैव दृश्यते

॥१४९॥

करंधम उवाच

पितृभ्यो दीयते श्राद्धं स्वकर्मवशगाश्च ते ॥

स्वर्गस्था नरकस्था वा कथं तैरुपभुज्यते

॥१५०॥

अथ स्वर्गेऽथ नरेक स्थिताः कर्माभियंत्रिताः ॥

शक्नुवंति वरानेतान्दातुं ते चेश्वराः कथम्

॥१५१॥

आयुः प्रजां धनं विद्यां स्वर्गं मोक्षं सुकानि च ॥

प्रयच्छन्तु तथा राज्यं प्रीता नॄणां पितामहाः

॥१५२॥

महाकाल उवाच

सत्यमेततस्वकर्मस्थाः पितरो यन्नृपोत्तम ॥

किं तु देवासुराणां च यक्षादीनाममूर्तकाः

॥१५३॥

मूर्ताश्चतुर्णां वर्णानां पितरः सप्तधा स्मृताः ॥

ते हि सर्वे प्रयच्छंति दातुं सर्वं यतोप्सितम्

॥१५४॥

एकत्रिंशद्गणा येषां पितॄणां प्रबला नृप ॥

कृतं च तदिदं श्राद्धं तर्पयेत्तान्परान्पितॄन्

॥१५५॥

ते तृप्तास्तर्पयन्त्यस्य पूर्वजान्यत्र संस्थितान् ॥

एवं स्वानां चोपतिष्ठेच्छ्राद्धं यच्छंति ते वरान्

॥१५६॥

राजोवाच

भूतादिभ्यो यथा विप्र नाम्ना वोद्दिश्य दीयते ॥

सुरादीनां कथं चैव संक्षेपेण न दीयते

॥१५७॥

इदं पितृभ्यो देवेभ्यो द्विजेभ्यः पावकाय च ॥

एवं कस्माद्विस्तराः स्युर्मनः कायादिकष्टदाः

॥१५८॥

महाकाल उवाच

उचिता प्रतिपत्तिश्च कार्या सर्वेषु नित्यशः ॥

प्रतिपत्तिं चोचितां ते विना गृह्णन्ति नैव च

॥१५९॥

यथा श्वा गृहद्वारस्थो बलिं गृह्णाति किं तथा ॥

प्रधानपुरुषो राजन्गृह्णाति च शुना समः

॥१६०॥

एवं ते भूतवद्देवा न हि गृह्णन्ति कर्हिचित् ॥

शुचि कामं जुषंते न हविरश्रद्दधानतः

॥१६१॥

विना मंत्रैश्च यद्दत्तं न तद्गृह्णन्ति तेऽमलाः ॥

श्रुतिरप्यत्र प्राहेदं मंत्राणां विषये नृप

॥१६२॥

"मंत्रा दैवता यद्यद्विद्वान्मन्त्रवत्करोति देवताभिरेव तत्करोति यद्ददानि देवताभिरेव तद्ददाति यत्प्रतिगृह्णाति देवताभिरेव तत्प्रतिगृह्णाति तस्मान्नामन्त्रवत्प्रतिगृह्णीयात् नामन्त्रवत्प्रतिपद्यते" इति

