मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — कौमारिकाखण्डः, अध्याय ३९

3
माहेश्वरखण्डः · कौमारिकाखण्डः · 39

सहस्रसप्तत्युच्छ्राये पातालानि परस्परम्

नारद उवाच

सहस्रसप्तत्युच्छ्राये पातालानि परस्परम् ॥

अतलं वितलं चैव नितलं च रसातलम्

॥१॥

तलातलं च सुतलं पातालं चापि सप्तमम् ॥

कृष्णशुक्लारुणाः पीताः शर्कराशैलकांचनाः

॥२॥

भूमयो यत्र कौरव्य वरप्रासादशोभिताः ॥

तेषु दानवदैतेयनागाश्चैव सहस्रसः

॥३॥

स्वर्लोकादपि रम्याणि दृष्टानि बहुशो मया ॥

आह्लादकारिणो नानामण्यो यत्र पन्नगः

॥४॥

दैत्यदानवकन्याभिर्महारूपाभिरन्विते ॥

पाताले कस्य न प्रीतिर्विमुक्तस्यापि जायते

॥५॥

यत्र नोष्णं न वा शीतं न वर्षं दुःखमेव च ॥

भक्ष्यभोज्यमहाभोगकालो यत्रापि जायते

॥६॥

पाताले सप्तमे चास्ति लिंगं श्रीहाटकेश्वरम् ॥

ब्रह्मणा स्थापितं पार्थ सहस्रयोजनोच्छ्रितम्

॥७॥

हाटकस्य तु लिंगस्य प्रासादो योजनायुतः ॥

सर्वरत्नमयो दिव्यो नानाश्चयविभूषितः

॥८॥

तच्चार्यंति तल्लिंगं नानानागेन्द्रसत्तमाः ॥

तदधस्ताज्जलं भूरि तस्याधो नरकाः स्मृताः

॥९॥

पापिनो येषु पात्यंते ताञ्छृणुष्व महामते ॥

कोटयः पंचपंचाशद्राजानश्चैकविंशति

॥१०॥

रौरवः शूकरो रोधस्तालो विशसनस्तथा ॥

महाज्वालस्तप्तकुम्भो लवणोथ विमोहकः

॥११॥

रुधिरांधो वैतरणी कृमिशः कृमिभोजनः ॥

असिपत्रवनं कृष्णो लालाभक्ष्यश्च दारुमः

॥१२॥

तथा पूयवहः पापो वह्निज्वालोऽप्यधःशिराः ॥

संदंशः कृष्णसूत्रश्च तमश्चावीचिरेवच

॥१३॥

श्वभोजनो विसूचिश्चाप्यवीचिश्च तथाऽपरः ॥

कूटसाक्षी रौरवं च रोधं गोविप्ररोधकः

॥१४॥

सुरापः सूकरं याति तालं मिथ्याम नुष्यहा ॥

गुरुतल्पी तप्तकुम्भं तप्तलोहं च भक्तहा

॥१५॥

गुरूणामवमंता यचो महाज्वाले निपात्यते ॥

लवणं शास्त्रहंता च निर्मर्यादो विमोहके

॥१६॥

कृमिभक्ष्ये देवद्वेष्टा कृमिशे तु दुरिष्टकृत् ॥

पितृदेवात्पूर्वमश्रल्लाँलाभक्ष्ये प्रयाति च

॥१७॥

मिथ्याजीवविरोधी विशसने कूटशस्त्रकृत् ॥

अधोमुखे ह्यसद्ग्राही एकाशी पूयवाहके

॥१८॥

मार्ज्जारकुक्कुटश्वानपक्षिपोष्टा प्रयाति च ॥

बधिरांधगृहक्षेत्रतृणधान्यादिज्वालकः

॥१९॥

नक्षत्ररंगजीवी च याति वैतरणीं नरः ॥

धनयौवनमत्तो यो धनहा कृष्णमेति सः

॥२०॥

असिपत्रवनं याति वृक्षच्छेदी वृथैव यत् ॥

कुहकाजीविनः सर्वे वह्निज्वाले पतंति ते

॥२१॥

परस्त्रीं च परान्नं च गच्छन्संदंशमेति च ॥

दिवास्वप्नपरा ये व्रतलोपपराश्च ये

॥२२॥

शरीरमदमत्ताश्च यांति चैते श्वभोजनम् ॥

