मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — कौमारिकाखण्डः, अध्याय १९

3
माहेश्वरखण्डः · कौमारिकाखण्डः · 19

कालनेमी रुषाविष्टस्तेषां रूपं न बुद्धवान्

नारद उवाच

कालनेमी रुषाविष्टस्तेषां रूपं न बुद्धवान् ॥

ततो निमिं च दैत्येन्द्रं मत्वा देवं महाजवः

॥१॥

केशेषु गृह्य तं वीरं चकर्ष च ननाद च ॥

ततो निमिरुवाचेदं कालनेमिं महाबलम्

॥२॥

अहं निमिः कालनेमे सुतं मत्वा वधस्व मा ॥

भवता मोहितेनाजौ देवान्मत्वासुराः स्वकाः

॥३॥

सुरैः सुदुर्जयाः कोट्यो निहतादश विद्धि तत् ॥

सर्वास्त्रवारणं मुंच ब्रह्ममस्त्रं त्वरान्वितः

॥४॥

स तेन बोधितो दैत्यो मुक्त्वा तं संभ्रमाकुलः ॥

बाणं ब्रह्मास्त्रविहितं मुमोच त्वरयान्वितः

॥५॥

ब्रह्मास्त्रं तत्प्रजज्वाल ततः खे सुमहाद्भुतम् ॥

देवानां चाभवत्सैन्यं सर्वमेव भयाकुलम्

॥६॥

शंबरास्त्रं ततः शांतं ब्राह्मप्रतिहतं तदा ॥

तस्मिन्प्रतिहते ह्यस्त्रे भास्करः प्रभुः

॥७॥

महेंद्रजालमास्ताय चक्रे भीषणां तनुम् ॥

विस्फूर्जत्करसंघातसमाक्रांतजगत्त्रयः

॥८॥

तताप दानवानीकं गलन्मज्जाङ्घ्रिशोणितम् ॥

चक्षूंषि दानवेन्द्राणां चकारांधानि स प्रभुः

॥९॥

गजानामगलन्मेदः पेतुश्चापि रथा भुवि ॥

तुरंगमाः श्वसंतश्च घर्मार्ता रथिनोपि च

॥१०॥

इतश्चेतश्च सलिलं प्रार्थयंतस्तृषातुराः ॥

गिरिद्रोणीश्च पादांश्च गिरिणां गहनानि च

॥११॥

तेषां प्रार्थयतां शीघ्रमन्योन्यं च विसर्पिणाम् ॥

दावाग्निरज्वलत्तीव्रो घोरो नर्दग्धपादपः

॥१२॥

तोयार्थिनः पुरो दृष्ट्वा तोयं कल्लो लमालितम् ॥

पुरःस्थितमपि प्राप्तुं न शेकुरुपसादितुम्

॥१३॥

अप्राप्य सलिलं भूमावभ्याशे द्रुतमेव ते ॥

तत्रतत्र व्यदृश्यन्त मृता दैत्येश्वराभुवि

॥१४॥

रथा गजाश्च पतितास्तुरंगाश्च श्रमान्विताः ॥

स्थिता वमंतो धावंतो गलद्द्रुतवसास्रजः

॥१५॥

दानवानां कोटिकोटि व्यदृश्यतमृतं तदा ॥

एवं क्षयो जानवानां तस्मिन्महति वर्तिते

॥१६॥

प्रकोपोद्भूतताम्राक्षः कालनेमी रुषातुरः ॥

बभूव कालमेधाभः स्फुरद्रोमशतह्रदः

॥१७॥

गंभीरास्फोटनिर्ह्रादजगद्धृदयकंपनः ॥

प्रच्छाद्य गगनं सूर्यप्रभां सर्वां व्यनाशयत्

॥१८॥

ववर्ष शीतं च जलं दानवेन्द्रबलं प्रति ॥

दैत्यास्तां वृष्टिमासाद्य समाश्वस्तास्ततः क्रमात्

॥१९॥

बीजांकुरा इव म्लानाः प्राप्य वृष्टिं धरातले ॥