॥१६३॥

तस्मान्मंत्रैः सदा देयं पौराणैर्वैदिकैरपि ॥

अन्यथा ते न गृह्णन्ति भूतानामुपतिष्ठति

॥१६४॥

राजोवाच

दर्भांस्तिलानक्षतांश्च तोयं चैतैः सुसंयुतम् ॥

कस्मात्प्रदीयते दानं ज्ञातुमिच्छामि कारणम्

॥१६५॥

महाकाल उवाच

पुरा किल प्रदत्तानि भूमेर्दानानि भूरिशः ॥

प्रत्यगृह्णन्त दैत्याश्च प्रविश्याभ्यंतरं बलात्

॥१६६॥

ततो देवाश्च पितरः प्रत्यूचुः पद्मसंभवम्

॥१६७॥

स्वामिन्नः पश्यतामेव सर्वं दैत्यैः प्रगृह्यते ॥

विधेहि रक्षां तेषां त्वं न नष्टः स्मो यथा वयम्

॥१६८॥

ततो विमृश्यैव विधी रक्षोपायमचीकरत् ॥

तिलैर्युक्तं पितॄणां च देवानामक्षतैः सह

॥१६९॥

तोयं दर्भांश्च सर्वत्र एवं गृह्णन्ति नासुराः ॥

एतान्विना प्रदत्तं यत्फलं दैत्यैः प्रगृह्यते

॥१७०॥

निःश्वस्य पितरो देवा यांति दातुः फलं न हि ॥

तस्माद्युगेषु सर्वेषु दानमेव प्रदीयते

॥१७१॥

करंधम उवाच

चतुर्युगव्यवस्थानं श्रोतुमिच्छमि तत्त्वतः ॥

महतीयं विवित्सा मे सदैव परिवर्तते

॥१७२॥

महाकाल उवाच

आद्यं कृतयुगं विद्धिततस्त्रेतायुगं स्मृतम् ॥

द्वापरं च कलिश्चेति चत्वारश्च समासतः

॥१७३॥

सत्त्वं कृतं रजस्त्रेता द्वापरं च रजस्तमः ॥

कलिस्तमस्तु विज्ञेयं युगवृत्तं युगेषु च

॥१७४॥

ध्यानं परं कृतयुगे त्रेतायां यज्ञ उच्यते ॥

वृत्तं च द्वापरे सत्यं दानमेव कलौ युगे

॥१७५॥

कृते तु मानसी सृष्टिर्वृत्तिः साक्षाद्रसोल्लसा ॥

तेजोमय्यः प्रजास्तृप्ताः सदानंदाश्च भोगिनः

॥१७६॥

अधमोत्तमो न तासां ता निर्विशेषाः प्रजाः शुभाः ॥

तुल्यमायुः सुखं रूपं तासां तस्मिन्कृते युगे

॥१७७॥

न चाप्रीतिर्न च द्वंद्वो न द्वेषो नापि च क्लमः ॥

पर्वतोदधिवासिन्यो ह्यनुक्रोशप्रियास्तु ताः

॥१७८॥

वर्णाश्रमव्यवस्था च तदासीन्न हि संकरः ॥

एकमन्यं न ध्यायंति परमं ते सदा शिवम्

॥१७९॥

चतुर्थे च ततः पादे नष्ट साऽभूद्रसोल्लसा ॥

प्रादुरासंस्ततस्तासां वृक्षाश्वगृहसंज्ञिताः

॥१८०॥

वस्त्राणि च प्रसूयंते फलान्याभरणानि च ॥

तेष्वेव जायते तासां गंधवर्णरसान्वितम्

॥१८१॥

सुमाक्षिकं महावीर्यं पुटके पुटके मधु ॥

तेन ता वर्तयंति स्म कृतस्यांते प्रजास्तदा

॥१८२॥

हृष्टपुष्टास्तथा वृद्धाः प्रजा वै विगतज्वराः ॥

ततः कालेन केनापि तासां वृद्धे रसेंद्रिये

॥१८३॥

युगभावात्तथा ध्याने स्वल्पीभूते शिवस्य च ॥

वृक्षांस्तान्पर्यगृह्णंत मधु वा माक्षिकं बलात्

॥१८४॥

तासां तेनोपचारेण लोभदोषकृतेन वै ॥

प्रनष्टा मधुना सार्धं कल्पवृक्षाः क्वचित्क्वचित्

॥१८५॥

तस्यां चाप्यल्पशिष्टायां द्वंद्वान्यभ्युत्थितानि वै ॥