शिवं हरिं न मन्यंते यांत्यवीचिनमेव च

॥२३॥

इत्येवमादिभिः पापैरशास्त्रौघस्य सेवनैः ॥

पतंत्येव महाघोरनरकेषु सहस्रशः

॥२४॥

तस्माद्य इच्छेदेतेभ्यो विमोक्षं बुद्धिमान्नरः ॥

श्रुतिमार्गेण तेनार्च्यौ देवौ हरिहरावुभौ

॥२५॥

नरकाणामधोभागे स्थितः कालाग्निसंज्ञकः ॥

तदधो हट्टकश्चैव अनंतस्तदधः स्मृतः

॥२६॥

यस्यैतत्सकलं विश्वं मूर्धाग्रे सर्षपायते ॥

इत्यनंतप्रभावात्स ह्यनंत इति कीर्त्यते

॥२७॥

दिशां गजास्तत्र पद्मकुमुदांजनवामनाः ॥

तदधोंऽडकटाहश्च एकवीरास्ति तत्र च

॥२८॥

चतुर्लक्षसहस्राणि नवतिश्च शतानि च ॥

एतनैव प्रमाणेन उदकं च ततः स्मृतम्

॥२९॥

तदधो नरकाः कोट्यो द्विकोट्योऽग्निस्ततो महान् ॥

चत्वारिंशत्सहस्रैश्च तदधस्तम उच्यते

॥३०॥

चत्वारिंश्च्चकोट्यस्तु चतस्रश्च ततः पराः ॥

एकोननवतिर्लक्षाः सहस्राशीतिरेव च

॥३१॥

तदधोंऽडकटाहोथ कोटिमात्रस्तथापरः ॥

देवी युक्ता कपालीशा दंडहस्तेन चापि सा

॥३२॥

देवीनां कोटिकोटीभिः संवृता तत्र पालिनी ॥

संकर्षणस्य निःश्वासप्रेरितो दाहकोऽनलः

॥३३॥

कालाग्निं प्रेरयत्येव कल्पांते दह्यते जगत् ॥

एवंविधमधःसूत्रं निर्मितं चात्र भारत

॥३४॥

मध्यसूत्रे कटाहे च पालकांस्ताञ्छृणुष्व मे ॥

वसुधामा स्थितः पूर्वे शंखपालश्च दक्षिणे

॥३५॥

तक्षकेशः स्थितः पश्चादुत्तरे केतुमानिति ॥

हरसिद्धिः सुपर्णाक्षी भास्करा योगनंदिनी

॥३६॥

कोटिकोटी युता देवी देवीनां पालयत्यदः ॥

एवमेतन्महाश्चर्यं ब्रह्मांडं स्थापितं च यैः

॥३७॥

नमामि तानहं नित्यं ब्रह्मविष्णुमहेश्वरान् ॥

विष्णुलोको रुद्रलोको बहिश्चास्मात्प्रकीर्त्यते

॥३८॥

तं च वर्णयितुं ब्रह्मा शक्तो नैवास्मदादयः ॥

विमुक्ता यत्र संयांति नित्यं हरिहरव्रताः

॥३९॥

ब्रह्मांडं संवृतं ह्येतत्कटाहेन समंततः ॥

कपित्थस्य यथा बीजं कटाहेन सुसंवृतम्

॥४०॥

दशोत्तरेण पयसा वृतं तच्चापि तेजसा ॥

तेजश्च वायुना वायुर्नभ साहंतया च तत्

॥४१॥

अहंकारश्च महता तं चापि प्रकृतिः परा ॥

दशोत्तराणि सर्वाणि षडाहुः सप्तमं च तत्

॥४२॥

प्राकृतं चरणं पार्थ तदनंतं प्रकीर्तितम् ॥

अंडानां तु सहस्राणां सहस्राण्ययुतानि च

॥४३॥

ईदृशानां तथा चात्र कोटिकोटिशतानि च ॥

सर्वाण्येवंविधान्येव यादृशं कीर्तितंत्विदम्

॥४४॥

यस्यैवं वैभवं पार्थ तं नमामी सदाशिवम् ॥

अहो मंदः स पापात्मा को वा तस्मादचेतनः

॥४५॥

य एवंविधसंमोहतारकं न शिवं भजेत् ॥

अथ ते कीर्थयिष्यामि कालमानं निबोध तत्

॥४६॥

काष्ठा निमेषा दश पंच चाहुस्त्रिंशच्च काष्ठा गणयेत्कला हि ॥