ततः स मेघरूपेण कालनेमिर्महासुराः

॥२०॥

शस्त्रवृष्टिं ववर्षोग्रां देवनीकेषु दुर्जयः ॥

तया वृष्ट्या पीड्यमाना दैत्यैरन्यैश्च देवताः

॥२१॥

गतिं कांचिन्न पश्यन्ति गावः शीतार्दिता इव ॥

परस्परं व्यलीयंत गजेषु तुरगेषु च ॥

रथेषु च भयत्रस्तास्तत्रतत्र निलिल्यिरे

॥२२॥

एवं ते लीयमानाश्च निहताः कालने मिना ॥

दृश्यंते पतिता देवाः शस्त्रभिन्नंगसंधयः

॥२३॥

विभिन्ना भिन्नमूर्धानस्तथा भिन्नोरुजानवः ॥

विपर्यस्तं रथांगैश्च पतितं ध्वजशक्तिभिः

॥२४॥

तुरंगाणां सहस्राणि गजानामयुतानि च ॥

रक्तेन तेषां घोरेण दुस्तरा चाभवन्मही

॥२५॥

एवमाजौ महादैत्यः कालनेमिर्महासुरः ॥

जघ्ने मुहुर्तमात्रेण गंधर्वाणां दशायुतम्

॥२६॥

यक्षाणां पंचलक्षाणि किंनराणां तथैव च ॥

जघ्ने पिशाचमुख्यानां सप्तलक्षाणि निर्भयः

॥२७॥

इतरेषां न संख्यास्ति सुरजातिनिकायिनाम् ॥

जघ्ने स कोटिशः क्रद्धः कालनेमिर्मदोत्कटः

॥२८॥

एवं प्रतिभये भीमे तदामर महाक्षये ॥

संक्रुद्धावश्विनौ वीरौ चित्रास्त्रकवचोज्जवलौ

॥२९॥

जघ्नतुस्तौ रणे दैत्यमेकैकं षष्टिभिः शरैः ॥

निर्भिद्य ते महादैत्यं सपुंखा विविशुर्महीम्

॥३०॥

ताभ्यां बाणप्रहारैस्तु किंचित्सोऽवाप्तचेतनः ॥

जग्राह चक्रं लक्षारं तैलधौतं रणेऽधिकम्

॥३१॥

तेन चक्रेण सोश्विभ्यां चिच्छेद रथकूबरम् ॥

जग्राहाथ धनुर्दैत्यः शरांश्चाशीविषोपमान्

॥३२॥

ववर्ष भिषजोर्मूर्ध्नि संछाद्याकाशगोचरम् ॥

तावप्यस्त्रैः स्मृतैः सर्वाश्छेदतुर्दैत्यसायकान्

॥३३॥

तच्च करम तयोर्दृष्ट्वा विस्मितः कोपमाविशत् ॥

जग्राह मुद्गरं भीम कालदंडविभीषणम्

॥३४॥

स तदमुद्भ्राम्य वेगेन चिक्षेपास्य रथं प्रति ॥

तं तु मुद्गरमायांतमालोक्यांबरगोचरे

॥३५॥

मुक्त्वा रथावुभौ वेगादाप्लुतौ तरसाश्विनौ ॥

तौ रथौ स तु निष्पिष्य मुद्गरोऽचलसंनिभः

॥३६॥

दारयामास धरणीं हेमजालपरिष्कृतः ॥

तस्य कर्माथ तद्दृष्ट्वा भिषजौ चित्रयोधिनौ

॥३७॥

वज्रास्त्रं च प्रकुर्वाणौ दानवेंद्रमयुध्यताम् ॥

घोरवज्रप्रहारैस्तु दानवः स परिक्षतः

॥३८॥

रथो ध्वजो धनुश्चैव छत्रं च कवचं तथा ॥

क्षणेन शतधा भूतं सर्वसैन्यस्य पश्यतः

॥३९॥

तद्दृष्ट्वा दुकरं कर्म सोऽश्विभ्यां भीमविक्रमः ॥

नारायणास्त्रं बलवान्मुमोच रणमूर्धनि

॥४०॥

ततः शशाम वज्रास्त्रं कालनेमिस्ततो रुषा ॥

जीवग्राहं ग्राहयितुमश्विनौ तौ प्रचक्रमे