शीतातपैर्मनोदुःखैस्ततस्ता दुःखिता भृशम्

॥१८६॥

चक्रुरावरणार्थं हि केतनानि ततस्ततः ॥

ततः प्रदुर्बभौ तासां सिद्धिस्त्रेतायुगे पुनः

॥१८७॥

वृष्ट्या बभूवुरौषध्यो ग्राम्यारण्याश्चतुर्दश ॥

अकृष्टपच्यानूप्तास्तोयभूमिसमागमात्

॥१८८॥

ऋतु पुष्पफलैश्चैव वृक्षगुल्माश्च जज्ञिरे ॥

तैश्च वृत्तिरभूत्तासां धान्यैः पुष्पैः फलैस्तथा

॥१८९॥

ततः पुनरभूत्तासां रागो लोभश्च सर्वतः ॥

कालवीर्येण वा गृह्य नदीक्षेत्राणि पर्वतान्

॥१९०॥

वृक्षगुल्मौषधीश्चैव प्रसह्याशु यथाबलम् ॥

विपर्ययेण चौषध्यः प्रनष्टाश्च चतुर्दश

॥१९१॥

नत्वा धरां प्रविष्टास्ता ओषध्यः पीडिताः प्रजाः ॥

दुदोह गां पृथुर्वैन्यः सर्वभूतहिताय वै

॥१९२॥

तदा प्रभृति चौषध्यः फालकृष्टाः प्रजास्ततः ॥

वार्त्तया वर्तयंति स्म पाल्यमानाश्च क्षत्रियैः

॥१९३॥

वर्णाश्रमप्रतिष्ठा च यज्ञस्त्रेतासु चोच्यते ॥

सदाशिवध्यानमयं त्यक्त्वा मोक्षमचेतनाः

॥१९४॥

पुष्पितां वाचमाश्रित्य रागात्स्वर्गमसाधयन् ॥

द्वापरे च प्रवर्तंते मतिभेदास्ततो नृणाम्

॥१९५॥

मनसा कर्मणा वाचा कृच्छ्राद्वार्ता प्रसिध्यति ॥

लोभोऽधृतिः शिवं त्यक्त्वा धर्माणां संकरस्तथा

॥१९६॥

वर्णाश्रमपरिध्वंसाः प्रवर्तंते च द्वापरे ॥

तदा व्यासैश्चतुर्द्धा च व्यस्यते द्वापरात्ततः

॥१९७॥

एको वेदश्चतुष्पादैः क्रियते द्विजहेतवे ॥

इतिहासपुराणानि भिद्यंते लोकगौरवात्

॥१९८॥

ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा ॥

तथान्यन्नारदीय च मार्कंडेयं च सप्तमम

॥१९९॥

आग्नेयमष्टमं प्रोक्तं भविष्यं नवमं स्मृतम् ॥

दशमं ब्रह्मवैवर्तं लैंगमेकादशं तथा

॥२००॥

वाराहं द्वादशं चैव स्कांदं चैव त्रयोदशम् ॥

चतुर्दशं वामनं च कौर्मं पंचदशं स्मृतम्

॥२०१॥

मात्स्यं षोडशकं प्रोक्तं गारुडं च ततः परम् ॥

अतः परं तु ब्रह्मांडमेवञ्चाष्टादशानि हि

॥२०२॥

अस्मिन्वाराहकल्पे च व्यासानाकर्णयस्व च ॥

ऋतुः सत्यो भार्गवश्च अंगिराः सविता तथा

॥२०३॥

मृत्युः शतक्रतुर्धीमान्वसिष्ठो भविताऽधुना ॥

सारस्वतस्त्रिधामा च वेदवित्त्रिवृतो मुनिः

॥२०४॥

शततेजाः स्वयं विष्णुर्नारायण इति स्मृतः ॥

करकश्चारुणिर्धीमास्तथा देव ऋतंजयः

॥२०५॥

कृतंजयो भरद्वाजो गौतमः कविसत्तमः ॥

वाजश्रवा मुनिश्चैव तथा युष्मायणो मुनिः

॥२०६॥

तृणबिंदुस्तथा ऋक्षः शक्तिः पाराशरस्तथा ॥

जातूकर्ण्योऽथ विष्णुश्च स्वयंद्वैपायनो मुनिः

॥२०७॥

अश्वत्थाममुखाश्चैते भविष्याः सूचितास्तव ॥

धर्मशास्त्राणि लोकार्थं भिद्यंते चापि द्वापरे

॥२०८॥