त्रिंशत्कलाश्चापि भवेन्मुहुर्त्तं तत्त्रिंशता रात्र्यहनी उभे च

॥४७॥

दिवसे पंच कालाः स्युस्त्रिमुहूर्ताः श्रृणुष्व तान् ॥

प्रातस्ततः संगवश्च मध्याह्नश्चापराह्णकः

॥४८॥

सायाह्नः पंचमश्चापि मुहूर्ता दश पंच च ॥

अहोरात्राः पंचदश पक्ष इत्यभिधीयते

॥४९॥

मासः पक्षद्वयेनोक्तो द्वौ मासौ चार्कजावृतुः ॥

ऋतुत्रयं चाप्ययनं द्वेयने वर्षमुच्यते

॥५०॥

चतुर्भेदं मासमाहुः पंचभेदं च वत्सरम् ॥

संवत्सरस्तु प्रथमो द्वितीयः परिवत्सरः

॥५१॥

इद्वत्सरस्तृतीयोऽसौ चतुर्थश्चानुवत्सरः ॥

पंचमश्च युगोनाम गणनानिश्चयो हि सः

॥५२॥

मासेन च मनुष्याणामहोरात्रं च पैतृकम् ॥

कृष्णपक्षस्त्वहः प्रोक्तः शुक्लपक्षश्च शर्वरी

॥५३॥

मानुषेण च वर्षेण दैविको दिवसः स्मृतः ॥

अहस्तत्रो दगयनं रात्रिः स्याद्दक्षिणायनम्

॥५४॥

वर्षेण चैव देवानां मतः सप्तर्षिवासरः ॥

सप्तर्षीणां च वर्षेण ध्रौवश्च दिवसः स्मृतः

॥५५॥

मनुष्याणां च वर्षाणि लक्षासप्तदशैव तु ॥

अष्टाविंशतिसहस्राणि कृतं त्रेतायुगं ततः

॥५६॥

लक्षद्वादशसाहस्रषण्नवत्यधिकाः पराः ॥

अष्टौ लक्षाश्चतुःषष्टिसहस्राणि च द्वापरः

॥५७॥

चतुर्लक्षं तु द्वात्रिंशत्सहस्राणि कलिः स्मृतः ॥

चतुर्भिरेतैर्देवानां युगामित्यभिधीयते

॥५८॥

आयुर्मनोर्युगानां च साधिका ह्येकसप्ततिः ॥

चतुर्दशमनूनां च कालेन ब्रह्मणो दिनम्

॥५९॥

युगानां च सहस्रेण स च कल्पः श्रृणुष्व तान् ॥

भवोद्भवस्तपभव्य ऋतुर्वह्निर्वराहकः

॥६०॥

सावित्र आसिकश्चापि गांधारः कुशिकस्तथा ॥

ऋषभश्च तथा खड्गो गांधारीयश्च मध्यमः

॥६१॥

वैराजश्च निषादश्च मेघवाहनपंचमौ ॥

चित्रको ज्ञान आकूतिर्मोनो दंशश्च बृंहकः

॥६२॥

श्वेतो लोहितरक्तौ च पीतवासाः शिवः प्रभुः ॥

सर्वरूपश्च मासोऽयमेवं वर्षशतावधिः

॥६३॥

पूर्वार्धमपरार्धं च ब्रह्ममानमिदं स्मृतम् ॥

विष्णोश्च शंकरस्यापि नाहं शक्तश्च वर्णने

॥६४॥

क्वाहमल्पमतिः पार्थ क्वापरौ हरित्र्यंबकौ ॥

देविकेनैव मानेन पातालेष्वपि गण्यते

॥६५॥

इति ते सूचितं बुद्ध्या श्रृणु तत्प्राकृतं पुनः

॥६६॥

इति वैधात्रव्यवस्थितिः ॥

श्रीनारद उवाच ॥

ऋषभोनाम यन्नाम्ना नानापाषंड कल्पनाः ॥

कलौ पार्थ भविष्यंति लोकानां मोहनात्मिकाः

॥६७॥

तस्य पुत्रस्तु भरतः शतश्रृंगस्तु तत्सुतः ॥

तस्य पुत्राष्टकं जातं तथैकाच कुमारिका

॥६८॥

इंद्रद्वीपः कसेरुश्च ताम्रद्वीपो गभस्तिमान् ॥

नागः सौम्यश्च गांधर्वो वरुणश्च कुमारिका

॥६९॥

वदनं चापि कन्यायाः पार्थ बर्करिकाकृति ॥

