मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — कौमारिकाखण्डः, अध्याय ५६

3
माहेश्वरखण्डः · कौमारिकाखण्डः · 56

गर्भश्वरमाहात्म्यवर्णनम्

नारद उवाच

अतः परं प्रवक्ष्यामि ब्रह्मेशं लिंगमुत्तमम् ॥

यस्य स्मरणमात्रेण वाजपेयफलं भवेत्

॥१॥

एकदा तु पुरा पार्थ सृष्टि कामेन ब्रह्मणा ॥

तपः सुचरितं घोरं सार्धवर्षसहस्रकम्

॥२॥

तपसा तेन सन्तुष्टः पार्वतीपतिशंकरः ॥

वरमस्मै ततः प्रादाल्लोककर्त्रे स्ववांछितम्

॥३॥

ततो हृष्टः प्रमुदितः कृतकृत्यः पितामहः ॥

ज्ञात्वा क्षेत्रस्य माहात्म्यं स्वयं लिंगं चकार ह

॥४॥

चखान च सरः पुण्यं नाम्ना ब्रह्मसरः शुभम ॥

महीनगरकात्पूर्वे महापातकनाशनम्

॥५॥

अस्य तीरे महालिंगं स्थापयामास वै विभुः ॥

तत्र देवः स्वयं साक्षाद्विद्यते किल शंकरः

॥६॥

पुष्करादधिकं तीर्थं ब्रह्मेशंनाम फाल्गुन ॥

तत्र स्नात्वा नरो भक्त्या पिण्डदानं समाचरेत्

॥७॥

दानं चैव यथाशक्त्या कार्तिक्यां च विशेषतः ॥

देवं प्रपूजयेद्भक्त्या ब्रह्मेशं हृष्टमानसः

॥८॥

पितरस्तस्य तुष्यंति यावदाभूतसंप्लवम् ॥

पुष्करेषु च यत्पुण्यं कुरुक्षेत्रे रविग्रहे

॥९॥

गंगादिपुण्यतीर्थेषु यत्फलं प्राप्यते नरैः ॥

तत्फलं समवाप्नोति तीर्थस्यास्यावगाहनात्

॥१०॥

मोक्षलिंगस्य माहात्म्यं शृणु पार्थ महाद्भुतम् ॥

मया स्थानहितार्थं च समाराध्य महेश्वरम्

॥११॥

स्थापितं प्रवरं लिंगं नाम्ना मोक्षेश्वरं हरम् ॥

दर्भाग्रेण ततः पार्थ कूपं खनितवानहम्

॥१२॥

प्रसाद्य लोककर्तारं ब्रह्माणं परमेष्ठिनम् ॥

कमण्डलोर्ब्रह्मणश्च समानीता सरस्वती

॥१३॥

कूपेऽस्मिन्मोक्षनाथस्य लोकानां प्रेतमुक्तये ॥

कार्तिकस्य तु मासस्य शुक्लपक्षे चतुर्दशी

॥१४॥

कूपे स्नात्वा नरस्तस्यां तिलपिण्डं समाचरेत् ॥

प्रेतानुद्दिश्य नियतं मोक्षतीर्थफलं भवेत्

॥१५॥

कुले न जायते तस्य प्रेतः पार्थ न संशयः ॥

प्रेता मोक्षं प्रगच्छन्ति तीर्थस्यास्य प्रभावतः

॥१६॥

जयादित्यकूपवरे नरः स्नात्वा प्रयत्नतः ॥

गर्भेश्वरं नमस्कृत्य न स गर्भेषु मज्जति

॥१७॥

इदं मया पार्थ तव प्रणीतं गुप्तस्य क्षेत्रस्य समासयोगात् ॥

माहात्म्यमेतत्सकलं शृणोति यः स्याद्विशुद्धः किमु वच्मि भूयः

॥१८॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखंडे कौमारिकाखंडे ब्रह्मेश्वरमोक्षेश्वर गर्भश्वरमाहात्म्यवर्णनंनाम षट्पंचाशत्तमोऽध्यायः ॥ ५६ ॥