मन्वत्रिविष्णुहारितयाज्ञवल्क्योशनोंगिराः ॥

यमापस्तंबसंवर्ताः कात्यायनबृहस्पती

॥२०९॥

पराशरव्यासशंखलिखिता दक्षगौतमौ ॥

शातातपो वसिष्ठश्च धर्मशास्त्रप्रयोजकाः

॥२१०॥

ततो द्वापरसंध्यायां प्रवर्तति कलौ युगे ॥

नश्यमाने शैवयोगे जायंते योगनंदनाः

॥२११॥

आद्ये श्वेतकलौरुद्रः सुतारस्तारणस्तथा ॥

सुहोत्रः कंकणश्चैव लोकाख्यश्च महामुनिः

॥२१२॥

जैगीषव्यश्च भाव्यो वै भगवान्दधिवाहनः ॥

ऋषभश्च मुनिर्धर्मउग्रश्चात्रिः सबालकः

॥२१३॥

गौतमौ वेदशीर्णश्च गोकर्णश्च शिखंडिभृत् ॥

गृहावासी जटामाली अट्टहासश्च दारुणः

॥२१४॥

लांगली संयमी शूली डिंडी जुण्डीश्वरः स्वयम् ॥

सहिष्णुः सोमशर्मा च लकुलीशश्च पार्थिव

॥२१५॥

कायावरोहणो भावीत्याद्या योगेश्वराः क्रमात् ॥

एते संक्षिप्त वक्ष्यंति शिवधर्मं कलौ युगे

॥२१६॥

एवं कलियुगे राजञ्छास्त्रसंक्षेप उच्यते ॥

श्रृणु तिष्यप्रवृत्तिं च हर्षोद्वेगकरीं किल

॥२१७॥

तिष्ये मायामसूयां च वधं चैव तपस्विनाम् ॥

साधयंति नरास्तत्र तमसा व्याकुलेंद्रियाः

॥२१८॥

कलौ प्रमाथको रागः सततं क्षुद्भयानि च ॥

अनावृष्टिभयं घोरं देशानां च विपर्ययः

॥२१९॥

न प्रमाणं श्रुतेरस्ति नृणां चाधर्मसेवनात् ॥

अधार्मिकास्त्वनाचारा महाकोपाल्पतेजसः

॥२२०॥

अनृतं ब्रुवते लुब्धा नारीप्रायाश्च दुष्प्रजाः ॥

दुरिष्टैर्दुरधीतैश्च दुराचारैर्दुरागमैः

॥२२१॥

विप्राणां कर्मदोषैश्च प्रजानां जायते क्षयः ॥

उत्सीदंति क्षत्रविशो वर्धंते शूद्रविप्रकाः

॥२२२॥

शूद्रा विप्रैः सहासंते शयनासनभोजनैः ॥

शूद्राश्च ब्राह्मणाचाराः शूद्राचाराश्च ब्राह्मणाः

॥२२३॥

राजवृत्त्यां स्थिताश्चौराश्चौराचाराश्च पार्थिवाः ॥

एकपत्न्यो न शिष्यंति वर्धयंत्यभिसारिकाः

॥२२४॥

तदा ह्यल्पफला भूमिः क्वचिच्चापि महाफला ॥

अरक्षितारो हर्तारो राजानः पापनिर्भयाः

॥२२५॥

अक्षत्रियास्तु राजानो विप्राः शूद्रोपजीविनः ॥

शूद्रा विवादिनः सर्वे ब्राह्मणैरभिनंदिताः

॥२२६॥

आसनस्थान्द्विजान्दृष्ट्वा चलंत्यत्यल्पबुद्धयः ॥

आस्ये निधाय वै हस्तं कर्णे शूद्रास्य च द्विजाः

॥२२७॥

नीचस्यापि तदा वाक्यं वक्ष्यंति विनयेन तम् ॥

उच्चासनस्थाञ्छूद्रांश्च द्विजानां पश्यतामपि

॥२२८॥

ज्ञात्वा न हिंसते राजा पश्य कालबलं नृप ॥

पुष्पैः शुभसितैश्चैव तथान्यैर्मंडनैर्द्विजाः

॥२२९॥

शूद्रानभ्यर्चयंत्यल्पश्रुतभाग्यबलान्विताः ॥

पाषंडिनां च गृह्णंति ब्राह्मणाः कुप्रतिग्रहम्

॥२३०॥

येन ते रौरवं यांति सुदुस्तारं द्विजाधमाः ॥

तपोयज्ञफलानां च विक्रेतारो द्विजास्तथा

॥२३१॥