श्रृणु तत्कारणं सर्वं महाश्चर्यसमन्वितम्

॥७०॥

महीसागरपर्यंतं वृक्षराजिविराजिते ॥

जालीगुल्मलताकीर्णे स्तंभतीर्थस्य संनिधौ

॥७१॥

अजासमजतो मध्यात्काचिदेका च बर्करी ॥

भ्रांता सती समायाता प्रदेशे तत्र दुश्चरे

॥७२॥

इतस्ततो भ्रमंति सा जालिमध्ये समंततः ॥

निर्गंतुं नैव शक्नोति क्षुत्पिपासार्दिता शुभा

॥७३॥

विलग्ना जालिमध्ये तु ततः पंचत्वमागता ॥

कालेन कियता तस्य त्रुटित्वा शिरसो ह्यधः

॥७४॥

पपात शनिदर्शे च महीसागरसंगमे ॥

सर्वतीर्थमये तत्र सर्वपापप्रमोचने

॥७५॥

शिरस्तु तदवस्थं हि समग्रं तत्र संस्थितम् ॥

जालिगुल्मावलग्नं च तस्या नैवापतज्जले

॥७६॥

शेषकायप्रपातेन महीसागरसंगमे ॥

तत्तीर्थस्य प्रभावेन बर्करीसा कुरूद्वह

॥७७॥

शकश्रृंगस्य वै राज्ञः सिंहलेष्वभवत्सुता ॥

मुखं बर्करिकातुल्यं व्यक्तं तस्या व्यजायत

॥७८॥

दिव्यनारी शुभाकारा शेषकाये बभौ शुभा ॥

पूर्वं तस्याप्यपुत्रस्य राज्ञः पुत्रशतोपमा

॥७९॥

पुत्री जाता प्रमोदेन स्वजनानंदवर्धिनी ॥

ततस्तस्या विलोक्याथ मुखं वर्करिकाकृति

॥८०॥

विस्मयं समनुप्राप्ताः सर्वे ते राजपूरुषाः ॥

विषादं परमापन्नो राजा सांतःपुरस्तदा

॥८१॥

खिन्नाः प्रकृतयः सर्वास्तादृग्रूपविलोकनात् ॥

तत्किमित्येतदाश्चर्यमूचुः पौराः सुविस्मिताः

॥८२॥

ततः सा यौवनं प्राप्ता साक्षाद्देवसुतोपमा ॥

स्वमुखं दर्पणे वीक्ष्यस्मृतः पूर्वो भवस्तया

॥८३॥

तत्तीर्थस्य प्रभावेण मातृपित्रोर्निवेदितम् ॥

विषादो नैव कर्तव्यो मदर्थे तात निश्चितम्

॥८४॥

मा शोकं कुरु मे मातः पूर्वजन्मार्जितं फलम् ॥

ततः पूर्वं स्ववृत्तांतमुक्त्वा सा च कुमारिका

॥८५॥

पूर्वजन्मोद्भवः कायस्यस्या यत्रापतत्तथा ॥

गमनाय तमुद्देशं विज्ञप्तौ पितरौ तया

॥८६॥

अहं तात गमिष्यामि महीसागरसंगमम् ॥

भवामि तत्र संप्राप्ता यथा कुरु तथा नृप

॥८७॥

ततः पित्रा प्रतिज्ञातं शतश्रृंगेण तत्तथा ॥

तस्याः संवाहनं चक्रे राजा पोतैः सरत्नकैः

॥८८॥

स्तंभतीर्थं ततः साऽपि प्राप्य पोतार्यसंयुता ॥

भूरिदानं ततश्चक्रे दानं सर्वस्वलक्षणम्

॥८९॥

जालिगुल्मांतरेऽन्विष्य ततो दृष्टं निजं शिरः ॥

अस्थिचर्मावशेषं च तदादाय प्रयत्नतः

॥९०॥

दग्ध्वा संगमसांनिध्ये क्षिप्तान्यस्थीनि संगमे ॥

ततस्तीर्थप्रभावेण मुखं जातं शशिप्रभम्

॥९१॥

न तादृग्देवकन्यानां न तादृङनागयोषिताम् ॥

न तादृङमर्त्यनारीणां तस्या यादृङमुखं मुखम्

॥९२॥

सुरासुरनराः सर्वे तस्या रूपेण मोहिताः ॥

बहुधा प्रार्थयंत्येनां न सा वरमभीप्सति

॥९३॥