॥४१॥

तावभिप्रायमालक्ष्य संत्यज्य समरांगणम् ॥

पदाती वेपमानांगौ प्रद्रुतौ वासवोयतः

॥४२॥

तयोरनुगतो दैत्यः कालनेमिर्नदन्मुहुः ॥

प्राप्येंद्रस्य बलं क्रूरो दैत्यानीकपदानुगः

॥४३॥

स काल इव कल्पांते यदा वासवमाद्रुतः ॥

तं दृष्ट्वा सर्वभूतानि विविशुर्विह्वलानि तु

॥४४॥

हाहारावं प्रकुर्वाणास्तदा देवाश्च मेनिरे ॥

पराजयं महेंद्रस्य सर्वलोकक्षयावहम्

॥४५॥

चेलुः शिखरिणो मुख्याः पेतुरुल्का नभस्तलात् ॥

जगर्जुर्जलदा दिक्षु संभूतश्च महारवः

॥४६॥

तां भूताविकृतिं दृष्ट्वा देवाः सेंद्रा भयावहाः ॥

मनसा शरणं जग्मुर्वासुदेवं जगत्पतिम्

॥४७॥

नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ॥

जगद्धिताय कृष्णाय गोविंदाय नमोनमः

॥४८॥

स नो रक्षतु गोविंदो भयार्तास्ते जगुः सुराः ॥

सुराणां चिंतितं ज्ञात्वा भगवान्गरुडध्वजः

॥४९॥

विबुध्यैव च पर्यंकाद्योगनिद्रां विहाय सः ॥

लक्ष्मीकरयुगांभोजलालितांघ्रिसरोरुहः

॥५०॥

शारदंबरनीराब्जकांतिदेहच्छविः प्रभुः ॥

कौस्तुभोद्भासिहृदयः कांतकेयूरभास्करः

॥५१॥

विमृश्य सुरसंक्षोभं वैनतेयमाताह्वयत् ॥

आहूतेऽविस्थितेतस्मिन्गरुडे दुःखिते भृशम्

॥५२॥

दिव्यनानास्त्रतीक्ष्णार्चिरारुह्यागात्सुराहवम् ॥

तत्रापश्यत देवेंद्रं भयभीतमभिद्रुतम्

॥५३॥

दानवेंद्रैर्नवांभोदसच्छायैः सर्वथोत्कटैः ॥

यथा हि पुरुषं घोरैरभाग्यैरर्थकांक्षिभिः

॥५४॥

तत्त्राणायाव्रजद्विष्णुः स्तूयमानो मुहुः सुरैः ॥

अभाग्येभ्यः परित्रातुं सुकृतं निर्मलं यथा

॥५५॥

अथापश्यत दैत्येंद्रो वियति द्युतिमंडलम् ॥

स्फुरंतमुदयाच्छीघ्रं कांतं सूर्यशतं यथा

॥५६॥

प्रभवं ज्ञातुमिच्छंतो दानवास्तस्य तेजसः ॥

गरुडं तमथा पश्यन्कल्पांतानलभैरवम्

॥५७॥

तत्र स्थितं चतुर्बाहुं हरिं चानुपमद्युतिम् ॥

तमालोक्यासुरेंद्रास्तु हर्षसंपूर्णमानसाः

॥५८॥

अयं स देवः सर्वेषां शरणं केशवोऽरिहा ॥

अस्मिञ्जिते जिताः सर्वा देवता नात्र संशयः

॥५९॥

एनमाश्रित्य लोकेशा यज्ञभागभुजोऽमराः ॥

इत्युक्त्वा ते समागम्य सर्व एव ततस्ततः

॥६०॥

तं जघ्नुर्विविधैः शस्त्रैः परिवार्य समंततः ॥

कालनेमिप्रभृतयो दश दैत्यमहारथाः

॥६१॥

षष्ट्या विव्याधबाणानां कालनेमिर्जनार्दनम् ॥

निमिः शतेन बाणानां मथनोऽशीतिभिः शरैः

॥६२॥

जंभकश्चैव सप्तत्या शुंभो दशभिरेव च ॥