यतयश्च भविष्यंति बहवः कोटिशः कलौ ॥

पुरुषाल्पबहुस्त्रीको नृणां चापत्यसंभवः

॥२३२॥

निंदंति वेदवाक्यानि वेदार्थांश्च कलौ युगे ॥

शूद्रैः स्वयं निर्मितं यत्प्रमाणं शास्त्रमेव तत्

॥२३३॥

श्वापदप्रबलत्वं च गवां चापि परिक्षयः ॥

कस्यचिद्दानप्रभृतिधर्मस्यास्ति न शुद्धता

॥२३४॥

साधूनां बहवो नाशाः पार्थिवाश्चाप्यरक्षिणः ॥

अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः

॥२३५॥

प्रमदाः केशशूलिन्यो भविष्यंति कलौ युगे ॥

स्त्रीप्रधानानि गेहानि कुचैलास्ताश्च कर्कशाः

॥२३६॥

बहुभक्ष्यावलिप्ताश्च कृत्या इव भवंति च ॥

सर्वे वणिग्जनाश्चापि चित्रवर्षी च वासवः

॥२३७॥

कुशीलचर्यापाषंडैर्वृथारूपैः समावृतः ॥

बहुयाचनको लोको भविष्यति परस्परी

॥२३८॥

अशंकश्चैव पापेषु तदा लोको भविष्यति ॥

हर्तारः पररत्नानां परदारप्रधर्षकाः

॥२३९॥

ऊनषोडशवर्षाश्च प्रजायंते युगक्षये ॥

तथा द्वादशवर्षाश्च प्रसवंति स्त्रियस्तदा

॥२४०॥

चौराश्चौरस्य हर्तारो हर्तुर्हर्त्ता तथापरः ॥

ज्ञानकर्मण्युपरते लोके निष्क्रियतां गते

॥२४१॥

कीटमूषकसर्पाश्च धर्षयिष्यंति मानवान् ॥

वर्णाश्रमाणां ये चान्ये पाषंडाः परिपंथिनः

॥२४२॥

ते तदा प्रोद्भविष्यंति तेषआं वृद्धिश्च पार्थिव ॥

दुःखं पुत्रकलत्राद्यं देहोत्सादः सरोगता

॥२४३॥

अधर्माभिनिवेशत्वात्तमसो जायते कलौ ॥

कलेर्दोषनिधेश्चैव श्रृणुष्वैवं महागुणम्

॥२४४॥

तदाल्पेनैव काले न सिद्धिं गच्छंति मानवाः ॥

त्रियुगीना वदंत्येवं धन्या धर्मं चरंति ये

॥२४५॥

श्रुतिस्मृतिपुराणोक्तं कलौ श्रद्धापरायणाः ॥

त्रेतायां वार्षिको धर्मो द्वापरे मासिकः स्मृतः

॥२४६॥

यथा क्लेशं चरन्प्राज्ञस्तदह्ना प्राप्यते कलौ ॥

युगत्रयेण तावंतः सिद्धिं गच्छंति पार्थिवः

॥२४७॥

यावंतः सिद्धिमायांति कलौ हरिहरव्रताः ॥

अष्टाविंशे कलौ यच्च भावि तत्त्वं निबोध मे

॥२४८॥

त्रिषु वर्षसहस्रेषु कलेर्यातेषु पार्थिवः ॥

त्रिशतेषु दशन्यूनेष्वस्यां भुवि भविष्यति

॥२४९॥

शूद्रकोनाम वीराणामधिपः सिद्धिमत्र सः ॥

चर्चितायां समाराध्य लप्स्यते भूभरापहः

॥२५०॥

ततस्त्रिषु सहस्रेषु दशाधिकशतत्रये ॥

भविष्यं नंदराज्यं च चाणक्यो यान्हनिष्यति

॥२५१॥

शुक्लतीर्थे सर्वपापनिर्मुक्तिं योऽभिलप्स्यति ॥

ततस्त्रिषु सहस्रेषु विंशत्या चाधिकेषु च

॥२५२॥

भविष्यं विक्रमादित्यराज्यं सोऽथ प्रलप्स्यते ॥

सिदधिप्रसादाद्दुर्गाणां दीनान्यो ह्युद्धरिष्यति

॥२५३॥

ततः शतसहस्रेषु शतेनाप्यधिकेषु च ॥

शकोनाम भविष्यश्च योऽतिदारिद्र्यहारकः

॥२५४॥

ततस्त्रिषु सहस्रेषु षट्‌शतैरधिकेषु च ॥