कष्टं तया मुदा तत्र प्रारब्धं दुश्चरं तपः ॥

ततः संवत्सरे पूर्णे देवदेवो महेश्वरः

॥९४॥

प्रत्यक्षतां गतस्तस्यै वरदोऽस्मीति चाब्रवीत् ॥

ततस्तं पूजयित्वा च कुमारी वाक्यमब्रवीत्

॥९५॥

यदि तुष्टोऽसि देवेश यदि देयो वरो मम ॥

सांनिध्यं क्रियतामत्र सर्वकालं हि शंकर

॥९६॥

एवमस्त्विति शर्वेण प्रोक्ते हृष्टा कुमारिका ॥

यत्र दग्धं शिरस्तस्या बर्कर्याः कुरुसत्तम

॥९७॥

बर्करेशः शिवस्तत्र तया संस्थापितस्तदा ॥

मन्मुखान्महादाश्चर्यं श्रुत्वेदं च तलातलात्

॥९८॥

स्वस्तिकोनाम नागेंद्रः कुमारीं द्रष्टुमागतः ॥

शिरसा गच्छता तेन यत्रोत्क्षिप्ता च भूरभूत्

॥९९॥

ईशाने बर्करेशस्य कूपोऽभूत्स्वस्तिकाभिधः ॥

पूरितो गंगया पार्थसर्वतीर्थफलप्रदः

॥१००॥

दृष्ट्वा च स्थापितं लिंगं शिवस्तुष्टो वरं ददौ ॥

येषां मृतशरीराणामत्र दाहः प्रजायते

॥१०१॥

क्षिप्यंतेब्धौ तथा स्थीनि तेषां स्यादक्षया गतिः ॥

ते स्वर्गे सुचिरं कालं वसित्वात्र समागताः

॥१०२॥

राजानः सर्वसंपूर्णाः सप्रतापा भवंति ते ॥

बर्करेशं च यो भक्त्या संपूजयति मानवः

॥१०३॥

स्नात्वार्णवमहीतोये तस्य स्यान्मनसेप्सितम् ॥

कार्तिके च चतुर्द्देश्यां कृष्णायां श्रद्धयान्वितः

॥१०४॥

कूपे स्नानं नरः कृत्वा संतर्प्य च पितॄन्निजान् ॥

पूजयेद्बर्करेशं यः सर्पपापैः स मुच्यते

॥१०५॥

एवं लब्ध्वा वरान्सर्वान्सा पुनः सिंहलं ययौ ॥

शतश्रृङ्गाय पित्रे च वृत्तांतं स्वं न्यवेदयत्

॥१०६॥

तच्छ्रुत्वा विस्मितो राजा लोकाः सर्वे च फाल्गुन ॥

प्रशशंसुर्महीतीर्थमाजग्मुश्च कृतादराः

॥१०७॥

स्नात्वा दत्त्वा च दानानि विविधानि च ते ततः ॥

सिंहलं च ययुर्भूयस्तीर्थमाहात्म्यहर्षिताः

॥१०८॥

अनिच्छंत्यां कुमार्यां च वरं द्रव्यं च पार्थिवः ॥

तथान्यदपि प्रीत्यासौ यद्ददौ नृपतिः श्रृणु

॥१०९॥

इदं भारतखंडं च नवधैव विभज्य सः ॥

ददावष्टौ स्वपुत्राणां कुमार्यै नवमं तथा

॥११०॥

तेषां विभेदान्वक्ष्यामि पर्वतैरुपशोभितान् ॥

पुत्रनामानि वर्षाणि पर्वतांश्च श्रृणुष्व मे

॥१११॥

महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः ॥

विंध्यश्च पारियात्रश्च सप्तात्र कुलपर्वताः

॥११२॥

महेन्द्रपरतश्चैव इन्द्रद्वीपो निगद्यते ॥

पारियात्रस्य चैवार्वाक्खण्डं कौमारिकं स्मृतम्

॥११३॥

सहस्रमेकमेकं च सर्वखण्डान्यमूनि च ॥

नदीनां संभवं चापि संक्षेपाच्छृणु फाल्गुन

॥११४॥

वेदस्मृतिमुखा नद्यः पारियात्रोद्भवा मताः ॥

नर्मदासरसाद्याश्च नद्यो विंध्याद्विनिर्गताः

॥११५॥

शतद्रूचन्द्रभागाद्या ऋक्षपर्वतसंभवाः ॥