शेषा दैत्ये श्वराः सव विष्णुमेकैकशः शरैः

॥६३॥

दशभिर्दशभिः शल्यैर्जघ्नुः सगरुडं रणे ॥

तेषाममृष्यत्तत्कर्म विष्णुर्दानवसूदनः

॥६४॥

एकैकं दानवं जघ्ने षड्भिः पड्भिरजिह्नगैः ॥

आकर्णकृष्टैर्भूयश्च कालनेमिस्त्रिभिः शरैः

॥६५॥

विष्णुं विव्याध हृदये रोषाद्रक्तविलोचनः ॥

तस्याशोभंत ते बाणा हृदये तप्तकांचनाः

॥६६॥

मयूखा इव संदीप्ताः कौस्तुभस्य स्फुरत्त्विषः ॥

तैर्बाणैः किंचिदायस्तो हरिर्जग्राह मुद्गरम्

॥६७॥

स तमुद्ग्राह्य वेगेन दानवाय मुमोच वै ॥

दानवेन्द्रस्तमप्राप्तं वियत्येव शतैः शरैः

॥६८॥

चिच्छेद तिलशः क्रुद्धो दर्शयन्पाणिलाघवम् ॥

ततो विष्णुः प्रकुपितः प्रासं जग्राह भैरवम्

॥६९॥

तेन दैत्यस्य हृदयं ताडयामास वेगतः ॥

क्षणेन लब्धसंज्ञस्तु कालनेमिर्महासुरः

॥७०॥

शक्तिं जग्राह तीक्ष्णाग्रां हेमघंटाट्टहासिनीम् ॥

तया वामं भुजं विष्णोर्बिभेद दितिनंदनः

॥७१॥

भिन्नं शक्त्या भुजं तस्य स्रुतशोणितमाबभौ ॥

नीले बला हके विद्युद्विद्योतंती यथा मुहुः

॥७२॥

ततो विष्णुः प्रकुपितो जग्राह विपुलं धनुः ॥

सप्तदश च नाराचांस्तीक्ष्णाग्रान्मर्मभेदिनः

॥७३॥

दैत्यस्य हृदयं षड्भिर्विव्याध च शरैस्त्रिभिः ॥

चतुर्भिः सारथिं चास्य ध्वजं चैकेन पत्रिणा

॥७४॥

द्वाभ्यां धनुर्ज्याधनुषी भुजं चैकेन पत्रिणा ॥

स विद्धो हृदये गाढं दोषैर्मूढो यथा नरः

॥७५॥

स्रुतरक्तारुणः प्रांशुः पीडाचलितमानसः ॥

चकंपे मारुतेनेव चोदितः किंशुकद्रुमः

॥७६॥

ततः कंपितमालक्ष्य गदां जग्राह केशवः ॥

तां च वेगेन चिक्षेप कालनेमिवधं प्रति

॥७७॥

सा पपात शिरस्युग्रा सहसा कालनेमिनः ॥

संचूर्णितोत्तमां गस्तु निष्पिष्टमुकुटोसुरः

॥७८॥

स्रुतरक्तौघरंध्रश्च स्रुतधातुरिवाचलः ॥

पपात स्वे रथे भग्नो विसंज्ञः शिष्टजीवनः

॥७९॥

पतितस्य रथोपस्थे दानवस्याच्युतोऽरिहा ॥

स्मितपूर्वमुवाचेदं वाक्यं चक्रायुधः प्रभुः

॥८०॥

गच्छासुर विमुक्तोऽसि सांप्रतं जीव निर्वृतः ॥

ततः स्वल्पेन कालेन अहमेव तवांतकः

॥८१॥

एवं वचस्तस्य निशम्य विष्णोः सर्वेश्वरस्याथ रथं निमेषात् ॥

निनाय दूरं किल कालनेमिनो भीतस्तदा सारथिर्लोकनाथात्

॥८२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे देवासुरासंग्रामे कालनेमिकृतयुद्धसंमर्दे विष्णुना सह कालनेमियुद्धवर्णनंनामैकोनविंशोऽध्यायः ॥ १९ ॥