मागधे हेमसदनादंजन्यां प्रभविष्यति

॥२५५॥

विष्णोरंशो धर्मपाता बुधः साक्षात्स्वयं प्रभुः ॥

तस्य कर्माणि भूरिणि भविष्यंति महात्मनः

॥२५६॥

ज्योतिर्बिदुमुखानुग्रान्स हनिष्यति कोटिशः ॥

चतुःषष्टिं स वर्षाणि भुक्त्वा द्वीपानि सप्त च

॥२५७॥

भक्तेभ्यः स्वयशो मुक्त्वा दिवं पश्चाद्गमिष्यति ॥

सर्वेषां चावताराणआं गुणैः समधिको यतः

॥२५८॥

ततो वक्ष्यंति तं भक्त्या सर्वपापहरं बुधम् ॥

चतुर्षु च सहस्रेषु शतेष्वपि चतुर्षु च

॥२५९॥

साधिकेषु महान्राजा प्रमितिः प्रभविष्यति ॥

गोत्रेषु वै चंद्रमसो बहुसेनापतिर्बली

॥२६०॥

म्लेच्छान्स कोटिशो हत्वा पाषंडानि च सर्वशः ॥

वैदिकं केवलं शुद्धं सद्धर्मं वर्तयिष्यति

॥२६१॥

गंगायमुनयोर्मध्ये निष्ठां यास्यति पार्थिवः ॥

ततः प्रजाश्च कालेन केनापि भृशपीडिताः

॥२६२॥

घोरं वा धर्ममाश्रित्य शाठ्येन च भवंति ताः ॥

अप्रग्रहास्ततस्ता वै लोभाविष्टाश्च वृंदशः

॥२६३॥

उपहिंसंति चान्योन्यं व्याकुलाः श्रमपीडिताः ॥

नष्टे श्रौते तथा स्मार्ते परस्परहतास्तदा

॥२६४॥

निर्मर्यादा निष्करुणा निस्स्नेहा निरपत्रपाः ॥

गृहदाराणि संत्यज्य ह्रस्वकाः पंटविंशतिः

॥२६५॥

हाहाभूताश्चरिष्यंति विषादव्याकुलेंद्रियाः ॥

अनावृष्टिहताश्चैव वार्तामुत्सृज्य दुःखिताः

॥२६६॥

प्रत्यंतांस्ता निषेवंति हित्वा जनपदान्स्वकान् ॥

सरित्सागरकूलांश्च सेवंते पर्वतांस्तथा

॥२६७॥

मांसैर्मूलफलैस्चैव वर्तयंति सुदुःखिताः ॥

चीरपत्राजिनधरा निष्क्रिया निष्परिग्रहाः

॥२६८॥

धर्मस्य वासमात्रं च शाल्वो म्लेच्छो हनिष्यति ॥

उत्तमाधममध्यत्वं सर्वमुच्छिद्य घोरकृत्

॥२६९॥

ततस्तस्य वधार्थाय विष्णुः साक्षाज्जगत्पतिः ॥

शंभले विष्णुयशसो भूत्वा पुत्रो नृपोत्तम

॥२७०॥

द्विजोत्तमैः परिवृतः शाल्वं तं संहरिष्यति ॥

कोटिशोऽर्बुदशः पापान्निहत्य च निखर्वशः

॥२७१॥

पालयिष्यति तं धर्मं यो धर्मः श्रुतिपूर्वकः

॥२७२॥

कृत्वा पोतं धर्मरूपं साधूनां परमेश्वरः ॥

गमिष्यति परं लोकं कृत्वा कर्माणि भूरिशः

॥२७३॥

ततः कृतयुगं भूयः प्रवर्तिष्यति पार्थिव ॥

आद्यं कृतयुगं चान्यं तदन्येभ्यो विशिष्यते

॥२७४॥

अष्टाविंशकलिश्चैव शेषः प्रावर्त अन्यतः ॥

ततः कृते सूर्यवंशः प्रवत्स्यति

॥२७५॥

मरुराजाच्च देवापेः श्रुतदेवाच्च ब्राह्मणाः ॥

इति चातुर्युगी राजन्व्यवस्था परिवर्तते ॥

चतुर्युगे च ते धन्या ये भजंति हराच्युतौ

॥२७६॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे महाकालकरन्धमसंवादे चतुर्युगव्यवस्थावर्णनंनाम चत्वारिंशत्तमोऽध्यायः ॥ ४० ॥