ऋषिकुल्याकुमार्याद्याः शुक्तिमत्पादसंभवाः

॥११६॥

तापी पयोष्णी निर्विध्या कावेरी च महीनदी ॥

कृष्णा वेणी भीमरथी सह्यपादोद्भवाः स्मृताः

॥११७॥

कृतमालाताम्रपर्णीप्रमुखा मलयोद्भवाः ॥

त्रिसामऋष्यकुल्याद्या महेन्द्रप्रभवाः स्मृताः

॥११८॥

एवं विभज्य पुत्रेभ्यः कुमार्यै च महीपतिः ॥

शतशृंगो गिरं गत्वा उदीच्यां तप्तवांस्तपः

॥११९॥

तत्र तप्त्वा तपो घोरं ब्रह्मलोकं जगाम सः ॥

शतश्रृंगो नृपश्रेष्ठः शतश्रृंगे नगोत्तमे

॥१२०॥

यत्र जातोऽसि कौतेय पांडोस्त्वं सोदरैः सह ॥

कुमारी च महाभागा स्तंभतीर्थस्थिता सती

॥१२१॥

खंडोद्भवेन द्रव्येण तेपे दानानि यच्छती ॥

ततः केनापि कालेन भ्रातृभ्योऽष्टभ्य एव च

॥१२२॥

महावीर्यबलोत्साहा जाता नव नवात्मजाः ॥

ते समेत्य समागम्य कुमारीं प्रोचिरे ततः

॥१२३॥

कुलदेवी त्वमस्माकं प्रसादं कुरु नः शुभे ॥

अष्टौ खण्डानि चास्माकं विभज्य स्वयमेव च ॥

देही द्वासप्ततीनां नो विभेदः स्याद्यथा न नः

॥१२४॥

इत्युक्ता सर्वधर्मज्ञा विज्ञाने ब्रह्मणा समा ॥

द्वासप्ततिविभेदैः सा नव खंडान्यचीकरत्

॥१२५॥

तेषां नामानि ग्रामांश्च पत्तनानि च फाल्गुन ॥

वेलाकूलानि संख्यां च वक्ष्यामि तव तत्त्वतः

॥१२६॥

कोटिश्चतस्रो ग्रामाणां नीवृदासीच्च मंडले ॥

सार्धकोटिद्वयग्रामैर्देशो बालाक जच्यते

॥१२७॥

सपादकोटिर्ग्रामाणां पुरसाहणके विदुः ॥

लक्षाश्चत्वार एवापि ग्रामाणामंधके स्मृताः

॥१२८॥

एको लक्षश्च नेपाले ग्रामाणां परिकीर्तितः ॥

षट्‌त्रींशल्लक्षमानं तु कान्यकुब्जे प्रकीर्तितम्

॥१२९॥

द्वासप्ततिस्तथा लक्षा ग्रामा गाजणके स्मृताः ॥

अष्टादश तथा लक्षा ग्रामाणां गौडदेशके

॥१३०॥

कामरूपे च ग्रामाणां नवलक्षाः प्रकीर्तिताः ॥

डाहले वेदसंज्ञे तु ग्रामाणां नवलक्षकम्

॥१३१॥

नवैव लक्षा ग्रामाणां कांतिपुरे प्रकीर्तिताः ॥

नवलक्षास्तथा चैव माचिपुरे प्रकीर्तिताः

॥१३२॥

ओड्डियाणे तथा देशे नवलक्षाः प्रकीर्तिताः ॥

जालंधरे तथा देशे नवलक्षाः प्रकीर्तिताः

॥१३३॥

लोहपूरे तथा देशे लक्षाः प्रोक्ता नवैव च ॥

ग्रामाणां सप्तलक्षं च पांबीपुरे प्रकीर्तितम्

॥१३४॥

ग्रामाणां सप्तलक्षं च रटराजे प्रकीर्तितम् ॥

हरीआले च ग्रामाणां लक्षपंचकसंमितम्

॥१३५॥

सार्धलक्षत्रयं प्रोक्तं द्रडस्य विषये तथा ॥

सार्धलक्षत्रयं प्रोक्तं तथावंभणवाहके

॥१३६॥

एकविंशतिसाहस्रं ग्रामणां नीलपूरके ॥

तथामलविषये पार्थ ग्राममाणामेकलक्षकम्

॥१३७॥

नरेंदुनामदेशे तु लक्षमेकं सपादकम् ॥

अतिलांगलदेशे च लक्षः प्रोक्तः सपादकः

॥१३८॥

लक्षाष्टादशसाहस्रं नवती द्वे च मालवे ॥

सयंभरे तथा देशे लक्षः प्रोक्तः सपादकः

॥१३९॥

मेवाडे च तथा प्रोक्तो लक्षश्चैकःसपादकः ॥

अशीतिश्च सहस्राणि वागुरिः परिकीर्तितः

॥१४०॥

ग्रामसप्ततिसाहस्रो गुर्जरात्रः प्रकीर्तितः ॥

तथा सप्ततिसाहस्रः पांडर्विषय एव च

॥१४१॥

जहाहुतिसहस्राणि द्वाचत्वारिंशदेव च ॥

अष्टषाष्टसहस्राणि प्रोक्तं काश्मीरमंडलम्

॥१४२॥

षष्टित्रिंशत्सहस्राणि ग्रामाणां कौंकणे विदुः ॥

चतुर्दशशतं द्वे च विंशतीलघुकौंकणम्

॥१४३॥

सिंधुः सहस्रदशके ग्रामाणां परिकीर्तितः

॥१४४॥

चतुर्दशशते द्वे च विंशतिः कच्छमंडलम् ॥

पंचपंचाशत्सहस्रं ग्रामाः सौराष्ट्रमुच्यते

॥१४५॥

एकविंशतिसहस्रो लाडदेशः प्रकीर्तितः ॥

अतिसिंधुश्च ग्रामाणां दशसहस्र उच्यते ॥

तथा चाश्वमुखं पार्थ दशसाहस्रमुच्यते

॥१४६॥

सहस्रदशकं चापि एकपादः प्रकीर्तितः

॥१४७॥

तथैव दशसाहस्रो देशः सूर्यमुखः स्मृतः ॥

एकबाहुस्तथा देशो दशसाहस्रमुच्यते

॥१४८॥

सहस्रदशकं चैव संजायुरिति देशकः ॥

शिवनामा तथा देशः सहस्रदशकः स्मृतः ॥

सहस्राणि दश ख्यातं तथा कालहयंजयः

॥१४९॥

लिंगोद्भवस्तथा देशः सहस्राणि दशैव च ॥

भद्रश्च देवभद्रश्च प्रत्येकं दशकौ स्मृतौ

॥१५०॥

षट्‌त्रिंशच्च सहस्राणि स्मृतौ चटविराटकौ ॥

षट्‌त्रिंशच्च सहस्राणि यमकोटिः प्रकीर्तिता

॥१५१॥

अष्टादश तथा कोट्यो रामको देश उच्यते ॥

तोमरश्चापि कर्णाटो युगलश्च त्रयस्त्विमे

॥१५२॥

सपादलक्षग्रामाणां प्रत्येकं परिकीर्तितः ॥

पंचलक्षाश्च ग्रामाणां स्त्रीराज्यं परिकीर्तितम्

॥१५३॥

पुलस्त्यविषयश्चापि दशलक्षक उच्यते ॥

प्रत्येकं लक्षदशकौ देशौ कांबोजकोशलौ

॥१५४॥

ग्रामाणां च चतुर्लक्षो बाल्हिकः परिकीर्त्यते ॥

षट्‌त्रिंशच्च सहस्राणि लंकादेशः प्रकीर्तितः

॥१५५॥

चतुःषष्टिसहस्राणि कुरुदेशः प्रकीर्तितः ॥

सार्धलक्षस्तथा प्रोक्तः किरातविजयो जयः

॥१५६॥

पंच प्राहुस्तथा लक्षान्विदर्भायां च ग्रामकान् ॥

चतुर्दशसहस्राणि वर्धमानं प्रकीर्तितम्

॥१५७॥

सहस्रदशकं चापि सिंहलद्वीपमुच्यते ॥

षट्‌त्रिंशच्च सहस्राणि ग्रामाणां पांडुदेशकः

॥१५८॥

लक्षैकं च तथा प्रोक्तं ग्रामाणां तु भयाणकम् ॥

षट्‌षष्टिं च सहस्राणि देशो मागध उच्यते

॥१५९॥

षष्टिसहस्राणि तथा ग्रामाणां पांगुदेशकः ॥

त्रिंशत्साहस्र उक्तश्च ग्रामाणां च वरेंदुकः

॥१६०॥

पंचविंशतिसाहस्रं मूलस्थानं प्रकीर्तितम् ॥

चत्वारिंशत्सहस्राणि ग्रामाणां यावनः स्मृतः

॥१६१॥

चत्वार्येव सहस्राणि पक्षबाहुरुदीर्यते ॥

द्वासप्ततिरमी देशाः ग्रामसंख्याः प्रकीर्तिताः

॥१६२॥

एवं भरतखंडेऽस्मिन्षण्णवत्येव कोटयः ॥

द्वासप्ततिस्तथा लक्षाः पत्तनानां प्रकीर्तिताः

॥१६३॥

षट्‌त्रिंशच्च सहस्राणि वेलाकूलानि भारत ॥

एवं विभज्य खंडानि भ्रातृव्याणां ददौ नव

॥१६४॥

आत्मीयमपि सा देवी अनिच्छुष्वपि तेषु च ॥

यतो मान्येति भगिनी प्रति क्रुध्यंति भ्रातरः

॥१६५॥

भ्रातॄन्प्रति भगिनी च विचार्यैव ददौ शुभा ॥

तत्कृत्वा सानुमान्यैतान्स्तंभतीर्थमुपागता

॥१६६॥

तदा तेषु च देशेषु चतुर्वर्गस्य साधनम् ॥

सर्वेषां प्रवरं प्रोक्तं कुमारीश्वरमेव च

॥१६७॥

तत्रापि गुप्तक्षेत्रं च वेदैतत्सा कुमारिका ॥

गुप्तक्षेत्रे कुमारेशं पूजयंति महाव्रता

॥१६८॥

तस्थौ स्नायंती षट्‌सु चैवापि संगमे ॥

ततः कालप्रकर्षाच् प्रासादे स्कंदनिर्मिते

॥१६९॥

जीर्णे नव्यं स्वर्णमयं प्रासादं साप्यकारयत् ॥

ततस्तुष्टो महादेवस्तस्या भक्त्यातितोषितः

॥१७०॥

कुमारलिंगादुत्थाय प्रत्यक्षस्तामवोचत ॥

भद्रे तवाहं भक्त्या च विज्ञानेन च तोषितः

॥१७१॥

जीर्णः पुनरुद्धृतोऽयं प्रासादस्तेन तोषितः ॥

तव नाम्ना च विख्यातो भविष्यामि कुमारिके

॥१७२॥

कर्ता चापि तथोद्धर्ता द्वौ वै समफलौ स्मृतौ ॥

कुमारेशः कुमारीश इति वक्ष्यंति मां ततः

॥१७३॥

बर्करेशे च ये दत्त वरा दत्ताः सदैव ते ॥

तवापि प्राप्तः कालश्च समीपे वरवर्णिनि

॥१७४॥

अभर्तृकाया नार्याश्च न स्वर्गो मोक्ष एव च ॥

यथैव वृद्धकन्यायाः सरस्वत्यास्तटे शुभे

॥१७५॥

तस्मात्त्वमत्र तीर्थे च महाकालमिति स्मृतम् ॥

सिद्धिं गतं वृणु भद्रे पतित्वे वरवर्णिनि

॥१७६॥

ततः सा रुद्रवाक्येन वरयामास तं पतिम् ॥

रुद्रलोकं ययौ चापि महाकालसन्विता

॥१७७॥

तत्र तां पार्वती प्राह समालिंग्य प्रहर्षिता ॥

यस्मात्त्वया चित्रवच्च लिखिता पृथिवी शुभे

॥१७८॥

चित्रलेखेतिनाम्ना त्वं तस्माद्भव सखी मम ॥

ततः सखी समभवच्चित्रलेखेति सा शुभा

॥१७९॥

ययानिरुद्धः कथित उषायाः पतिरुत्तमः ॥

योगिनीनां वरिष्ठा या महाकालस्य वल्लभा

॥१८०॥

अप्सुसा वार्षिकं बिंदुं पूर्णे वर्षशते पपौ ॥

तपश्चरंती तस्मात्सा प्रोच्यते चाप्सरा दिवि

॥१८१॥

एवंविधा कुमारी सा लिंगमेतद्धि फाल्गुन ॥

स्थापयामास शिवदं बर्करेश्वरसंज्ञितम्

॥१८२॥

तस्मादत्र नृणां दाहश्चास्थिक्षेपश्च भारत ॥

प्रयागादधिकौ प्रोक्तौ महेशस्य वचो यथा

॥१८३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे बर्करेश्वरमाहात्म्यवर्णनंनामैकोनचत्वारिंशोऽध्यायः ॥ ३९ ॥